| |
|

This overlay will guide you through the buttons:

चतुर्दिशं जन-पद-अन्ते साम्परायिकं दैव-कृतं दुर्गं कारयेत् । अन्तर्-द्वीपं स्थलं वा निम्न-अवरुद्धं औदकम् । प्रास्तरं गुहां वा पार्वतम् । निरुदक-स्तम्बं इरिणं वा धान्वनम् । खञ्जन-उदकं स्तम्ब-गहनं वा वन-दुर्गं ॥ ०२.३.०१ ॥
चतुर्दिशम् जन-पद-अन्ते साम्परायिकम् दैव-कृतम् दुर्गम् कारयेत् । अन्तर् द्वीपम् स्थलम् वा निम्न-अवरुद्धम् औदकम् । प्रास्तरम् गुहाम् वा पार्वतम् । निरुदक-स्तम्बम् इरिणम् वा धान्वनम् । खञ्जन-उदकम् स्तम्ब-गहनम् वा वन-दुर्गम् ॥ ०२।३।०१ ॥
caturdiśam jana-pada-ante sāmparāyikam daiva-kṛtam durgam kārayet . antar dvīpam sthalam vā nimna-avaruddham audakam . prāstaram guhām vā pārvatam . nirudaka-stambam iriṇam vā dhānvanam . khañjana-udakam stamba-gahanam vā vana-durgam .. 02.3.01 ..
तेषां नदी-पर्वत-दुर्गं जन-पद-आरक्ष-स्थानम् । धान्वन-वन-दुर्गं अटवी-स्थानं आपद्यपसारो वा ॥ ०२.३.०२ ॥
तेषाम् नदी-पर्वत-दुर्गम् जन-पद-आरक्ष-स्थानम् । धान्वन-वन-दुर्गम् अटवी-स्थानम् आपदि अपसारः वा ॥ ०२।३।०२ ॥
teṣām nadī-parvata-durgam jana-pada-ārakṣa-sthānam . dhānvana-vana-durgam aṭavī-sthānam āpadi apasāraḥ vā .. 02.3.02 ..
जन-पद-मध्ये समुदय-स्थानं स्थानीयं निवेशयेत् । वास्तुक-प्रशस्ते देशे नदी-सङ्गमे ह्रदस्याविशोषस्याङ्के सरसस्तटाकस्य वा । वृत्तं दीर्घं चतुर्-अश्रं वा वास्तु-वशेन वा प्रदक्षिण-उदकं पण्य-पुट-भेदनं अंसपथ-वारि-पथाभ्यां उपेतं ॥ ०२.३.०३ ॥
जन-पद-मध्ये समुदय-स्थानम् स्थानीयम् निवेशयेत् । वास्तुक-प्रशस्ते देशे नदी-सङ्गमे ह्रदस्य अविशोषस्य अङ्के सरसः तटाकस्य वा । वृत्तम् दीर्घम् चतुर्-अश्रम् वा वास्तु-वशेन वा प्रदक्षिण-उदकम् पण्य-पुट-भेदनम् अंसपथ-वारि-पथाभ्याम् उपेतम् ॥ ०२।३।०३ ॥
jana-pada-madhye samudaya-sthānam sthānīyam niveśayet . vāstuka-praśaste deśe nadī-saṅgame hradasya aviśoṣasya aṅke sarasaḥ taṭākasya vā . vṛttam dīrgham catur-aśram vā vāstu-vaśena vā pradakṣiṇa-udakam paṇya-puṭa-bhedanam aṃsapatha-vāri-pathābhyām upetam .. 02.3.03 ..
तस्य परिखास्तिस्रो दण्ड-अन्तराः कारयेत्चतुर्दश द्वादश दशैति दण्डान्विस्तीर्णाः । विस्तारादवगाढाः पाद-ऊनं अर्धं वा । त्रिभाग-मूलाः । मूल-चतुर्-अश्रा वा । पाषाण-उपहिताः पाषाण-इष्टका-बद्ध-पार्श्वा वा । तोय-अन्तिकीरागन्तु-तोय-पूर्णा वा सपरिवाहाः पद्म-ग्राहवतीश्च ॥ ०२.३.०४ ॥
तस्य परिखाः तिस्रः दण्ड-अन्तराः कारयेत् चतुर्दश द्वादश दश एति दण्ड-अन्विस्तीर्णाः । विस्तारात् अवगाढाः पाद-ऊनम् अर्धम् वा । त्रि-भाग-मूलाः । मूल-चतुर्-अश्रा वा । पाषाण-उपहिताः पाषाण-इष्टका-बद्ध-पार्श्वाः वा । तोय-अन्तिकीः आगन्तु-तोय-पूर्णाः वा स परिवाहाः पद्म-ग्राहवतीः च ॥ ०२।३।०४ ॥
tasya parikhāḥ tisraḥ daṇḍa-antarāḥ kārayet caturdaśa dvādaśa daśa eti daṇḍa-anvistīrṇāḥ . vistārāt avagāḍhāḥ pāda-ūnam ardham vā . tri-bhāga-mūlāḥ . mūla-catur-aśrā vā . pāṣāṇa-upahitāḥ pāṣāṇa-iṣṭakā-baddha-pārśvāḥ vā . toya-antikīḥ āgantu-toya-pūrṇāḥ vā sa parivāhāḥ padma-grāhavatīḥ ca .. 02.3.04 ..
चतुर्दण्ड-अपकृष्टं परिखायाः षड्दण्ड-उच्छ्रितं अवरुद्धं तद्-द्विगुण-विष्कम्भं खाताद्वप्रं कारयेदूर्ध्व-चयं मञ्च-पृष्ठं कुम्भ-कुक्षिकं वा हस्तिभिर्गोभिश्च क्षुण्णं कण्टकि-गुल्म-विष-वल्ली-प्रतानवन्तं ॥ ०२.३.०५ ॥
चतुर्-दण्ड-अपकृष्टम् परिखायाः षष्-दण्ड-उच्छ्रितम् अवरुद्धम् तद्-द्विगुण-विष्कम्भम् खातात् वप्रम् कारयेत् ऊर्ध्व-चयम् मञ्च-पृष्ठम् कुम्भ-कुक्षिकम् वा हस्तिभिः गोभिः च क्षुण्णम् कण्टकि-गुल्म-विष-वल्ली-प्रतानवन्तम् ॥ ०२।३।०५ ॥
catur-daṇḍa-apakṛṣṭam parikhāyāḥ ṣaṣ-daṇḍa-ucchritam avaruddham tad-dviguṇa-viṣkambham khātāt vapram kārayet ūrdhva-cayam mañca-pṛṣṭham kumbha-kukṣikam vā hastibhiḥ gobhiḥ ca kṣuṇṇam kaṇṭaki-gulma-viṣa-vallī-pratānavantam .. 02.3.05 ..
पांसु-शेषेण वास्तुच्-छिद्रं राज-भवनं वा पूरयेत् ॥ ०२.३.०६ ॥
पांसु-शेषेण वास्तु-छिद्रम् राज-भवनम् वा पूरयेत् ॥ ०२।३।०६ ॥
pāṃsu-śeṣeṇa vāstu-chidram rāja-bhavanam vā pūrayet .. 02.3.06 ..
वप्रस्यौपरि प्राकारं विष्कम्भ-द्विगुण-उत्सेधं ऐष्टकं द्वादश-हस्तादूर्ध्वं ओजं युग्मं वा आ चतुर्विंशति-हस्तादिति कारयेत् ॥ ०२.३.०७अ ॥
वप्रस्य औपरि प्राकारम् विष्कम्भ-द्विगुण-उत्सेधम् ऐष्टकम् द्वादश-हस्तात् ऊर्ध्वम् ओजम् युग्मम् वा आ चतुर्विंशति-हस्तात् इति कारयेत् ॥ ०२।३।०७अ ॥
vaprasya aupari prākāram viṣkambha-dviguṇa-utsedham aiṣṭakam dvādaśa-hastāt ūrdhvam ojam yugmam vā ā caturviṃśati-hastāt iti kārayet .. 02.3.07a ..
रथ-चर्या-संचारं ताल-मूलं मुरजकैः कपि-शीर्षकैश्चऽचित-अग्रं ॥ ०२.३.०७ब ॥
रथ-चर्या-संचारम् ताल-मूलम् मुरजकैः कपि-शीर्षकैः च अचित-अग्रम् ॥ ०२।३।०७ब ॥
ratha-caryā-saṃcāram tāla-mūlam murajakaiḥ kapi-śīrṣakaiḥ ca acita-agram .. 02.3.07ba ..
पृथु-शिला-संहतं वा शैलं कारयेत् । न त्वेव काष्टमयं ॥ ०२.३.०८ ॥
पृथु-शिला-संहतम् वा शैलम् कारयेत् । न तु एव काष्ट-मयम् ॥ ०२।३।०८ ॥
pṛthu-śilā-saṃhatam vā śailam kārayet . na tu eva kāṣṭa-mayam .. 02.3.08 ..
अग्निरवहितो हि तस्मिन्वसति ॥ ०२.३.०९ ॥
अग्निः अवहितः हि तस्मिन् वसति ॥ ०२।३।०९ ॥
agniḥ avahitaḥ hi tasmin vasati .. 02.3.09 ..
विष्कम्भ-चतुर्-अश्रं अट्टालकं उत्सेध-सम-अवक्षेप-सोपानं कारयेत्त्रिंशद्-दण्ड-अन्तरं च ॥ ०२.३.१० ॥
विष्कम्भ-चतुर्-अश्रम् अट्टालकम् उत्सेध-सम-अवक्षेप-सोपानम् कारयेत् त्रिंशत्-दण्ड-अन्तरम् च ॥ ०२।३।१० ॥
viṣkambha-catur-aśram aṭṭālakam utsedha-sama-avakṣepa-sopānam kārayet triṃśat-daṇḍa-antaram ca .. 02.3.10 ..
द्वयोरट्टालकयोर्मध्ये सहर्म्य-द्वि-तलां अध्यर्धाय-आयामां प्रतोलीं कारयेत् ॥ ०२.३.११ ॥
द्वयोः अट्टालकयोः मध्ये स हर्म्य-द्वि-तलाम् अध्यर्ध-आय-आयामाम् प्रतोलीम् कारयेत् ॥ ०२।३।११ ॥
dvayoḥ aṭṭālakayoḥ madhye sa harmya-dvi-talām adhyardha-āya-āyāmām pratolīm kārayet .. 02.3.11 ..
अट्टालक-प्रतोली-मध्ये त्रि-धानुष्क-अधिष्ठानं सापिधानच्-छिद्र-फलक-संहतं इन्द्र-कोशं कारयेत् ॥ ०२.३.१२ ॥
अट्टालक-प्रतोली-मध्ये त्रि-धानुष्क-अधिष्ठानम् स अपिधान-छिद्र-फलक-संहतम् इन्द्र-कोशम् कारयेत् ॥ ०२।३।१२ ॥
aṭṭālaka-pratolī-madhye tri-dhānuṣka-adhiṣṭhānam sa apidhāna-chidra-phalaka-saṃhatam indra-kośam kārayet .. 02.3.12 ..
अन्तरेषु द्विहस्त-विष्कम्भं पार्श्वे चतुर्-गुण-आयामं देव-पथं कारयेत् ॥ ०२.३.१३ ॥
अन्तरेषु द्वि-हस्त-विष्कम्भम् पार्श्वे चतुर्-गुण-आयामम् देव-पथम् कारयेत् ॥ ०२।३।१३ ॥
antareṣu dvi-hasta-viṣkambham pārśve catur-guṇa-āyāmam deva-patham kārayet .. 02.3.13 ..
दण्ड-अन्तरा द्वि-दण्ड-अन्तरा वा चर्याः कारयेत् । अग्राह्ये देशे प्रधावनिकां निष्किर-द्वारं च ॥ ०२.३.१४ ॥
दण्ड-अन्तरा द्वि-दण्ड-अन्तरा वा चर्याः कारयेत् । अग्राह्ये देशे प्रधावनिकाम् निष्किर-द्वारम् च ॥ ०२।३।१४ ॥
daṇḍa-antarā dvi-daṇḍa-antarā vā caryāḥ kārayet . agrāhye deśe pradhāvanikām niṣkira-dvāram ca .. 02.3.14 ..
बहिर्-जानु-भञ्जनी-शूल-प्रकर-कूप-कूट-अवपात-कण्टक-प्रतिसर-अहि-पृष्ठ-ताल-पत्त्र-शृङ्ग-अटक-श्व-दंष्ट्र-अर्गल-उपस्कन्दन-पादुक-अम्बरीष-उद-पानकैः प्रतिच्छन्नं छन्न-पथं कारयेत् ॥ ०२.३.१५ ॥
बहिस् जानु-भञ्जनी-शूल-प्रकर-कूप-कूट-अवपात-कण्टक-प्रतिसर-अहि-पृष्ठ-ताल-पत्त्र-शृङ्ग-अटक-श्व-दंष्ट्र-अर्गल-उपस्कन्दन-पादुक-अम्बरीष-उद-पानकैः प्रतिच्छन्नम् छन्न-पथम् कारयेत् ॥ ०२।३।१५ ॥
bahis jānu-bhañjanī-śūla-prakara-kūpa-kūṭa-avapāta-kaṇṭaka-pratisara-ahi-pṛṣṭha-tāla-pattra-śṛṅga-aṭaka-śva-daṃṣṭra-argala-upaskandana-pāduka-ambarīṣa-uda-pānakaiḥ praticchannam channa-patham kārayet .. 02.3.15 ..
प्राकारं उभयतो मेण्ढकं अध्यर्ध-दण्डं कृत्वा प्रतोली-षट्-तुला-अन्तरं द्वारं निवेशयेत्पञ्च-दण्डादेक-उत्तरं आ-अष्ट-दण्डादिति चतुर्-अश्रं षड्-भागं आयामाद्-अधिकं अष्ट-भागं वा ॥ ०२.३.१६ ॥
प्राकारम् उभयतस् मेण्ढकम् अध्यर्ध-दण्डम् कृत्वा प्रतोली-षष्-तुला-अन्तरम् द्वारम् निवेशयेत् पञ्च-दण्डात् एक-उत्तरम् आ अष्ट-दण्डात् इति चतुर्-अश्रम् षष्-भागम् आयामात् अधिकम् अष्ट-भागम् वा ॥ ०२।३।१६ ॥
prākāram ubhayatas meṇḍhakam adhyardha-daṇḍam kṛtvā pratolī-ṣaṣ-tulā-antaram dvāram niveśayet pañca-daṇḍāt eka-uttaram ā aṣṭa-daṇḍāt iti catur-aśram ṣaṣ-bhāgam āyāmāt adhikam aṣṭa-bhāgam vā .. 02.3.16 ..
पञ्च-दश-हस्तादेक-उत्तरं आ-अष्टादश-हस्तादिति तल-उत्सेधः ॥ ०२.३.१७ ॥
पञ्च-दश-दश-हस्तात् एक-उत्तरम् आ अष्टादश-हस्तात् इति तल-उत्सेधः ॥ ०२।३।१७ ॥
pañca-daśa-daśa-hastāt eka-uttaram ā aṣṭādaśa-hastāt iti tala-utsedhaḥ .. 02.3.17 ..
स्तम्भस्य परिक्षेपः षड्-आयामो । द्विगुणो निखातः । चूलिकायाश्चतुर्-भागः ॥ ०२.३.१८ ॥
स्तम्भस्य परिक्षेपः षष्-आयामः । द्विगुणः निखातः । चूलिकायाः चतुर्-भागः ॥ ०२।३।१८ ॥
stambhasya parikṣepaḥ ṣaṣ-āyāmaḥ . dviguṇaḥ nikhātaḥ . cūlikāyāḥ catur-bhāgaḥ .. 02.3.18 ..
आदि-तलस्य पञ्च-भागाः शाला वापी सीमा-गृहं च ॥ ०२.३.१९ ॥
आदि-तलस्य पञ्च-भागाः शाला वापी सीमा-गृहम् च ॥ ०२।३।१९ ॥
ādi-talasya pañca-bhāgāḥ śālā vāpī sīmā-gṛham ca .. 02.3.19 ..
दश-भागिकौ द्वौ प्रतिमञ्चौ । अन्तरं आणी-हर्म्यं च ॥ ०२.३.२० ॥
दश-भागिकौ द्वौ प्रतिमञ्चौ । अन्तरम् आणी-हर्म्यम् च ॥ ०२।३।२० ॥
daśa-bhāgikau dvau pratimañcau . antaram āṇī-harmyam ca .. 02.3.20 ..
समुच्छ्रयादर्ध-तले स्थूणा-बन्धश्च ॥ ०२.३.२१ ॥
समुच्छ्रयात् अर्ध-तले स्थूणा-बन्धः च ॥ ०२।३।२१ ॥
samucchrayāt ardha-tale sthūṇā-bandhaḥ ca .. 02.3.21 ..
अर्ध-वास्तुकं उत्तम-अगारम् । त्रिभाग-अन्तरं वा । इष्टका-अवबद्ध-पार्श्वम् । वामतः प्रदक्षिण-सोपानं गूढ-भित्ति-सोपानं इतरतः ॥ ०२.३.२२ ॥
अर्ध-वास्तुकम् उत्तम-अगारम् । त्रि-भाग-अन्तरम् वा । इष्टका-अवबद्ध-पार्श्वम् । वामतस् प्रदक्षिण-सोपानम् गूढ-भित्ति-सोपानम् इतरतस् ॥ ०२।३।२२ ॥
ardha-vāstukam uttama-agāram . tri-bhāga-antaram vā . iṣṭakā-avabaddha-pārśvam . vāmatas pradakṣiṇa-sopānam gūḍha-bhitti-sopānam itaratas .. 02.3.22 ..
द्वि-हस्तं तोरण-शिरः ॥ ०२.३.२३ ॥
द्वि-हस्तम् तोरण-शिरः ॥ ०२।३।२३ ॥
dvi-hastam toraṇa-śiraḥ .. 02.3.23 ..
त्रि-पञ्च-भागिकौ द्वौ कपाट-योगौ ॥ ०२.३.२४ ॥
त्रि-पञ्च-भागिकौ द्वौ कपाट-योगौ ॥ ०२।३।२४ ॥
tri-pañca-bhāgikau dvau kapāṭa-yogau .. 02.3.24 ..
द्वौ परिघौ ॥ ०२.३.२५ ॥
द्वौ परिघौ ॥ ०२।३।२५ ॥
dvau parighau .. 02.3.25 ..
अरत्निरिन्द्र-कीलः ॥ ०२.३.२६ ॥
अरत्निः इन्द्र-कीलः ॥ ०२।३।२६ ॥
aratniḥ indra-kīlaḥ .. 02.3.26 ..
पञ्च-हस्तं आणि-द्वारं ॥ ०२.३.२७ ॥
पञ्च-हस्तम् आणि-द्वारम् ॥ ०२।३।२७ ॥
pañca-hastam āṇi-dvāram .. 02.3.27 ..
चत्वारो हस्ति-परिघाः ॥ ०२.३.२८ ॥
चत्वारः हस्ति-परिघाः ॥ ०२।३।२८ ॥
catvāraḥ hasti-parighāḥ .. 02.3.28 ..
निवेश-अर्धं हस्ति-नखं ॥ ०२.३.२९ ॥
निवेश-अर्धम् हस्ति-नखम् ॥ ०२।३।२९ ॥
niveśa-ardham hasti-nakham .. 02.3.29 ..
मुख-समः संक्रमः संहार्यो भूमिमयो वा निरुदके ॥ ०२.३.३० ॥
मुख-समः संक्रमः संहार्यः भूमि-मयः वा निरुदके ॥ ०२।३।३० ॥
mukha-samaḥ saṃkramaḥ saṃhāryaḥ bhūmi-mayaḥ vā nirudake .. 02.3.30 ..
प्राकार-समं मुखं अवस्थाप्य त्रि-भाग-गोधा-मुखं गोपुरं कारयेत् ॥ ०२.३.३१ ॥
प्राकार-समम् मुखम् अवस्थाप्य त्रि-भाग-गोधा-मुखम् गोपुरम् कारयेत् ॥ ०२।३।३१ ॥
prākāra-samam mukham avasthāpya tri-bhāga-godhā-mukham gopuram kārayet .. 02.3.31 ..
प्राकार-मध्ये वापीं कृत्वा पुष्करिणी-द्वारम् । चतुः-शालं अध्यर्ध-अन्तरं साणिकं कुमारी-पुरम् । मुण्ड-हर्म्य-द्वि-तलं मुण्डक-द्वारम् । भूमि-द्रव्य-वशेन वा निवेशयेत् ॥ ०२.३.३२ ॥
प्राकार-मध्ये वापीम् कृत्वा पुष्करिणी-द्वारम् । चतुर्-शालम् अध्यर्ध-अन्तरम् साणिकम् कुमारी-पुरम् । मुण्ड-हर्म्य-द्वि-तलम् मुण्डक-द्वारम् । भूमि-द्रव्य-वशेन वा निवेशयेत् ॥ ०२।३।३२ ॥
prākāra-madhye vāpīm kṛtvā puṣkariṇī-dvāram . catur-śālam adhyardha-antaram sāṇikam kumārī-puram . muṇḍa-harmya-dvi-talam muṇḍaka-dvāram . bhūmi-dravya-vaśena vā niveśayet .. 02.3.32 ..
त्रि-भाग-अधिक-आयामा भाण्ड-वाहिनीः कुल्याः कारयेत् ॥ ०२.३.३३ ॥
त्रि-भाग-अधिक-आयामाः भाण्ड-वाहिनीः कुल्याः कारयेत् ॥ ०२।३।३३ ॥
tri-bhāga-adhika-āyāmāḥ bhāṇḍa-vāhinīḥ kulyāḥ kārayet .. 02.3.33 ..
तासु पाषाण-कुद्दालाः कुठारी-काण्ड-कल्पनाः । ॥ ०२.३.३४अ ब ॥
तासु पाषाण-कुद्दालाः कुठारी-काण्ड-कल्पनाः । ॥ ०२।३।३४अ ब ॥
tāsu pāṣāṇa-kuddālāḥ kuṭhārī-kāṇḍa-kalpanāḥ . .. 02.3.34a ba ..
मुषुण्ढी-मुद्गरा दण्डाश्चक्र-यन्त्र-शतघ्नयः ॥ ०२.३.३४च्द् ॥
मुषुण्ढी-मुद्गराः दण्डाः चक्र-यन्त्र-शतघ्नयः ॥ ०२।३।३४च् ॥
muṣuṇḍhī-mudgarāḥ daṇḍāḥ cakra-yantra-śataghnayaḥ .. 02.3.34c ..
कार्याः कार्मारिकाः शूला वेधन-अग्राश्च वेणवः । ॥ ०२.३.३५अ ब ॥
कार्याः कार्मारिकाः शूलाः वेधन-अग्राः च वेणवः । ॥ ०२।३।३५अ ब ॥
kāryāḥ kārmārikāḥ śūlāḥ vedhana-agrāḥ ca veṇavaḥ . .. 02.3.35a ba ..
उष्ट्र-ग्रीव्योअग्नि-सम्योगाः कुप्य-कल्पे च यो विधिः ॥ ०२.३.३५च्द् ॥
उष्ट्र-ग्रीव्योः अग्नि-सम्योगाः कुप्य-कल्पे च यः विधिः ॥ ०२।३।३५च् ॥
uṣṭra-grīvyoḥ agni-samyogāḥ kupya-kalpe ca yaḥ vidhiḥ .. 02.3.35c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In