| |
|

This overlay will guide you through the buttons:

समाहर्तृवन्नागरिको नगरं चिन्तयेत् ॥ ०२.३६.०१ ॥
samāhartṛvannāgariko nagaraṃ cintayet .. 02.36.01 ..
दश-कुलीं गोपो विंशति-कुलीं चत्वारिंशत्-कुलीं वा ॥ ०२.३६.०२ ॥
daśa-kulīṃ gopo viṃśati-kulīṃ catvāriṃśat-kulīṃ vā .. 02.36.02 ..
स तस्यां स्त्री-पुरुषाणां जाति-गोत्र-नाम-कर्मभिः जङ्घ-अग्रं आय-व्ययौ च विद्यात् ॥ ०२.३६.०३ ॥
sa tasyāṃ strī-puruṣāṇāṃ jāti-gotra-nāma-karmabhiḥ jaṅgha-agraṃ āya-vyayau ca vidyāt .. 02.36.03 ..
एवं दुर्ग-चतुर्-भागं स्थानिकश्चिन्तयेत् ॥ ०२.३६.०४ ॥
evaṃ durga-catur-bhāgaṃ sthānikaścintayet .. 02.36.04 ..
धर्म-आवसथिनः पाषण्डि-पथिकानावेद्य वासयेयुः । स्व-प्रत्ययाश्च तपस्विनः श्रोत्रियांश्च ॥ ०२.३६.०५ ॥
dharma-āvasathinaḥ pāṣaṇḍi-pathikānāvedya vāsayeyuḥ . sva-pratyayāśca tapasvinaḥ śrotriyāṃśca .. 02.36.05 ..
कारु-शिल्पिनः स्व-कर्म-स्थानेषु स्व-जनं वासयेयुः । वैदेहकाश्चान्योन्यं स्व-कर्म-स्थानेषु ॥ ०२.३६.०६ ॥
kāru-śilpinaḥ sva-karma-sthāneṣu sva-janaṃ vāsayeyuḥ . vaidehakāścānyonyaṃ sva-karma-sthāneṣu .. 02.36.06 ..
पण्यानां अदेश-काल-विक्रेतारं अस्वकरणं च निवेदयेयुः ॥ ०२.३६.०७ ॥
paṇyānāṃ adeśa-kāla-vikretāraṃ asvakaraṇaṃ ca nivedayeyuḥ .. 02.36.07 ..
शौण्डिक-पाक्व-मांसिक-औदनिक-रूप-आजीवाः परिज्ञातं आवासयेयुः ॥ ०२.३६.०८ ॥
śauṇḍika-pākva-māṃsika-audanika-rūpa-ājīvāḥ parijñātaṃ āvāsayeyuḥ .. 02.36.08 ..
अतिव्यय-कर्तारं अत्याहित-कर्माणं च निवेदयेयुः ॥ ०२.३६.०९ ॥
ativyaya-kartāraṃ atyāhita-karmāṇaṃ ca nivedayeyuḥ .. 02.36.09 ..
चिकित्सकः प्रच्छन्न-व्रण-प्रतीकार-कारयितारं अपथ्य-कारिणं च गृह-स्वामी च निवेद्य गोप-स्थानिकयोर्मुच्येत । अन्यथा तुल्य-दोषः स्यात् ॥ ०२.३६.१० ॥
cikitsakaḥ pracchanna-vraṇa-pratīkāra-kārayitāraṃ apathya-kāriṇaṃ ca gṛha-svāmī ca nivedya gopa-sthānikayormucyeta . anyathā tulya-doṣaḥ syāt .. 02.36.10 ..
प्रस्थित-आगतौ च निवेदयेत् । अन्यथा रात्रि-दोषं भजेत ॥ ०२.३६.११ ॥
prasthita-āgatau ca nivedayet . anyathā rātri-doṣaṃ bhajeta .. 02.36.11 ..
क्षेम-रात्रिषु त्रि-पणं दद्यात् ॥ ०२.३६.१२ ॥
kṣema-rātriṣu tri-paṇaṃ dadyāt .. 02.36.12 ..
पथिक-उत्पथिकाश्च बहिर्-अन्तश्च नगरस्य देव-गृह-पुण्य-स्थान-वन-श्मशानेषु सव्रणं अनिष्ट-उपकरणं उद्भाण्डी-कृतं आविग्नं अतिस्वप्नं अध्व-क्लान्तं अपूर्वं वा गृह्णीयुः ॥ ०२.३६.१३ ॥
pathika-utpathikāśca bahir-antaśca nagarasya deva-gṛha-puṇya-sthāna-vana-śmaśāneṣu savraṇaṃ aniṣṭa-upakaraṇaṃ udbhāṇḍī-kṛtaṃ āvignaṃ atisvapnaṃ adhva-klāntaṃ apūrvaṃ vā gṛhṇīyuḥ .. 02.36.13 ..
एवं अभ्यन्तरे शून्य-निवेश-आवेशन-शौण्डिक-औदनिक-पाक्व-मांसिक-द्यूत-पाषण्ड-आवासेषु विचयं कुर्युः ॥ ०२.३६.१४ ॥
evaṃ abhyantare śūnya-niveśa-āveśana-śauṇḍika-audanika-pākva-māṃsika-dyūta-pāṣaṇḍa-āvāseṣu vicayaṃ kuryuḥ .. 02.36.14 ..
अग्नि-प्रतीकारं च ग्रीष्मे ॥ ०२.३६.१५ ॥
agni-pratīkāraṃ ca grīṣme .. 02.36.15 ..
मध्यमयोरह्नश्चतुर्-भागयोरष्ट-भागोअग्नि-दण्डः ॥ ०२.३६.१६ ॥
madhyamayorahnaścatur-bhāgayoraṣṭa-bhāgoagni-daṇḍaḥ .. 02.36.16 ..
बहिर्-अधिश्रयणं वा कुर्युः ॥ ०२.३६.१७ ॥
bahir-adhiśrayaṇaṃ vā kuryuḥ .. 02.36.17 ..
पादः पञ्च-घटीनां कुम्भ-द्रोणि-निह्श्रेणी-परशु-शूर्प-अङ्कुश-कच-ग्रहणी-दृतीनां चाकरणे ॥ ०२.३६.१८ ॥
pādaḥ pañca-ghaṭīnāṃ kumbha-droṇi-nihśreṇī-paraśu-śūrpa-aṅkuśa-kaca-grahaṇī-dṛtīnāṃ cākaraṇe .. 02.36.18 ..
तृण-कटच्-छन्नान्यपनयेत् ॥ ०२.३६.१९ ॥
tṛṇa-kaṭac-channānyapanayet .. 02.36.19 ..
अग्नि-जीविन एकस्थान्वासयेत् ॥ ०२.३६.२० ॥
agni-jīvina ekasthānvāsayet .. 02.36.20 ..
स्व-गृह-प्रद्वारेषु गृह-स्वामिनो वसेयुः असम्पातिनो रात्रौ ॥ ०२.३६.२१ ॥
sva-gṛha-pradvāreṣu gṛha-svāmino vaseyuḥ asampātino rātrau .. 02.36.21 ..
रथ्यासु कुट-व्रजाः सहस्रं तिष्ठेयुः । चतुष्पथ-द्वार-राज-परिग्रहेषु च ॥ ०२.३६.२२ ॥
rathyāsu kuṭa-vrajāḥ sahasraṃ tiṣṭheyuḥ . catuṣpatha-dvāra-rāja-parigraheṣu ca .. 02.36.22 ..
प्रदीप्तं अनभिधावतो गृह-स्वामिनो द्वादश-पणो दण्डः । षट्-पणोअवक्रयिणः ॥ ०२.३६.२३ ॥
pradīptaṃ anabhidhāvato gṛha-svāmino dvādaśa-paṇo daṇḍaḥ . ṣaṭ-paṇoavakrayiṇaḥ .. 02.36.23 ..
प्रमादाद्दीप्तेषु चतुष्-पञ्चाशत्-पणो दण्डः ॥ ०२.३६.२४ ॥
pramādāddīpteṣu catuṣ-pañcāśat-paṇo daṇḍaḥ .. 02.36.24 ..
प्रदीपिकोअग्निना वध्यः ॥ ०२.३६.२५ ॥
pradīpikoagninā vadhyaḥ .. 02.36.25 ..
पांसु-न्यासे रथ्यायां अष्ट-भागो दण्डः । पङ्क-उदक-सम्निरोधे पादः ॥ ०२.३६.२६ ॥
pāṃsu-nyāse rathyāyāṃ aṣṭa-bhāgo daṇḍaḥ . paṅka-udaka-samnirodhe pādaḥ .. 02.36.26 ..
राज-मार्गे द्वि-गुणः ॥ ०२.३६.२७ ॥
rāja-mārge dvi-guṇaḥ .. 02.36.27 ..
पण्य-स्थान-उदक-स्थान-देव-गृह-राज-परिग्रहेषु पण-उत्तरा विष्टा-दण्डाः । मूत्रेष्वर्ध-दण्डाः ॥ ०२.३६.२८ ॥
paṇya-sthāna-udaka-sthāna-deva-gṛha-rāja-parigraheṣu paṇa-uttarā viṣṭā-daṇḍāḥ . mūtreṣvardha-daṇḍāḥ .. 02.36.28 ..
भैषज्य-व्याधि-भय-निमित्तं अदण्ड्याः ॥ ०२.३६.२९ ॥
bhaiṣajya-vyādhi-bhaya-nimittaṃ adaṇḍyāḥ .. 02.36.29 ..
मार्जार-श्व-नकुल-सर्प-प्रेतानां नगरस्य-अन्तर्-उत्सर्गे त्रि-पणो दण्डः । खर-उष्ट्र-अश्वतर-अश्व-प्रेतानां षट्-पणः । मनुष्य-प्रेतानां पञ्चाशत्-पणः ॥ ०२.३६.३० ॥
mārjāra-śva-nakula-sarpa-pretānāṃ nagarasya-antar-utsarge tri-paṇo daṇḍaḥ . khara-uṣṭra-aśvatara-aśva-pretānāṃ ṣaṭ-paṇaḥ . manuṣya-pretānāṃ pañcāśat-paṇaḥ .. 02.36.30 ..
मार्ग-विपर्यासे शव-द्वारादन्यतश्च शव-निर्णयने पूर्वः साहस-दण्डः ॥ ०२.३६.३१ ॥
mārga-viparyāse śava-dvārādanyataśca śava-nirṇayane pūrvaḥ sāhasa-daṇḍaḥ .. 02.36.31 ..
द्वाः-स्थानां द्विशतं ॥ ०२.३६.३२ ॥
dvāḥ-sthānāṃ dviśataṃ .. 02.36.32 ..
श्मशानादन्यत्र न्यासे दहने च द्वादश-पणो दण्डः ॥ ०२.३६.३३ ॥
śmaśānādanyatra nyāse dahane ca dvādaśa-paṇo daṇḍaḥ .. 02.36.33 ..
विषण्ण-अलिकं उभयतोरात्रं याम-तूर्यं ॥ ०२.३६.३४ ॥
viṣaṇṇa-alikaṃ ubhayatorātraṃ yāma-tūryaṃ .. 02.36.34 ..
तूर्य-शब्दे राज्ञो गृह-अभ्याशे स-पाद-पणं-अक्षण-ताडनं प्रथम-पश्चिम-यामिकम् । मध्यम-यामिकं द्वि-गुणम् । अन्तश्-चतुर्-गुणं ॥ ०२.३६.३५ ॥
tūrya-śabde rājño gṛha-abhyāśe sa-pāda-paṇaṃ-akṣaṇa-tāḍanaṃ prathama-paścima-yāmikam . madhyama-yāmikaṃ dvi-guṇam . antaś-catur-guṇaṃ .. 02.36.35 ..
शङ्कनीये देशे लिङ्गे पूर्व-अपदाने च गृहीतं अनुयुञ्जीत ॥ ०२.३६.३६ ॥
śaṅkanīye deśe liṅge pūrva-apadāne ca gṛhītaṃ anuyuñjīta .. 02.36.36 ..
राज-परिग्रह-उपगमने नगर-रक्षा-आरोहणे च मध्यमः साहस-दण्डः ॥ ०२.३६.३७ ॥
rāja-parigraha-upagamane nagara-rakṣā-ārohaṇe ca madhyamaḥ sāhasa-daṇḍaḥ .. 02.36.37 ..
सूतिका-चिकित्सक-प्रेत-प्रदीप-यान-नागरिक-तूर्य-प्रेक्षा-अग्नि-निमित्तं मुद्राभिश्चाग्राह्याः ॥ ०२.३६.३८ ॥
sūtikā-cikitsaka-preta-pradīpa-yāna-nāgarika-tūrya-prekṣā-agni-nimittaṃ mudrābhiścāgrāhyāḥ .. 02.36.38 ..
चार-रात्रिषु प्रच्छन्न-विपरीत-वेषाः प्रव्रजिता दण्ड-शस्त्र-हस्ताश्च मनुष्या दोषतो दण्ड्याः ॥ ०२.३६.३९ ॥
cāra-rātriṣu pracchanna-viparīta-veṣāḥ pravrajitā daṇḍa-śastra-hastāśca manuṣyā doṣato daṇḍyāḥ .. 02.36.39 ..
रक्षिणां अवार्यं वारयतां वार्यं चऽवारयतां क्षण-द्वि-गुणो दण्डः ॥ ०२.३६.४० ॥
rakṣiṇāṃ avāryaṃ vārayatāṃ vāryaṃ ca'vārayatāṃ kṣaṇa-dvi-guṇo daṇḍaḥ .. 02.36.40 ..
स्त्रियं दासीं अधिमेहयतां पूर्वः साहस-दण्डः । अदासीं मध्यमः । कृत-अवरोधां उत्तमः । कुल-स्त्रियं वधः ॥ ०२.३६.४१ ॥
striyaṃ dāsīṃ adhimehayatāṃ pūrvaḥ sāhasa-daṇḍaḥ . adāsīṃ madhyamaḥ . kṛta-avarodhāṃ uttamaḥ . kula-striyaṃ vadhaḥ .. 02.36.41 ..
चेतन-अचेतनिकं रात्रि-दोषं अशंसतो नागरिकस्य दोष-अनुरूपो दण्डः । प्रमाद-स्थाने च ॥ ०२.३६.४२ ॥
cetana-acetanikaṃ rātri-doṣaṃ aśaṃsato nāgarikasya doṣa-anurūpo daṇḍaḥ . pramāda-sthāne ca .. 02.36.42 ..
नित्यं उदक-स्थान-मार्ग-भ्रमच्-छन्न-पथ-वप्र-प्राकार-रक्षा-अवेक्षणं नष्ट-प्रस्मृत-अपसृतानां च रक्षणं ॥ ०२.३६.४३ ॥
nityaṃ udaka-sthāna-mārga-bhramac-channa-patha-vapra-prākāra-rakṣā-avekṣaṇaṃ naṣṭa-prasmṛta-apasṛtānāṃ ca rakṣaṇaṃ .. 02.36.43 ..
बन्धन-अगारे च बाल-वृद्ध-व्याधित-अनाथानां जात-नक्षत्र-पौर्णमासीषु विसर्गः ॥ ०२.३६.४४ ॥
bandhana-agāre ca bāla-vṛddha-vyādhita-anāthānāṃ jāta-nakṣatra-paurṇamāsīṣu visargaḥ .. 02.36.44 ..
पण्य-शीलाः समय-अनुबद्धा वा दोष-निष्क्रयं दद्युः ॥ ०२.३६.४५ ॥
paṇya-śīlāḥ samaya-anubaddhā vā doṣa-niṣkrayaṃ dadyuḥ .. 02.36.45 ..
दिवसे पञ्च-रात्रे वा बन्धनस्थान्विशोधयेत् । ॥ ०२.३६.४६अ ब ॥
divase pañca-rātre vā bandhanasthānviśodhayet . .. 02.36.46a ba ..
कर्मणा काय-दण्डेन हिरण्य-अनुग्रहेण वा ॥ ०२.३६.४६च्द् ॥
karmaṇā kāya-daṇḍena hiraṇya-anugraheṇa vā .. 02.36.46cd ..
अपूर्व-देश-अधिगमे युव-राज-अभिषेचने । ॥ ०२.३६.४७अ ब ॥
apūrva-deśa-adhigame yuva-rāja-abhiṣecane . .. 02.36.47a ba ..
पुत्र-जन्मनि वा मोक्षो बन्धनस्य विधीयते ॥ ०२.३६.४७च्द् ॥
putra-janmani vā mokṣo bandhanasya vidhīyate .. 02.36.47cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In