| |
|

This overlay will guide you through the buttons:

समाहर्ता दुर्गं राष्ट्रं खनिं सेतुं वनं व्रजं वणिक्-पथं चावेक्षेत ॥ ०२.६.०१ ॥
समाहर्ता दुर्गम् राष्ट्रम् खनिम् सेतुम् वनम् व्रजम् वणिज्-पथम् च अवेक्षेत ॥ ०२।६।०१ ॥
samāhartā durgam rāṣṭram khanim setum vanam vrajam vaṇij-patham ca avekṣeta .. 02.6.01 ..
शुल्कं दण्डः पौतवं नागरिको लक्षण-अध्यक्षो मुद्रा-अध्यक्षः सुरा सूना सूत्रं तैलं घृतं क्षारः सौवर्णिकः पण्य-संस्था वेश्या द्यूतं वास्तुकं कारु-शिल्पि-गणो देवता-अध्यक्षो द्वार-बहिरिका-आदेयं च दुर्गं ॥ ०२.६.०२ ॥
शुल्कम् दण्डः पौतवम् नागरिकः लक्षण-अध्यक्षः मुद्रा-अध्यक्षः सुरा सूना सूत्रम् तैलम् घृतम् क्षारः सौवर्णिकः पण्य-संस्था वेश्या द्यूतम् वास्तुकम् कारु-शिल्पि-गणः देवता-अध्यक्षः द्वार-बहिरिका-आदेयम् च दुर्गम् ॥ ०२।६।०२ ॥
śulkam daṇḍaḥ pautavam nāgarikaḥ lakṣaṇa-adhyakṣaḥ mudrā-adhyakṣaḥ surā sūnā sūtram tailam ghṛtam kṣāraḥ sauvarṇikaḥ paṇya-saṃsthā veśyā dyūtam vāstukam kāru-śilpi-gaṇaḥ devatā-adhyakṣaḥ dvāra-bahirikā-ādeyam ca durgam .. 02.6.02 ..
सीता भागो बलिः करो वणिक्नदी-पालस्तरो नावः पत्तनं विविचितं वर्तनी रज्जुश्चोर-रज्जुश्च राष्ट्रं ॥ ०२.६.०३ ॥
सीता भागः बलिः करः वणिज्-नदी-पालः तरः नावः पत्तनम् वि विचितम् वर्तनी रज्जुः चोर-रज्जुः च राष्ट्रम् ॥ ०२।६।०३ ॥
sītā bhāgaḥ baliḥ karaḥ vaṇij-nadī-pālaḥ taraḥ nāvaḥ pattanam vi vicitam vartanī rajjuḥ cora-rajjuḥ ca rāṣṭram .. 02.6.03 ..
सुवर्ण-रजत-वज्र-मणि-मुक्ता-प्रवाल-शङ्ख-लोह-लवण-भूमि-प्रस्तर-रस-धातवः खनिः ॥ ०२.६.०४ ॥
सुवर्ण-रजत-वज्र-मणि-मुक्ता-प्रवाल-शङ्ख-लोह-लवण-भूमि-प्रस्तर-रस-धातवः खनिः ॥ ०२।६।०४ ॥
suvarṇa-rajata-vajra-maṇi-muktā-pravāla-śaṅkha-loha-lavaṇa-bhūmi-prastara-rasa-dhātavaḥ khaniḥ .. 02.6.04 ..
पुष्प-फल-वाट-षण्ड-केदार-मूल-वापाः सेतुः ॥ ०२.६.०५ ॥
पुष्प-फल-वाट-षण्ड-केदार-मूल-वापाः सेतुः ॥ ०२।६।०५ ॥
puṣpa-phala-vāṭa-ṣaṇḍa-kedāra-mūla-vāpāḥ setuḥ .. 02.6.05 ..
पशु-मृग-द्रव्य-हस्ति-वन-परिग्रहो वनं ॥ ०२.६.०६ ॥
पशु-मृग-द्रव्य-हस्ति-वन-परिग्रहः वनम् ॥ ०२।६।०६ ॥
paśu-mṛga-dravya-hasti-vana-parigrahaḥ vanam .. 02.6.06 ..
गो-महिषं अज-अविकं खर-उष्त्रं अश्व-अश्वतरं च व्रजः ॥ ०२.६.०७ ॥
गो-महिषम् अज-अविकम् खर-उष्त्रम् अश्व-अश्वतरम् च व्रजः ॥ ०२।६।०७ ॥
go-mahiṣam aja-avikam khara-uṣtram aśva-aśvataram ca vrajaḥ .. 02.6.07 ..
स्थल-पथो वारि-पथश्च वणिक्-पथः ॥ ०२.६.०८ ॥
स्थल-पथः वारि-पथः च वणिज्-पथः ॥ ०२।६।०८ ॥
sthala-pathaḥ vāri-pathaḥ ca vaṇij-pathaḥ .. 02.6.08 ..
इत्याय-शरीरं ॥ ०२.६.०९ ॥
इत्याय-शरीरम् ॥ ०२।६।०९ ॥
ityāya-śarīram .. 02.6.09 ..
मूल्यं भागो व्याजी परिघः क्ल्प्तम्(क्लृप्तम्) रूपिकं अत्ययश्चऽय-मुखं ॥ ०२.६.१० ॥
मूल्यम् भागः व्याजी परिघः क्ल्प्तम्(क्लृप्तम् रूपिकम् अत्ययः च अय-मुखम् ॥ ०२।६।१० ॥
mūlyam bhāgaḥ vyājī parighaḥ klptam(klṛptam rūpikam atyayaḥ ca aya-mukham .. 02.6.10 ..
देव-पितृ-पूजा-दान-अर्थम् । स्वस्ति-वाचनम् । अन्तःपुरम् । महानसम् । दूत-प्रावर्तिमम् । कोष्ठ-अगारम् । आयुध-अगारम् । पण्य-गृहम् । कुप्य-गृहम् । कर्म-अन्तो । विष्टिः । पत्ति-अश्व-रथ-द्विप-परिग्रहो । गो-मण्डलम् । पशु-मृग-पक्षि-व्याल-वाटाः । काष्ठ-तृण-वाटाश्चैति व्यय-शरीरं ॥ ०२.६.११ ॥
देव-पितृ-पूजा-दान-अर्थम् । स्वस्ति-वाचनम् । अन्तःपुरम् । महानसम् । दूत-प्रावर्तिमम् । कोष्ठ-अगारम् । आयुध-अगारम् । पण्य-गृहम् । कुप्य-गृहम् । कर्म-अन्तः । विष्टिः । पत्ति-अश्व-रथ-द्विप-परिग्रहः । गो-मण्डलम् । पशु-मृग-पक्षि-व्याल-वाटाः । काष्ठ-तृण-वाटाः च एति व्यय-शरीरम् ॥ ०२।६।११ ॥
deva-pitṛ-pūjā-dāna-artham . svasti-vācanam . antaḥpuram . mahānasam . dūta-prāvartimam . koṣṭha-agāram . āyudha-agāram . paṇya-gṛham . kupya-gṛham . karma-antaḥ . viṣṭiḥ . patti-aśva-ratha-dvipa-parigrahaḥ . go-maṇḍalam . paśu-mṛga-pakṣi-vyāla-vāṭāḥ . kāṣṭha-tṛṇa-vāṭāḥ ca eti vyaya-śarīram .. 02.6.11 ..
राज-वर्षं मासः पक्षो दिवसश्च व्युष्टम् । वर्षा-हेमन्त-ग्रीष्माणां तृतीय-सप्तमा दिवस-ऊनाः पक्षाः शेषाः पूर्णाः । पृथग्-अधिमासकः । इति कालः ॥ ०२.६.१२ ॥
राज-वर्षम् मासः पक्षः दिवसः च व्युष्टम् । वर्षा-हेमन्त-ग्रीष्माणाम् तृतीय-सप्तमाः दिवस-ऊनाः पक्षाः शेषाः पूर्णाः । पृथक् अधिमासकः । इति कालः ॥ ०२।६।१२ ॥
rāja-varṣam māsaḥ pakṣaḥ divasaḥ ca vyuṣṭam . varṣā-hemanta-grīṣmāṇām tṛtīya-saptamāḥ divasa-ūnāḥ pakṣāḥ śeṣāḥ pūrṇāḥ . pṛthak adhimāsakaḥ . iti kālaḥ .. 02.6.12 ..
करणीयं सिद्धं शेषं आय-व्ययौ नीवी च ॥ ०२.६.१३ ॥
करणीयम् सिद्धम् शेषम् आय-व्ययौ नीवी च ॥ ०२।६।१३ ॥
karaṇīyam siddham śeṣam āya-vyayau nīvī ca .. 02.6.13 ..
संस्थानं प्रचारः शरीर-अवस्थापनं आदानं सर्व-समुदय-पिण्डः संजातं एतत्करणीयं ॥ ०२.६.१४ ॥
संस्थानम् प्रचारः शरीर-अवस्थापनम् आदानम् सर्व-समुदय-पिण्डः संजातम् एतत् करणीयम् ॥ ०२।६।१४ ॥
saṃsthānam pracāraḥ śarīra-avasthāpanam ādānam sarva-samudaya-piṇḍaḥ saṃjātam etat karaṇīyam .. 02.6.14 ..
कोश-अर्पितं राज-हारः पुर-व्ययश्च प्रविष्टं परम-संवत्सर-अनुवृत्तं शासन-मुक्तं मुख-आज्ञप्तं चापातनीयं एतत्सिद्धं ॥ ०२.६.१५ ॥
कोश-अर्पितम् राज-हारः पुर-व्ययः च प्रविष्टम् परम-संवत्सर-अनुवृत्तम् शासन-मुक्तम् मुख-आज्ञप्तम् च आपातनीयम् एतत् सिद्धम् ॥ ०२।६।१५ ॥
kośa-arpitam rāja-hāraḥ pura-vyayaḥ ca praviṣṭam parama-saṃvatsara-anuvṛttam śāsana-muktam mukha-ājñaptam ca āpātanīyam etat siddham .. 02.6.15 ..
सिद्धि-कर्म-योगः दण्ड-शेषं आहरणीयं बलात्-कृत-प्रतिष्टब्धं अवमृष्टं च प्रशोध्यं एतत्शेषम् । असारं अल्प-सारं च ॥ ०२.६.१६ ॥
सिद्धि-कर्म-योगः दण्ड-शेषम् आहरणीयम् बलात् कृत-प्रतिष्टब्धम् अवमृष्टम् च प्रशोध्यम् एतद्-शेषम् । असारम् अल्प-सारम् च ॥ ०२।६।१६ ॥
siddhi-karma-yogaḥ daṇḍa-śeṣam āharaṇīyam balāt kṛta-pratiṣṭabdham avamṛṣṭam ca praśodhyam etad-śeṣam . asāram alpa-sāram ca .. 02.6.16 ..
वर्तमानः पर्युषितोअन्य-जातश्चऽयः ॥ ०२.६.१७ ॥
वर्तमानः पर्युषितः अन्य-जातः च अयः ॥ ०२।६।१७ ॥
vartamānaḥ paryuṣitaḥ anya-jātaḥ ca ayaḥ .. 02.6.17 ..
दिवस-अनुवृत्तो वर्तमानः ॥ ०२.६.१८ ॥
दिवस-अनुवृत्तः वर्तमानः ॥ ०२।६।१८ ॥
divasa-anuvṛttaḥ vartamānaḥ .. 02.6.18 ..
परम-सांवत्सरिकः पर-प्रचार-संक्रान्तो वा पर्युषितः ॥ ०२.६.१९ ॥
परम-सांवत्सरिकः पर-प्रचार-संक्रान्तः वा पर्युषितः ॥ ०२।६।१९ ॥
parama-sāṃvatsarikaḥ para-pracāra-saṃkrāntaḥ vā paryuṣitaḥ .. 02.6.19 ..
नष्ट-प्रस्मृतं आयुक्त-दण्डः पार्श्वं पारिहीणिकं औपायनिकं डमर-गतक-स्वं अपुत्रकं निधिश्चान्य-जातः ॥ ०२.६.२० ॥
नष्ट-प्रस्मृतम् आयुक्त-दण्डः पार्श्वम् पारिहीणिकम् औपायनिकम् डमर-गतक-स्वम् अपुत्रकम् निधिः च अन्य-जातः ॥ ०२।६।२० ॥
naṣṭa-prasmṛtam āyukta-daṇḍaḥ pārśvam pārihīṇikam aupāyanikam ḍamara-gataka-svam aputrakam nidhiḥ ca anya-jātaḥ .. 02.6.20 ..
विक्षेप-व्याधित-अन्तर-आरम्भ-शेषं च व्यय-प्रत्यायः ॥ ०२.६.२१ ॥
विक्षेप-व्याधित-अन्तर-आरम्भ-शेषम् च व्यय-प्रत्यायः ॥ ०२।६।२१ ॥
vikṣepa-vyādhita-antara-ārambha-śeṣam ca vyaya-pratyāyaḥ .. 02.6.21 ..
विक्रिये पण्यानां अर्घ-वृद्धिरुपजा । मान-उन्मान-विशेषो व्याजी । क्रय-संघर्षे वार्ध-वृद्धिः इत्यायः ॥ ०२.६.२२ ॥
विक्रिये पण्यानाम् अर्घ-वृद्धिः उपजा । मान-उन्मान-विशेषः व्याजी । क्रय-संघर्षे वा अर्ध-वृद्धिः इति आयः ॥ ०२।६।२२ ॥
vikriye paṇyānām argha-vṛddhiḥ upajā . māna-unmāna-viśeṣaḥ vyājī . kraya-saṃgharṣe vā ardha-vṛddhiḥ iti āyaḥ .. 02.6.22 ..
नित्यो नित्य-उत्पादिको लाभो लाभ-उत्पादिक इति व्ययः बाह्यं अभ्यन्तरं चायं विद्याद्वर्ष-शतादपि ॥ ०२.६.२३ ॥
नित्यः नित्य-उत्पादिकः लाभः लाभ-उत्पादिकः इति व्ययः बाह्यम् अभ्यन्तरम् च अयम् विद्यात् वर्ष-शतात् अपि ॥ ०२।६।२३ ॥
nityaḥ nitya-utpādikaḥ lābhaḥ lābha-utpādikaḥ iti vyayaḥ bāhyam abhyantaram ca ayam vidyāt varṣa-śatāt api .. 02.6.23 ..
दिवस-अनुवृत्तो नित्यः ॥ ०२.६.२४ ॥
दिवस-अनुवृत्तः नित्यः ॥ ०२।६।२४ ॥
divasa-anuvṛttaḥ nityaḥ .. 02.6.24 ..
पक्ष-मास-संवत्सर-लाभो लाभः ॥ ०२.६.२५ ॥
पक्ष-मास-संवत्सर-लाभः लाभः ॥ ०२।६।२५ ॥
pakṣa-māsa-saṃvatsara-lābhaḥ lābhaḥ .. 02.6.25 ..
तयोरुत्पन्नो नित्य-उत्पादिको लाभ-उत्पादिक इति व्ययः ॥ ०२.६.२६ ॥
तयोः उत्पन्नः नित्य-उत्पादिकः लाभ-उत्पादिकः इति व्ययः ॥ ०२।६।२६ ॥
tayoḥ utpannaḥ nitya-utpādikaḥ lābha-utpādikaḥ iti vyayaḥ .. 02.6.26 ..
संजातादाय-व्यय-विशुद्धा नीवी । प्राप्ता चानुवृत्ता च ॥ ०२.६.२७ ॥
संजात-आदाय-व्यय-विशुद्धा नीवी । प्राप्ता च अनुवृत्ता च ॥ ०२।६।२७ ॥
saṃjāta-ādāya-vyaya-viśuddhā nīvī . prāptā ca anuvṛttā ca .. 02.6.27 ..
एवं कुर्यात्समुदयं वृद्धिं चऽयस्य दर्शयेत् । ॥ ०२.६.२८अ ब ॥
एवम् कुर्यात् समुदयम् वृद्धिम् च अयस्य दर्शयेत् । ॥ ०२।६।२८अ ब ॥
evam kuryāt samudayam vṛddhim ca ayasya darśayet . .. 02.6.28a ba ..
ह्रासं व्ययस्य च प्राज्ञः साधयेच्च विपर्ययं ॥ ०२.६.२८च्द् ॥
ह्रासम् व्ययस्य च प्राज्ञः साधयेत् च विपर्ययम् ॥ ०२।६।२८च् ॥
hrāsam vyayasya ca prājñaḥ sādhayet ca viparyayam .. 02.6.28c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In