| |
|

This overlay will guide you through the buttons:

हस्त्य्-अध्यक्षो हस्ति-वन-रक्षां दम्य-कर्म-क्षान्तानां हस्ति-हस्तिनी-कलभानां शाला-स्थान-शय्या-कर्म-विधा-यवस-प्रमाणं कर्मस्वायोगं बन्धन-उपकरणं सांग्रामिकं अलंकारं चिकित्सक-अनीकस्थ-औपस्थायिक-वर्गं चानुतिष्ठेत् ॥ ०२.३१.०१ ॥
हस्ति-अध्यक्षः हस्ति-वन-रक्षाम् दम्य-कर्म-क्षान्तानाम् हस्ति-हस्तिनी-कलभानाम् शाला-स्थान-शय्या-कर्म-विधा-यवस-प्रमाणम् कर्मसु आयोगम् बन्धन-उपकरणम् सांग्रामिकम् अलंकारम् चिकित्सक-अनीकस्थ-औपस्थायिक-वर्गम् च अनुतिष्ठेत् ॥ ०२।३१।०१ ॥
hasti-adhyakṣaḥ hasti-vana-rakṣām damya-karma-kṣāntānām hasti-hastinī-kalabhānām śālā-sthāna-śayyā-karma-vidhā-yavasa-pramāṇam karmasu āyogam bandhana-upakaraṇam sāṃgrāmikam alaṃkāram cikitsaka-anīkastha-aupasthāyika-vargam ca anutiṣṭhet .. 02.31.01 ..
हस्त्य्-आयाम-द्वि-गुण-उत्सेध-विष्कम्भ-आयामां हस्तिनी-स्थान-अधिकां सप्रग्रीवां कुमारी-संग्रहां प्रान्-मुखीं उदन्-मुखीं वा शालां निवेशयेत् ॥ ०२.३१.०२ ॥
हस्ति-आयाम-द्वि-गुण-उत्सेध-विष्कम्भ-आयामाम् हस्तिनी-स्थान-अधिकाम् स प्रग्रीवाम् कुमारी-संग्रहाम् प्राच्-मुखीम् उदक्-मुखीम् वा शालाम् निवेशयेत् ॥ ०२।३१।०२ ॥
hasti-āyāma-dvi-guṇa-utsedha-viṣkambha-āyāmām hastinī-sthāna-adhikām sa pragrīvām kumārī-saṃgrahām prāc-mukhīm udak-mukhīm vā śālām niveśayet .. 02.31.02 ..
हस्त्य्-आयाम-चतुर्-अश्र-श्लक्ष्ण-आलान-स्तम्भ-फलक-आस्तरकं समूत्र-पुरीष-उत्सर्गं स्थानं निवेशयेत् ॥ ०२.३१.०३ ॥
हस्ति-आयाम-चतुर्-अश्र-श्लक्ष्ण-आलान-स्तम्भ-फलक-आस्तरकम् स मूत्र-पुरीष-उत्सर्गम् स्थानम् निवेशयेत् ॥ ०२।३१।०३ ॥
hasti-āyāma-catur-aśra-ślakṣṇa-ālāna-stambha-phalaka-āstarakam sa mūtra-purīṣa-utsargam sthānam niveśayet .. 02.31.03 ..
स्थान-समां शय्यां अर्ध-अपाश्रयां दुर्गे साम्नाह्य-औपवाह्यानां बहिर्दम्य-व्यालानां ॥ ०२.३१.०४ ॥
स्थान-समाम् शय्याम् अर्ध-अपाश्रयाम् दुर्गे साम्नाह्य-औपवाह्यानाम् बहिस् दम्य-व्यालानाम् ॥ ०२।३१।०४ ॥
sthāna-samām śayyām ardha-apāśrayām durge sāmnāhya-aupavāhyānām bahis damya-vyālānām .. 02.31.04 ..
प्रथम-सप्तम अष्टम-भागावह्नः स्नान-कालौ । तद्-अनन्तरं विधायाः ॥ ०२.३१.०५ ॥
प्रथम-सप्तम-अष्टम-भागौ अह्नः स्नान-कालौ । तद्-अनन्तरम् विधायाः ॥ ०२।३१।०५ ॥
prathama-saptama-aṣṭama-bhāgau ahnaḥ snāna-kālau . tad-anantaram vidhāyāḥ .. 02.31.05 ..
पूर्व-अह्ने व्यायाम-कालः । पश्च-अह्नः प्रतिपान-कालः ॥ ०२.३१.०६ ॥
पूर्व-अह्ने व्यायाम-कालः । पश्च-अह्नः प्रतिपान-कालः ॥ ०२।३१।०६ ॥
pūrva-ahne vyāyāma-kālaḥ . paśca-ahnaḥ pratipāna-kālaḥ .. 02.31.06 ..
रात्रि-भागौ द्वौ स्वप्न-काला । त्रि-भागः संवेशन-उत्थानिकः ॥ ०२.३१.०७ ॥
रात्रि-भागौ द्वौ स्वप्न-काला । त्रि-भागः संवेशन-उत्थानिकः ॥ ०२।३१।०७ ॥
rātri-bhāgau dvau svapna-kālā . tri-bhāgaḥ saṃveśana-utthānikaḥ .. 02.31.07 ..
ग्रीष्मे ग्रहण-कालः ॥ ०२.३१.०८ ॥
ग्रीष्मे ग्रहण-कालः ॥ ०२।३१।०८ ॥
grīṣme grahaṇa-kālaḥ .. 02.31.08 ..
विंशति-वर्षो ग्राह्यः ॥ ०२.३१.०९ ॥
विंशति-वर्षः ग्राह्यः ॥ ०२।३१।०९ ॥
viṃśati-varṣaḥ grāhyaḥ .. 02.31.09 ..
विक्को मोढो मक्कणो व्याथितो गर्भिणी धेनुका हस्तिनी चाग्राह्याः ॥ ०२.३१.१० ॥
विक्कः मोढः मक्कणः व्याथितः गर्भिणी धेनुका हस्तिनी च अग्राह्याः ॥ ०२।३१।१० ॥
vikkaḥ moḍhaḥ makkaṇaḥ vyāthitaḥ garbhiṇī dhenukā hastinī ca agrāhyāḥ .. 02.31.10 ..
सप्त-अरत्नि उत्सेधो नव-आयामो दश परिणाहः प्रमाणतश्चत्वारिंशद्-वर्षो भवत्युत्तमः । त्रिंशद्-वर्षो मध्यमः । पञ्च-विंशति-वर्षोअवरः ॥ ०२.३१.११ ॥
सप्त-अरत्नि उत्सेधः नव-आयामः दश परिणाहः प्रमाणतः चत्वारिंशत्-वर्षः भवति उत्तमः । त्रिंशत्-वर्षः मध्यमः । पञ्च-विंशति-वर्षः अवरः ॥ ०२।३१।११ ॥
sapta-aratni utsedhaḥ nava-āyāmaḥ daśa pariṇāhaḥ pramāṇataḥ catvāriṃśat-varṣaḥ bhavati uttamaḥ . triṃśat-varṣaḥ madhyamaḥ . pañca-viṃśati-varṣaḥ avaraḥ .. 02.31.11 ..
तयोः पाद-अवरो विधा-विधिः ॥ ०२.३१.१२ ॥
तयोः पाद-अवरः विधा-विधिः ॥ ०२।३१।१२ ॥
tayoḥ pāda-avaraḥ vidhā-vidhiḥ .. 02.31.12 ..
अरत्नौ तणुल-द्रोणः । अर्ध-आढकं तैलस्य । सर्पिषस्त्रयः प्रस्थाः । दश-पलं लवणस्य । मांसं पञ्चाशत्-पलिकम् । रसस्यऽढकं द्वि-गुणं वा दध्नः पिण्ड-क्लेदन-अर्थम् । क्षार-दश-पलिकं मद्यस्यऽढकं द्वि-गुणं वा पयसः प्रतिपानम् । गात्र-अवसेकस्तैल-प्रस्थः । शिरसोअष्ट-भागः प्रादीपिकश्च । यवसस्य द्वौ भारौ सपादौ । शष्पस्य शुष्कस्यार्ध-तृतीयो भारः । कडङ्करस्यानियमः ॥ ०२.३१.१३ ॥
अरत्नौ तण्-उल-द्रोणः । अर्ध-आढकम् तैलस्य । सर्पिषः त्रयः प्रस्थाः । दश-पलम् लवणस्य । मांसम् पञ्चाशत्-पलिकम् । रसस्य अढकम् द्वि-गुणम् वा दध्नः पिण्ड-क्लेदन-अर्थम् । क्षार-दश-पलिकम् मद्यस्य अढकम् द्वि-गुणम् वा पयसः प्रतिपानम् । गात्र-अवसेकः तैल-प्रस्थः । शिरसः अष्ट-भागः प्रादीपिकः च । यवसस्य द्वौ भारौ स पादौ । शष्पस्य शुष्कस्य अर्ध-तृतीयः भारः । कडङ्करस्य अनियमः ॥ ०२।३१।१३ ॥
aratnau taṇ-ula-droṇaḥ . ardha-āḍhakam tailasya . sarpiṣaḥ trayaḥ prasthāḥ . daśa-palam lavaṇasya . māṃsam pañcāśat-palikam . rasasya aḍhakam dvi-guṇam vā dadhnaḥ piṇḍa-kledana-artham . kṣāra-daśa-palikam madyasya aḍhakam dvi-guṇam vā payasaḥ pratipānam . gātra-avasekaḥ taila-prasthaḥ . śirasaḥ aṣṭa-bhāgaḥ prādīpikaḥ ca . yavasasya dvau bhārau sa pādau . śaṣpasya śuṣkasya ardha-tṛtīyaḥ bhāraḥ . kaḍaṅkarasya aniyamaḥ .. 02.31.13 ..
सप्त-अरत्निना तुल्य-भोजनोअष्ट-अरत्निरत्यरालः ॥ ०२.३१.१४ ॥
सप्त-अरत्निना तुल्य-भोजनः अष्ट-अरत्निः अत्यरालः ॥ ०२।३१।१४ ॥
sapta-aratninā tulya-bhojanaḥ aṣṭa-aratniḥ atyarālaḥ .. 02.31.14 ..
यथा-हस्तं अवशेषः षड्-अरत्निः पञ्च-अरत्निश्च ॥ ०२.३१.१५ ॥
यथा हस्तम् अवशेषः षष्-अरत्निः पञ्च-अरत्निः च ॥ ०२।३१।१५ ॥
yathā hastam avaśeṣaḥ ṣaṣ-aratniḥ pañca-aratniḥ ca .. 02.31.15 ..
क्षीर-यावसिको विक्कः क्रीडा-अर्थं ग्राह्यः ॥ ०२.३१.१६ ॥
क्षीर-यावसिकः विक्कः क्रीडा-अर्थम् ग्राह्यः ॥ ०२।३१।१६ ॥
kṣīra-yāvasikaḥ vikkaḥ krīḍā-artham grāhyaḥ .. 02.31.16 ..
संजात-लोहिता प्रतिच्छन्ना सम्लिप्त-पक्षा सम-कक्ष्या व्यतिकीर्ण-मांसा सम-तल्प-तला जात-द्रोणिकाइति शोभाः ॥ ०२.३१.१७ ॥
संजात-लोहिता प्रतिच्छन्ना सम्लिप्त-पक्षा सम-कक्ष्या व्यतिकीर्ण-मांसा सम-तल्प-तला जात-द्रोणिका इति शोभाः ॥ ०२।३१।१७ ॥
saṃjāta-lohitā praticchannā samlipta-pakṣā sama-kakṣyā vyatikīrṇa-māṃsā sama-talpa-talā jāta-droṇikā iti śobhāḥ .. 02.31.17 ..
शोभा-वशेन व्यायामं भद्र्म मन्दं च कारयेत् । ॥ ०२.३१.१८अ ब ॥
शोभा-वशेन व्यायामम् मन्दम् च कारयेत् । ॥ ०२।३१।१८अ ब ॥
śobhā-vaśena vyāyāmam mandam ca kārayet . .. 02.31.18a ba ..
मृगं संकीर्ण-लिङ्गं च कर्मस्वृतु-वशेन वा ॥ ०२.३१.१८च्द् ॥
मृगम् संकीर्ण-लिङ्गम् च कर्मसु ऋतु-वशेन वा ॥ ०२।३१।१८च् ॥
mṛgam saṃkīrṇa-liṅgam ca karmasu ṛtu-vaśena vā .. 02.31.18c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In