| |
|

This overlay will guide you through the buttons:

सम्निधाता कोश-गृहं पण्य-गृहं कोष्ठ-अगारं कुप्य-गृहं आयुध-अगारं बन्धन-अगारं च कारयेत् ॥ ०२.५.०१ ॥
सम्निधाता कोश-गृहम् पण्य-गृहम् कोष्ठ-अगारम् कुप्य-गृहम् आयुध-अगारम् बन्धन-अगारम् च कारयेत् ॥ ०२।५।०१ ॥
samnidhātā kośa-gṛham paṇya-gṛham koṣṭha-agāram kupya-gṛham āyudha-agāram bandhana-agāram ca kārayet .. 02.5.01 ..
चतुर्-अश्रां वापीं अनुदक-उपस्नेहां खानयित्वा पृथु-शिलाभिरुभयतः पार्श्वं मूलं च प्रचित्य सार-दारु-पञ्जरं भूमि-समं त्रि-तलं अनेक-विधानं कुट्टिम-देश-स्थान-तलं एक-द्वारं यन्त्र-युक्त-सोपानं भूमि-गृहं कारयेत् ॥ ०२.५.०२ ॥
चतुर्-अश्राम् वापीम् अनुदक-उपस्नेहाम् खानयित्वा पृथु-शिलाभिः उभयतस् पार्श्वम् मूलम् च प्रचित्य सार-दारु-पञ्जरम् भूमि-समम् त्रि-तलम् अनेक-विधानम् कुट्टिम-देश-स्थान-तलम् एक-द्वारम् यन्त्र-युक्त-सोपानम् भूमि-गृहम् कारयेत् ॥ ०२।५।०२ ॥
catur-aśrām vāpīm anudaka-upasnehām khānayitvā pṛthu-śilābhiḥ ubhayatas pārśvam mūlam ca pracitya sāra-dāru-pañjaram bhūmi-samam tri-talam aneka-vidhānam kuṭṭima-deśa-sthāna-talam eka-dvāram yantra-yukta-sopānam bhūmi-gṛham kārayet .. 02.5.02 ..
तस्यौपरिउभयतो-निषेधं सप्रग्रीवं ऐष्टकं भाण्ड-वाहिनी-परिक्षिप्तं कोश-गृहं कारयेत् । प्रासादं वा ॥ ०२.५.०३ ॥
तस्य औपरि-उभयतस् निषेधम् स प्रग्रीवम् ऐष्टकम् भाण्ड-वाहिनी-परिक्षिप्तम् कोश-गृहम् कारयेत् । प्रासादम् वा ॥ ०२।५।०३ ॥
tasya aupari-ubhayatas niṣedham sa pragrīvam aiṣṭakam bhāṇḍa-vāhinī-parikṣiptam kośa-gṛham kārayet . prāsādam vā .. 02.5.03 ..
जन-पद-अन्ते ध्रुव-निधिं आपद्-अर्थं अभित्यक्तैः कारयेत् ॥ ०२.५.०४ ॥
जन-पद-अन्ते ध्रुव-निधिम् आपद्-अर्थम् अभित्यक्तैः कारयेत् ॥ ०२।५।०४ ॥
jana-pada-ante dhruva-nidhim āpad-artham abhityaktaiḥ kārayet .. 02.5.04 ..
पक्व-इष्टका-स्तम्भं चतुः-शालं एक-द्वारं अनेक-स्थान-तलं विवृत-स्तम्भ-अपसारं उभयतः पण्य-गृहं कोष्ठ-अगारं च ॥ ०२.५.०५अ ॥
पक्व-इष्टका-स्तम्भम् चतुर्-शालम् एक-द्वारम् अनेक-स्थान-तलम् विवृत-स्तम्भ-अपसारम् उभयतस् पण्य-गृहम् कोष्ठ-अगारम् च ॥ ०२।५।०५अ ॥
pakva-iṣṭakā-stambham catur-śālam eka-dvāram aneka-sthāna-talam vivṛta-stambha-apasāram ubhayatas paṇya-gṛham koṣṭha-agāram ca .. 02.5.05a ..
दीर्घ-बहु-शालं कक्ष्य-आवृत-कुड्यं अन्तः कुप्य-गृहम् । तदेव भूमि-गृह-युक्तं आयुध-अगारं ॥ ०२.५.०५ब ॥
दीर्घ-बहु-शालम् कक्ष्य-आवृत-कुड्यम् अन्तर् कुप्य-गृहम् । तत् एव भूमि-गृह-युक्तम् आयुध-अगारम् ॥ ०२।५।०५ब ॥
dīrgha-bahu-śālam kakṣya-āvṛta-kuḍyam antar kupya-gṛham . tat eva bhūmi-gṛha-yuktam āyudha-agāram .. 02.5.05ba ..
पृथग्-धर्म-स्थीयं महा-मात्रीयं विभक्त-स्त्री-पुरुष-स्थानं अपसारतः सुगुप्त-कक्ष्यं बन्धन-अगारं कारयेत् ॥ ०२.५.०५क ॥
पृथक् धर्म-स्थीयम् महा-मात्रीयम् विभक्त-स्त्री-पुरुष-स्थानम् अपसारतः सु गुप्त-कक्ष्यम् बन्धन-अगारम् कारयेत् ॥ ०२।५।०५क ॥
pṛthak dharma-sthīyam mahā-mātrīyam vibhakta-strī-puruṣa-sthānam apasārataḥ su gupta-kakṣyam bandhana-agāram kārayet .. 02.5.05ka ..
सर्वेषां शालाः खात-उद-पान-वर्च-स्नान-गृह-अग्नि-विष-त्राण-मार्जार-नकुल-आरक्षा-स्व-दैवत-पूजन-युक्ताः कारयेत् ॥ ०२.५.०६ ॥
सर्वेषाम् शालाः खात-उद-पान-वर्च-स्नान-गृह-अग्नि-विष-त्राण-मार्जार-नकुल-आरक्षा-स्व-दैवत-पूजन-युक्ताः कारयेत् ॥ ०२।५।०६ ॥
sarveṣām śālāḥ khāta-uda-pāna-varca-snāna-gṛha-agni-viṣa-trāṇa-mārjāra-nakula-ārakṣā-sva-daivata-pūjana-yuktāḥ kārayet .. 02.5.06 ..
कोष्ठ-अगारे वर्षमानं अरत्नि-मुखं कुण्डं स्थापयेत् ॥ ०२.५.०७ ॥
कोष्ठ-अगारे वर्ष-मानम् अरत्नि-मुखम् कुण्डम् स्थापयेत् ॥ ०२।५।०७ ॥
koṣṭha-agāre varṣa-mānam aratni-mukham kuṇḍam sthāpayet .. 02.5.07 ..
तत्-जात-करण-अधिष्ठितः पुराणं नवं च रत्नं सारं फल्गु कुप्यं वा प्रतिगृह्णीयात् ॥ ०२.५.०८ ॥
तद्-जात-करण-अधिष्ठितः पुराणम् नवम् च रत्नम् सारम् फल्गु कुप्यम् वा प्रतिगृह्णीयात् ॥ ०२।५।०८ ॥
tad-jāta-karaṇa-adhiṣṭhitaḥ purāṇam navam ca ratnam sāram phalgu kupyam vā pratigṛhṇīyāt .. 02.5.08 ..
तत्र रत्न-उपधावुत्तमो दण्डः कर्तुः कारयितुश्च सार-उपधौ मध्यमः । फल्गु-कुप्य-उपधौ तत् च तावत् च दण्डः ॥ ०२.५.०९ ॥
तत्र रत्न-उपधौ उत्तमः दण्डः कर्तुः कारयितुः च सार-उपधौ मध्यमः । फल्गु-कुप्य-उपधौ तत् च तावत् च दण्डः ॥ ०२।५।०९ ॥
tatra ratna-upadhau uttamaḥ daṇḍaḥ kartuḥ kārayituḥ ca sāra-upadhau madhyamaḥ . phalgu-kupya-upadhau tat ca tāvat ca daṇḍaḥ .. 02.5.09 ..
रूप-दर्शक-विशुद्धं हिरण्यं प्रतिगृह्णीयात् ॥ ०२.५.१० ॥
रूप-दर्शक-विशुद्धम् हिरण्यम् प्रतिगृह्णीयात् ॥ ०२।५।१० ॥
rūpa-darśaka-viśuddham hiraṇyam pratigṛhṇīyāt .. 02.5.10 ..
अशुद्धं छेदयेत् ॥ ०२.५.११ ॥
अशुद्धम् छेदयेत् ॥ ०२।५।११ ॥
aśuddham chedayet .. 02.5.11 ..
आहर्तुः पूर्वः साहस-दण्डः ॥ ०२.५.१२ ॥
आहर्तुः पूर्वः साहस-दण्डः ॥ ०२।५।१२ ॥
āhartuḥ pūrvaḥ sāhasa-daṇḍaḥ .. 02.5.12 ..
शुद्धं पूर्णं अभिनवं च धान्यं प्रतिगृह्णीयात् ॥ ०२.५.१३ ॥
शुद्धम् पूर्णम् अभिनवम् च धान्यम् प्रतिगृह्णीयात् ॥ ०२।५।१३ ॥
śuddham pūrṇam abhinavam ca dhānyam pratigṛhṇīyāt .. 02.5.13 ..
विपर्यये मूल्य-द्विगुणो दण्डः ॥ ०२.५.१४ ॥
विपर्यये मूल्य-द्विगुणः दण्डः ॥ ०२।५।१४ ॥
viparyaye mūlya-dviguṇaḥ daṇḍaḥ .. 02.5.14 ..
तेन पण्यं कुप्यं आयुधं च व्याख्यातं ॥ ०२.५.१५ ॥
तेन पण्यम् कुप्यम् आयुधम् च व्याख्यातम् ॥ ०२।५।१५ ॥
tena paṇyam kupyam āyudham ca vyākhyātam .. 02.5.15 ..
सर्व-अधिकरणेषु युक्त-उपयुक्त-तत्पुरुषाणां पण-आदि-चतुष्-पण-परम-अपहारेषु पूर्व-मध्यम-उत्तम-वधा दण्डाः ॥ ०२.५.१६ ॥
सर्व-अधिकरणेषु युक्त-उपयुक्त-तद्-पुरुषाणाम् पण-आदि-चतुर्-पण-परम-अपहारेषु पूर्व-मध्यम-उत्तम-वधाः दण्डाः ॥ ०२।५।१६ ॥
sarva-adhikaraṇeṣu yukta-upayukta-tad-puruṣāṇām paṇa-ādi-catur-paṇa-parama-apahāreṣu pūrva-madhyama-uttama-vadhāḥ daṇḍāḥ .. 02.5.16 ..
कोश-अधिष्ठितस्य कोश-अवच्छेदे घातः ॥ ०२.५.१७ ॥
कोश-अधिष्ठितस्य कोश-अवच्छेदे घातः ॥ ०२।५।१७ ॥
kośa-adhiṣṭhitasya kośa-avacchede ghātaḥ .. 02.5.17 ..
तद्-वैयावृत्य-कराणां अर्ध-दण्डाः ॥ ०२.५.१८ ॥
तद्-वैयावृत्य-कराणाम् अर्ध-दण्डाः ॥ ०२।५।१८ ॥
tad-vaiyāvṛtya-karāṇām ardha-daṇḍāḥ .. 02.5.18 ..
परिभाषणं अविज्ञाते ॥ ०२.५.१९ ॥
परिभाषणम् अ विज्ञाते ॥ ०२।५।१९ ॥
paribhāṣaṇam a vijñāte .. 02.5.19 ..
चोराणां अभिप्रधर्षणे चित्रो घातः ॥ ०२.५.२० ॥
चोराणाम् अभिप्रधर्षणे चित्रः घातः ॥ ०२।५।२० ॥
corāṇām abhipradharṣaṇe citraḥ ghātaḥ .. 02.5.20 ..
तस्मादाप्त-पुरुWअ-अधिष्ठितः सम्निधाता निचयाननुतिष्ठेत् ०२.५.२२अ ॥ ०२.५.२१ ॥
तस्मात् आप्त-पुरुwअ-अधिष्ठितः सम्निधाता निचयान् अनुतिष्ठेत्।५।२२अ ॥ ०२।५।२१ ॥
tasmāt āpta-puruwa-adhiṣṭhitaḥ samnidhātā nicayān anutiṣṭhet.5.22a .. 02.5.21 ..
यथा पृष्टो न सज्जेत व्यये शेषे च संचये ॥ ०२.५.२२ब ॥
यथा पृष्टः न सज्जेत व्यये शेषे च संचये ॥ ०२।५।२२ब ॥
yathā pṛṣṭaḥ na sajjeta vyaye śeṣe ca saṃcaye .. 02.5.22ba ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In