| |
|

This overlay will guide you through the buttons:

कोश-पूर्वाः सर्व-आरम्भाः ॥ ०२.८.०१ ॥
kośa-pūrvāḥ sarva-ārambhāḥ .. 02.8.01 ..
तस्मात्पूर्वं कोशं अवेक्षेत ॥ ०२.८.०२ ॥
tasmātpūrvaṃ kośaṃ avekṣeta .. 02.8.02 ..
प्रचार-समृद्धिश्चरित्र-अनुग्रहश्चोर-निग्रहो युक्त-प्रतिषेधः सस्य-सम्पत्पण्य-बाहुल्यं उपसर्ग-प्रमोक्षः परिहार-क्षयो हिरण्य-उपायनं इति कोश-वृद्धिः ॥ ०२.८.०३ ॥
pracāra-samṛddhiścaritra-anugrahaścora-nigraho yukta-pratiṣedhaḥ sasya-sampatpaṇya-bāhulyaṃ upasarga-pramokṣaḥ parihāra-kṣayo hiraṇya-upāyanaṃ iti kośa-vṛddhiḥ .. 02.8.03 ..
प्रतिबन्धः प्रयोगो व्यवहारोअवस्तारः परिहापणं उपभोगः परिवर्तनं अपहारश्चैति कोश-क्षयः ॥ ०२.८.०४ ॥
pratibandhaḥ prayogo vyavahāroavastāraḥ parihāpaṇaṃ upabhogaḥ parivartanaṃ apahāraścaiti kośa-kṣayaḥ .. 02.8.04 ..
सिद्धीनां असाधनं अनवतारणं अप्रवेशनं वा प्रतिबन्धः ॥ ०२.८.०५ ॥
siddhīnāṃ asādhanaṃ anavatāraṇaṃ apraveśanaṃ vā pratibandhaḥ .. 02.8.05 ..
तत्र दश-बन्धो दण्डः ॥ ०२.८.०६ ॥
tatra daśa-bandho daṇḍaḥ .. 02.8.06 ..
कोश-द्रव्याणां वृद्धि-प्रयोगाः प्रयोगः ॥ ०२.८.०७ ॥
kośa-dravyāṇāṃ vṛddhi-prayogāḥ prayogaḥ .. 02.8.07 ..
पण्य-व्यवहारो व्यवहारः ॥ ०२.८.०८ ॥
paṇya-vyavahāro vyavahāraḥ .. 02.8.08 ..
तत्र फल-द्वि-गुणो दण्डः ॥ ०२.८.०९ ॥
tatra phala-dvi-guṇo daṇḍaḥ .. 02.8.09 ..
सिद्धं कालं अप्राप्तं करोति अप्राप्तं प्राप्तं वाइत्यवस्तारः ॥ ०२.८.१० ॥
siddhaṃ kālaṃ aprāptaṃ karoti aprāptaṃ prāptaṃ vāityavastāraḥ .. 02.8.10 ..
तत्र पञ्च-बन्धो दण्डः ॥ ०२.८.११ ॥
tatra pañca-bandho daṇḍaḥ .. 02.8.11 ..
क्लृप्तम्(क्ल्प्तम्) आयं परिहापयति व्ययं वा विवर्धयतिइति परिहापणं ॥ ०२.८.१२ ॥
klṛptam(klptam) āyaṃ parihāpayati vyayaṃ vā vivardhayatiiti parihāpaṇaṃ .. 02.8.12 ..
तत्र हीन-चतुर्-गुणो दण्डः ॥ ०२.८.१३ ॥
tatra hīna-catur-guṇo daṇḍaḥ .. 02.8.13 ..
स्वयं अन्यैर्वा राज-द्रव्याणां उपभोजनं उपभोगः ॥ ०२.८.१४ ॥
svayaṃ anyairvā rāja-dravyāṇāṃ upabhojanaṃ upabhogaḥ .. 02.8.14 ..
तत्र रत्न-उपभोगे घातः । सार-उपभोगे मध्यमः साहस-दण्डः । फल्गु-कुप्य-उपभोगे तच्च तावत् च दण्डः ॥ ०२.८.१५ ॥
tatra ratna-upabhoge ghātaḥ . sāra-upabhoge madhyamaḥ sāhasa-daṇḍaḥ . phalgu-kupya-upabhoge tacca tāvat ca daṇḍaḥ .. 02.8.15 ..
राज-द्रव्याणां अन्य-द्रव्येनऽदानं परिवर्तनं ॥ ०२.८.१६ ॥
rāja-dravyāṇāṃ anya-dravyena'dānaṃ parivartanaṃ .. 02.8.16 ..
तदुपभोगेन व्याख्यातं ॥ ०२.८.१७ ॥
tadupabhogena vyākhyātaṃ .. 02.8.17 ..
सिद्धं आयं न प्रवेशयति । निबद्धं व्ययं न प्रयच्छति । प्राप्तां नीवीं विप्रतिजानीत इत्यपहारः ॥ ०२.८.१८ ॥
siddhaṃ āyaṃ na praveśayati . nibaddhaṃ vyayaṃ na prayacchati . prāptāṃ nīvīṃ vipratijānīta ityapahāraḥ .. 02.8.18 ..
तत्र द्वादश-गुणो दण्डः ॥ ०२.८.१९ ॥
tatra dvādaśa-guṇo daṇḍaḥ .. 02.8.19 ..
तेषां हरण-उपायाश्चत्वारिंशत् ॥ ०२.८.२० ॥
teṣāṃ haraṇa-upāyāścatvāriṃśat .. 02.8.20 ..
पूर्वं सिद्धं पश्चादवतारितम् । पश्चात्सिद्धं पूर्वं अवतारितम् । साध्यं न सिद्धम् । असाध्यं सिद्धम् । सिद्धं असिद्धं कृतम् । असिद्धं सिद्धं कृतम् । अल्प-सिद्धं बहु कृतम् । बहु-सिद्धं अल्पं कृतम् । अन्यत्सिद्धं अन्यत्कृतम् । अन्यतः सिद्धं अन्यतः कृतम् । ॥ ०२.८.२१अ ॥
pūrvaṃ siddhaṃ paścādavatāritam . paścātsiddhaṃ pūrvaṃ avatāritam . sādhyaṃ na siddham . asādhyaṃ siddham . siddhaṃ asiddhaṃ kṛtam . asiddhaṃ siddhaṃ kṛtam . alpa-siddhaṃ bahu kṛtam . bahu-siddhaṃ alpaṃ kṛtam . anyatsiddhaṃ anyatkṛtam . anyataḥ siddhaṃ anyataḥ kṛtam . .. 02.8.21a ..
देयं न दत्तम् । अदेयं दत्तम् । काले न दत्तम् । अकाले दत्तम् । अल्पं दत्तं बहु कृतम् । बहु दत्तं अल्पं कृतम् । अन्यद्दत्तं अन्यत्कृतम् । अन्यतो दत्तं अन्यतः कृतम् । ॥ ०२.८.२१ब ॥
deyaṃ na dattam . adeyaṃ dattam . kāle na dattam . akāle dattam . alpaṃ dattaṃ bahu kṛtam . bahu dattaṃ alpaṃ kṛtam . anyaddattaṃ anyatkṛtam . anyato dattaṃ anyataḥ kṛtam . .. 02.8.21ba ..
प्रविष्टं अप्रविष्टं कृतम् । अप्रविष्टं प्रविष्टं कृतम् । कुप्यं अदत्त-मूल्यं प्रविष्टम् । दत्त-मूल्यं न प्रविष्टं ॥ ०२.८.२१क ॥
praviṣṭaṃ apraviṣṭaṃ kṛtam . apraviṣṭaṃ praviṣṭaṃ kṛtam . kupyaṃ adatta-mūlyaṃ praviṣṭam . datta-mūlyaṃ na praviṣṭaṃ .. 02.8.21ka ..
संक्षेपो विक्षेपः कृतः । विक्षेपः संक्षेपो वा । महा-अर्घं अल्प-अर्घेण परिवर्तितम् । अल्प-अर्घं महा-अर्घेण वा ॥ ०२.८.२१ड ॥
saṃkṣepo vikṣepaḥ kṛtaḥ . vikṣepaḥ saṃkṣepo vā . mahā-arghaṃ alpa-argheṇa parivartitam . alpa-arghaṃ mahā-argheṇa vā .. 02.8.21ḍa ..
समारोपितोअर्घः । प्रत्यवरोपितो वा । संवत्सरो मास-विषमः कृतः । मासो दिवस-विषमो वा । समागम-विषमः । मुख-विषमः । कार्मिक-विषमः ॥ ०२.८.२१ए ॥
samāropitoarghaḥ . pratyavaropito vā . saṃvatsaro māsa-viṣamaḥ kṛtaḥ . māso divasa-viṣamo vā . samāgama-viṣamaḥ . mukha-viṣamaḥ . kārmika-viṣamaḥ .. 02.8.21e ..
निर्वर्तन-विषमः । पिण्ड-विषमः । वर्ण-विषमः । अर्घ-विषमः । मान-विषमः । मापन-विषमः । भाजन-विषमः इति हरण-उपायाः ॥ ०२.८.२१फ़् ॥
nirvartana-viṣamaḥ . piṇḍa-viṣamaḥ . varṇa-viṣamaḥ . argha-viṣamaḥ . māna-viṣamaḥ . māpana-viṣamaḥ . bhājana-viṣamaḥ iti haraṇa-upāyāḥ .. 02.8.21f ..
तत्रौपयुक्त-निधायक-निबन्धक-प्रतिग्राहक-दायक-दापक-मन्त्रि-वैयावृत्य-करानेक-एकशोअनुयुञ्जीत ॥ ०२.८.२२ ॥
tatraupayukta-nidhāyaka-nibandhaka-pratigrāhaka-dāyaka-dāpaka-mantri-vaiyāvṛtya-karāneka-ekaśoanuyuñjīta .. 02.8.22 ..
मिथ्या-वादे चएषां युक्त-समो दण्डः ॥ ०२.८.२३ ॥
mithyā-vāde caeṣāṃ yukta-samo daṇḍaḥ .. 02.8.23 ..
प्रचारे चावघोषयेत्"अमुना प्रकृतेनौपहताः प्रज्ञापयन्तु" इति ॥ ०२.८.२४ ॥
pracāre cāvaghoṣayet"amunā prakṛtenaupahatāḥ prajñāpayantu" iti .. 02.8.24 ..
प्रज्ञापयतो यथा-उपघातं दापयेत् ॥ ०२.८.२५ ॥
prajñāpayato yathā-upaghātaṃ dāpayet .. 02.8.25 ..
अनेकेषु चाभियोगेष्वपव्ययमानः सकृदेव पर-उक्तः सर्वं भजेत ॥ ०२.८.२६ ॥
anekeṣu cābhiyogeṣvapavyayamānaḥ sakṛdeva para-uktaḥ sarvaṃ bhajeta .. 02.8.26 ..
वैषम्ये सर्वत्रानुयोगं दद्यात् ॥ ०२.८.२७ ॥
vaiṣamye sarvatrānuyogaṃ dadyāt .. 02.8.27 ..
महत्यर्थ-अपहारे चाल्पेनापि सिद्धः सर्वं भजेत ॥ ०२.८.२८ ॥
mahatyartha-apahāre cālpenāpi siddhaḥ sarvaṃ bhajeta .. 02.8.28 ..
कृत-प्रतिघात-अवस्थः सूचको निष्पन्न-अर्थः षष्ठं अंशं लभेत । द्वादशं अंशं भृतकः ॥ ०२.८.२९ ॥
kṛta-pratighāta-avasthaḥ sūcako niṣpanna-arthaḥ ṣaṣṭhaṃ aṃśaṃ labheta . dvādaśaṃ aṃśaṃ bhṛtakaḥ .. 02.8.29 ..
प्रभूत-अभियोगादल्प-निष्पत्तौ निष्पन्नस्यांशं लभेत ॥ ०२.८.३० ॥
prabhūta-abhiyogādalpa-niṣpattau niṣpannasyāṃśaṃ labheta .. 02.8.30 ..
अनिष्पन्ने शारीरं हैरण्यं वा दण्डं लभेत । न चानुग्राह्यः ॥ ०२.८.३१ ॥
aniṣpanne śārīraṃ hairaṇyaṃ vā daṇḍaṃ labheta . na cānugrāhyaḥ .. 02.8.31 ..
निष्पत्तौ निक्षिपेद्वादं आत्मानं वाअपवाहयेत् । ॥ ०२.८.३२अ ब ॥
niṣpattau nikṣipedvādaṃ ātmānaṃ vāapavāhayet . .. 02.8.32a ba ..
अभियुक्त-उपजापात्तु सूचको वधं आप्नुयात् ॥ ०२.८.३२च्द् ॥
abhiyukta-upajāpāttu sūcako vadhaṃ āpnuyāt .. 02.8.32cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In