| |
|

This overlay will guide you through the buttons:

मुद्रा-अध्यक्षो मुद्रां माषकेण दद्यात् ॥ ०२.३४.०१ ॥
मुद्रा-अध्यक्षः मुद्राम् माषकेण दद्यात् ॥ ०२।३४।०१ ॥
mudrā-adhyakṣaḥ mudrām māṣakeṇa dadyāt .. 02.34.01 ..
समुद्रो जन-पदं प्रवेष्टुं निष्क्रमितुं वा लभेत ॥ ०२.३४.०२ ॥
समुद्रः जन-पदम् प्रवेष्टुम् निष्क्रमितुम् वा लभेत ॥ ०२।३४।०२ ॥
samudraḥ jana-padam praveṣṭum niṣkramitum vā labheta .. 02.34.02 ..
द्वादश-पणं अमुद्रो जानपदो दद्यात् ॥ ०२.३४.०३ ॥
द्वादश-पणम् अमुद्रः जानपदः दद्यात् ॥ ०२।३४।०३ ॥
dvādaśa-paṇam amudraḥ jānapadaḥ dadyāt .. 02.34.03 ..
कूट-मुद्रायां पूर्वः साहस-दण्डः तिरो-जन-पदस्यौत्तमः ॥ ०२.३४.०४ ॥
कूट-मुद्रायाम् पूर्वः साहस-दण्डः तिरस् जनपदस्य औत्तमः ॥ ०२।३४।०४ ॥
kūṭa-mudrāyām pūrvaḥ sāhasa-daṇḍaḥ tiras janapadasya auttamaḥ .. 02.34.04 ..
विवीत-अध्यक्षो मुद्रां पश्येत् ॥ ०२.३४.०५ ॥
विवीत-अध्यक्षः मुद्राम् पश्येत् ॥ ०२।३४।०५ ॥
vivīta-adhyakṣaḥ mudrām paśyet .. 02.34.05 ..
ग्राम-अन्तरेषु च विवीतं स्थापयेत् ॥ ०२.३४.०६ ॥
ग्राम-अन्तरेषु च विवीतम् स्थापयेत् ॥ ०२।३४।०६ ॥
grāma-antareṣu ca vivītam sthāpayet .. 02.34.06 ..
चोर-व्याल-भयान्-निम्न-अरण्यानि शोधयेत् ॥ ०२.३४.०७ ॥
चोर-व्याल-भयात् निम्न-अरण्यानि शोधयेत् ॥ ०२।३४।०७ ॥
cora-vyāla-bhayāt nimna-araṇyāni śodhayet .. 02.34.07 ..
अनुदके कूप-सेतु-बन्ध-उत्सान्स्थापयेत् । पुष्प-फल-वाटांश्च ॥ ०२.३४.०८ ॥
अनुदके कूप-सेतु-बन्ध-उत्सान् स्थापयेत् । पुष्प-फल-वाटान् च ॥ ०२।३४।०८ ॥
anudake kūpa-setu-bandha-utsān sthāpayet . puṣpa-phala-vāṭān ca .. 02.34.08 ..
लुब्धक-श्व-गणिनः परिव्रजेयुररण्यानि ॥ ०२.३४.०९ ॥
लुब्धक-श्व-गणिनः परिव्रजेयुः अरण्यानि ॥ ०२।३४।०९ ॥
lubdhaka-śva-gaṇinaḥ parivrajeyuḥ araṇyāni .. 02.34.09 ..
तस्कर-अमित्र-अभ्यागमे शङ्ख-दुन्दुभि-शब्दं अग्राह्याः कुर्युः शैल-वृक्ष-अधिरूढा वा शीघ्र-वाहना वा ॥ ०२.३४.१० ॥
तस्कर-अमित्र-अभ्यागमे शङ्ख-दुन्दुभि-शब्दम् अग्राह्याः कुर्युः शैल-वृक्ष-अधिरूढाः वा शीघ्र-वाहनाः वा ॥ ०२।३४।१० ॥
taskara-amitra-abhyāgame śaṅkha-dundubhi-śabdam agrāhyāḥ kuryuḥ śaila-vṛkṣa-adhirūḍhāḥ vā śīghra-vāhanāḥ vā .. 02.34.10 ..
अमित्र-अटवी-संचारं च राज्ञो गृह-कपोतैर्मुद्रा-युक्तैर्हारयेत् । धूम-अग्नि-परम्परया वा ॥ ०२.३४.११ ॥
अमित्र-अटवी-संचारम् च राज्ञः गृह-कपोतैः मुद्रा-युक्तैः हारयेत् । धूम-अग्नि-परम्परया वा ॥ ०२।३४।११ ॥
amitra-aṭavī-saṃcāram ca rājñaḥ gṛha-kapotaiḥ mudrā-yuktaiḥ hārayet . dhūma-agni-paramparayā vā .. 02.34.11 ..
द्रव्य-हस्ति-वन-आजीवं वर्तनीं चोर-रक्षणं । ॥ ०२.३४.१२अ ब ॥
द्रव्य-हस्ति-वन-आजीवम् वर्तनीम् चोर-रक्षणम् । ॥ ०२।३४।१२अ ब ॥
dravya-hasti-vana-ājīvam vartanīm cora-rakṣaṇam . .. 02.34.12a ba ..
सार्थ-अतिवाह्यं गो-रक्ष्यं व्यवहारं च कारयेत् ॥ ०२.३४.१२च्द् ॥
सार्थ-अतिवाह्यम् गो रक्ष्यम् व्यवहारम् च कारयेत् ॥ ०२।३४।१२च् ॥
sārtha-ativāhyam go rakṣyam vyavahāram ca kārayet .. 02.34.12c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In