| |
|

This overlay will guide you through the buttons:

समाहर्ता चतुर्धा जन-अप्दं विभज्य ज्येष्ठ-मध्यम-कनिष्ठ-विभागेन ग्राम-अग्रं परिहारकं आयुधीयं धान्य-पशु-हिरण्य-कुप्य-विष्टि-प्रतिकरं इदं एतावदिति निबन्धयेत् ॥ ०२.३५.०१ ॥
समाहर्ता चतुर्धा जन-अप्दम् विभज्य ज्येष्ठ-मध्यम-कनिष्ठ-विभागेन ग्राम-अग्रम् परिहारकम् आयुधीयम् धान्य-पशु-हिरण्य-कुप्य-विष्टि-प्रतिकरम् इदम् एतावत् इति निबन्धयेत् ॥ ०२।३५।०१ ॥
samāhartā caturdhā jana-apdam vibhajya jyeṣṭha-madhyama-kaniṣṭha-vibhāgena grāma-agram parihārakam āyudhīyam dhānya-paśu-hiraṇya-kupya-viṣṭi-pratikaram idam etāvat iti nibandhayet .. 02.35.01 ..
तत्-प्रदिष्टः पञ्च-ग्रामीं दश-ग्रामीं वा गोपश्चिन्तयेत् ॥ ०२.३५.०२ ॥
तद्-प्रदिष्टः पञ्च-ग्रामीम् दश-ग्रामीम् वा गोपः चिन्तयेत् ॥ ०२।३५।०२ ॥
tad-pradiṣṭaḥ pañca-grāmīm daśa-grāmīm vā gopaḥ cintayet .. 02.35.02 ..
सीम-अवरोधेन ग्राम-अग्रम् । कृष्ट-अकृष्ट-स्थल-केदार-आराम-षण्ड-वाट-वन-वास्तु-चैत्य-देव-गृह-सेतु-बन्ध-श्मशान-सत्त्र-प्रपा-पुण्य-स्थान-विवीत-पथि-सङ्ख्यानेन क्षेत्र-अग्रम् । तेन सीम्नां क्षेत्राणां च करद-अकरद-सङ्ख्यानेन ॥ ०२.३५.०३ ॥
सीम-अवरोधेन ग्राम-अग्रम् । कृष्ट-अकृष्ट-स्थल-केदार-आराम-षण्ड-वाट-वन-वास्तु-चैत्य-देव-गृह-सेतु-बन्ध-श्मशान-सत्त्र-प्रपा-पुण्य-स्थान-विवीत-पथि सङ्ख्यानेन क्षेत्र-अग्रम् । तेन सीम्नाम् क्षेत्राणाम् च करद-अकरद-सङ्ख्यानेन ॥ ०२।३५।०३ ॥
sīma-avarodhena grāma-agram . kṛṣṭa-akṛṣṭa-sthala-kedāra-ārāma-ṣaṇḍa-vāṭa-vana-vāstu-caitya-deva-gṛha-setu-bandha-śmaśāna-sattra-prapā-puṇya-sthāna-vivīta-pathi saṅkhyānena kṣetra-agram . tena sīmnām kṣetrāṇām ca karada-akarada-saṅkhyānena .. 02.35.03 ..
तेषु चएतावच्चातुर्-वार्ण्यम् । एतावन्तः कर्षक-गो-रक्षक-वैदेहक-कारु-कर्म-कर-दासाश्च । एतावच्च द्वि-पद-चतुष्-पदम् । इदं चएषु हिरण्यल्विष्टि-शुल्क-दण्डं समुत्तिष्ठतिइति ॥ ०२.३५.०४ ॥
तेषु च एतावत् चातुर्वार्ण्यम् । एतावन्तः कर्षक-गो-रक्षक-वैदेहक-कारु-कर्म-कर-दासाः च । एतावत् च द्वि-पद-चतुर्-पदम् । इदम् च एषु हिरण्यलु-इष्टि-शुल्क-दण्डम् समुत्तिष्ठति इति ॥ ०२।३५।०४ ॥
teṣu ca etāvat cāturvārṇyam . etāvantaḥ karṣaka-go-rakṣaka-vaidehaka-kāru-karma-kara-dāsāḥ ca . etāvat ca dvi-pada-catur-padam . idam ca eṣu hiraṇyalu-iṣṭi-śulka-daṇḍam samuttiṣṭhati iti .. 02.35.04 ..
कुलानां च स्त्री-पुरुषाणां बाल-वृद्ध-कर्म-चरित्र-आजीव-व्यय-परिमाणं विद्यात् ॥ ०२.३५.०५ ॥
कुलानाम् च स्त्री-पुरुषाणाम् बाल-वृद्ध-कर्म-चरित्र-आजीव-व्यय-परिमाणम् विद्यात् ॥ ०२।३५।०५ ॥
kulānām ca strī-puruṣāṇām bāla-vṛddha-karma-caritra-ājīva-vyaya-parimāṇam vidyāt .. 02.35.05 ..
एवं च जन-पद-चतुर्-भागं स्थानिकश्चिन्तयेत् ॥ ०२.३५.०६ ॥
एवम् च जनपद-चतुर्-भागम् स्थानिकः चिन्तयेत् ॥ ०२।३५।०६ ॥
evam ca janapada-catur-bhāgam sthānikaḥ cintayet .. 02.35.06 ..
गोप-स्थानिक-स्थानेषु प्रदेष्टारः कार्य-करणं बलि-प्रग्रहं च कुर्युः ॥ ०२.३५.०७ ॥
गोप-स्थानिक-स्थानेषु प्रदेष्टारः कार्य-करणम् बलि-प्रग्रहम् च कुर्युः ॥ ०२।३५।०७ ॥
gopa-sthānika-sthāneṣu pradeṣṭāraḥ kārya-karaṇam bali-pragraham ca kuryuḥ .. 02.35.07 ..
समाहर्तृ-प्रदिष्टाश्च गृह-पतिक-व्यञ्जना येषु ग्रामेषु प्रणिहितास्तेषां ग्रामाणां क्षेत्र-गृह-कुल-अग्रं विद्युः । मान-संजाताभ्यां क्षेत्राणि भोग-परिहाराभ्यां गृहाणि वर्ण-कर्मभ्यां कुलानि च ॥ ०२.३५.०८ ॥
समाहर्तृ-प्रदिष्टाः च गृह-पतिक-व्यञ्जनाः येषु ग्रामेषु प्रणिहिताः तेषाम् ग्रामाणाम् क्षेत्र-गृह-कुल-अग्रम् विद्युः । मान-संजाताभ्याम् क्षेत्राणि भोग-परिहाराभ्याम् गृहाणि वर्ण-कर्मभ्याम् कुलानि च ॥ ०२।३५।०८ ॥
samāhartṛ-pradiṣṭāḥ ca gṛha-patika-vyañjanāḥ yeṣu grāmeṣu praṇihitāḥ teṣām grāmāṇām kṣetra-gṛha-kula-agram vidyuḥ . māna-saṃjātābhyām kṣetrāṇi bhoga-parihārābhyām gṛhāṇi varṇa-karmabhyām kulāni ca .. 02.35.08 ..
तेषां जङ्घ-अग्रं आय-व्ययौ च विद्युः ॥ ०२.३५.०९ ॥
तेषाम् जङ्घ-अग्रम् आय-व्ययौ च विद्युः ॥ ०२।३५।०९ ॥
teṣām jaṅgha-agram āya-vyayau ca vidyuḥ .. 02.35.09 ..
प्रस्थित-आगतानां च प्रवास-आवास-कारणम् । अनर्थ्यानां च स्त्री-पुरुषाणां चार-प्रचारं च विद्युः ॥ ०२.३५.१० ॥
प्रस्थित-आगतानाम् च प्रवास-आवास-कारणम् । अनर्थ्यानाम् च स्त्री-पुरुषाणाम् चार-प्रचारम् च विद्युः ॥ ०२।३५।१० ॥
prasthita-āgatānām ca pravāsa-āvāsa-kāraṇam . anarthyānām ca strī-puruṣāṇām cāra-pracāram ca vidyuḥ .. 02.35.10 ..
एवं वैदेहक-व्यञ्जनाः स्व-भूमिजानां राज-पण्यानां खनि-सेतु-वन-कर्म-अन्त-क्षेत्रजानां प्रमाणं अर्घं च विद्युः ॥ ०२.३५.११ ॥
एवम् वैदेहक-व्यञ्जनाः स्व-भूमि-जानाम् राज-पण्यानाम् खनि-सेतु-वन-कर्म-अन्त-क्षेत्र-जानाम् प्रमाणम् अर्घम् च विद्युः ॥ ०२।३५।११ ॥
evam vaidehaka-vyañjanāḥ sva-bhūmi-jānām rāja-paṇyānām khani-setu-vana-karma-anta-kṣetra-jānām pramāṇam argham ca vidyuḥ .. 02.35.11 ..
पर-भूमि-जातानां वारि-स्थल-पथ-उपयातानां सार-फल्गु-पुण्यानां कर्मसु च शुल्क-वर्तन्य्-आतिवाहिक-गुल्म-तर-देय-भाग-भक्त-पण्य-अगार-प्रमाणं विद्युः ॥ ०२.३५.१२ ॥
पर-भूमि-जातानाम् वारि-स्थल-पथ-उपयातानाम् सार-फल्गु-पुण्यानाम् कर्मसु च शुल्क-वर्तनि-आतिवाहिक-गुल्म-तर-देय-भाग-भक्त-पण्य-अगार-प्रमाणम् विद्युः ॥ ०२।३५।१२ ॥
para-bhūmi-jātānām vāri-sthala-patha-upayātānām sāra-phalgu-puṇyānām karmasu ca śulka-vartani-ātivāhika-gulma-tara-deya-bhāga-bhakta-paṇya-agāra-pramāṇam vidyuḥ .. 02.35.12 ..
एवं समाहर्तृ-प्रदिष्टास्तापस-व्यञ्जनाः कर्षक-गो-रक्षक-वैदेहकानां अध्यक्षाणां च शौच-आशौचं विद्युः ॥ ०२.३५.१३ ॥
एवम् समाहर्तृ-प्रदिष्टाः तापस-व्यञ्जनाः कर्षक-गो-रक्षक-वैदेहकानाम् अध्यक्षाणाम् च शौच-आशौचम् विद्युः ॥ ०२।३५।१३ ॥
evam samāhartṛ-pradiṣṭāḥ tāpasa-vyañjanāḥ karṣaka-go-rakṣaka-vaidehakānām adhyakṣāṇām ca śauca-āśaucam vidyuḥ .. 02.35.13 ..
पुराण चोर-व्यञ्जनाश्चान्तेवासिनश्चैत्य-चतुष्पथ-शून्य-पद-उद-पान-नदी-निपान-तीर्थ-आयतन-आश्रम-अरण्य-शैल-वन-गहनेषु स्तेन-अमित्र-प्रवीर-पुरुषाणां च प्रवेशन-स्थान-गमन-प्रयोजनान्युपलभेरन् ॥ ०२.३५.१४ ॥
चोर-व्यञ्जनाः च अन्तेवासिनः चैत्य-चतुष्पथ-शून्य-पद-उद-पान-नदी-निपान-तीर्थ-आयतन-आश्रम-अरण्य-शैल-वन-गहनेषु स्तेन-अमित्र-प्रवीर-पुरुषाणाम् च प्रवेशन-स्थान-गमन-प्रयोजनानि उपलभेरन् ॥ ०२।३५।१४ ॥
cora-vyañjanāḥ ca antevāsinaḥ caitya-catuṣpatha-śūnya-pada-uda-pāna-nadī-nipāna-tīrtha-āyatana-āśrama-araṇya-śaila-vana-gahaneṣu stena-amitra-pravīra-puruṣāṇām ca praveśana-sthāna-gamana-prayojanāni upalabheran .. 02.35.14 ..
समाहर्ता जन-पदं चिन्तयेदेवं उत्थितः । ॥ ०२.३५.१५अ ब ॥
समाहर्ता जन-पदम् चिन्तयेत् एवम् उत्थितः । ॥ ०२।३५।१५अ ब ॥
samāhartā jana-padam cintayet evam utthitaḥ . .. 02.35.15a ba ..
चिन्तयेयुश्च संस्थास्ताः संस्थाश्चान्याः स्व-योनयः ॥ ०२.३५.१५च्द् ॥
चिन्तयेयुः च संस्थाः ताः संस्थाः च अन्याः स्व-योनयः ॥ ०२।३५।१५च् ॥
cintayeyuḥ ca saṃsthāḥ tāḥ saṃsthāḥ ca anyāḥ sva-yonayaḥ .. 02.35.15c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In