| |
|

This overlay will guide you through the buttons:

अमात्य-सम्पदाउपेताः सर्व-अध्यक्षाः शक्तितः कर्मसु नियोज्याः ॥ ०२.९.०१ ॥
अमात्य-सम्पदाउपेताः सर्व-अध्यक्षाः शक्तितः कर्मसु नियोज्याः ॥ ०२।९।०१ ॥
amātya-sampadāupetāḥ sarva-adhyakṣāḥ śaktitaḥ karmasu niyojyāḥ .. 02.9.01 ..
कर्मसु चएषां नित्यं परीक्षां कारयेत् । चित्त-अनित्यत्वात् मनुष्यानां ॥ ०२.९.०२ ॥
कर्मसु च एषाम् नित्यम् परीक्षाम् कारयेत् । चित्त-अनित्य-त्वात् मनुष्यानाम् ॥ ०२।९।०२ ॥
karmasu ca eṣām nityam parīkṣām kārayet . citta-anitya-tvāt manuṣyānām .. 02.9.02 ..
अश्व-सधर्माणो हि मनुष्या नियुक्ताः कर्मसु विकुर्वते ॥ ०२.९.०३ ॥
अश्व-सधर्माणः हि मनुष्याः नियुक्ताः कर्मसु विकुर्वते ॥ ०२।९।०३ ॥
aśva-sadharmāṇaḥ hi manuṣyāḥ niyuktāḥ karmasu vikurvate .. 02.9.03 ..
तस्मात्कर्तारं करणं देशं कालं कार्यं प्रक्षेपं उदयं चएषु विद्यात् ॥ ०२.९.०४ ॥
तस्मात् कर्तारम् करणम् देशम् कालम् कार्यम् प्रक्षेपम् उदयम् च एषु विद्यात् ॥ ०२।९।०४ ॥
tasmāt kartāram karaṇam deśam kālam kāryam prakṣepam udayam ca eṣu vidyāt .. 02.9.04 ..
ते यथा-संदेशं असंहता अविगृहीताः कर्माणि कुर्युः ॥ ०२.९.०५ ॥
ते यथा संदेशम् अ संहताः अ विगृहीताः कर्माणि कुर्युः ॥ ०२।९।०५ ॥
te yathā saṃdeśam a saṃhatāḥ a vigṛhītāḥ karmāṇi kuryuḥ .. 02.9.05 ..
संहता भक्षयेयुः । विगृहीता विनाशयेयुः ॥ ०२.९.०६ ॥
संहताः भक्षयेयुः । विगृहीताः विनाशयेयुः ॥ ०२।९।०६ ॥
saṃhatāḥ bhakṣayeyuḥ . vigṛhītāḥ vināśayeyuḥ .. 02.9.06 ..
न चानिवेद्य भर्तुः कंचिदारम्भं कुर्युः । अन्यत्रऽपत्-प्रतीकारेभ्यः ॥ ०२.९.०७ ॥
न च अ निवेद्य भर्तुः कंचिद् आरम्भम् कुर्युः । अन्यत्र ॥ ०२।९।०७ ॥
na ca a nivedya bhartuḥ kaṃcid ārambham kuryuḥ . anyatra .. 02.9.07 ..
प्रमाद-स्थानेषु चएषां अत्ययं स्थापयेद्दिवस-वेतन-व्यय-द्वि-गुणं ॥ ०२.९.०८ ॥
प्रमाद-स्थानेषु च एषाम् अत्ययम् स्थापयेत् दिवस-वेतन-व्यय-द्वि-गुणम् ॥ ०२।९।०८ ॥
pramāda-sthāneṣu ca eṣām atyayam sthāpayet divasa-vetana-vyaya-dvi-guṇam .. 02.9.08 ..
यश्चएषां यथा-आदिष्टं अर्थं सविशेषं वा करोति स स्थान-मानौ लभेत ॥ ०२.९.०९ ॥
यः च एषाम् यथा आदिष्टम् अर्थम् स विशेषम् वा करोति स स्थान-मानौ लभेत ॥ ०२।९।०९ ॥
yaḥ ca eṣām yathā ādiṣṭam artham sa viśeṣam vā karoti sa sthāna-mānau labheta .. 02.9.09 ..
अल्प-आयतिश्चेत् महा-व्ययो भक्षयति ॥ ०२.९.१० ॥
अल्प-आयतिः चेद् महा-व्ययः भक्षयति ॥ ०२।९।१० ॥
alpa-āyatiḥ ced mahā-vyayaḥ bhakṣayati .. 02.9.10 ..
विपर्यये यथा-आयति-व्ययश्च न भक्षयति इत्याचार्याः ॥ ०२.९.११ ॥
विपर्यये यथा आयति व्ययः च न भक्षयति इति आचार्याः ॥ ०२।९।११ ॥
viparyaye yathā āyati vyayaḥ ca na bhakṣayati iti ācāryāḥ .. 02.9.11 ..
अपसर्पेणएवौपलभ्येतैति कौटिल्यः ॥ ०२.९.१२ ॥
अपसर्पेण एव उपलभ्येत इति कौटिल्यः ॥ ०२।९।१२ ॥
apasarpeṇa eva upalabhyeta iti kauṭilyaḥ .. 02.9.12 ..
यः समुदयं परिहापयति स राज-अर्थं भक्षयति ॥ ०२.९.१३ ॥
यः समुदयम् परिहापयति स राज-अर्थम् भक्षयति ॥ ०२।९।१३ ॥
yaḥ samudayam parihāpayati sa rāja-artham bhakṣayati .. 02.9.13 ..
स चेदज्ञान-आदिभिः परिहापयति तदेनं यथा-गुणं दापयेत् ॥ ०२.९.१४ ॥
स चेद् अज्ञान-आदिभिः परिहापयति तत् एनम् यथागुणम् दापयेत् ॥ ०२।९।१४ ॥
sa ced ajñāna-ādibhiḥ parihāpayati tat enam yathāguṇam dāpayet .. 02.9.14 ..
यः समुदयं द्वि-गुणं उद्भावयति स जन-पदं भक्षयति ॥ ०२.९.१५ ॥
यः समुदयम् द्वि-गुणम् उद्भावयति स जन-पदम् भक्षयति ॥ ०२।९।१५ ॥
yaḥ samudayam dvi-guṇam udbhāvayati sa jana-padam bhakṣayati .. 02.9.15 ..
स चेद्राज-अर्थं उपनयत्यल्प-अपराधे वारयितव्यः । महति यथा-अपराधं दण्डयितव्यः ॥ ०२.९.१६ ॥
स चेद् राज-अर्थम् उपनयति अल्प-अपराधे वारयितव्यः । महति यथा अपराधम् दण्डयितव्यः ॥ ०२।९।१६ ॥
sa ced rāja-artham upanayati alpa-aparādhe vārayitavyaḥ . mahati yathā aparādham daṇḍayitavyaḥ .. 02.9.16 ..
यः समुदयं व्ययं उपनयति स पुरुष-कर्माणि भक्षयति ॥ ०२.९.१७ ॥
यः समुदयम् व्ययम् उपनयति स पुरुष-कर्माणि भक्षयति ॥ ०२।९।१७ ॥
yaḥ samudayam vyayam upanayati sa puruṣa-karmāṇi bhakṣayati .. 02.9.17 ..
स कर्म-दिवस-द्रव्य-मूल्य-पुरुष-वेतन-अपहारेषु यथा-अपराधं दण्डयितव्यः ॥ ०२.९.१८ ॥
स कर्म-दिवस-द्रव्य-मूल्य-पुरुष-वेतन-अपहारेषु यथा अपराधम् दण्डयितव्यः ॥ ०२।९।१८ ॥
sa karma-divasa-dravya-mūlya-puruṣa-vetana-apahāreṣu yathā aparādham daṇḍayitavyaḥ .. 02.9.18 ..
तस्मादस्य यो यस्मिन्नधिकरणे शासनस्थः स तस्य कर्मणो याथातथ्यं आय-व्ययौ च व्यास-समासाभ्यां आचक्षीत ॥ ०२.९.१९ ॥
तस्मात् अस्य यः यस्मिन् अधिकरणे शासन-स्थः स तस्य कर्मणः याथातथ्यम् आय-व्ययौ च व्यास-समासाभ्याम् आचक्षीत ॥ ०२।९।१९ ॥
tasmāt asya yaḥ yasmin adhikaraṇe śāsana-sthaḥ sa tasya karmaṇaḥ yāthātathyam āya-vyayau ca vyāsa-samāsābhyām ācakṣīta .. 02.9.19 ..
मूल-हर-तादात्विक-कदर्यांश्च प्रतिषेधयेत् ॥ ०२.९.२० ॥
मूल-हर-तादात्विक-कदर्यान् च प्रतिषेधयेत् ॥ ०२।९।२० ॥
mūla-hara-tādātvika-kadaryān ca pratiṣedhayet .. 02.9.20 ..
यः पितृ-पैतामहं अर्थं अन्यायेन भक्षयति स मूल-हरः ॥ ०२.९.२१ ॥
यः पितृ-पैतामहम् अर्थम् अन्यायेन भक्षयति स मूल-हरः ॥ ०२।९।२१ ॥
yaḥ pitṛ-paitāmaham artham anyāyena bhakṣayati sa mūla-haraḥ .. 02.9.21 ..
यो यद्यदुत्पद्यते तत्तद्भक्षयति स तादात्विकः ॥ ०२.९.२२ ॥
यः यत् यत् उत्पद्यते तत् तत् भक्षयति स तादात्विकः ॥ ०२।९।२२ ॥
yaḥ yat yat utpadyate tat tat bhakṣayati sa tādātvikaḥ .. 02.9.22 ..
यो भृत्य-आत्म-पीडाभ्यां उपचिनोत्यर्थं स कदर्यः ॥ ०२.९.२३ ॥
यः भृत्य-आत्म-पीडाभ्याम् उपचिनोति अर्थम् स कदर्यः ॥ ०२।९।२३ ॥
yaḥ bhṛtya-ātma-pīḍābhyām upacinoti artham sa kadaryaḥ .. 02.9.23 ..
स पक्षवांश्चेदनादेयः । विपर्यये पर्यादातव्यः ॥ ०२.९.२४ ॥
स पक्षवान् चेद् अनादेयः । विपर्यये पर्यादातव्यः ॥ ०२।९।२४ ॥
sa pakṣavān ced anādeyaḥ . viparyaye paryādātavyaḥ .. 02.9.24 ..
यो महत्यर्थ-समुदये स्थितः कदर्यः सम्निधत्तेअवनिधत्तेअवस्रावयति वा सम्निधत्ते स्व-वेश्मनि । अवनिधत्ते पौर-जानपदेषु । अवस्रावयति पर-विषये तस्य सत्त्री मन्त्रि-मित्र-भृत्य-बन्धु-पक्षं आगतिं गतिं च द्रव्याणां उपलभेत ॥ ०२.९.२५ ॥
यः महति अर्थ-समुदये स्थितः कदर्यः सम्निधत्ते अवनिधत्ते अवस्रावयति वा सम्निधत्ते स्व-वेश्मनि । अवनिधत्ते पौर-जानपदेषु । अवस्रावयति पर-विषये तस्य सत्त्री मन्त्रि-मित्र-भृत्य-बन्धु-पक्षम् आगतिम् गतिम् च द्रव्याणाम् उपलभेत ॥ ०२।९।२५ ॥
yaḥ mahati artha-samudaye sthitaḥ kadaryaḥ samnidhatte avanidhatte avasrāvayati vā samnidhatte sva-veśmani . avanidhatte paura-jānapadeṣu . avasrāvayati para-viṣaye tasya sattrī mantri-mitra-bhṛtya-bandhu-pakṣam āgatim gatim ca dravyāṇām upalabheta .. 02.9.25 ..
यश्चास्य पर-विषये संचारं कुर्यात्तं अनुप्रविश्य मन्त्रं विद्यात् ॥ ०२.९.२६ ॥
यः च अस्य पर-विषये संचारम् कुर्यात् तम् अनुप्रविश्य मन्त्रम् विद्यात् ॥ ०२।९।२६ ॥
yaḥ ca asya para-viṣaye saṃcāram kuryāt tam anupraviśya mantram vidyāt .. 02.9.26 ..
सुविदिते शत्रु-शासन-अपदेशेनएनं घातयेत् ॥ ०२.९.२७ ॥
सु विदिते शत्रु-शासन-अपदेशेन एनम् घातयेत् ॥ ०२।९।२७ ॥
su vidite śatru-śāsana-apadeśena enam ghātayet .. 02.9.27 ..
तस्मादस्याध्यक्षाः संख्यायक-लेखक-रूप-दर्शक-नीवी-ग्राहक-उत्तर-अध्यक्ष-सखाः कर्मणि कुर्युः ॥ ०२.९.२८ ॥
तस्मात् अस्य अध्यक्षाः संख्यायक-लेखक-रूप-दर्शक-नीवी-ग्राहक-उत्तर-अध्यक्ष-सखाः कर्मणि कुर्युः ॥ ०२।९।२८ ॥
tasmāt asya adhyakṣāḥ saṃkhyāyaka-lekhaka-rūpa-darśaka-nīvī-grāhaka-uttara-adhyakṣa-sakhāḥ karmaṇi kuryuḥ .. 02.9.28 ..
उत्तर-अध्यक्षा हस्ति-अश्व-रथ-आरोहाः ॥ ०२.९.२९ ॥
उत्तर-अध्यक्षाः हस्ति-अश्व-रथ-आरोहाः ॥ ०२।९।२९ ॥
uttara-adhyakṣāḥ hasti-aśva-ratha-ārohāḥ .. 02.9.29 ..
तेषां अन्तेवासिनः शिल्प-शौच-युक्ताः संख्यायक-आदीनां अपसर्पाः ॥ ०२.९.३० ॥
तेषाम् अन्तेवासिनः शिल्प-शौच-युक्ताः संख्यायक-आदीनाम् अपसर्पाः ॥ ०२।९।३० ॥
teṣām antevāsinaḥ śilpa-śauca-yuktāḥ saṃkhyāyaka-ādīnām apasarpāḥ .. 02.9.30 ..
बहु-मुख्यं अनित्यं चाधिकरणं स्थापयेत् ॥ ०२.९.३१ ॥
बहु-मुख्यम् अनित्यम् च अधिकरणम् स्थापयेत् ॥ ०२।९।३१ ॥
bahu-mukhyam anityam ca adhikaraṇam sthāpayet .. 02.9.31 ..
यथा ह्यनास्वादयितुं न शक्यम् जिह्वा-तलस्थं मधु७ वा विषं वा ॥ ०२.९.३२अ ब ॥
यथा हि अन् आस्वादयितुम् न शक्यम् जिह्वा-तल-स्थम् मधु वा विषम् वा ॥ ०२।९।३२अ ब ॥
yathā hi an āsvādayitum na śakyam jihvā-tala-stham madhu vā viṣam vā .. 02.9.32a ba ..
अर्थस्तथा ह्यर्थ-चरेण राज्ञः स्वल्पोअप्यनास्वादयितुं न शक्यः ॥ ०२.९.३२च्द् ॥
अर्थः तथा हि अर्थ-चरेण राज्ञः सु अल्पः अपि अन् आस्वादयितुम् न शक्यः ॥ ०२।९।३२च् ॥
arthaḥ tathā hi artha-careṇa rājñaḥ su alpaḥ api an āsvādayitum na śakyaḥ .. 02.9.32c ..
मत्स्या यथाअन्तः सलिले चरन्तो ज्ञातुं न शक्याः सलिलं पिबन्तः । ॥ ०२.९.३३अ ब ॥
मत्स्याः यथा अन्तर् सलिले चरन्तः ज्ञातुम् न शक्याः सलिलम् पिबन्तः । ॥ ०२।९।३३अ ब ॥
matsyāḥ yathā antar salile carantaḥ jñātum na śakyāḥ salilam pibantaḥ . .. 02.9.33a ba ..
युक्तास्तथा कार्य-विधौ नियुक्ता ज्ञातुं न शक्या धनं आददानाः ॥ ०२.९.३३च्द् ॥
युक्ताः तथा कार्य-विधौ नियुक्ताः ज्ञातुम् न शक्याः धनम् आददानाः ॥ ०२।९।३३च् ॥
yuktāḥ tathā kārya-vidhau niyuktāḥ jñātum na śakyāḥ dhanam ādadānāḥ .. 02.9.33c ..
अपि शक्या गतिर्ज्ञातुं पततां खे पतत्रिणां । ॥ ०२.९.३४अ ब ॥
अपि शक्या गतिः ज्ञातुम् पतताम् खे पतत्रिणाम् । ॥ ०२।९।३४अ ब ॥
api śakyā gatiḥ jñātum patatām khe patatriṇām . .. 02.9.34a ba ..
न तु प्रच्छन्न-भावानां युक्तानां चरतां गतिः ॥ ०२.९.३४च्द् ॥
न तु प्रच्छन्न-भावानाम् युक्तानाम् चरताम् गतिः ॥ ०२।९।३४च् ॥
na tu pracchanna-bhāvānām yuktānām caratām gatiḥ .. 02.9.34c ..
आस्रावयेच्चौपचितान्विपर्यस्येच्च कर्मसु । ॥ ०२.९.३५अ ब ॥
आस्रावयेत् च औपचितान् विपर्यस्येत् च कर्मसु । ॥ ०२।९।३५अ ब ॥
āsrāvayet ca aupacitān viparyasyet ca karmasu . .. 02.9.35a ba ..
यथा न भक्षयन्त्यर्थं भक्षितं निर्वमन्ति वा ॥ ०२.९.३५च्द् ॥
यथा न भक्षयन्ति अर्थम् भक्षितम् निर्वमन्ति वा ॥ ०२।९।३५च् ॥
yathā na bhakṣayanti artham bhakṣitam nirvamanti vā .. 02.9.35c ..
न भक्षयन्ति ये त्वर्थान्न्यायतो वर्धयन्ति च । ॥ ०२.९.३६अ ब ॥
न भक्षयन्ति ये तु अर्थान् न्यायतः वर्धयन्ति च । ॥ ०२।९।३६अ ब ॥
na bhakṣayanti ye tu arthān nyāyataḥ vardhayanti ca . .. 02.9.36a ba ..
नित्य-अधिकाराः कार्यास्ते राज्ञः प्रिय-हिते रताः ॥ ०२.९.३६च्द् ॥
नित्य-अधिकाराः कार्याः ते राज्ञः प्रिय-हिते रताः ॥ ०२।९।३६च् ॥
nitya-adhikārāḥ kāryāḥ te rājñaḥ priya-hite ratāḥ .. 02.9.36c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In