| |
|

This overlay will guide you through the buttons:

त्रयः प्राचीना राज-मार्गास्त्रय उदीचीना इति वास्तु-विभागः ॥ ०२.४.०१ ॥
त्रयः प्राचीनाः राज-मार्गाः त्रयः उदीचीनाः इति वास्तु-विभागः ॥ ०२।४।०१ ॥
trayaḥ prācīnāḥ rāja-mārgāḥ trayaḥ udīcīnāḥ iti vāstu-vibhāgaḥ .. 02.4.01 ..
स द्वादश-द्वारो युक्त-उदक-भ्रमच्-छन्न-पथः ॥ ०२.४.०२ ॥
स द्वादश-द्वारः युक्त-उदक-भ्रमत्-छन्न-पथः ॥ ०२।४।०२ ॥
sa dvādaśa-dvāraḥ yukta-udaka-bhramat-channa-pathaḥ .. 02.4.02 ..
चतुर्-दण्ड-अन्तरा रथ्याः ॥ ०२.४.०३ ॥
चतुर्-दण्ड-अन्तरा रथ्याः ॥ ०२।४।०३ ॥
catur-daṇḍa-antarā rathyāḥ .. 02.4.03 ..
राज-मार्ग-द्रोण-मुख-स्थानीय-राष्ट्र-विवीत-पथाः सम्यानीय-व्यूह-श्मशान-ग्राम-पथाश्चाष्ट-दण्डाः ॥ ०२.४.०४ ॥
राज-मार्ग-द्रोण-मुख-स्थानीय-राष्ट्र-विवीत-पथाः सम्यानीय-व्यूह-श्मशान-ग्राम-पथाः च अष्ट-दण्डाः ॥ ०२।४।०४ ॥
rāja-mārga-droṇa-mukha-sthānīya-rāṣṭra-vivīta-pathāḥ samyānīya-vyūha-śmaśāna-grāma-pathāḥ ca aṣṭa-daṇḍāḥ .. 02.4.04 ..
चतुर्-दण्डः सेतु-वन-पथः । द्वि-दण्डो हस्ति-क्षेत्र-पथः । पञ्च-अरत्नयो रथ-पथः । चत्वारः पशु-पथः । द्वौ क्षुद्र-पशु-मनुष्य-पथः ॥ ०२.४.०५ ॥
चतुर्-दण्डः सेतु-वन-पथः । द्वि-दण्डः हस्ति-क्षेत्र-पथः । पञ्च-अरत्नयोः रथ-पथः । चत्वारः पशु-पथः । द्वौ क्षुद्र-पशु-मनुष्य-पथः ॥ ०२।४।०५ ॥
catur-daṇḍaḥ setu-vana-pathaḥ . dvi-daṇḍaḥ hasti-kṣetra-pathaḥ . pañca-aratnayoḥ ratha-pathaḥ . catvāraḥ paśu-pathaḥ . dvau kṣudra-paśu-manuṣya-pathaḥ .. 02.4.05 ..
प्रवीरे वास्तुनि राज-निवेशश्चातुर्वर्ण्य-समाजीवे ॥ ०२.४.०६ ॥
प्रवीरे वास्तुनि राज-निवेशः चातुर्वर्ण्य-समाजीवे ॥ ०२।४।०६ ॥
pravīre vāstuni rāja-niveśaḥ cāturvarṇya-samājīve .. 02.4.06 ..
वास्तु-हृदयादुत्तरे नव-भागे यथा-उक्त-विधानं अन्तःपुरं प्रान्-मुखं उदन्-मुखं वा कारयेत् ॥ ०२.४.०७ ॥
वास्तु-हृदयात् उत्तरे नव-भागे यथा उक्त-विधानम् अन्तःपुरम् प्राच्-मुखम् उदक्-मुखम् वा कारयेत् ॥ ०२।४।०७ ॥
vāstu-hṛdayāt uttare nava-bhāge yathā ukta-vidhānam antaḥpuram prāc-mukham udak-mukham vā kārayet .. 02.4.07 ..
तस्य पूर्व-उत्तरं भागं आचार्य-पुरोहित-इज्या-तोय-स्थानं मन्त्रिणश्चऽवसेयुः । पूर्व-दक्षिणं भागं महानसं हस्ति-शाला कोष्ठ-अगारं च ॥ ०२.४.०८ ॥
तस्य पूर्व-उत्तरम् भागम् आचार्य-पुरोहित-इज्या-तोय-स्थानम् मन्त्रिणः च अवसेयुः । पूर्व-दक्षिणम् भागम् महानसम् हस्ति-शाला कोष्ठ-अगारम् च ॥ ०२।४।०८ ॥
tasya pūrva-uttaram bhāgam ācārya-purohita-ijyā-toya-sthānam mantriṇaḥ ca avaseyuḥ . pūrva-dakṣiṇam bhāgam mahānasam hasti-śālā koṣṭha-agāram ca .. 02.4.08 ..
ततः परं गन्ध-माल्य-रस-पण्याः प्रसाधन-कारवः क्षत्रियाश्च पूर्वां दिशं अधिवसेयुः ॥ ०२.४.०९ ॥
ततस् परम् गन्ध-माल्य-रस-पण्याः प्रसाधन-कारवः क्षत्रियाः च पूर्वाम् दिशम् अधिवसेयुः ॥ ०२।४।०९ ॥
tatas param gandha-mālya-rasa-paṇyāḥ prasādhana-kāravaḥ kṣatriyāḥ ca pūrvām diśam adhivaseyuḥ .. 02.4.09 ..
दक्षिण-पूर्वं भागं भाण्ड-अगारं अक्ष-पटलं कर्म-निषद्याश्च । दक्षिण-पश्चिमं भागं कुप्य-गृहं आयुध-अगारं च ॥ ०२.४.१० ॥
दक्षिण-पूर्वम् भागम् भाण्ड-अगारम् अक्ष-पटलम् कर्म-निषद्याः च । दक्षिण-पश्चिमम् भागम् कुप्य-गृहम् आयुध-अगारम् च ॥ ०२।४।१० ॥
dakṣiṇa-pūrvam bhāgam bhāṇḍa-agāram akṣa-paṭalam karma-niṣadyāḥ ca . dakṣiṇa-paścimam bhāgam kupya-gṛham āyudha-agāram ca .. 02.4.10 ..
ततः परं नगर-धान्य-व्यावहारिक-कार्मान्तिक-बल-अध्यक्षाः पक्व-अन्न-सुरा-मांस-पण्या रूपाजीवास्तालावचरा वैश्याश्च दक्षिणां दिशं अधिवसेयुः ॥ ०२.४.११ ॥
ततस् परम् नगर-धान्य-व्यावहारिक-कार्मान्तिक-बल-अध्यक्षाः पक्व-अन्न-सुरा-मांस-पण्याः रूपाजीवाः तालावचराः वैश्याः च दक्षिणाम् दिशम् अधिवसेयुः ॥ ०२।४।११ ॥
tatas param nagara-dhānya-vyāvahārika-kārmāntika-bala-adhyakṣāḥ pakva-anna-surā-māṃsa-paṇyāḥ rūpājīvāḥ tālāvacarāḥ vaiśyāḥ ca dakṣiṇām diśam adhivaseyuḥ .. 02.4.11 ..
पश्चिम-दक्षिणं भागं खर-उष्ट्र-गुप्ति-स्थानं कर्म-गृहं च । पश्चिम-उत्तरं भागं यान-रथ-शालाः ॥ ०२.४.१२ ॥
पश्चिम-दक्षिणम् भागम् खर-उष्ट्र-गुप्ति-स्थानम् कर्म-गृहम् च । पश्चिम-उत्तरम् भागम् यान-रथ-शालाः ॥ ०२।४।१२ ॥
paścima-dakṣiṇam bhāgam khara-uṣṭra-gupti-sthānam karma-gṛham ca . paścima-uttaram bhāgam yāna-ratha-śālāḥ .. 02.4.12 ..
ततः परं ऊर्णा-सूत्र-वेणु-चर्म-वर्म-शस्त्र-आवरण-कारवः शूद्राश्च पश्चिमां दिशं अधिवसेयुः ॥ ०२.४.१३ ॥
ततस् परम् ऊर्णा-सूत्र-वेणु-चर्म-वर्म-शस्त्र-आवरण-कारवः शूद्राः च पश्चिमाम् दिशम् अधिवसेयुः ॥ ०२।४।१३ ॥
tatas param ūrṇā-sūtra-veṇu-carma-varma-śastra-āvaraṇa-kāravaḥ śūdrāḥ ca paścimām diśam adhivaseyuḥ .. 02.4.13 ..
उत्तर-पश्चिमं भागं पण्य-भैषज्य-गृहम् । उत्तर-पूर्वं भागं कोशो गव-अश्वं च ॥ ०२.४.१४ ॥
उत्तर-पश्चिमम् भागम् पण्य-भैषज्य-गृहम् । उत्तर-पूर्वम् भागम् कोशः गव-अश्वम् च ॥ ०२।४।१४ ॥
uttara-paścimam bhāgam paṇya-bhaiṣajya-gṛham . uttara-pūrvam bhāgam kośaḥ gava-aśvam ca .. 02.4.14 ..
ततः परं नगर-राज-देवता-लोह-मणि-कारवो ब्राह्मणाश्चौत्तरां दिशं अधिवसेयुः ॥ ०२.४.१५ ॥
ततस् परम् नगर-राज-देवता-लोह-मणि-कारवः ब्राह्मणाः च औत्तराम् दिशम् अधिवसेयुः ॥ ०२।४।१५ ॥
tatas param nagara-rāja-devatā-loha-maṇi-kāravaḥ brāhmaṇāḥ ca auttarām diśam adhivaseyuḥ .. 02.4.15 ..
वास्तुच्-छिद्र-अनुशालेषु श्रेणी-प्रपणि-निकाया आवसेयुः ॥ ०२.४.१६ ॥
वास्तुच्-छिद्र-अनुशालेषु श्रेणी-प्रपणि-निकायाः आवसेयुः ॥ ०२।४।१६ ॥
vāstuc-chidra-anuśāleṣu śreṇī-prapaṇi-nikāyāḥ āvaseyuḥ .. 02.4.16 ..
अपर-अजित-अप्रतिहत-जयन्त-वैजयन्त-कोष्ठान्शिव-वैश्रवण-अश्वि-श्री-मदिरा-गृहाणि च पुर-मध्ये कारयेत् ॥ ०२.४.१७ ॥
अपर-अजित-अप्रतिहत-जयन्त-वैजयन्त-कोष्ठ-अन्शिव-वैश्रवण-अश्वि-श्री-मदिरा-गृहाणि च पुर-मध्ये कारयेत् ॥ ०२।४।१७ ॥
apara-ajita-apratihata-jayanta-vaijayanta-koṣṭha-anśiva-vaiśravaṇa-aśvi-śrī-madirā-gṛhāṇi ca pura-madhye kārayet .. 02.4.17 ..
यथा-उद्देशं वास्तु-देवताः स्थापयेत् ॥ ०२.४.१८ ॥
यथा उद्देशम् वास्तु-देवताः स्थापयेत् ॥ ०२।४।१८ ॥
yathā uddeśam vāstu-devatāḥ sthāpayet .. 02.4.18 ..
ब्राह्म-ऐन्द्र-याम्य-सैनापत्यानि द्वाराणि ॥ ०२.४.१९ ॥
ब्राह्म-ऐन्द्र-याम्य-सैनापत्यानि द्वाराणि ॥ ०२।४।१९ ॥
brāhma-aindra-yāmya-saināpatyāni dvārāṇi .. 02.4.19 ..
बहिः परिखाया धनुः-शत-अपकृष्टाश्चैत्य-पुण्य-स्थान-वन-सेतु-बन्धाः कार्याः । यथा-दिशं च दिग्-देवताः ॥ ०२.४.२० ॥
बहिस् परिखायाः धनुः-शत-अपकृष्टाः चैत्य-पुण्य-स्थान-वन-सेतु-बन्धाः कार्याः । यथा-दिशम् दिशम् च दिश्-देवताः ॥ ०२।४।२० ॥
bahis parikhāyāḥ dhanuḥ-śata-apakṛṣṭāḥ caitya-puṇya-sthāna-vana-setu-bandhāḥ kāryāḥ . yathā-diśam diśam ca diś-devatāḥ .. 02.4.20 ..
उत्तरः पूर्वो वा श्मशान-भागो वर्ण-उत्तमानाम् । दक्षिणेन श्मशानं वर्ण-अवराणां ॥ ०२.४.२१ ॥
उत्तरः पूर्वः वा श्मशान-भागः वर्ण-उत्तमानाम् । दक्षिणेन श्मशानम् वर्ण-अवराणाम् ॥ ०२।४।२१ ॥
uttaraḥ pūrvaḥ vā śmaśāna-bhāgaḥ varṇa-uttamānām . dakṣiṇena śmaśānam varṇa-avarāṇām .. 02.4.21 ..
तस्यातिक्रमे पूर्वः साहस-दण्डः ॥ ०२.४.२२ ॥
तस्य अतिक्रमे पूर्वः साहस-दण्डः ॥ ०२।४।२२ ॥
tasya atikrame pūrvaḥ sāhasa-daṇḍaḥ .. 02.4.22 ..
पाषण्ड-चण्डालानां श्मशान-अन्ते वासः ॥ ०२.४.२३ ॥
पाषण्ड-चण्डालानाम् श्मशान-अन्ते वासः ॥ ०२।४।२३ ॥
pāṣaṇḍa-caṇḍālānām śmaśāna-ante vāsaḥ .. 02.4.23 ..
कर्म-अन्त-क्षेत्र-वशेन कुटुम्बिनां सीमानं स्थापयेत् ॥ ०२.४.२४ ॥
कर्म-अन्त-क्षेत्र-वशेन कुटुम्बिनाम् सीमानम् स्थापयेत् ॥ ०२।४।२४ ॥
karma-anta-kṣetra-vaśena kuṭumbinām sīmānam sthāpayet .. 02.4.24 ..
तेषु पुष्प-फल-वाटान्धान्य-पण्य-निचयांश्चानुज्ञाताः कुर्युः ॥ ०२.४.२५ ॥
तेषु पुष्प-फल-वाटान् धान्य-पण्य-निचयान् च अनुज्ञाताः कुर्युः ॥ ०२।४।२५ ॥
teṣu puṣpa-phala-vāṭān dhānya-paṇya-nicayān ca anujñātāḥ kuryuḥ .. 02.4.25 ..
दश-कुली-वाटं कूप-स्थानं ॥ ०२.४.२६ ॥
दश-कुली-वाटम् कूप-स्थानम् ॥ ०२।४।२६ ॥
daśa-kulī-vāṭam kūpa-sthānam .. 02.4.26 ..
सर्व-स्नेह-धान्य-क्षार-लवण-गन्ध-भैषज्य-शुष्क-शाक-यवस-वल्लूर-तृण-काष्ठ-लोह-चर्म-अङ्गार-स्नायु-विष-विषाण-वेणु-वल्कल-सार-दारु-प्रहरण-आवरण-अश्म-निचयाननेक-वर्ष-उपभोग-सहान्कारयेत् ॥ ०२.४.२७ ॥
स र व स न ए ह ध न य क ष र लवण-गन्ध-भैषज्य-शुष्क-शाक-यवस-वल्लूर-तृण-काष्ठ-लोह-चर्म-अङ्गार-स्नायु-विष-विषाण-वेणु-वल्कल-सार-दारु-प्रहरण-आवरण-अश्म-निचयान् अनेक-वर्ष-उपभोग- ॥ ०२।४।२७ ॥
sa ra va sa na e ha dha na ya ka ṣa ra lavaṇa-gandha-bhaiṣajya-śuṣka-śāka-yavasa-vallūra-tṛṇa-kāṣṭha-loha-carma-aṅgāra-snāyu-viṣa-viṣāṇa-veṇu-valkala-sāra-dāru-praharaṇa-āvaraṇa-aśma-nicayān aneka-varṣa-upabhoga- .. 02.4.27 ..
नवेनानवं शोधयेत् ॥ ०२.४.२८ ॥
नवेन अनवम् शोधयेत् ॥ ०२।४।२८ ॥
navena anavam śodhayet .. 02.4.28 ..
हस्ति-अश्व-रथ-पादातं अनेक-मुख्यं अवस्थापयेत् ॥ ०२.४.२९ ॥
हस्ति-अश्व-रथ-पादातम् अनेक-मुख्यम् अवस्थापयेत् ॥ ०२।४।२९ ॥
hasti-aśva-ratha-pādātam aneka-mukhyam avasthāpayet .. 02.4.29 ..
अनेक-मुख्यं हि परस्पर-भयात्पर-उपजापं नौपैति ॥ ०२.४.३० ॥
अनेक-मुख्यम् हि परस्पर-भयात् पर-उपजापम् न उपैति ॥ ०२।४।३० ॥
aneka-mukhyam hi paraspara-bhayāt para-upajāpam na upaiti .. 02.4.30 ..
एतेनान्त-पाल-दुर्ग-संस्कारा व्याख्याताः ॥ ०२.४.३१ ॥
एतेन अन्त-पाल-दुर्ग-संस्काराः व्याख्याताः ॥ ०२।४।३१ ॥
etena anta-pāla-durga-saṃskārāḥ vyākhyātāḥ .. 02.4.31 ..
न च बाहिरिकान्कुर्यात्पुरे राष्ट्र-उपघातकान् । ॥ ०२.४.३२अ ब ॥
न च बाहिरिकान् कुर्यात् पुरे राष्ट्र-उपघातकान् । ॥ ०२।४।३२अ ब ॥
na ca bāhirikān kuryāt pure rāṣṭra-upaghātakān . .. 02.4.32a ba ..
क्षिपेज्जन-पदे चएतान्सर्वान्वा दापयेत्करान् ॥ ०२.४.३२च्द् ॥
क्षिपेत् जन-पदे च एतान् सर्वान् वा दापयेत् करान् ॥ ०२।४।३२च् ॥
kṣipet jana-pade ca etān sarvān vā dāpayet karān .. 02.4.32c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In