| |
|

This overlay will guide you through the buttons:

अक्ष-पटलं अध्यक्षः प्रान्-मुखं उदन्-मुखं वा विभक्त-उपस्थानं निबन्ध-पुस्तक-स्थानं कारयेत् ॥ ०२.७.०१ ॥
अक्ष-पटलम् अध्यक्षः प्राच्-मुखम् उदक्-मुखम् वा विभक्त-उपस्थानम् निबन्ध-पुस्तक-स्थानम् कारयेत् ॥ ०२।७।०१ ॥
akṣa-paṭalam adhyakṣaḥ prāc-mukham udak-mukham vā vibhakta-upasthānam nibandha-pustaka-sthānam kārayet .. 02.7.01 ..
तत्राधिकरणानां संख्या-प्रचार-संजात-अग्रम् । कर्म-अन्तानां द्रव्य-प्रयोग-वृद्धि-क्षय-व्यय-प्रयाम-व्याजी-योग-स्थान-वेतन-विष्टि-प्रमाणम् । रत्न-सार-फल्गु-कुप्यानां अर्घ-प्रतिवर्णक-मान-प्रतिमान-उन्मान-अवमान-भाण्डम् । देश-ग्राम-जाति-कुल-संघानां धर्म-व्यवहार-चरित्र-संस्थानम् । राज-उपजीविनां प्रग्रह-प्रदेश-भोग-परिहार-भक्त-वेतन-लाभम् । राज्ञश्च पत्नी-पुत्राणां रत्न-भूमि-लाभं निर्देश-उत्पातिक-प्रतीकार-लाभम् । मित्र-अमित्राणां च संधि-विग्रह-प्रदान-आदानं निबन्ध-पुस्तकस्थं कारयेत् ॥ ०२.७.०२ ॥
तत्र अधिकरणानाम् संख्या-प्रचार-संजात-अग्रम् । कर्म-अन्तानाम् द्रव्य-प्रयोग-वृद्धि-क्षय-व्यय-प्रयाम-व्याजी-योग-स्थान-वेतन-विष्टि-प्रमाणम् । रत्न-सार-फल्गु-कुप्यानाम् अर्घ-प्रतिवर्णक-मान-प्रतिमान-उन्मान-अवमान-भाण्डम् । देश-ग्राम-जाति-कुल-संघानाम् धर्म-व्यवहार-चरित्र-संस्थानम् । राज-उपजीविनाम् प्रग्रह-प्रदेश-भोग-परिहार-भक्त-वेतन-लाभम् । राज्ञः च पत्नी-पुत्राणाम् रत्न-भूमि-लाभम् निर्देश-उत्पातिक-प्रतीकार-लाभम् । मित्र-अमित्राणाम् च संधि-विग्रह-प्रदान-आदानम् निबन्ध-पुस्तक-स्थम् कारयेत् ॥ ०२।७।०२ ॥
tatra adhikaraṇānām saṃkhyā-pracāra-saṃjāta-agram . karma-antānām dravya-prayoga-vṛddhi-kṣaya-vyaya-prayāma-vyājī-yoga-sthāna-vetana-viṣṭi-pramāṇam . ratna-sāra-phalgu-kupyānām argha-prativarṇaka-māna-pratimāna-unmāna-avamāna-bhāṇḍam . deśa-grāma-jāti-kula-saṃghānām dharma-vyavahāra-caritra-saṃsthānam . rāja-upajīvinām pragraha-pradeśa-bhoga-parihāra-bhakta-vetana-lābham . rājñaḥ ca patnī-putrāṇām ratna-bhūmi-lābham nirdeśa-utpātika-pratīkāra-lābham . mitra-amitrāṇām ca saṃdhi-vigraha-pradāna-ādānam nibandha-pustaka-stham kārayet .. 02.7.02 ..
ततः सर्व-अधिकरणानां करणीयं सिद्धं शेषं आय-व्ययौ नीवीं उपस्थानं प्रचारं चरित्रं संस्थानं च निबन्धेन प्रयच्छेत् ॥ ०२.७.०३ ॥
ततस् सर्व-अधिकरणानाम् करणीयम् सिद्धम् शेषम् आय-व्ययौ नीवीम् उपस्थानम् प्रचारम् चरित्रम् संस्थानम् च निबन्धेन प्रयच्छेत् ॥ ०२।७।०३ ॥
tatas sarva-adhikaraṇānām karaṇīyam siddham śeṣam āya-vyayau nīvīm upasthānam pracāram caritram saṃsthānam ca nibandhena prayacchet .. 02.7.03 ..
उत्तम-मध्यम-अवरेषु च कर्मसु तज्-जातिकं अध्यक्षं कुर्यात् । सामुदयिकेष्ववक्लृप्तिकम्(अवक्ल्प्तिकम्) यं उपहत्य राजा नानुतप्येत ॥ ०२.७.०४ ॥
उत्तम-मध्यम-अवरेषु च कर्मसु तद्-जातिकम् अध्यक्षम् कुर्यात् । सामुदयिकेषु अवक्लृप्तिकम्(यम् उपहत्य राजा न अनुतप्येत ॥ ०२।७।०४ ॥
uttama-madhyama-avareṣu ca karmasu tad-jātikam adhyakṣam kuryāt . sāmudayikeṣu avaklṛptikam(yam upahatya rājā na anutapyeta .. 02.7.04 ..
सहग्राहिणः प्रतिभुवः कर्म-उपजीविनः पुत्रा भ्रातरो भार्या दुहितरो भृत्याश्चास्य कर्मच्-छेदं वहेयुः ॥ ०२.७.०५ ॥
सह ग्राहिणः प्रतिभुवः कर्म-उपजीविनः पुत्राः भ्रातरः भार्याः दुहितरः भृत्याः च अस्य कर्म-छेदम् वहेयुः ॥ ०२।७।०५ ॥
saha grāhiṇaḥ pratibhuvaḥ karma-upajīvinaḥ putrāḥ bhrātaraḥ bhāryāḥ duhitaraḥ bhṛtyāḥ ca asya karma-chedam vaheyuḥ .. 02.7.05 ..
त्रि-शतं चतुः-पञ्चाशत् चाहोरात्राणां कर्म-संवत्सरः ॥ ०२.७.०६ ॥
त्रि-शतम् चतुः-पञ्चाशत् च अहोरात्राणाम् कर्म-संवत्सरः ॥ ०२।७।०६ ॥
tri-śatam catuḥ-pañcāśat ca ahorātrāṇām karma-saṃvatsaraḥ .. 02.7.06 ..
तं आषाढी-पर्यवसानं ऊनं पूर्णं वा दद्यात् ॥ ०२.७.०७ ॥
तम् आषाढी-पर्यवसानम् ऊनम् पूर्णम् वा दद्यात् ॥ ०२।७।०७ ॥
tam āṣāḍhī-paryavasānam ūnam pūrṇam vā dadyāt .. 02.7.07 ..
करण-अधिष्ठितं अधिमासकं कुर्यात् ॥ ०२.७.०८ ॥
करण-अधिष्ठितम् अधिमासकम् कुर्यात् ॥ ०२।७।०८ ॥
karaṇa-adhiṣṭhitam adhimāsakam kuryāt .. 02.7.08 ..
अपसर्प-अधिष्ठितंच प्रचारं ॥ ०२.७.०९ ॥
अपसर्प-अधिष्ठितम् च प्रचारम् ॥ ०२।७।०९ ॥
apasarpa-adhiṣṭhitam ca pracāram .. 02.7.09 ..
प्रचार-चरित्र-संस्थानान्यनुपलभमानो हि प्रकृतः समुदयं अज्ञानेन परिहापयति । उत्थान-क्लेश-असहत्वादालस्येन । शब्दादिष्विन्द्रिय-अर्थेषु प्रसक्तः प्रमादेन । संक्रोश-अधर्म-अनर्थ-भीरु-भायेन । कार्य-अर्थिष्वनुग्रह-बुद्धिः कामेन । हिंसा-बुद्धिः कोपेन । विद्या-द्रव्य-वल्लभ-अपाश्रयाद्दर्पेण । तुला-मान-तर्क-गणित-अन्तर-उपधानात् लोभेन ॥ ०२.७.१० ॥
प्रचार-चरित्र-संस्थानानि अन् उपलभमानः हि प्रकृतः समुदयम् अज्ञानेन परिहापयति । उत्थान-क्लेश-असह-त्वात् आलस्येन । शब्द-आदिषु इन्द्रिय-अर्थेषु प्रसक्तः प्रमादेन । संक्रोश-अधर्म-अनर्थ-भीरु-भायेन । कार्य-अर्थिषु अनुग्रह-बुद्धिः कामेन । हिंसा-बुद्धिः कोपेन । विद्या-द्रव्य-वल्लभ-अपाश्रयात् दर्पेण । तुला-मान-तर्क-गणित-अन्तर-उपधानात् लोभेन ॥ ०२।७।१० ॥
pracāra-caritra-saṃsthānāni an upalabhamānaḥ hi prakṛtaḥ samudayam ajñānena parihāpayati . utthāna-kleśa-asaha-tvāt ālasyena . śabda-ādiṣu indriya-artheṣu prasaktaḥ pramādena . saṃkrośa-adharma-anartha-bhīru-bhāyena . kārya-arthiṣu anugraha-buddhiḥ kāmena . hiṃsā-buddhiḥ kopena . vidyā-dravya-vallabha-apāśrayāt darpeṇa . tulā-māna-tarka-gaṇita-antara-upadhānāt lobhena .. 02.7.10 ..
तेषां आनुपूर्व्या यावानर्थ-उपघातस्तावानेक-उत्तरो दण्डः इति मानवाः ॥ ०२.७.११ ॥
तेषाम् आनुपूर्व्या यावान् अर्थ-उपघातः तावान् एक-उत्तरः दण्डः इति मानवाः ॥ ०२।७।११ ॥
teṣām ānupūrvyā yāvān artha-upaghātaḥ tāvān eka-uttaraḥ daṇḍaḥ iti mānavāḥ .. 02.7.11 ..
सर्वत्राष्ट-गुणः इति पाराशराः ॥ ०२.७.१२ ॥
सर्वत्र अष्ट-गुणः इति पाराशराः ॥ ०२।७।१२ ॥
sarvatra aṣṭa-guṇaḥ iti pārāśarāḥ .. 02.7.12 ..
दश-गुणः इति बार्हस्पत्याः ॥ ०२.७.१३ ॥
दश-गुणः इति बार्हस्पत्याः ॥ ०२।७।१३ ॥
daśa-guṇaḥ iti bārhaspatyāḥ .. 02.7.13 ..
विंशति-गुणः इत्यौशनसाः ॥ ०२.७.१४ ॥
विंशति-गुणः इति औशनसाः ॥ ०२।७।१४ ॥
viṃśati-guṇaḥ iti auśanasāḥ .. 02.7.14 ..
यथा-अपराधं इति कौटिल्यः ॥ ०२.७.१५ ॥
यथा अपराधम् इति कौटिल्यः ॥ ०२।७।१५ ॥
yathā aparādham iti kauṭilyaḥ .. 02.7.15 ..
गाणनिक्यानि आषाढीं आगच्छेयुः ॥ ०२.७.१६ ॥
गाणनिक्यानि आषाढीम् आगच्छेयुः ॥ ०२।७।१६ ॥
gāṇanikyāni āṣāḍhīm āgaccheyuḥ .. 02.7.16 ..
आगतानां समुद्र-पुस्तक-भाण्ड-नीवीकानां एकत्र-असम्भाषा-अवरोधं कारयेत् ॥ ०२.७.१७ ॥
आगतानाम् स मुद्र-पुस्तक-भाण्ड-नीवीकानाम् एकत्र अ सम्भाषा-अवरोधम् कारयेत् ॥ ०२।७।१७ ॥
āgatānām sa mudra-pustaka-bhāṇḍa-nīvīkānām ekatra a sambhāṣā-avarodham kārayet .. 02.7.17 ..
आय-व्यय-नीवीनां अग्राणि श्रुत्वा नीवीं अवहारयेत् ॥ ०२.७.१८ ॥
आय-व्यय-नीवीनाम् अग्राणि श्रुत्वा नीवीम् अवहारयेत् ॥ ०२।७।१८ ॥
āya-vyaya-nīvīnām agrāṇi śrutvā nīvīm avahārayet .. 02.7.18 ..
यच्चाग्रादायस्यान्तर-पर्णे नीव्यां वर्धेत व्ययस्य वा यत्परिहापयेत् । तदष्ट-गुणं अध्यक्षं दापयेत् ॥ ०२.७.१९ ॥
यत् च अग्रात् आयस्य अन्तर-पर्णे नीव्याम् वर्धेत व्ययस्य वा यत् परिहापयेत् । तद्-अष्ट-गुणम् अध्यक्षम् दापयेत् ॥ ०२।७।१९ ॥
yat ca agrāt āyasya antara-parṇe nīvyām vardheta vyayasya vā yat parihāpayet . tad-aṣṭa-guṇam adhyakṣam dāpayet .. 02.7.19 ..
विपर्यये तं एव प्रति स्यात् ॥ ०२.७.२० ॥
विपर्यये तम् एव प्रति स्यात् ॥ ०२।७।२० ॥
viparyaye tam eva prati syāt .. 02.7.20 ..
यथा-कालं अनागतानां अपुस्तक-भाण्ड-नीवीकानां वा देय-दश-बन्धो दण्डः ॥ ०२.७.२१ ॥
यथा कालम् अनागतानाम् अ पुस्तक-भाण्ड-नीवीकानाम् वा देय-दश-बन्धः दण्डः ॥ ०२।७।२१ ॥
yathā kālam anāgatānām a pustaka-bhāṇḍa-nīvīkānām vā deya-daśa-bandhaḥ daṇḍaḥ .. 02.7.21 ..
कार्मिके चौपस्थिते कारणिकस्याप्रतिबध्नतः पूर्वः साहस-दण्डः ॥ ०२.७.२२ ॥
कार्मिके च औपस्थिते कारणिकस्य अप्रतिबध्नतः पूर्वः साहस-दण्डः ॥ ०२।७।२२ ॥
kārmike ca aupasthite kāraṇikasya apratibadhnataḥ pūrvaḥ sāhasa-daṇḍaḥ .. 02.7.22 ..
विपर्यये कार्मिकस्य द्वि-गुणः ॥ ०२.७.२३ ॥
विपर्यये कार्मिकस्य द्वि-गुणः ॥ ०२।७।२३ ॥
viparyaye kārmikasya dvi-guṇaḥ .. 02.7.23 ..
प्रचार-समं महा-मात्राः समग्राः श्रावयेयुरविषम-मन्त्राः ॥ ०२.७.२४ ॥
प्रचार-समम् महा-मात्राः समग्राः श्रावयेयुः अविषम-मन्त्राः ॥ ०२।७।२४ ॥
pracāra-samam mahā-mātrāḥ samagrāḥ śrāvayeyuḥ aviṣama-mantrāḥ .. 02.7.24 ..
पृथग्-भूतो मिथ्या-वादी चएषां उत्तमं दण्डं दद्यात् ॥ ०२.७.२५ ॥
पृथक् भूतः मिथ्या वादी च एषाम् उत्तमम् दण्डम् दद्यात् ॥ ०२।७।२५ ॥
pṛthak bhūtaḥ mithyā vādī ca eṣām uttamam daṇḍam dadyāt .. 02.7.25 ..
अकृत-अहो-रूप-हरं मासं आकाङ्क्षेत ॥ ०२.७.२६ ॥
अकृत-अहर्-रूप-हरम् मासम् आकाङ्क्षेत ॥ ०२।७।२६ ॥
akṛta-ahar-rūpa-haram māsam ākāṅkṣeta .. 02.7.26 ..
मासादूर्ध्वं मास-द्विशत-उत्तरं दण्डं दद्यात् ॥ ०२.७.२७ ॥
मासात् ऊर्ध्वम् मास-द्विशत-उत्तरम् दण्डम् दद्यात् ॥ ०२।७।२७ ॥
māsāt ūrdhvam māsa-dviśata-uttaram daṇḍam dadyāt .. 02.7.27 ..
अल्प-शेष-लेख्य-नीवीकं पञ्च-रात्रं आकाङ्क्षेत ॥ ०२.७.२८ ॥
अल्प-शेष-लेख्य-नीवीकम् पञ्च-रात्रम् आकाङ्क्षेत ॥ ०२।७।२८ ॥
alpa-śeṣa-lekhya-nīvīkam pañca-rātram ākāṅkṣeta .. 02.7.28 ..
ततः परं कोश-पूर्वं अहो-रूप-हरं धर्म-व्यवहार-चरित्र-संस्थान-संकलन-निर्वर्तन-अनुमान-चार-प्रयोगैरवेक्षेत ॥ ०२.७.२९ ॥
ततस् परम् कोश-पूर्वम् अहर्-रूप-हरम् धर्म-व्यवहार-चरित्र-संस्थान-संकलन-निर्वर्तन-अनुमान-चार-प्रयोगैः अवेक्षेत ॥ ०२।७।२९ ॥
tatas param kośa-pūrvam ahar-rūpa-haram dharma-vyavahāra-caritra-saṃsthāna-saṃkalana-nirvartana-anumāna-cāra-prayogaiḥ avekṣeta .. 02.7.29 ..
दिवस-पञ्च-रात्र-पक्ष-मास-चातुर्मास्य-संवत्सरैश्च प्रतिसमानयेत् ॥ ०२.७.३० ॥
दिवस-पञ्च-रात्र-पक्ष-मास-चातुर्मास्य-संवत्सरैः च प्रतिसमानयेत् ॥ ०२।७।३० ॥
divasa-pañca-rātra-pakṣa-māsa-cāturmāsya-saṃvatsaraiḥ ca pratisamānayet .. 02.7.30 ..
व्युष्ट-देश-काल-मुख-उत्पत्ति-अनुवृत्ति-प्रमाण-दायक-दापक-निबन्धक-प्रतिग्राहकैश्चायं समानयेत् ॥ ०२.७.३१ ॥
व्युष्ट-देश-काल-मुख-उत्पत्ति-अनुवृत्ति-प्रमाण-दायक-दापक-निबन्धक-प्रतिग्राहकैः च अयम् समानयेत् ॥ ०२।७।३१ ॥
vyuṣṭa-deśa-kāla-mukha-utpatti-anuvṛtti-pramāṇa-dāyaka-dāpaka-nibandhaka-pratigrāhakaiḥ ca ayam samānayet .. 02.7.31 ..
व्युष्ट-देश-काल-मुख-लाभ-कारण-देय-योग-प्रमाण-आज्ञापक-उद्धारक-विधातृक-प्रतिग्राहकैश्च व्ययं समानयेत् ॥ ०२.७.३२ ॥
व्युष्ट-देश-काल-मुख-लाभ-कारण-देय-योग-प्रमाण-आज्ञापक-उद्धारक-विधातृक-प्रतिग्राहकैः च व्ययम् समानयेत् ॥ ०२।७।३२ ॥
vyuṣṭa-deśa-kāla-mukha-lābha-kāraṇa-deya-yoga-pramāṇa-ājñāpaka-uddhāraka-vidhātṛka-pratigrāhakaiḥ ca vyayam samānayet .. 02.7.32 ..
व्युष्ट-देश-काल-मुख-अनुवर्तन-रूप-लक्षण-प्रमाण-निक्षेप-भाजन-गोपायकैश्च नीवीं समानयेत् ॥ ०२.७.३३ ॥
व्युष्ट-देश-काल-मुख-अनुवर्तन-रूप-लक्षण-प्रमाण-निक्षेप-भाजन-गोपायकैः च नीवीम् समानयेत् ॥ ०२।७।३३ ॥
vyuṣṭa-deśa-kāla-mukha-anuvartana-rūpa-lakṣaṇa-pramāṇa-nikṣepa-bhājana-gopāyakaiḥ ca nīvīm samānayet .. 02.7.33 ..
राज-अर्थे कारणिकस्याप्रतिबध्नतः प्रतिषेधयतो वाआज्ञां निबन्धादाय-व्ययं अन्यथा नीवीं अवलिखतो द्वि-गुणः ॥ ०२.७.३४ ॥
राज-अर्थे कारणिकस्य अ प्रतिबध्नतः प्रतिषेधयतः वा आज्ञाम् निबन्ध-आदाय-व्ययम् अन्यथा नीवीम् अवलिखतः द्वि-गुणः ॥ ०२।७।३४ ॥
rāja-arthe kāraṇikasya a pratibadhnataḥ pratiṣedhayataḥ vā ājñām nibandha-ādāya-vyayam anyathā nīvīm avalikhataḥ dvi-guṇaḥ .. 02.7.34 ..
क्रम-अवहीनं उत्क्रमं अविज्ञातं पुनर्-उक्तं वा वस्तुकं अवलिखतो द्वादश-पणो दण्डः ॥ ०२.७.३५ ॥
क्रम-अवहीनम् उत्क्रमम् अविज्ञातम् पुनर् उक्तम् वा वस्तुकम् अवलिखतः द्वादश-पणः दण्डः ॥ ०२।७।३५ ॥
krama-avahīnam utkramam avijñātam punar uktam vā vastukam avalikhataḥ dvādaśa-paṇaḥ daṇḍaḥ .. 02.7.35 ..
नीवीं अवलिखतो द्वि-गुणः ॥ ०२.७.३६ ॥
नीवीम् अवलिखतः द्वि-गुणः ॥ ०२।७।३६ ॥
nīvīm avalikhataḥ dvi-guṇaḥ .. 02.7.36 ..
भक्षयतोअष्ट-गुणः ॥ ०२.७.३७ ॥
भक्षयतः अष्ट-गुणः ॥ ०२।७।३७ ॥
bhakṣayataḥ aṣṭa-guṇaḥ .. 02.7.37 ..
नाशयतः पञ्च-बन्धः प्रतिदानं च ॥ ०२.७.३८ ॥
नाशयतः पञ्च-बन्धः प्रतिदानम् च ॥ ०२।७।३८ ॥
nāśayataḥ pañca-bandhaḥ pratidānam ca .. 02.7.38 ..
मिथ्या-वादे स्तेय-दण्डः ॥ ०२.७.३९ ॥
मिथ्या वादे स्तेय-दण्डः ॥ ०२।७।३९ ॥
mithyā vāde steya-daṇḍaḥ .. 02.7.39 ..
पश्चात्-प्रतिज्ञाते द्वि-गुणः । प्रस्मृत-उत्पन्ने च ॥ ०२.७.४० ॥
पश्चात् प्रतिज्ञाते द्वि-गुणः । प्रस्मृत-उत्पन्ने च ॥ ०२।७।४० ॥
paścāt pratijñāte dvi-guṇaḥ . prasmṛta-utpanne ca .. 02.7.40 ..
अपराधं सहेताल्पं तुष्येदल्पेअपि चौदये ॥ ०२.७.४१अ ब ॥
अपराधम् सहेत अल्पम् तुष्येत् अल्पे अपि च औदये ॥ ०२।७।४१अ ब ॥
aparādham saheta alpam tuṣyet alpe api ca audaye .. 02.7.41a ba ..
महा-उपकारं चाध्यक्षं प्रग्रहेणाभिपूजयेत् ॥ ०२.७.४१च्द् ॥
महा-उपकारम् च अध्यक्षम् प्रग्रहेण अभिपूजयेत् ॥ ०२।७।४१च् ॥
mahā-upakāram ca adhyakṣam pragraheṇa abhipūjayet .. 02.7.41c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In