| |
|

This overlay will guide you through the buttons:

समाहर्तृवन्नागरिको नगरं चिन्तयेत् ॥ ०२.३६.०१ ॥
समाहर्तृ-वत् नागरिकः नगरम् चिन्तयेत् ॥ ०२।३६।०१ ॥
samāhartṛ-vat nāgarikaḥ nagaram cintayet .. 02.36.01 ..
दश-कुलीं गोपो विंशति-कुलीं चत्वारिंशत्-कुलीं वा ॥ ०२.३६.०२ ॥
दश-कुलीम् गोपः विंशति-कुलीम् चत्वारिंशत्-कुलीम् वा ॥ ०२।३६।०२ ॥
daśa-kulīm gopaḥ viṃśati-kulīm catvāriṃśat-kulīm vā .. 02.36.02 ..
स तस्यां स्त्री-पुरुषाणां जाति-गोत्र-नाम-कर्मभिः जङ्घ-अग्रं आय-व्ययौ च विद्यात् ॥ ०२.३६.०३ ॥
स तस्याम् स्त्री-पुरुषाणाम् जाति-गोत्र-नाम-कर्मभिः जङ्घ-अग्रम् आय-व्ययौ च विद्यात् ॥ ०२।३६।०३ ॥
sa tasyām strī-puruṣāṇām jāti-gotra-nāma-karmabhiḥ jaṅgha-agram āya-vyayau ca vidyāt .. 02.36.03 ..
एवं दुर्ग-चतुर्-भागं स्थानिकश्चिन्तयेत् ॥ ०२.३६.०४ ॥
एवम् दुर्ग-चतुर्-भागम् स्थानिकः चिन्तयेत् ॥ ०२।३६।०४ ॥
evam durga-catur-bhāgam sthānikaḥ cintayet .. 02.36.04 ..
धर्म-आवसथिनः पाषण्डि-पथिकानावेद्य वासयेयुः । स्व-प्रत्ययाश्च तपस्विनः श्रोत्रियांश्च ॥ ०२.३६.०५ ॥
धर्म-आवसथिनः पाषण्डि-पथिकान् आवेद्य वासयेयुः । स्व-प्रत्ययाः च तपस्विनः श्रोत्रियान् च ॥ ०२।३६।०५ ॥
dharma-āvasathinaḥ pāṣaṇḍi-pathikān āvedya vāsayeyuḥ . sva-pratyayāḥ ca tapasvinaḥ śrotriyān ca .. 02.36.05 ..
कारु-शिल्पिनः स्व-कर्म-स्थानेषु स्व-जनं वासयेयुः । वैदेहकाश्चान्योन्यं स्व-कर्म-स्थानेषु ॥ ०२.३६.०६ ॥
कारु-शिल्पिनः स्व-कर्म-स्थानेषु स्व-जनम् वासयेयुः । वैदेहकाः च अन्योन्यम् स्व-कर्म-स्थानेषु ॥ ०२।३६।०६ ॥
kāru-śilpinaḥ sva-karma-sthāneṣu sva-janam vāsayeyuḥ . vaidehakāḥ ca anyonyam sva-karma-sthāneṣu .. 02.36.06 ..
पण्यानां अदेश-काल-विक्रेतारं अस्वकरणं च निवेदयेयुः ॥ ०२.३६.०७ ॥
पण्यानाम् अदेश-काल-विक्रेतारम् अस्वकरणम् च निवेदयेयुः ॥ ०२।३६।०७ ॥
paṇyānām adeśa-kāla-vikretāram asvakaraṇam ca nivedayeyuḥ .. 02.36.07 ..
शौण्डिक-पाक्व-मांसिक-औदनिक-रूप-आजीवाः परिज्ञातं आवासयेयुः ॥ ०२.३६.०८ ॥
शौण्डिक-पाक्व-मांसिक-औदनिक-रूप-आजीवाः परिज्ञातम् आवासयेयुः ॥ ०२।३६।०८ ॥
śauṇḍika-pākva-māṃsika-audanika-rūpa-ājīvāḥ parijñātam āvāsayeyuḥ .. 02.36.08 ..
अतिव्यय-कर्तारं अत्याहित-कर्माणं च निवेदयेयुः ॥ ०२.३६.०९ ॥
अति व्यय-कर्तारम् अत्याहित-कर्माणम् च निवेदयेयुः ॥ ०२।३६।०९ ॥
ati vyaya-kartāram atyāhita-karmāṇam ca nivedayeyuḥ .. 02.36.09 ..
चिकित्सकः प्रच्छन्न-व्रण-प्रतीकार-कारयितारं अपथ्य-कारिणं च गृह-स्वामी च निवेद्य गोप-स्थानिकयोर्मुच्येत । अन्यथा तुल्य-दोषः स्यात् ॥ ०२.३६.१० ॥
चिकित्सकः प्रच्छन्न-व्रण-प्रतीकार-कारयितारम् अपथ्य-कारिणम् च गृह-स्वामी च निवेद्य गोप-स्थानिकयोः मुच्येत । अन्यथा तुल्य-दोषः स्यात् ॥ ०२।३६।१० ॥
cikitsakaḥ pracchanna-vraṇa-pratīkāra-kārayitāram apathya-kāriṇam ca gṛha-svāmī ca nivedya gopa-sthānikayoḥ mucyeta . anyathā tulya-doṣaḥ syāt .. 02.36.10 ..
प्रस्थित-आगतौ च निवेदयेत् । अन्यथा रात्रि-दोषं भजेत ॥ ०२.३६.११ ॥
प्रस्थित-आगतौ च निवेदयेत् । अन्यथा रात्रि-दोषम् भजेत ॥ ०२।३६।११ ॥
prasthita-āgatau ca nivedayet . anyathā rātri-doṣam bhajeta .. 02.36.11 ..
क्षेम-रात्रिषु त्रि-पणं दद्यात् ॥ ०२.३६.१२ ॥
क्षेम-रात्रिषु त्रि-पणम् दद्यात् ॥ ०२।३६।१२ ॥
kṣema-rātriṣu tri-paṇam dadyāt .. 02.36.12 ..
पथिक-उत्पथिकाश्च बहिर्-अन्तश्च नगरस्य देव-गृह-पुण्य-स्थान-वन-श्मशानेषु सव्रणं अनिष्ट-उपकरणं उद्भाण्डी-कृतं आविग्नं अतिस्वप्नं अध्व-क्लान्तं अपूर्वं वा गृह्णीयुः ॥ ०२.३६.१३ ॥
पथिक-उत्पथिकाः च बहिस् अन्तर् च नगरस्य देव-गृह-पुण्य-स्थान-वन-श्मशानेषु स व्रणम् अनिष्ट-उपकरणम् उद्भाण्डी-कृतम् आविग्नम् अतिस्वप्नम् अध्व-क्लान्तम् अपूर्वम् वा गृह्णीयुः ॥ ०२।३६।१३ ॥
pathika-utpathikāḥ ca bahis antar ca nagarasya deva-gṛha-puṇya-sthāna-vana-śmaśāneṣu sa vraṇam aniṣṭa-upakaraṇam udbhāṇḍī-kṛtam āvignam atisvapnam adhva-klāntam apūrvam vā gṛhṇīyuḥ .. 02.36.13 ..
एवं अभ्यन्तरे शून्य-निवेश-आवेशन-शौण्डिक-औदनिक-पाक्व-मांसिक-द्यूत-पाषण्ड-आवासेषु विचयं कुर्युः ॥ ०२.३६.१४ ॥
एवम् अभ्यन्तरे शून्य-निवेश-आवेशन-शौण्डिक-औदनिक-पाक्व-मांसिक-द्यूत-पाषण्ड-आवासेषु विचयम् कुर्युः ॥ ०२।३६।१४ ॥
evam abhyantare śūnya-niveśa-āveśana-śauṇḍika-audanika-pākva-māṃsika-dyūta-pāṣaṇḍa-āvāseṣu vicayam kuryuḥ .. 02.36.14 ..
अग्नि-प्रतीकारं च ग्रीष्मे ॥ ०२.३६.१५ ॥
अग्नि-प्रतीकारम् च ग्रीष्मे ॥ ०२।३६।१५ ॥
agni-pratīkāram ca grīṣme .. 02.36.15 ..
मध्यमयोरह्नश्चतुर्-भागयोरष्ट-भागोअग्नि-दण्डः ॥ ०२.३६.१६ ॥
मध्यमयोः अह्नः चतुर्-भागयोः अष्ट-भागः अग्नि-दण्डः ॥ ०२।३६।१६ ॥
madhyamayoḥ ahnaḥ catur-bhāgayoḥ aṣṭa-bhāgaḥ agni-daṇḍaḥ .. 02.36.16 ..
बहिर्-अधिश्रयणं वा कुर्युः ॥ ०२.३६.१७ ॥
बहिस् अधिश्रयणम् वा कुर्युः ॥ ०२।३६।१७ ॥
bahis adhiśrayaṇam vā kuryuḥ .. 02.36.17 ..
पादः पञ्च-घटीनां कुम्भ-द्रोणि-निह्श्रेणी-परशु-शूर्प-अङ्कुश-कच-ग्रहणी-दृतीनां चाकरणे ॥ ०२.३६.१८ ॥
पादः पञ्च-घटीनाम् कुम्भ-द्रोणि-निह्श्रेणी-परशु-शूर्प-अङ्कुश-कच-ग्रहणी-दृतीनाम् च अकरणे ॥ ०२।३६।१८ ॥
pādaḥ pañca-ghaṭīnām kumbha-droṇi-nihśreṇī-paraśu-śūrpa-aṅkuśa-kaca-grahaṇī-dṛtīnām ca akaraṇe .. 02.36.18 ..
तृण-कटच्-छन्नान्यपनयेत् ॥ ०२.३६.१९ ॥
तृण-कटच्-छन्नानि अपनयेत् ॥ ०२।३६।१९ ॥
tṛṇa-kaṭac-channāni apanayet .. 02.36.19 ..
अग्नि-जीविन एकस्थान्वासयेत् ॥ ०२.३६.२० ॥
अग्नि-जीविनः एकस्था अन्वासयेत् ॥ ०२।३६।२० ॥
agni-jīvinaḥ ekasthā anvāsayet .. 02.36.20 ..
स्व-गृह-प्रद्वारेषु गृह-स्वामिनो वसेयुः असम्पातिनो रात्रौ ॥ ०२.३६.२१ ॥
स्व-गृह-प्रद्वारेषु गृह-स्वामिनः वसेयुः असम्पातिनः रात्रौ ॥ ०२।३६।२१ ॥
sva-gṛha-pradvāreṣu gṛha-svāminaḥ vaseyuḥ asampātinaḥ rātrau .. 02.36.21 ..
रथ्यासु कुट-व्रजाः सहस्रं तिष्ठेयुः । चतुष्पथ-द्वार-राज-परिग्रहेषु च ॥ ०२.३६.२२ ॥
रथ्यासु कुट-व्रजाः सहस्रम् तिष्ठेयुः । चतुष्पथ-द्वार-राज-परिग्रहेषु च ॥ ०२।३६।२२ ॥
rathyāsu kuṭa-vrajāḥ sahasram tiṣṭheyuḥ . catuṣpatha-dvāra-rāja-parigraheṣu ca .. 02.36.22 ..
प्रदीप्तं अनभिधावतो गृह-स्वामिनो द्वादश-पणो दण्डः । षट्-पणोअवक्रयिणः ॥ ०२.३६.२३ ॥
प्रदीप्तम् अन् अभिधावतः गृह-स्वामिनः द्वादश-पणः दण्डः । षट् पणः-अवक्रयिणः ॥ ०२।३६।२३ ॥
pradīptam an abhidhāvataḥ gṛha-svāminaḥ dvādaśa-paṇaḥ daṇḍaḥ . ṣaṭ paṇaḥ-avakrayiṇaḥ .. 02.36.23 ..
प्रमादाद्दीप्तेषु चतुष्-पञ्चाशत्-पणो दण्डः ॥ ०२.३६.२४ ॥
प्रमादात् दीप्तेषु चतुष्पञ्चाशत्-पणः दण्डः ॥ ०२।३६।२४ ॥
pramādāt dīpteṣu catuṣpañcāśat-paṇaḥ daṇḍaḥ .. 02.36.24 ..
प्रदीपिकोअग्निना वध्यः ॥ ०२.३६.२५ ॥
प्रदीपिकः अग्निना वध्यः ॥ ०२।३६।२५ ॥
pradīpikaḥ agninā vadhyaḥ .. 02.36.25 ..
पांसु-न्यासे रथ्यायां अष्ट-भागो दण्डः । पङ्क-उदक-सम्निरोधे पादः ॥ ०२.३६.२६ ॥
पांसु-न्यासे रथ्यायाम् अष्ट-भागः दण्डः । पङ्क-उदक-सम्निरोधे पादः ॥ ०२।३६।२६ ॥
pāṃsu-nyāse rathyāyām aṣṭa-bhāgaḥ daṇḍaḥ . paṅka-udaka-samnirodhe pādaḥ .. 02.36.26 ..
राज-मार्गे द्वि-गुणः ॥ ०२.३६.२७ ॥
राज-मार्गे द्वि-गुणः ॥ ०२।३६।२७ ॥
rāja-mārge dvi-guṇaḥ .. 02.36.27 ..
पण्य-स्थान-उदक-स्थान-देव-गृह-राज-परिग्रहेषु पण-उत्तरा विष्टा-दण्डाः । मूत्रेष्वर्ध-दण्डाः ॥ ०२.३६.२८ ॥
पण्य-स्थान-उदक-स्थान-देव-गृह-राज-परिग्रहेषु पण-उत्तराः विष्टा-दण्डाः । मूत्रेषु अर्ध-दण्डाः ॥ ०२।३६।२८ ॥
paṇya-sthāna-udaka-sthāna-deva-gṛha-rāja-parigraheṣu paṇa-uttarāḥ viṣṭā-daṇḍāḥ . mūtreṣu ardha-daṇḍāḥ .. 02.36.28 ..
भैषज्य-व्याधि-भय-निमित्तं अदण्ड्याः ॥ ०२.३६.२९ ॥
भैषज्य-व्याधि-भय-निमित्तम् अ दण्ड्याः ॥ ०२।३६।२९ ॥
bhaiṣajya-vyādhi-bhaya-nimittam a daṇḍyāḥ .. 02.36.29 ..
मार्जार-श्व-नकुल-सर्प-प्रेतानां नगरस्य-अन्तर्-उत्सर्गे त्रि-पणो दण्डः । खर-उष्ट्र-अश्वतर-अश्व-प्रेतानां षट्-पणः । मनुष्य-प्रेतानां पञ्चाशत्-पणः ॥ ०२.३६.३० ॥
मार्जार-श्व-नकुल-सर्प-प्रेतानाम् नगरस्य अन्तर् उत्सर्गे त्रि-पणः दण्डः । खर-उष्ट्र-अश्वतर-अश्व-प्रेतानाम् षष्-पणः । मनुष्य-प्रेतानाम् पञ्चाशत्-पणः ॥ ०२।३६।३० ॥
mārjāra-śva-nakula-sarpa-pretānām nagarasya antar utsarge tri-paṇaḥ daṇḍaḥ . khara-uṣṭra-aśvatara-aśva-pretānām ṣaṣ-paṇaḥ . manuṣya-pretānām pañcāśat-paṇaḥ .. 02.36.30 ..
मार्ग-विपर्यासे शव-द्वारादन्यतश्च शव-निर्णयने पूर्वः साहस-दण्डः ॥ ०२.३६.३१ ॥
मार्ग-विपर्यासे शव-द्वारात् अन्यतस् च शव-निर्णयने पूर्वः साहस-दण्डः ॥ ०२।३६।३१ ॥
mārga-viparyāse śava-dvārāt anyatas ca śava-nirṇayane pūrvaḥ sāhasa-daṇḍaḥ .. 02.36.31 ..
द्वाः-स्थानां द्विशतं ॥ ०२.३६.३२ ॥
द्वाः-स्थानाम् द्विशतम् ॥ ०२।३६।३२ ॥
dvāḥ-sthānām dviśatam .. 02.36.32 ..
श्मशानादन्यत्र न्यासे दहने च द्वादश-पणो दण्डः ॥ ०२.३६.३३ ॥
श्मशानात् अन्यत्र न्यासे दहने च द्वादश-पणः दण्डः ॥ ०२।३६।३३ ॥
śmaśānāt anyatra nyāse dahane ca dvādaśa-paṇaḥ daṇḍaḥ .. 02.36.33 ..
विषण्ण-अलिकं उभयतोरात्रं याम-तूर्यं ॥ ०२.३६.३४ ॥
विषण्ण-अलिकम् उभयतोरात्रम् याम-तूर्यम् ॥ ०२।३६।३४ ॥
viṣaṇṇa-alikam ubhayatorātram yāma-tūryam .. 02.36.34 ..
तूर्य-शब्दे राज्ञो गृह-अभ्याशे स-पाद-पणं-अक्षण-ताडनं प्रथम-पश्चिम-यामिकम् । मध्यम-यामिकं द्वि-गुणम् । अन्तश्-चतुर्-गुणं ॥ ०२.३६.३५ ॥
तूर्य-शब्दे राज्ञः गृह-अभ्याशे स पाद-पणम् अक्षण-ताडनम् प्रथम-पश्चिम-यामिकम् । मध्यम-यामिकम् द्वि-गुणम् । अन्तर् चतुर्-गुणम् ॥ ०२।३६।३५ ॥
tūrya-śabde rājñaḥ gṛha-abhyāśe sa pāda-paṇam akṣaṇa-tāḍanam prathama-paścima-yāmikam . madhyama-yāmikam dvi-guṇam . antar catur-guṇam .. 02.36.35 ..
शङ्कनीये देशे लिङ्गे पूर्व-अपदाने च गृहीतं अनुयुञ्जीत ॥ ०२.३६.३६ ॥
शङ्कनीये देशे लिङ्गे पूर्व-अपदाने च गृहीतम् अनुयुञ्जीत ॥ ०२।३६।३६ ॥
śaṅkanīye deśe liṅge pūrva-apadāne ca gṛhītam anuyuñjīta .. 02.36.36 ..
राज-परिग्रह-उपगमने नगर-रक्षा-आरोहणे च मध्यमः साहस-दण्डः ॥ ०२.३६.३७ ॥
राज-परिग्रह-उपगमने नगर-रक्षा-आरोहणे च मध्यमः साहस-दण्डः ॥ ०२।३६।३७ ॥
rāja-parigraha-upagamane nagara-rakṣā-ārohaṇe ca madhyamaḥ sāhasa-daṇḍaḥ .. 02.36.37 ..
सूतिका-चिकित्सक-प्रेत-प्रदीप-यान-नागरिक-तूर्य-प्रेक्षा-अग्नि-निमित्तं मुद्राभिश्चाग्राह्याः ॥ ०२.३६.३८ ॥
सूतिका-चिकित्सक-प्रेत-प्रदीप-यान-नागरिक-तूर्य-प्रेक्षा-अग्नि-निमित्तम् मुद्राभिः च अ ग्राह्याः ॥ ०२।३६।३८ ॥
sūtikā-cikitsaka-preta-pradīpa-yāna-nāgarika-tūrya-prekṣā-agni-nimittam mudrābhiḥ ca a grāhyāḥ .. 02.36.38 ..
चार-रात्रिषु प्रच्छन्न-विपरीत-वेषाः प्रव्रजिता दण्ड-शस्त्र-हस्ताश्च मनुष्या दोषतो दण्ड्याः ॥ ०२.३६.३९ ॥
चार-रात्रिषु प्रच्छन्न-विपरीत-वेषाः प्रव्रजिताः दण्ड-शस्त्र-हस्ताः च मनुष्याः दोषतः दण्ड्याः ॥ ०२।३६।३९ ॥
cāra-rātriṣu pracchanna-viparīta-veṣāḥ pravrajitāḥ daṇḍa-śastra-hastāḥ ca manuṣyāḥ doṣataḥ daṇḍyāḥ .. 02.36.39 ..
रक्षिणां अवार्यं वारयतां वार्यं चऽवारयतां क्षण-द्वि-गुणो दण्डः ॥ ०२.३६.४० ॥
रक्षिणाम् अ वार्यम् वारयताम् वार्यम् च अ वारयताम् क्षण-द्वि-गुणः दण्डः ॥ ०२।३६।४० ॥
rakṣiṇām a vāryam vārayatām vāryam ca a vārayatām kṣaṇa-dvi-guṇaḥ daṇḍaḥ .. 02.36.40 ..
स्त्रियं दासीं अधिमेहयतां पूर्वः साहस-दण्डः । अदासीं मध्यमः । कृत-अवरोधां उत्तमः । कुल-स्त्रियं वधः ॥ ०२.३६.४१ ॥
स्त्रियम् दासीम् अधिमेहयताम् पूर्वः साहस-दण्डः । अदासीम् मध्यमः । कृत-अवरोधाम् उत्तमः । कुल-स्त्रियम् वधः ॥ ०२।३६।४१ ॥
striyam dāsīm adhimehayatām pūrvaḥ sāhasa-daṇḍaḥ . adāsīm madhyamaḥ . kṛta-avarodhām uttamaḥ . kula-striyam vadhaḥ .. 02.36.41 ..
चेतन-अचेतनिकं रात्रि-दोषं अशंसतो नागरिकस्य दोष-अनुरूपो दण्डः । प्रमाद-स्थाने च ॥ ०२.३६.४२ ॥
चेतन-अचेतनिकम् रात्रि-दोषम् अ शंसतः नागरिकस्य दोष-अनुरूपः दण्डः । प्रमाद-स्थाने च ॥ ०२।३६।४२ ॥
cetana-acetanikam rātri-doṣam a śaṃsataḥ nāgarikasya doṣa-anurūpaḥ daṇḍaḥ . pramāda-sthāne ca .. 02.36.42 ..
नित्यं उदक-स्थान-मार्ग-भ्रमच्-छन्न-पथ-वप्र-प्राकार-रक्षा-अवेक्षणं नष्ट-प्रस्मृत-अपसृतानां च रक्षणं ॥ ०२.३६.४३ ॥
नित्यम् उदक-स्थान-मार्ग-भ्रमत्-छन्न-पथ-वप्र-प्राकार-रक्षा-अवेक्षणम् नष्ट-प्रस्मृत-अपसृतानाम् च रक्षणम् ॥ ०२।३६।४३ ॥
nityam udaka-sthāna-mārga-bhramat-channa-patha-vapra-prākāra-rakṣā-avekṣaṇam naṣṭa-prasmṛta-apasṛtānām ca rakṣaṇam .. 02.36.43 ..
बन्धन-अगारे च बाल-वृद्ध-व्याधित-अनाथानां जात-नक्षत्र-पौर्णमासीषु विसर्गः ॥ ०२.३६.४४ ॥
बन्धन-अगारे च बाल-वृद्ध-व्याधित-अनाथानाम् जात-नक्षत्र-पौर्णमासीषु विसर्गः ॥ ०२।३६।४४ ॥
bandhana-agāre ca bāla-vṛddha-vyādhita-anāthānām jāta-nakṣatra-paurṇamāsīṣu visargaḥ .. 02.36.44 ..
पण्य-शीलाः समय-अनुबद्धा वा दोष-निष्क्रयं दद्युः ॥ ०२.३६.४५ ॥
पण्य-शीलाः समय-अनुबद्धाः वा दोष-निष्क्रयम् दद्युः ॥ ०२।३६।४५ ॥
paṇya-śīlāḥ samaya-anubaddhāḥ vā doṣa-niṣkrayam dadyuḥ .. 02.36.45 ..
दिवसे पञ्च-रात्रे वा बन्धनस्थान्विशोधयेत् । ॥ ०२.३६.४६अ ब ॥
दिवसे पञ्च-रात्रे वा बन्धन-स्थान् विशोधयेत् । ॥ ०२।३६।४६अ ब ॥
divase pañca-rātre vā bandhana-sthān viśodhayet . .. 02.36.46a ba ..
कर्मणा काय-दण्डेन हिरण्य-अनुग्रहेण वा ॥ ०२.३६.४६च्द् ॥
कर्मणा काय-दण्डेन हिरण्य-अनुग्रहेण वा ॥ ०२।३६।४६च् ॥
karmaṇā kāya-daṇḍena hiraṇya-anugraheṇa vā .. 02.36.46c ..
अपूर्व-देश-अधिगमे युव-राज-अभिषेचने । ॥ ०२.३६.४७अ ब ॥
अपूर्व-देश-अधिगमे युव-राज-अभिषेचने । ॥ ०२।३६।४७अ ब ॥
apūrva-deśa-adhigame yuva-rāja-abhiṣecane . .. 02.36.47a ba ..
पुत्र-जन्मनि वा मोक्षो बन्धनस्य विधीयते ॥ ०२.३६.४७च्द् ॥
पुत्र-जन्मनि वा मोक्षः बन्धनस्य विधीयते ॥ ०२।३६।४७च् ॥
putra-janmani vā mokṣaḥ bandhanasya vidhīyate .. 02.36.47c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In