| |
|

This overlay will guide you through the buttons:

कोश-पूर्वाः सर्व-आरम्भाः ॥ ०२.८.०१ ॥
कोश-पूर्वाः सर्व-आरम्भाः ॥ ०२।८।०१ ॥
kośa-pūrvāḥ sarva-ārambhāḥ .. 02.8.01 ..
तस्मात्पूर्वं कोशं अवेक्षेत ॥ ०२.८.०२ ॥
तस्मात् पूर्वम् कोशम् अवेक्षेत ॥ ०२।८।०२ ॥
tasmāt pūrvam kośam avekṣeta .. 02.8.02 ..
प्रचार-समृद्धिश्चरित्र-अनुग्रहश्चोर-निग्रहो युक्त-प्रतिषेधः सस्य-सम्पत्पण्य-बाहुल्यं उपसर्ग-प्रमोक्षः परिहार-क्षयो हिरण्य-उपायनं इति कोश-वृद्धिः ॥ ०२.८.०३ ॥
प्रचार-समृद्धिः चरित्र-अनुग्रहः चोर-निग्रहः युक्त-प्रतिषेधः सस्य-सम्पद् पण्य-बाहुल्यम् उपसर्ग-प्रमोक्षः परिहार-क्षयः हिरण्य-उपायनम् इति कोश-वृद्धिः ॥ ०२।८।०३ ॥
pracāra-samṛddhiḥ caritra-anugrahaḥ cora-nigrahaḥ yukta-pratiṣedhaḥ sasya-sampad paṇya-bāhulyam upasarga-pramokṣaḥ parihāra-kṣayaḥ hiraṇya-upāyanam iti kośa-vṛddhiḥ .. 02.8.03 ..
प्रतिबन्धः प्रयोगो व्यवहारोअवस्तारः परिहापणं उपभोगः परिवर्तनं अपहारश्चैति कोश-क्षयः ॥ ०२.८.०४ ॥
प्रतिबन्धः प्रयोगः व्यवहारः अवस्तारः परिहापणम् उपभोगः परिवर्तनम् अपहारः च एति कोश-क्षयः ॥ ०२।८।०४ ॥
pratibandhaḥ prayogaḥ vyavahāraḥ avastāraḥ parihāpaṇam upabhogaḥ parivartanam apahāraḥ ca eti kośa-kṣayaḥ .. 02.8.04 ..
सिद्धीनां असाधनं अनवतारणं अप्रवेशनं वा प्रतिबन्धः ॥ ०२.८.०५ ॥
सिद्धीनाम् असाधनम् अनवतारणम् अप्रवेशनम् वा प्रतिबन्धः ॥ ०२।८।०५ ॥
siddhīnām asādhanam anavatāraṇam apraveśanam vā pratibandhaḥ .. 02.8.05 ..
तत्र दश-बन्धो दण्डः ॥ ०२.८.०६ ॥
तत्र दश-बन्धः दण्डः ॥ ०२।८।०६ ॥
tatra daśa-bandhaḥ daṇḍaḥ .. 02.8.06 ..
कोश-द्रव्याणां वृद्धि-प्रयोगाः प्रयोगः ॥ ०२.८.०७ ॥
कोश-द्रव्याणाम् वृद्धि-प्रयोगाः प्रयोगः ॥ ०२।८।०७ ॥
kośa-dravyāṇām vṛddhi-prayogāḥ prayogaḥ .. 02.8.07 ..
पण्य-व्यवहारो व्यवहारः ॥ ०२.८.०८ ॥
पण्य-व्यवहारः व्यवहारः ॥ ०२।८।०८ ॥
paṇya-vyavahāraḥ vyavahāraḥ .. 02.8.08 ..
तत्र फल-द्वि-गुणो दण्डः ॥ ०२.८.०९ ॥
तत्र फल-द्वि-गुणः दण्डः ॥ ०२।८।०९ ॥
tatra phala-dvi-guṇaḥ daṇḍaḥ .. 02.8.09 ..
सिद्धं कालं अप्राप्तं करोति अप्राप्तं प्राप्तं वाइत्यवस्तारः ॥ ०२.८.१० ॥
सिद्धम् कालम् अ प्राप्तम् करोति अ प्राप्तम् प्राप्तम् ॥ ०२।८।१० ॥
siddham kālam a prāptam karoti a prāptam prāptam .. 02.8.10 ..
तत्र पञ्च-बन्धो दण्डः ॥ ०२.८.११ ॥
तत्र पञ्च-बन्धः दण्डः ॥ ०२।८।११ ॥
tatra pañca-bandhaḥ daṇḍaḥ .. 02.8.11 ..
क्लृप्तम्(क्ल्प्तम्) आयं परिहापयति व्ययं वा विवर्धयतिइति परिहापणं ॥ ०२.८.१२ ॥
क्लृप्तम्(क्ल्प्तम् ॥ ०२।८।१२ ॥
klṛptam(klptam .. 02.8.12 ..
तत्र हीन-चतुर्-गुणो दण्डः ॥ ०२.८.१३ ॥
तत्र हीन-चतुर्-गुणः दण्डः ॥ ०२।८।१३ ॥
tatra hīna-catur-guṇaḥ daṇḍaḥ .. 02.8.13 ..
स्वयं अन्यैर्वा राज-द्रव्याणां उपभोजनं उपभोगः ॥ ०२.८.१४ ॥
स्वयम् अन्यैः वा राज-द्रव्याणाम् उपभोजनम् उपभोगः ॥ ०२।८।१४ ॥
svayam anyaiḥ vā rāja-dravyāṇām upabhojanam upabhogaḥ .. 02.8.14 ..
तत्र रत्न-उपभोगे घातः । सार-उपभोगे मध्यमः साहस-दण्डः । फल्गु-कुप्य-उपभोगे तच्च तावत् च दण्डः ॥ ०२.८.१५ ॥
तत्र रत्न-उपभोगे घातः । सार-उपभोगे मध्यमः साहस-दण्डः । फल्गु-कुप्य-उपभोगे तत् च तावत् च दण्डः ॥ ०२।८।१५ ॥
tatra ratna-upabhoge ghātaḥ . sāra-upabhoge madhyamaḥ sāhasa-daṇḍaḥ . phalgu-kupya-upabhoge tat ca tāvat ca daṇḍaḥ .. 02.8.15 ..
राज-द्रव्याणां अन्य-द्रव्येनऽदानं परिवर्तनं ॥ ०२.८.१६ ॥
राज-द्रव्याणाम् अन्य-द्रव्येन अदानम् परिवर्तनम् ॥ ०२।८।१६ ॥
rāja-dravyāṇām anya-dravyena adānam parivartanam .. 02.8.16 ..
तदुपभोगेन व्याख्यातं ॥ ०२.८.१७ ॥
तद्-उपभोगेन व्याख्यातम् ॥ ०२।८।१७ ॥
tad-upabhogena vyākhyātam .. 02.8.17 ..
सिद्धं आयं न प्रवेशयति । निबद्धं व्ययं न प्रयच्छति । प्राप्तां नीवीं विप्रतिजानीत इत्यपहारः ॥ ०२.८.१८ ॥
सिद्धम् आयम् न प्रवेशयति । निबद्धम् व्ययम् न प्रयच्छति । प्राप्ताम् नीवीम् विप्रतिजानीते इति अपहारः ॥ ०२।८।१८ ॥
siddham āyam na praveśayati . nibaddham vyayam na prayacchati . prāptām nīvīm vipratijānīte iti apahāraḥ .. 02.8.18 ..
तत्र द्वादश-गुणो दण्डः ॥ ०२.८.१९ ॥
तत्र द्वादश-गुणः दण्डः ॥ ०२।८।१९ ॥
tatra dvādaśa-guṇaḥ daṇḍaḥ .. 02.8.19 ..
तेषां हरण-उपायाश्चत्वारिंशत् ॥ ०२.८.२० ॥
तेषाम् हरण-उपायाः चत्वारिंशत् ॥ ०२।८।२० ॥
teṣām haraṇa-upāyāḥ catvāriṃśat .. 02.8.20 ..
पूर्वं सिद्धं पश्चादवतारितम् । पश्चात्सिद्धं पूर्वं अवतारितम् । साध्यं न सिद्धम् । असाध्यं सिद्धम् । सिद्धं असिद्धं कृतम् । असिद्धं सिद्धं कृतम् । अल्प-सिद्धं बहु कृतम् । बहु-सिद्धं अल्पं कृतम् । अन्यत्सिद्धं अन्यत्कृतम् । अन्यतः सिद्धं अन्यतः कृतम् । ॥ ०२.८.२१अ ॥
पूर्वम् सिद्धम् पश्चात् अवतारितम् । पश्चात् सिद्धम् पूर्वम् अवतारितम् । साध्यम् न सिद्धम् । असाध्यम् सिद्धम् । सिद्धम् अ सिद्धम् कृतम् । असिद्धम् सिद्धम् कृतम् । अल्प-सिद्धम् बहु कृतम् । बहु-सिद्धम् अल्पम् कृतम् । अन्यत् सिद्धम् अन्यत् कृतम् । अन्यतस् सिद्धम् अन्यतस् कृतम् । ॥ ०२।८।२१अ ॥
pūrvam siddham paścāt avatāritam . paścāt siddham pūrvam avatāritam . sādhyam na siddham . asādhyam siddham . siddham a siddham kṛtam . asiddham siddham kṛtam . alpa-siddham bahu kṛtam . bahu-siddham alpam kṛtam . anyat siddham anyat kṛtam . anyatas siddham anyatas kṛtam . .. 02.8.21a ..
देयं न दत्तम् । अदेयं दत्तम् । काले न दत्तम् । अकाले दत्तम् । अल्पं दत्तं बहु कृतम् । बहु दत्तं अल्पं कृतम् । अन्यद्दत्तं अन्यत्कृतम् । अन्यतो दत्तं अन्यतः कृतम् । ॥ ०२.८.२१ब ॥
देयम् न दत्तम् । अदेयम् दत्तम् । काले न दत्तम् । अकाले दत्तम् । अल्पम् दत्तम् बहु कृतम् । बहु दत्तम् अल्पम् कृतम् । अन्यत् दत्तम् अन्यत् कृतम् । अन्यतस् दत्तम् अन्यतस् कृतम् । ॥ ०२।८।२१ब ॥
deyam na dattam . adeyam dattam . kāle na dattam . akāle dattam . alpam dattam bahu kṛtam . bahu dattam alpam kṛtam . anyat dattam anyat kṛtam . anyatas dattam anyatas kṛtam . .. 02.8.21ba ..
प्रविष्टं अप्रविष्टं कृतम् । अप्रविष्टं प्रविष्टं कृतम् । कुप्यं अदत्त-मूल्यं प्रविष्टम् । दत्त-मूल्यं न प्रविष्टं ॥ ०२.८.२१क ॥
प्रविष्टम् अ प्रविष्टम् कृतम् । अ प्रविष्टम् प्रविष्टम् कृतम् । कुप्यम् अदत्त-मूल्यम् प्रविष्टम् । दत्त-मूल्यम् न प्रविष्टम् ॥ ०२।८।२१क ॥
praviṣṭam a praviṣṭam kṛtam . a praviṣṭam praviṣṭam kṛtam . kupyam adatta-mūlyam praviṣṭam . datta-mūlyam na praviṣṭam .. 02.8.21ka ..
संक्षेपो विक्षेपः कृतः । विक्षेपः संक्षेपो वा । महा-अर्घं अल्प-अर्घेण परिवर्तितम् । अल्प-अर्घं महा-अर्घेण वा ॥ ०२.८.२१ड ॥
संक्षेपः विक्षेपः कृतः । विक्षेपः संक्षेपः वा । महा-अर्घम् अल्प-अर्घेण परिवर्तितम् । अल्प-अर्घम् महा-अर्घेण वा ॥ ०२।८।२१ड ॥
saṃkṣepaḥ vikṣepaḥ kṛtaḥ . vikṣepaḥ saṃkṣepaḥ vā . mahā-argham alpa-argheṇa parivartitam . alpa-argham mahā-argheṇa vā .. 02.8.21ḍa ..
समारोपितोअर्घः । प्रत्यवरोपितो वा । संवत्सरो मास-विषमः कृतः । मासो दिवस-विषमो वा । समागम-विषमः । मुख-विषमः । कार्मिक-विषमः ॥ ०२.८.२१ए ॥
समारोपितः अर्घः । प्रत्यवरोपितः वा । संवत्सरः मास-विषमः कृतः । मासः दिवस-विषमः वा । समागम-विषमः । मुख-विषमः । कार्मिक-विषमः ॥ ०२।८।२१ए ॥
samāropitaḥ arghaḥ . pratyavaropitaḥ vā . saṃvatsaraḥ māsa-viṣamaḥ kṛtaḥ . māsaḥ divasa-viṣamaḥ vā . samāgama-viṣamaḥ . mukha-viṣamaḥ . kārmika-viṣamaḥ .. 02.8.21e ..
निर्वर्तन-विषमः । पिण्ड-विषमः । वर्ण-विषमः । अर्घ-विषमः । मान-विषमः । मापन-विषमः । भाजन-विषमः इति हरण-उपायाः ॥ ०२.८.२१फ़् ॥
निर्वर्तन-विषमः । पिण्ड-विषमः । वर्ण-विषमः । अर्घ-विषमः । मान-विषमः । मापन-विषमः । भाजन-विषमः इति हरण-उपायाः ॥ ०२।८।२१ ॥
nirvartana-viṣamaḥ . piṇḍa-viṣamaḥ . varṇa-viṣamaḥ . argha-viṣamaḥ . māna-viṣamaḥ . māpana-viṣamaḥ . bhājana-viṣamaḥ iti haraṇa-upāyāḥ .. 02.8.21 ..
तत्रौपयुक्त-निधायक-निबन्धक-प्रतिग्राहक-दायक-दापक-मन्त्रि-वैयावृत्य-करानेक-एकशोअनुयुञ्जीत ॥ ०२.८.२२ ॥
तत्र औपयुक्त-निधायक-निबन्धक-प्रतिग्राहक-दायक-दापक-मन्त्रि-वैयावृत्य-कर-अनेक-एकशस् अनुयुञ्जीत ॥ ०२।८।२२ ॥
tatra aupayukta-nidhāyaka-nibandhaka-pratigrāhaka-dāyaka-dāpaka-mantri-vaiyāvṛtya-kara-aneka-ekaśas anuyuñjīta .. 02.8.22 ..
मिथ्या-वादे चएषां युक्त-समो दण्डः ॥ ०२.८.२३ ॥
मिथ्या वादे च एषाम् युक्त-समः दण्डः ॥ ०२।८।२३ ॥
mithyā vāde ca eṣām yukta-samaḥ daṇḍaḥ .. 02.8.23 ..
प्रचारे चावघोषयेत्"अमुना प्रकृतेनौपहताः प्रज्ञापयन्तु" इति ॥ ०२.८.२४ ॥
प्रचारे च अवघोषयेत्"अमुना प्रकृतेन औपहताः प्रज्ञापयन्तु" इति ॥ ०२।८।२४ ॥
pracāre ca avaghoṣayet"amunā prakṛtena aupahatāḥ prajñāpayantu" iti .. 02.8.24 ..
प्रज्ञापयतो यथा-उपघातं दापयेत् ॥ ०२.८.२५ ॥
प्रज्ञापयतः यथा उपघातम् दापयेत् ॥ ०२।८।२५ ॥
prajñāpayataḥ yathā upaghātam dāpayet .. 02.8.25 ..
अनेकेषु चाभियोगेष्वपव्ययमानः सकृदेव पर-उक्तः सर्वं भजेत ॥ ०२.८.२६ ॥
अनेकेषु च अभियोगेषु अपव्यय-मानः सकृत् एव पर-उक्तः सर्वम् भजेत ॥ ०२।८।२६ ॥
anekeṣu ca abhiyogeṣu apavyaya-mānaḥ sakṛt eva para-uktaḥ sarvam bhajeta .. 02.8.26 ..
वैषम्ये सर्वत्रानुयोगं दद्यात् ॥ ०२.८.२७ ॥
वैषम्ये सर्वत्र अनुयोगम् दद्यात् ॥ ०२।८।२७ ॥
vaiṣamye sarvatra anuyogam dadyāt .. 02.8.27 ..
महत्यर्थ-अपहारे चाल्पेनापि सिद्धः सर्वं भजेत ॥ ०२.८.२८ ॥
महति अर्थ-अपहारे च अल्पेन अपि सिद्धः सर्वम् भजेत ॥ ०२।८।२८ ॥
mahati artha-apahāre ca alpena api siddhaḥ sarvam bhajeta .. 02.8.28 ..
कृत-प्रतिघात-अवस्थः सूचको निष्पन्न-अर्थः षष्ठं अंशं लभेत । द्वादशं अंशं भृतकः ॥ ०२.८.२९ ॥
कृत-प्रतिघात-अवस्थः सूचकः निष्पन्न-अर्थः षष्ठम् अंशम् लभेत । द्वादशम् अंशम् भृतकः ॥ ०२।८।२९ ॥
kṛta-pratighāta-avasthaḥ sūcakaḥ niṣpanna-arthaḥ ṣaṣṭham aṃśam labheta . dvādaśam aṃśam bhṛtakaḥ .. 02.8.29 ..
प्रभूत-अभियोगादल्प-निष्पत्तौ निष्पन्नस्यांशं लभेत ॥ ०२.८.३० ॥
प्रभूत-अभियोगात् अल्प-निष्पत्तौ निष्पन्नस्य अंशम् लभेत ॥ ०२।८।३० ॥
prabhūta-abhiyogāt alpa-niṣpattau niṣpannasya aṃśam labheta .. 02.8.30 ..
अनिष्पन्ने शारीरं हैरण्यं वा दण्डं लभेत । न चानुग्राह्यः ॥ ०२.८.३१ ॥
अ निष्पन्ने शारीरम् हैरण्यम् वा दण्डम् लभेत । न च अनुग्राह्यः ॥ ०२।८।३१ ॥
a niṣpanne śārīram hairaṇyam vā daṇḍam labheta . na ca anugrāhyaḥ .. 02.8.31 ..
निष्पत्तौ निक्षिपेद्वादं आत्मानं वाअपवाहयेत् । ॥ ०२.८.३२अ ब ॥
निष्पत्तौ निक्षिपेत् वादम् आत्मानम् वा अपवाहयेत् । ॥ ०२।८।३२अ ब ॥
niṣpattau nikṣipet vādam ātmānam vā apavāhayet . .. 02.8.32a ba ..
अभियुक्त-उपजापात्तु सूचको वधं आप्नुयात् ॥ ०२.८.३२च्द् ॥
अभियुक्त-उपजापात् तु सूचकः वधम् आप्नुयात् ॥ ०२।८।३२च् ॥
abhiyukta-upajāpāt tu sūcakaḥ vadham āpnuyāt .. 02.8.32c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In