| |
|

This overlay will guide you through the buttons:

समाहर्ता चतुर्धा जन-अप्दं विभज्य ज्येष्ठ-मध्यम-कनिष्ठ-विभागेन ग्राम-अग्रं परिहारकं आयुधीयं धान्य-पशु-हिरण्य-कुप्य-विष्टि-प्रतिकरं इदं एतावदिति निबन्धयेत् ॥ ०२.३५.०१ ॥
samāhartā caturdhā jana-apdaṃ vibhajya jyeṣṭha-madhyama-kaniṣṭha-vibhāgena grāma-agraṃ parihārakaṃ āyudhīyaṃ dhānya-paśu-hiraṇya-kupya-viṣṭi-pratikaraṃ idaṃ etāvaditi nibandhayet .. 02.35.01 ..
तत्-प्रदिष्टः पञ्च-ग्रामीं दश-ग्रामीं वा गोपश्चिन्तयेत् ॥ ०२.३५.०२ ॥
tat-pradiṣṭaḥ pañca-grāmīṃ daśa-grāmīṃ vā gopaścintayet .. 02.35.02 ..
सीम-अवरोधेन ग्राम-अग्रम् । कृष्ट-अकृष्ट-स्थल-केदार-आराम-षण्ड-वाट-वन-वास्तु-चैत्य-देव-गृह-सेतु-बन्ध-श्मशान-सत्त्र-प्रपा-पुण्य-स्थान-विवीत-पथि-सङ्ख्यानेन क्षेत्र-अग्रम् । तेन सीम्नां क्षेत्राणां च करद-अकरद-सङ्ख्यानेन ॥ ०२.३५.०३ ॥
sīma-avarodhena grāma-agram . kṛṣṭa-akṛṣṭa-sthala-kedāra-ārāma-ṣaṇḍa-vāṭa-vana-vāstu-caitya-deva-gṛha-setu-bandha-śmaśāna-sattra-prapā-puṇya-sthāna-vivīta-pathi-saṅkhyānena kṣetra-agram . tena sīmnāṃ kṣetrāṇāṃ ca karada-akarada-saṅkhyānena .. 02.35.03 ..
तेषु चएतावच्चातुर्-वार्ण्यम् । एतावन्तः कर्षक-गो-रक्षक-वैदेहक-कारु-कर्म-कर-दासाश्च । एतावच्च द्वि-पद-चतुष्-पदम् । इदं चएषु हिरण्यल्विष्टि-शुल्क-दण्डं समुत्तिष्ठतिइति ॥ ०२.३५.०४ ॥
teṣu caetāvaccātur-vārṇyam . etāvantaḥ karṣaka-go-rakṣaka-vaidehaka-kāru-karma-kara-dāsāśca . etāvacca dvi-pada-catuṣ-padam . idaṃ caeṣu hiraṇyalviṣṭi-śulka-daṇḍaṃ samuttiṣṭhatiiti .. 02.35.04 ..
कुलानां च स्त्री-पुरुषाणां बाल-वृद्ध-कर्म-चरित्र-आजीव-व्यय-परिमाणं विद्यात् ॥ ०२.३५.०५ ॥
kulānāṃ ca strī-puruṣāṇāṃ bāla-vṛddha-karma-caritra-ājīva-vyaya-parimāṇaṃ vidyāt .. 02.35.05 ..
एवं च जन-पद-चतुर्-भागं स्थानिकश्चिन्तयेत् ॥ ०२.३५.०६ ॥
evaṃ ca jana-pada-catur-bhāgaṃ sthānikaścintayet .. 02.35.06 ..
गोप-स्थानिक-स्थानेषु प्रदेष्टारः कार्य-करणं बलि-प्रग्रहं च कुर्युः ॥ ०२.३५.०७ ॥
gopa-sthānika-sthāneṣu pradeṣṭāraḥ kārya-karaṇaṃ bali-pragrahaṃ ca kuryuḥ .. 02.35.07 ..
समाहर्तृ-प्रदिष्टाश्च गृह-पतिक-व्यञ्जना येषु ग्रामेषु प्रणिहितास्तेषां ग्रामाणां क्षेत्र-गृह-कुल-अग्रं विद्युः । मान-संजाताभ्यां क्षेत्राणि भोग-परिहाराभ्यां गृहाणि वर्ण-कर्मभ्यां कुलानि च ॥ ०२.३५.०८ ॥
samāhartṛ-pradiṣṭāśca gṛha-patika-vyañjanā yeṣu grāmeṣu praṇihitāsteṣāṃ grāmāṇāṃ kṣetra-gṛha-kula-agraṃ vidyuḥ . māna-saṃjātābhyāṃ kṣetrāṇi bhoga-parihārābhyāṃ gṛhāṇi varṇa-karmabhyāṃ kulāni ca .. 02.35.08 ..
तेषां जङ्घ-अग्रं आय-व्ययौ च विद्युः ॥ ०२.३५.०९ ॥
teṣāṃ jaṅgha-agraṃ āya-vyayau ca vidyuḥ .. 02.35.09 ..
प्रस्थित-आगतानां च प्रवास-आवास-कारणम् । अनर्थ्यानां च स्त्री-पुरुषाणां चार-प्रचारं च विद्युः ॥ ०२.३५.१० ॥
prasthita-āgatānāṃ ca pravāsa-āvāsa-kāraṇam . anarthyānāṃ ca strī-puruṣāṇāṃ cāra-pracāraṃ ca vidyuḥ .. 02.35.10 ..
एवं वैदेहक-व्यञ्जनाः स्व-भूमिजानां राज-पण्यानां खनि-सेतु-वन-कर्म-अन्त-क्षेत्रजानां प्रमाणं अर्घं च विद्युः ॥ ०२.३५.११ ॥
evaṃ vaidehaka-vyañjanāḥ sva-bhūmijānāṃ rāja-paṇyānāṃ khani-setu-vana-karma-anta-kṣetrajānāṃ pramāṇaṃ arghaṃ ca vidyuḥ .. 02.35.11 ..
पर-भूमि-जातानां वारि-स्थल-पथ-उपयातानां सार-फल्गु-पुण्यानां कर्मसु च शुल्क-वर्तन्य्-आतिवाहिक-गुल्म-तर-देय-भाग-भक्त-पण्य-अगार-प्रमाणं विद्युः ॥ ०२.३५.१२ ॥
para-bhūmi-jātānāṃ vāri-sthala-patha-upayātānāṃ sāra-phalgu-puṇyānāṃ karmasu ca śulka-vartany-ātivāhika-gulma-tara-deya-bhāga-bhakta-paṇya-agāra-pramāṇaṃ vidyuḥ .. 02.35.12 ..
एवं समाहर्तृ-प्रदिष्टास्तापस-व्यञ्जनाः कर्षक-गो-रक्षक-वैदेहकानां अध्यक्षाणां च शौच-आशौचं विद्युः ॥ ०२.३५.१३ ॥
evaṃ samāhartṛ-pradiṣṭāstāpasa-vyañjanāḥ karṣaka-go-rakṣaka-vaidehakānāṃ adhyakṣāṇāṃ ca śauca-āśaucaṃ vidyuḥ .. 02.35.13 ..
पुराण चोर-व्यञ्जनाश्चान्तेवासिनश्चैत्य-चतुष्पथ-शून्य-पद-उद-पान-नदी-निपान-तीर्थ-आयतन-आश्रम-अरण्य-शैल-वन-गहनेषु स्तेन-अमित्र-प्रवीर-पुरुषाणां च प्रवेशन-स्थान-गमन-प्रयोजनान्युपलभेरन् ॥ ०२.३५.१४ ॥
purāṇa cora-vyañjanāścāntevāsinaścaitya-catuṣpatha-śūnya-pada-uda-pāna-nadī-nipāna-tīrtha-āyatana-āśrama-araṇya-śaila-vana-gahaneṣu stena-amitra-pravīra-puruṣāṇāṃ ca praveśana-sthāna-gamana-prayojanānyupalabheran .. 02.35.14 ..
समाहर्ता जन-पदं चिन्तयेदेवं उत्थितः । ॥ ०२.३५.१५अ ब ॥
samāhartā jana-padaṃ cintayedevaṃ utthitaḥ . .. 02.35.15a ba ..
चिन्तयेयुश्च संस्थास्ताः संस्थाश्चान्याः स्व-योनयः ॥ ०२.३५.१५च्द् ॥
cintayeyuśca saṃsthāstāḥ saṃsthāścānyāḥ sva-yonayaḥ .. 02.35.15cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In