| |
|

This overlay will guide you through the buttons:

अश्व-अध्यक्षः पण्य-आगारिकं क्रय-उपागतं आहव-लब्धं आजातं साहाय्य-आगतकं पण-स्थितं यावत्-कालिकं वाअश्व-पर्यग्रं कुल-वयो-वर्ण-चिह्न-वर्ग-आगमैर्लेखयेत् ॥ ०२.३०.०१ ॥
अश्व-अध्यक्षः पण्य-आगारिकम् क्रय-उपागतम् आहव-लब्धम् आजातम् साहाय्य-आगतकम् पण-स्थितम् यावत् कालिकम् वा अश्व-पर्यग्रम् कुल-वयः-वर्ण-चिह्न-वर्ग-आगमैः लेखयेत् ॥ ०२।३०।०१ ॥
aśva-adhyakṣaḥ paṇya-āgārikam kraya-upāgatam āhava-labdham ājātam sāhāyya-āgatakam paṇa-sthitam yāvat kālikam vā aśva-paryagram kula-vayaḥ-varṇa-cihna-varga-āgamaiḥ lekhayet .. 02.30.01 ..
अप्रशस्त-न्यङ्ग-व्याधितांश्चऽवेदयेत् ॥ ०२.३०.०२ ॥
अप्रशस्त-न्यङ्ग-व्याधितान् च आवेदयेत् ॥ ०२।३०।०२ ॥
apraśasta-nyaṅga-vyādhitān ca āvedayet .. 02.30.02 ..
कोश-कोष्ठ-अगाराभ्यां च गृहीत्वा मास-लाभं अश्व-वाहश्चिन्तयेत् ॥ ०२.३०.०३ ॥
कोश-कोष्ठ-अगाराभ्याम् च गृहीत्वा मास-लाभम् अश्व-वाहः चिन्तयेत् ॥ ०२।३०।०३ ॥
kośa-koṣṭha-agārābhyām ca gṛhītvā māsa-lābham aśva-vāhaḥ cintayet .. 02.30.03 ..
अश्व-विभवेनऽयतां अश्वायां अद्वि-गुण-विस्तारां चतुर्-द्वार-उपावर्तन-मध्यां सप्रग्रीवां प्रद्वार-आसन-फलक-युक्तानां वानर-मयूर-पृषत-नकुल-चकोर-शुक-सारिक-आकीर्णां शालां निवेशयेत् ॥ ०२.३०.०४ ॥
अश्व-विभवेन अ यताम् अश्वायाम् अ द्वि-गुण-विस्ताराम् चतुर्-द्वार-उपावर्तन-मध्याम् स प्रग्रीवाम् प्रद्वार-आसन-फलक-युक्तानाम् वानर-मयूर-पृषत-नकुल-चकोर-शुक-सारिक-आकीर्णाम् शालाम् निवेशयेत् ॥ ०२।३०।०४ ॥
aśva-vibhavena a yatām aśvāyām a dvi-guṇa-vistārām catur-dvāra-upāvartana-madhyām sa pragrīvām pradvāra-āsana-phalaka-yuktānām vānara-mayūra-pṛṣata-nakula-cakora-śuka-sārika-ākīrṇām śālām niveśayet .. 02.30.04 ..
अश्वायां अचतुर्-अश्र-श्लक्ष्ण-फलक-आस्तारं सखादन-कोष्ठकं समूत्र-पुरीष-उत्सर्गं एक-एकशः प्रान्-मुखं उदन्-मुखं वा स्थानं निवेशयेत् ॥ ०२.३०.०५ ॥
अश्वायाम् अ चतुर्-अश्र-श्लक्ष्ण-फलक-आस्तारम् स खादन-कोष्ठकम् स मूत्र-पुरीष-उत्सर्गम् एक-एकशस् प्रात्-मुखम् उदत्-मुखम् वा स्थानम् निवेशयेत् ॥ ०२।३०।०५ ॥
aśvāyām a catur-aśra-ślakṣṇa-phalaka-āstāram sa khādana-koṣṭhakam sa mūtra-purīṣa-utsargam eka-ekaśas prāt-mukham udat-mukham vā sthānam niveśayet .. 02.30.05 ..
शाला-वशेन वा दिग्-विभागं कल्पयेत् ॥ ०२.३०.०६ ॥
शाला-वशेन वा दिश्-विभागम् कल्पयेत् ॥ ०२।३०।०६ ॥
śālā-vaśena vā diś-vibhāgam kalpayet .. 02.30.06 ..
वडवा-वृष-किशोराणां एक-अन्तेषु ॥ ०२.३०.०७ ॥
वडवा-वृष-किशोराणाम् एक-अन्तेषु ॥ ०२।३०।०७ ॥
vaḍavā-vṛṣa-kiśorāṇām eka-anteṣu .. 02.30.07 ..
वडवायाः प्रजतायास्त्रि-रात्रं घृत-प्रस्थः पानं ॥ ०२.३०.०८ ॥
वडवायाः प्रजतायाः त्रि-रात्रम् घृत-प्रस्थः पानम् ॥ ०२।३०।०८ ॥
vaḍavāyāḥ prajatāyāḥ tri-rātram ghṛta-prasthaḥ pānam .. 02.30.08 ..
अत ऊर्ध्वं सक्तु-प्रस्थः स्नेह-भैषज्य-प्रतिपानं दश-रात्रं ॥ ०२.३०.०९ ॥
अतस् ऊर्ध्वम् सक्तु-प्रस्थः स्नेह-भैषज्य-प्रतिपानम् दश-रात्रम् ॥ ०२।३०।०९ ॥
atas ūrdhvam saktu-prasthaḥ sneha-bhaiṣajya-pratipānam daśa-rātram .. 02.30.09 ..
ततः पुलाको यवसं आर्तवश्चऽहारः ॥ ०२.३०.१० ॥
ततस् पुलाकः यवसम् आर्तवः च आहारः ॥ ०२।३०।१० ॥
tatas pulākaḥ yavasam ārtavaḥ ca āhāraḥ .. 02.30.10 ..
दश-रात्रादूर्ध्वं किशोरस्य घृत-चतुर्-भागः सक्तु-कुडुबः क्षीर-प्रस्थश्चऽहार आ-षण्-मासात् ॥ ०२.३०.११ ॥
दश-रात्रात् ऊर्ध्वम् किशोरस्य घृत-चतुर्-भागः सक्तु-कुडुबः क्षीर-प्रस्थः च आहारः आ षष्-मासात् ॥ ०२।३०।११ ॥
daśa-rātrāt ūrdhvam kiśorasya ghṛta-catur-bhāgaḥ saktu-kuḍubaḥ kṣīra-prasthaḥ ca āhāraḥ ā ṣaṣ-māsāt .. 02.30.11 ..
ततः परं मास-उत्तरं अर्ध-वृद्धिर्यव-प्रस्थ आ-त्रि-वर्षात् । द्रोण आ-चतुर्-वर्षात् ॥ ०२.३०.१२ ॥
ततस् परम् मास-उत्तरम् अर्ध-वृद्धिः यव-प्रस्थः आ त्रि-वर्षात् । द्रोणः आ चतुर्-वर्षात् ॥ ०२।३०।१२ ॥
tatas param māsa-uttaram ardha-vṛddhiḥ yava-prasthaḥ ā tri-varṣāt . droṇaḥ ā catur-varṣāt .. 02.30.12 ..
अत ऊर्ध्वं चतुर्-वर्षः पञ्च-वर्षो वा कर्मण्यः पूर्ण-प्रमाणः ॥ ०२.३०.१३ ॥
अतस् ऊर्ध्वम् चतुर्-वर्षः पञ्च-वर्षः वा कर्मण्यः पूर्ण-प्रमाणः ॥ ०२।३०।१३ ॥
atas ūrdhvam catur-varṣaḥ pañca-varṣaḥ vā karmaṇyaḥ pūrṇa-pramāṇaḥ .. 02.30.13 ..
द्वात्रिंशद्-अङ्गुलं मुखं उत्तम-अश्वस्य । पञ्च-मुखान्यायामो । विंशत्य्-अङ्गुला जङ्घा । चतुर्-जङ्घ उत्सेधः ॥ ०२.३०.१४ ॥
द्वात्रिंशत्-अङ्गुलम् मुखम् उत्तम-अश्वस्य । पञ्च-मुखानि आयामः । विंशति-अङ्गुला जङ्घा । चतुर्-जङ्घः उत्सेधः ॥ ०२।३०।१४ ॥
dvātriṃśat-aṅgulam mukham uttama-aśvasya . pañca-mukhāni āyāmaḥ . viṃśati-aṅgulā jaṅghā . catur-jaṅghaḥ utsedhaḥ .. 02.30.14 ..
त्र्य्-अङ्गुल-अवरं मध्यम-अवरयोः ॥ ०२.३०.१५ ॥
त्रि-अङ्गुल-अवरम् मध्यम-अवरयोः ॥ ०२।३०।१५ ॥
tri-aṅgula-avaram madhyama-avarayoḥ .. 02.30.15 ..
शत-अङ्गुलः परिणाहः ॥ ०२.३०.१६ ॥
शत-अङ्गुलः परिणाहः ॥ ०२।३०।१६ ॥
śata-aṅgulaḥ pariṇāhaḥ .. 02.30.16 ..
पञ्च-भाग-अवरो मध्यम-अवरयोः ॥ ०२.३०.१७ ॥
पञ्च-भाग-अवरः मध्यम-अवरयोः ॥ ०२।३०।१७ ॥
pañca-bhāga-avaraḥ madhyama-avarayoḥ .. 02.30.17 ..
उत्तम-अश्वस्य द्वि-द्रोणं शालि-व्रीहि-यव-प्रियङ्गूणां अर्ध-शुष्कं अर्ध-सिद्धं वा मुद्ग-माषाणां वा पुलाकः स्नेह-प्रस्थश्च । पञ्च-पलं लवणस्य । मांसं पञ्चाशत्-पलिकं रसस्यऽढकं द्वि-गुणं वा दध्नः पिण्ड-क्लेदन-अर्थम् । क्षार-पञ्च-पलिकः सुरायाः प्रस्थः पयसो वा द्वि-गुणः प्रतिपानं ॥ ०२.३०.१८ ॥
उत्तम-अश्वस्य द्वि-द्रोणम् शालि-व्रीहि-यव-प्रियङ्गूणाम् अर्ध-शुष्कम् अर्ध-सिद्धम् वा मुद्ग-माषाणाम् वा पुलाकः स्नेह-प्रस्थः च । पञ्च-पलम् लवणस्य । मांसम् पञ्चाशत्-पलिकम् रसस्य अढकम् द्वि-गुणम् वा दध्नः पिण्ड-क्लेदन-अर्थम् । क्षार-पञ्च-पलिकः सुरायाः प्रस्थः पयसः वा द्वि-गुणः प्रतिपानम् ॥ ०२।३०।१८ ॥
uttama-aśvasya dvi-droṇam śāli-vrīhi-yava-priyaṅgūṇām ardha-śuṣkam ardha-siddham vā mudga-māṣāṇām vā pulākaḥ sneha-prasthaḥ ca . pañca-palam lavaṇasya . māṃsam pañcāśat-palikam rasasya aḍhakam dvi-guṇam vā dadhnaḥ piṇḍa-kledana-artham . kṣāra-pañca-palikaḥ surāyāḥ prasthaḥ payasaḥ vā dvi-guṇaḥ pratipānam .. 02.30.18 ..
दीर्घ-पथ-भार-क्लान्तानां च खादन-अर्थं स्नेह-प्रस्थोअनुवासनं कुडुबो नस्य-कर्मणः । यवसस्यार्ध-भारस्तृणस्य द्वि-गुणः षड्-अरत्नि-परिक्षेपः पुञ्जील-ग्रहो वा ॥ ०२.३०.१९ ॥
दीर्घ-पथ-भार-क्लान्तानाम् च खादन-अर्थम् स्नेह-प्रस्थः अनुवासनम् कुडुबः नस्य-कर्मणः । यवसस्य अर्ध-भारः तृणस्य द्वि-गुणः षष्-अरत्नि-परिक्षेपः पुञ्जील-ग्रहः वा ॥ ०२।३०।१९ ॥
dīrgha-patha-bhāra-klāntānām ca khādana-artham sneha-prasthaḥ anuvāsanam kuḍubaḥ nasya-karmaṇaḥ . yavasasya ardha-bhāraḥ tṛṇasya dvi-guṇaḥ ṣaṣ-aratni-parikṣepaḥ puñjīla-grahaḥ vā .. 02.30.19 ..
पाद-अवरं एतन्मध्यम-अवरयोः ॥ ०२.३०.२० ॥
पाद-अवरम् एतत् मध्यम-अवरयोः ॥ ०२।३०।२० ॥
pāda-avaram etat madhyama-avarayoḥ .. 02.30.20 ..
उत्तम-समो रथ्यो वृषश्च मध्यमः ॥ ०२.३०.२१ ॥
उत्तम-समः रथ्यः वृषः च मध्यमः ॥ ०२।३०।२१ ॥
uttama-samaḥ rathyaḥ vṛṣaḥ ca madhyamaḥ .. 02.30.21 ..
मध्यम-समश्चावरः ॥ ०२.३०.२२ ॥
मध्यम-समः च अवरः ॥ ०२।३०।२२ ॥
madhyama-samaḥ ca avaraḥ .. 02.30.22 ..
पाद-हीनं वडवानां पारशमानां च ॥ ०२.३०.२३ ॥
पाद-हीनम् वडवानाम् पारशमानाम् च ॥ ०२।३०।२३ ॥
pāda-hīnam vaḍavānām pāraśamānām ca .. 02.30.23 ..
अतोअर्धं किशोराणां च ॥ ०२.३०.२४ ॥
अतोअर्धम् किशोराणाम् च ॥ ०२।३०।२४ ॥
atoardham kiśorāṇām ca .. 02.30.24 ..
इति विधा-योगः ॥ ०२.३०.२५ ॥
इति विधा-योगः ॥ ०२।३०।२५ ॥
iti vidhā-yogaḥ .. 02.30.25 ..
विधा-पाचक-सूत्र-ग्राहक-चिकित्सकाः प्रतिस्वाद-भाजः ॥ ०२.३०.२६ ॥
विधा-पाचक-सूत्र-ग्राहक-चिकित्सकाः प्रतिस्वाद-भाजः ॥ ०२।३०।२६ ॥
vidhā-pācaka-sūtra-grāhaka-cikitsakāḥ pratisvāda-bhājaḥ .. 02.30.26 ..
युद्ध-व्याधि-जरा-कर्म-क्षीणाः पिण्ड-गोचरिकाः स्युः ॥ ०२.३०.२७ ॥
युद्ध-व्याधि-जरा-कर्म-क्षीणाः पिण्ड-गोचरिकाः स्युः ॥ ०२।३०।२७ ॥
yuddha-vyādhi-jarā-karma-kṣīṇāḥ piṇḍa-gocarikāḥ syuḥ .. 02.30.27 ..
असमर-प्रयोग्याः पौर-जानपदानां अर्थेन वृषा वडवास्वायोज्याः ॥ ०२.३०.२८ ॥
अ समर-प्रयोग्याः पौर-जानपदानाम् अर्थेन वृषाः वडवासु आयोज्याः ॥ ०२।३०।२८ ॥
a samara-prayogyāḥ paura-jānapadānām arthena vṛṣāḥ vaḍavāsu āyojyāḥ .. 02.30.28 ..
प्रयोग्यानां उत्तमाः काम्बोज-सैन्धव-आरट्ट-वनायुजाः । मध्यमा बाह्लीक-पापेयक-सौवीरक-तैतलाः । शेषाः प्रत्यवराः ॥ ०२.३०.२९ ॥
प्रयोग्यानाम् उत्तमाः काम्बोज-सैन्धव-आरट्ट-वनायु-जाः । मध्यमाः वाह्लीक-पापेयक-सौवीरक-तैतलाः । शेषाः प्रत्यवराः ॥ ०२।३०।२९ ॥
prayogyānām uttamāḥ kāmboja-saindhava-āraṭṭa-vanāyu-jāḥ . madhyamāḥ vāhlīka-pāpeyaka-sauvīraka-taitalāḥ . śeṣāḥ pratyavarāḥ .. 02.30.29 ..
तेषां तीष्क्ण-भद्र-मन्द-वशेन साम्नाह्यं औपवाह्यकं वा कर्म प्रयोजयेत् ॥ ०२.३०.३० ॥
तेषाम् तीष्क्ण-भद्र-मन्द-वशेन साम्ना आह्यम् औपवाह्यकम् वा कर्म प्रयोजयेत् ॥ ०२।३०।३० ॥
teṣām tīṣkṇa-bhadra-manda-vaśena sāmnā āhyam aupavāhyakam vā karma prayojayet .. 02.30.30 ..
चतुर्-अश्रं कर्म-अश्वस्य साम्नाह्यं ॥ ०२.३०.३१ ॥
चतुर्-अश्रम् कर्म-अश्वस्य साम्ना आह्यम् ॥ ०२।३०।३१ ॥
catur-aśram karma-aśvasya sāmnā āhyam .. 02.30.31 ..
वल्गनो नीचैर्गतो लङ्घनो घोरणो नारोष्ट्रश्चाउपवाह्याः ॥ ०२.३०.३२ ॥
वल्गनः नीचैर्गतः लङ्घनः घोरणः नारोष्ट्रः च औपवाह्याः ॥ ०२।३०।३२ ॥
valganaḥ nīcairgataḥ laṅghanaḥ ghoraṇaḥ nāroṣṭraḥ ca aupavāhyāḥ .. 02.30.32 ..
तत्र-औपवेणुको वर्धमानको यमक आलीढ-प्लुतः पृथुग्-अस्त्रिक-चाली च वल्गनः ॥ ०२.३०.३३ ॥
तत्र औपवेणुकः वर्धमानकः यमकः आलीढ-प्लुतः च वल्गनः ॥ ०२।३०।३३ ॥
tatra aupaveṇukaḥ vardhamānakaḥ yamakaḥ ālīḍha-plutaḥ ca valganaḥ .. 02.30.33 ..
स एव शिरः-कर्ण-विशुद्धो नीचैर्गतः । षोडश-मार्गो वा ॥ ०२.३०.३४ ॥
सः एव शिरः-कर्ण-विशुद्धः नीचैस् गतः । षोडश-मार्गः वा ॥ ०२।३०।३४ ॥
saḥ eva śiraḥ-karṇa-viśuddhaḥ nīcais gataḥ . ṣoḍaśa-mārgaḥ vā .. 02.30.34 ..
प्रकीर्णकः प्रकीर्ण-उत्तरो निषण्णः पार्श्व-अनुवृत्त ऊर्मि-मार्गः शरभ-क्रीडितः शरभ-प्लुतस्त्रि-तालो बाह्य-अनुवृत्तः पञ्च-पाणिः सिंह-आयतः स्वाधूतः क्लिष्टः श्लिङ्गितो बृंहितः पुष्प-अभिकीर्णश्चैति नीचैर्गत-मार्गः ॥ ०२.३०.३५ ॥
प्रकीर्णकः प्रकीर्ण-उत्तरः निषण्णः पार्श्व-अनुवृत्तः ऊर्मि-मार्गः शरभ-क्रीडितः शरभ-प्लुतः त्रि-तालः बाह्य-अनुवृत्तः पञ्च-पाणिः सिंह-आयतः सु आधूतः क्लिष्टः श्लिङ्गितः बृंहितः पुष्प-अभिकीर्णः च एति नीचैस् गत-मार्गः ॥ ०२।३०।३५ ॥
prakīrṇakaḥ prakīrṇa-uttaraḥ niṣaṇṇaḥ pārśva-anuvṛttaḥ ūrmi-mārgaḥ śarabha-krīḍitaḥ śarabha-plutaḥ tri-tālaḥ bāhya-anuvṛttaḥ pañca-pāṇiḥ siṃha-āyataḥ su ādhūtaḥ kliṣṭaḥ śliṅgitaḥ bṛṃhitaḥ puṣpa-abhikīrṇaḥ ca eti nīcais gata-mārgaḥ .. 02.30.35 ..
कपि-प्लुतो भेक-प्लुतेण-प्लुतएक-पाद-प्लुतः कोकिल-संचार्य्-उरस्यो बक-चारी च लङ्घनः ॥ ०२.३०.३६ ॥
कपि-प्लुतः भेक-प्लुत-इण-प्लुत-एक-पाद-प्लुतः कोकिल-संचारी उरस्यः बक-चारी च लङ्घनः ॥ ०२।३०।३६ ॥
kapi-plutaḥ bheka-pluta-iṇa-pluta-eka-pāda-plutaḥ kokila-saṃcārī urasyaḥ baka-cārī ca laṅghanaḥ .. 02.30.36 ..
काङ्को वारि-काङ्को मायूरोअर्ध-मायूरो नाकुलोर्ध-नाकुलो वाराहोअर्ध-वाराहश्चैति धोरणः ॥ ०२.३०.३७ ॥
काङ्कः वारि-काङ्कः मायूरः अर्ध-मायूरः नाकुल-ऊर्ध-नाकुलः वाराहः अर्ध-वाराहः च एति धोरणः ॥ ०२।३०।३७ ॥
kāṅkaḥ vāri-kāṅkaḥ māyūraḥ ardha-māyūraḥ nākula-ūrdha-nākulaḥ vārāhaḥ ardha-vārāhaḥ ca eti dhoraṇaḥ .. 02.30.37 ..
संज्ञा-प्रतिकारो नार-उष्ट्रैति ॥ ०२.३०.३८ ॥
संज्ञा-प्रतिकारः ॥ ०२।३०।३८ ॥
saṃjñā-pratikāraḥ .. 02.30.38 ..
षण्णव द्वादशैति योजनान्य्ध्वा रथ्यानाम् । पञ्च योजनान्यर्ध-अष्टमानि दशैति पृष्ठ-वाहिनां अश्वानां अध्वा ॥ ०२.३०.३९ ॥
षष् नव द्वादश एति योजनानि ध्वा रथ्यानाम् । पञ्च योजनानि अर्ध-अष्टमानि दश एति पृष्ठ-वाहिनाम् अश्वानाम् अध्वा ॥ ०२।३०।३९ ॥
ṣaṣ nava dvādaśa eti yojanāni dhvā rathyānām . pañca yojanāni ardha-aṣṭamāni daśa eti pṛṣṭha-vāhinām aśvānām adhvā .. 02.30.39 ..
विक्रमो भद्र-अश्वासो भार-वाह्य इति मार्गाः ॥ ०२.३०.४० ॥
विक्रमः भद्र-अश्वासः भार-वाह्यः इति मार्गाः ॥ ०२।३०।४० ॥
vikramaḥ bhadra-aśvāsaḥ bhāra-vāhyaḥ iti mārgāḥ .. 02.30.40 ..
विक्रमो वल्गितं उपकण्ठं उपजवो जवश्च धाराः ॥ ०२.३०.४१ ॥
विक्रमः वल्गितम् उपकण्ठम् उपजवः जवः च धाराः ॥ ०२।३०।४१ ॥
vikramaḥ valgitam upakaṇṭham upajavaḥ javaḥ ca dhārāḥ .. 02.30.41 ..
तेषां बन्धन-उपकरणं योग्य-आचार्याः प्रतिदिशेयुः । सांग्रामिकं रथ-अश्व-अलंकारं च सूताः ॥ ०२.३०.४२ ॥
तेषाम् बन्धन-उपकरणम् योग्य-आचार्याः प्रतिदिशेयुः । सांग्रामिकम् रथ-अश्व-अलंकारम् च सूताः ॥ ०२।३०।४२ ॥
teṣām bandhana-upakaraṇam yogya-ācāryāḥ pratidiśeyuḥ . sāṃgrāmikam ratha-aśva-alaṃkāram ca sūtāḥ .. 02.30.42 ..
अश्वानां चिकित्सकाः शरीर-ह्रास-वृद्धि-प्रतीकारं ऋतु-विभक्तं चऽहारं ॥ ०२.३०.४३ ॥
अश्वानाम् चिकित्सकाः शरीर-ह्रास-वृद्धि-प्रतीकारम् ऋतु-विभक्तम् च आहारम् ॥ ०२।३०।४३ ॥
aśvānām cikitsakāḥ śarīra-hrāsa-vṛddhi-pratīkāram ṛtu-vibhaktam ca āhāram .. 02.30.43 ..
सूत्र-ग्राहक-अश्व-बन्धक-यावसिक-विधा-पाचक-स्थान-पाल-केश-कार-जाङ्गुलीविदश्च स्व-कर्मभिरश्वानाराधयेयुः ॥ ०२.३०.४४ ॥
सूत्र-ग्राहक-अश्व-बन्धक-यावसिक-विधा-पाचक-स्थान-पाल-केश-कार-जाङ्गुली-विदः च स्व-कर्मभिः अश्वान् आराधयेयुः ॥ ०२।३०।४४ ॥
sūtra-grāhaka-aśva-bandhaka-yāvasika-vidhā-pācaka-sthāna-pāla-keśa-kāra-jāṅgulī-vidaḥ ca sva-karmabhiḥ aśvān ārādhayeyuḥ .. 02.30.44 ..
कर्म-अतिक्रमे चएषां दिवस-वेतनच्-छेदनं कुर्यात् ॥ ०२.३०.४५ ॥
कर्म-अतिक्रमे च एषाम् दिवस-वेतन-छेदनम् कुर्यात् ॥ ०२।३०।४५ ॥
karma-atikrame ca eṣām divasa-vetana-chedanam kuryāt .. 02.30.45 ..
नीराजन-उपरुद्धं वाहयतश्चिकित्सक-उपरुद्धं वा द्वादश-पणो दण्डः ॥ ०२.३०.४६ ॥
नीराजन-उपरुद्धम् वाहयतः चिकित्सक-उपरुद्धम् वा द्वादश-पणः दण्डः ॥ ०२।३०।४६ ॥
nīrājana-uparuddham vāhayataḥ cikitsaka-uparuddham vā dvādaśa-paṇaḥ daṇḍaḥ .. 02.30.46 ..
क्रिया-भैषज्य-सङ्गेन व्याधि-वृद्धौ प्रतीकार-द्वि-गुणो दण्डः ॥ ०२.३०.४७ ॥
क्रिया-भैषज्य-सङ्गेन व्याधि-वृद्धौ प्रतीकार-द्वि-गुणः दण्डः ॥ ०२।३०।४७ ॥
kriyā-bhaiṣajya-saṅgena vyādhi-vṛddhau pratīkāra-dvi-guṇaḥ daṇḍaḥ .. 02.30.47 ..
तद्-अपराधेन वैलोम्ये पत्त्र-मूल्यं दण्डः ॥ ०२.३०.४८ ॥
तद्-अपराधेन वैलोम्ये पत्त्र-मूल्यम् दण्डः ॥ ०२।३०।४८ ॥
tad-aparādhena vailomye pattra-mūlyam daṇḍaḥ .. 02.30.48 ..
तेन गो-मण्डलं खर-उष्ट्र-महिषं अज-अविकं च व्याख्यातं ॥ ०२.३०.४९ ॥
तेन गो-मण्डलम् खर-उष्ट्र-महिषम् अज-अविकम् च व्याख्यातम् ॥ ०२।३०।४९ ॥
tena go-maṇḍalam khara-uṣṭra-mahiṣam aja-avikam ca vyākhyātam .. 02.30.49 ..
द्विरह्नः स्नानं अश्वानां गन्ध-माल्यं च दापयेत् । ॥ ०२.३०.५०अ ब ॥
द्विस् अह्नः स्नानम् अश्वानाम् गन्ध-माल्यम् च दापयेत् । ॥ ०२।३०।५०अ ब ॥
dvis ahnaḥ snānam aśvānām gandha-mālyam ca dāpayet . .. 02.30.50a ba ..
कृष्ण-संधिषु भूत-इज्याः शुक्लेषु स्वस्ति-वाचनं ॥ ०२.३०.५०च्द् ॥
कृष्ण-संधिषु भूत-इज्याः शुक्लेषु स्वस्ति-वाचनम् ॥ ०२।३०।५०च् ॥
kṛṣṇa-saṃdhiṣu bhūta-ijyāḥ śukleṣu svasti-vācanam .. 02.30.50c ..
नीराजनां आश्वयुजे कारयेन्नवमेअहनि । ॥ ०२.३०.५१अ ब ॥
नीराजनाम् आश्वयुजे कारयेत् नवमे अहनि । ॥ ०२।३०।५१अ ब ॥
nīrājanām āśvayuje kārayet navame ahani . .. 02.30.51a ba ..
यात्रा-आदाववसाने वा व्याधौ वा शान्तिके रतः ॥ ०२.३०.५१च्द् ॥
यात्रा-आदौ अवसाने वा व्याधौ वा शान्तिके रतः ॥ ०२।३०।५१च् ॥
yātrā-ādau avasāne vā vyādhau vā śāntike rataḥ .. 02.30.51c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In