| |
|

This overlay will guide you through the buttons:

कर्म-स्कन्धाश्चत्वारो दम्यः साम्नाह्य औपवाह्यो व्यालश्च ॥ ०२.३२.०१ ॥
कर्म-स्कन्धाः चत्वारः दम्यः साम्नाह्यः औपवाह्यः व्यालः च ॥ ०२।३२।०१ ॥
karma-skandhāḥ catvāraḥ damyaḥ sāmnāhyaḥ aupavāhyaḥ vyālaḥ ca .. 02.32.01 ..
तत्र दम्यः पञ्च-विधः स्कन्ध-गतः स्तम्भ-गतो वारि-गतोअवपात-गतो यूथ-गतश्चैति ॥ ०२.३२.०२ ॥
तत्र दम्यः पञ्चविधः स्कन्ध-गतः स्तम्भ-गतः वारि-गतः अवपात-गतः यूथ-गतः च एति ॥ ०२।३२।०२ ॥
tatra damyaḥ pañcavidhaḥ skandha-gataḥ stambha-gataḥ vāri-gataḥ avapāta-gataḥ yūtha-gataḥ ca eti .. 02.32.02 ..
तस्यौपविचारो विक्क-कर्म ॥ ०२.३२.०३ ॥
तस्य औपविचारः विक्क-कर्म ॥ ०२।३२।०३ ॥
tasya aupavicāraḥ vikka-karma .. 02.32.03 ..
साम्नाह्यः सप्त-क्रिया-पथ उपस्थानं संवर्तनं सम्यानं वध-आवधो हस्ति-युद्धं नाग-रायणं सांग्रामिकं च ॥ ०२.३२.०४ ॥
साम्नाह्यः सप्त-क्रिया-पथः उपस्थानम् संवर्तनम् सम्यानम् वध-आवधः हस्ति-युद्धम् नाग-रायणम् सांग्रामिकम् च ॥ ०२।३२।०४ ॥
sāmnāhyaḥ sapta-kriyā-pathaḥ upasthānam saṃvartanam samyānam vadha-āvadhaḥ hasti-yuddham nāga-rāyaṇam sāṃgrāmikam ca .. 02.32.04 ..
तस्यौपविचारः कक्ष्या-कर्म ग्रैवेय-कर्म यूथ-कर्म च ॥ ०२.३२.०५ ॥
तस्य औपविचारः कक्ष्या-कर्म ग्रैवेय-कर्म यूथ-कर्म च ॥ ०२।३२।०५ ॥
tasya aupavicāraḥ kakṣyā-karma graiveya-karma yūtha-karma ca .. 02.32.05 ..
औपवाह्योअष्ट-विध आचरणः कुञ्जर-औपवाह्यो धोरण आधान-गतिको यष्ट्य्-उपवाह्यस्तोत्र-उपवाह्यः शुद्ध-उपवाह्यो मार्गयुकश्चैति ॥ ०२.३२.०६ ॥
औपवाह्यः अष्ट-विधः आचरणः कुञ्जर-औपवाह्यः धोरणः आधान-गतिकः यष्टि-उपवाह्य-स्तोत्र-उपवाह्यः शुद्ध-उपवाह्यः मार्गयुकः च एति ॥ ०२।३२।०६ ॥
aupavāhyaḥ aṣṭa-vidhaḥ ācaraṇaḥ kuñjara-aupavāhyaḥ dhoraṇaḥ ādhāna-gatikaḥ yaṣṭi-upavāhya-stotra-upavāhyaḥ śuddha-upavāhyaḥ mārgayukaḥ ca eti .. 02.32.06 ..
तस्यौपविचारः शारद-कर्म हीन-कर्म नार-उष्ट्र-कर्म च ॥ ०२.३२.०७ ॥
तस्य औपविचारः शारद-कर्म हीन-कर्म नार-उष्ट्र-कर्म च ॥ ०२।३२।०७ ॥
tasya aupavicāraḥ śārada-karma hīna-karma nāra-uṣṭra-karma ca .. 02.32.07 ..
व्यालएक-क्रिया-पथः शङ्कितोअवरुद्धो विषमः प्रभिन्नः प्रभिन्न-विनिश्चयो मद-हेतु-विनिश्चयश्च ॥ ०२.३२.०८ ॥
व्याल-एक-क्रिया-पथः शङ्कितः अवरुद्धः विषमः प्रभिन्नः प्रभिन्न-विनिश्चयः मद-हेतु-विनिश्चयः च ॥ ०२।३२।०८ ॥
vyāla-eka-kriyā-pathaḥ śaṅkitaḥ avaruddhaḥ viṣamaḥ prabhinnaḥ prabhinna-viniścayaḥ mada-hetu-viniścayaḥ ca .. 02.32.08 ..
तस्यौपविचार आयम्यएक-रक्षा-कर्म ॥ ०२.३२.०९ ॥
तस्य औपविचारः आयम्य एक-रक्षा-कर्म ॥ ०२।३२।०९ ॥
tasya aupavicāraḥ āyamya eka-rakṣā-karma .. 02.32.09 ..
क्रिया-विपन्नो व्यालः शुद्धः सु-व्रतो विषमः सर्व-दोष-प्रदुष्टश्च ॥ ०२.३२.१० ॥
क्रिया-विपन्नः व्यालः शुद्धः सु व्रतः विषमः सर्व-दोष-प्रदुष्टः च ॥ ०२।३२।१० ॥
kriyā-vipannaḥ vyālaḥ śuddhaḥ su vrataḥ viṣamaḥ sarva-doṣa-praduṣṭaḥ ca .. 02.32.10 ..
तेषां बन्धन-उपकरणं अनीक-स्थ-प्रमाणं ॥ ०२.३२.११ ॥
तेषाम् बन्धन-उपकरणम् अनीक-स्थ-प्रमाणम् ॥ ०२।३२।११ ॥
teṣām bandhana-upakaraṇam anīka-stha-pramāṇam .. 02.32.11 ..
आलान-ग्रैवेय-कक्ष्या-पार-अयण-परिक्षेप-उत्तर-आदिकं बन्धनं ॥ ०२.३२.१२ ॥
आलान-ग्रैवेय-कक्ष्या-पार-अयण-परिक्षेप-उत्तर-आदिकम् बन्धनम् ॥ ०२।३२।१२ ॥
ālāna-graiveya-kakṣyā-pāra-ayaṇa-parikṣepa-uttara-ādikam bandhanam .. 02.32.12 ..
अङ्कुश-वेणु-यन्त्र-आदिकं उपकरणं ॥ ०२.३२.१३ ॥
अङ्कुश-वेणु-यन्त्र-आदिकम् उपकरणम् ॥ ०२।३२।१३ ॥
aṅkuśa-veṇu-yantra-ādikam upakaraṇam .. 02.32.13 ..
वैजयन्ती-क्षुर-प्रमाल-आस्तरण-कुथा-आदिकं भूषणं ॥ ०२.३२.१४ ॥
वैजयन्ती-क्षुर-प्रमाल-आस्तरण-कुथा-आदिकम् भूषणम् ॥ ०२।३२।१४ ॥
vaijayantī-kṣura-pramāla-āstaraṇa-kuthā-ādikam bhūṣaṇam .. 02.32.14 ..
वर्म-तोमर-शर-आवाप-यन्त्र-आदिकः सांग्रामिक-अलंकारः ॥ ०२.३२.१५ ॥
वर्म-तोमर-शर-आवाप-यन्त्र-आदिकः सांग्रामिक-अलंकारः ॥ ०२।३२।१५ ॥
varma-tomara-śara-āvāpa-yantra-ādikaḥ sāṃgrāmika-alaṃkāraḥ .. 02.32.15 ..
चिकित्सक-अनीकस्थ-आरोहक-आधोरण-हस्तिप-कौपचारिक-विधा-पाचक-यावसिक-पादपाशिक-कुटीर्-रक्षक-औपशयैक-आदिरौपस्थायिक-वर्गः ॥ ०२.३२.१६ ॥
चिकित्सक-अनीकस्थ-आरोहक-आधोरण-हस्तिप-कौपचारिक-विधा-पाचक-यावसिक-पादपाशिक-कुटीः रक्षक-औपशयैक-आदिः औपस्थायिक-वर्गः ॥ ०२।३२।१६ ॥
cikitsaka-anīkastha-ārohaka-ādhoraṇa-hastipa-kaupacārika-vidhā-pācaka-yāvasika-pādapāśika-kuṭīḥ rakṣaka-aupaśayaika-ādiḥ aupasthāyika-vargaḥ .. 02.32.16 ..
चिकित्सक-कुटी-रक्ष-विधा-पाचकाः प्रस्थ-ओदनं स्नेह-प्रसृतिं क्षार-लवणयोश्च द्वि-पलिकं हरेयुः । दश-पलं मांसस्य । अन्यत्र चिकित्सकेभ्यः ॥ ०२.३२.१७ ॥
चिकित्सक-कुटी-रक्ष-विधा-पाचकाः प्रस्थ-ओदनम् स्नेह-प्रसृतिम् क्षार-लवणयोः च द्वि-पलिकम् हरेयुः । दश-पलम् मांसस्य । अन्यत्र चिकित्सकेभ्यः ॥ ०२।३२।१७ ॥
cikitsaka-kuṭī-rakṣa-vidhā-pācakāḥ prastha-odanam sneha-prasṛtim kṣāra-lavaṇayoḥ ca dvi-palikam hareyuḥ . daśa-palam māṃsasya . anyatra cikitsakebhyaḥ .. 02.32.17 ..
पथि-व्याधि-कर्म-मद-जरा-अभितप्तानां चिकित्सकाः प्रतिकुर्युः ॥ ०२.३२.१८ ॥
पथि व्याधि-कर्म-मद-जरा-अभितप्तानाम् चिकित्सकाः प्रतिकुर्युः ॥ ०२।३२।१८ ॥
pathi vyādhi-karma-mada-jarā-abhitaptānām cikitsakāḥ pratikuryuḥ .. 02.32.18 ..
स्थानस्याशुद्धिर्यवसस्याग्रहणं स्थले शायनं अभागे घातः पर-आरोहणं अकाले यानं अभूमावतीर्थेअवतारणं तरु-षण्ड इत्यत्यय-स्थानानि ॥ ०२.३२.१९ ॥
स्थानस्य अशुद्धिः यवसस्य अग्रहणम् स्थले शायनम् अभागे घातः पर-आरोहणम् अकाले यानम् अभूमौ अतीर्थे अवतारणम् तरु-षण्डः इति अत्यय-स्थानानि ॥ ०२।३२।१९ ॥
sthānasya aśuddhiḥ yavasasya agrahaṇam sthale śāyanam abhāge ghātaḥ para-ārohaṇam akāle yānam abhūmau atīrthe avatāraṇam taru-ṣaṇḍaḥ iti atyaya-sthānāni .. 02.32.19 ..
तं एषां भक्त-वेतनादाददीत ॥ ०२.३२.२० ॥
तम् एषाम् भक्त-वेतनात् आददीत ॥ ०२।३२।२० ॥
tam eṣām bhakta-vetanāt ādadīta .. 02.32.20 ..
तिस्रो नीराजनाः कार्याश्चातुर्मास्य-ऋतु-संधिषु । ॥ ०२.३२.२१अ ब ॥
तिस्रः नीराजनाः कार्याः चातुर्मास्य-ऋतु-संधिषु । ॥ ०२।३२।२१अ ब ॥
tisraḥ nīrājanāḥ kāryāḥ cāturmāsya-ṛtu-saṃdhiṣu . .. 02.32.21a ba ..
भूतानां कृष्ण-संधीइज्याः सेनान्यः शुक्ल-संधुषु ॥ ०२.३२.२१च्द् ॥
भूतानाम् सेनान्यः शुक्ल-संधुषु ॥ ०२।३२।२१च् ॥
bhūtānām senānyaḥ śukla-saṃdhuṣu .. 02.32.21c ..
दन्त-मूल-परीणाह-द्वि-गुणं प्रोज्झ्य कल्पयेत् । ॥ ०२.३२.२२अ ब ॥
प्रोज्झ्य कल्पयेत् । ॥ ०२।३२।२२अ ब ॥
projjhya kalpayet . .. 02.32.22a ba ..
अब्दे द्व्य्-अर्धे नदी-जानां पञ्च-अब्दे पर्वत-ओकसां ॥ ०२.३२.२२च्द् ॥
अब्दे द्वि-अर्धे नदी-जानाम् पञ्च-अब्दे पर्वत-ओकसाम् ॥ ०२।३२।२२च् ॥
abde dvi-ardhe nadī-jānām pañca-abde parvata-okasām .. 02.32.22c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In