| |
|

This overlay will guide you through the buttons:

अश्व-अध्यक्षेण रथ-अध्यक्षो व्याख्यातः ॥ ०२.३३.०१ ॥
अश्व-अध्यक्षेण रथ-अध्यक्षः व्याख्यातः ॥ ०२।३३।०१ ॥
aśva-adhyakṣeṇa ratha-adhyakṣaḥ vyākhyātaḥ .. 02.33.01 ..
स रथ-कर्म-अन्तान्कारयेत् ॥ ०२.३३.०२ ॥
स रथ-कर्म-अन्तान् कारयेत् ॥ ०२।३३।०२ ॥
sa ratha-karma-antān kārayet .. 02.33.02 ..
दश-पुरुषो द्वादश-अन्तरो रथः ॥ ०२.३३.०३ ॥
दश-पुरुषः द्वादश-अन्तरः रथः ॥ ०२।३३।०३ ॥
daśa-puruṣaḥ dvādaśa-antaraḥ rathaḥ .. 02.33.03 ..
तस्मादेक-अन्तर-अवरा आ-षड्-अन्तरादिति सप्त रथाः ॥ ०२.३३.०४ ॥
तस्मात् एक-अन्तर-अवराः आ षष्-अन्तरात् इति सप्त रथाः ॥ ०२।३३।०४ ॥
tasmāt eka-antara-avarāḥ ā ṣaṣ-antarāt iti sapta rathāḥ .. 02.33.04 ..
देव-रथ-पुष्य-रथ-सांग्रामिक-पारियाणिक-पर-पुर-अभियानिक-वैनयिकांश्च रथान्कारयेत् ॥ ०२.३३.०५ ॥
देव-रथ-पुष्य-रथ-सांग्रामिक-पारियाणिक-पर-पुर-अभियानिक-वैनयिकान् च रथान् कारयेत् ॥ ०२।३३।०५ ॥
deva-ratha-puṣya-ratha-sāṃgrāmika-pāriyāṇika-para-pura-abhiyānika-vainayikān ca rathān kārayet .. 02.33.05 ..
इष्व्-अस्त्र-प्रहरण-आवरण-उपकरण-कल्पनाः सारथि-रथिक-रथ्यानां च कर्मस्वायोगं विद्यात् । आ-कर्मभ्यश्च भक्त-वेतनं भृतानां अभृतानां च योग्या-रक्षा-अनुष्ठानं अर्थ-मान-कर्म च ॥ ०२.३३.०६ ॥
इषु-अस्त्र-प्रहरण-आवरण-उपकरण-कल्पनाः सारथि-रथिक-रथ्यानाम् च कर्मसु आयोगम् विद्यात् । आ कर्मभ्यः च भक्त-वेतनम् भृतानाम् अभृतानाम् च योग्या-रक्षा-अनुष्ठानम् अर्थ-मान-कर्म च ॥ ०२।३३।०६ ॥
iṣu-astra-praharaṇa-āvaraṇa-upakaraṇa-kalpanāḥ sārathi-rathika-rathyānām ca karmasu āyogam vidyāt . ā karmabhyaḥ ca bhakta-vetanam bhṛtānām abhṛtānām ca yogyā-rakṣā-anuṣṭhānam artha-māna-karma ca .. 02.33.06 ..
एतेन पत्त्य्-अध्यक्षो व्याख्यातः ॥ ०२.३३.०७ ॥
एतेन पत्ति-अध्यक्षः व्याख्यातः ॥ ०२।३३।०७ ॥
etena patti-adhyakṣaḥ vyākhyātaḥ .. 02.33.07 ..
स मौल-भृत-श्रेणि-मित्र-अमित्र-अटवी-बलानां सार-फल्गुतां विद्यात् । निम्न-स्थल-प्रकाश-कूट-खनक-आकाश-दिवा-रात्रि-युद्ध-व्यायामं च । आयोगं अयोगं च कर्मसु ॥ ०२.३३.०८ ॥
स मौल-भृत-श्रेणि-मित्र-अमित्र-अटवी-बलानाम् सार-फल्गु-ताम् विद्यात् । निम्न-स्थल-प्रकाश-कूट-खनक-आकाश-दिवा रात्रि-युद्ध-व्यायामम् च । आयोगम् अयोगम् च कर्मसु ॥ ०२।३३।०८ ॥
sa maula-bhṛta-śreṇi-mitra-amitra-aṭavī-balānām sāra-phalgu-tām vidyāt . nimna-sthala-prakāśa-kūṭa-khanaka-ākāśa-divā rātri-yuddha-vyāyāmam ca . āyogam ayogam ca karmasu .. 02.33.08 ..
तेदेव सेना-पतिः सर्व-युद्ध-प्रहरण-विद्या-विनीतो हस्त्य्-अश्व-रथ-चर्या-संघुष्टश्चतुर्-अङ्गस्य बलस्यानुष्ठान-अधिष्ठानं विद्यात् ॥ ०२.३३.०९ ॥
सेना-पतिः सर्व-युद्ध-प्रहरण-विद्या-विनीतः हस्ति-अश्व-रथ-चर्या-संघुष्टः चतुर्-अङ्गस्य बलस्य अनुष्ठान-अधिष्ठानम् विद्यात् ॥ ०२।३३।०९ ॥
senā-patiḥ sarva-yuddha-praharaṇa-vidyā-vinītaḥ hasti-aśva-ratha-caryā-saṃghuṣṭaḥ catur-aṅgasya balasya anuṣṭhāna-adhiṣṭhānam vidyāt .. 02.33.09 ..
स्व-भूमिं युद्ध-कालं प्रत्यनीकं अभिन्न-भेदनं भिन्न-संधानं संहत-भेदनं भिन्न-वधं दुर्ग-वधं यात्रा-कालं च पश्येत् ॥ ०२.३३.१० ॥
स्व-भूमिम् युद्ध-कालम् प्रत्यनीकम् अभिन्न-भेदनम् भिन्न-संधानम् संहत-भेदनम् भिन्न-वधम् दुर्ग-वधम् यात्रा-कालम् च पश्येत् ॥ ०२।३३।१० ॥
sva-bhūmim yuddha-kālam pratyanīkam abhinna-bhedanam bhinna-saṃdhānam saṃhata-bhedanam bhinna-vadham durga-vadham yātrā-kālam ca paśyet .. 02.33.10 ..
तूर्य-ध्वज-पताकाभिर्व्यूह-संज्ञाः प्रकल्पयेत् । ॥ ०२.३३.११अ ब ॥
तूर्य-ध्वज-पताकाभिः व्यूह-संज्ञाः प्रकल्पयेत् । ॥ ०२।३३।११अ ब ॥
tūrya-dhvaja-patākābhiḥ vyūha-saṃjñāḥ prakalpayet . .. 02.33.11a ba ..
स्थाने याने प्रहरणे सैन्यानां विनये रतः ॥ ०२.३३.११च्द् ॥
स्थाने याने प्रहरणे सैन्यानाम् विनये रतः ॥ ०२।३३।११च् ॥
sthāne yāne praharaṇe sainyānām vinaye rataḥ .. 02.33.11c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In