| |
|

This overlay will guide you through the buttons:

संघ-लाभो दण्ड-मित्र-लाभानां उत्तमः ॥ ११.१.०१ ॥
संघ-लाभः दण्ड-मित्र-लाभानाम् उत्तमः ॥ ११।१।०१ ॥
saṃgha-lābhaḥ daṇḍa-mitra-lābhānām uttamaḥ .. 11.1.01 ..
संघा हि संहतत्वादधृष्याः परेषां ॥ ११.१.०२ ॥
संघाः हि संहत-त्वात् अधृष्याः परेषाम् ॥ ११।१।०२ ॥
saṃghāḥ hi saṃhata-tvāt adhṛṣyāḥ pareṣām .. 11.1.02 ..
ताननुगुणान्भुञ्जीत साम-दानाभ्याम् । विगुणान्भेद-दण्डाभ्यां ॥ ११.१.०३ ॥
तान् अनुगुणान् भुञ्जीत साम-दानाभ्याम् । विगुणान् भेद-दण्डाभ्याम् ॥ ११।१।०३ ॥
tān anuguṇān bhuñjīta sāma-dānābhyām . viguṇān bheda-daṇḍābhyām .. 11.1.03 ..
काम्बोज-सुराष्ट्र-क्षत्रिय-श्रेण्य्-आदयो वार्त्त-शस्त्र-उपजीविनः ॥ ११.१.०४ ॥
काम्बोज-सुराष्ट्र-क्षत्रिय-श्रेणि-आदयः वार्त्त-शस्त्र-उपजीविनः ॥ ११।१।०४ ॥
kāmboja-surāṣṭra-kṣatriya-śreṇi-ādayaḥ vārtta-śastra-upajīvinaḥ .. 11.1.04 ..
लिच्छिविक-वृजिक-मल्लक-मद्रक-कुकुर-कुरु-पाञ्चाल-आदयो राज-शब्द-उपजीविनः ॥ ११.१.०५ ॥
लिच्छिविक-वृजिक-मल्लक-मद्रक-कुकुर-कुरु-पाञ्चाल-आदयः राज-शब्द-उपजीविनः ॥ ११।१।०५ ॥
licchivika-vṛjika-mallaka-madraka-kukura-kuru-pāñcāla-ādayaḥ rāja-śabda-upajīvinaḥ .. 11.1.05 ..
सर्वेषां आसन्नाः सत्त्रिणः संघानां परस्पर-न्यङ्ग-द्वेष-वैर-कलह-स्थानान्युपलभ्य क्रम-अभिनीतं भेदं उपचारयेयुः "असौ त्वा विजल्पति" इति ॥ ११.१.०६ ॥
सर्वेषाम् आसन्नाः सत्त्रिणः संघानाम् परस्पर-न्यङ्ग-द्वेष-वैर-कलह-स्थानानि उपलभ्य क्रम-अभिनीतम् भेदम् उपचारयेयुः "असौ त्वा विजल्पति" इति ॥ ११।१।०६ ॥
sarveṣām āsannāḥ sattriṇaḥ saṃghānām paraspara-nyaṅga-dveṣa-vaira-kalaha-sthānāni upalabhya krama-abhinītam bhedam upacārayeyuḥ "asau tvā vijalpati" iti .. 11.1.06 ..
एवं उभयतो-बद्ध-रोषाणां विद्या-शिल्प-द्यूत-वैहारिकेष्वाचार्य-व्यञ्जना बाल-कलहानुत्पादयेयुः ॥ ११.१.०७ ॥
एवम् उभयतस् बद्ध-रोषाणाम् विद्या-शिल्प-द्यूत-वैहारिकेषु आचार्य-व्यञ्जनाः बाल-कलहान् उत्पादयेयुः ॥ ११।१।०७ ॥
evam ubhayatas baddha-roṣāṇām vidyā-śilpa-dyūta-vaihārikeṣu ācārya-vyañjanāḥ bāla-kalahān utpādayeyuḥ .. 11.1.07 ..
वेश-शौण्डिकेषु वा प्रतिलोम-प्रशंसाभिः संघ-मुख्य-मनुष्याणां तीक्ष्णाः कलहानुत्पादयेयुः । कृत्य-पक्ष-उपग्रहेण वा ॥ ११.१.०८ ॥
वेश-शौण्डिकेषु वा प्रतिलोम-प्रशंसाभिः संघ-मुख्य-मनुष्याणाम् तीक्ष्णाः कलहान् उत्पादयेयुः । कृत्य-पक्ष-उपग्रहेण वा ॥ ११।१।०८ ॥
veśa-śauṇḍikeṣu vā pratiloma-praśaṃsābhiḥ saṃgha-mukhya-manuṣyāṇām tīkṣṇāḥ kalahān utpādayeyuḥ . kṛtya-pakṣa-upagraheṇa vā .. 11.1.08 ..
कुमारकान्विशिष्टच्-छिन्दिकया हीनच्-छिन्दिकानुत्साहयेयुः ॥ ११.१.०९ ॥
कुमारकान् विशिष्ट-छिन्दिकया हीन-छिन्दिकान् उत्साहयेयुः ॥ ११।१।०९ ॥
kumārakān viśiṣṭa-chindikayā hīna-chindikān utsāhayeyuḥ .. 11.1.09 ..
विशिष्टानां चएक-पात्रं विवाहं वा हीनेभ्यो वारयेयुः ॥ ११.१.१० ॥
विशिष्टानाम् च एक-पात्रम् विवाहम् वा हीनेभ्यः वारयेयुः ॥ ११।१।१० ॥
viśiṣṭānām ca eka-pātram vivāham vā hīnebhyaḥ vārayeyuḥ .. 11.1.10 ..
हीनान्वा विशिष्टैरेक-पात्रे विवाहे वा योजयेयुः ॥ ११.१.११ ॥
हीनान् वा विशिष्टैः एक-पात्रे विवाहे वा योजयेयुः ॥ ११।१।११ ॥
hīnān vā viśiṣṭaiḥ eka-pātre vivāhe vā yojayeyuḥ .. 11.1.11 ..
अवहीनान्वा तुल्य-भाव-उपगमने कुलतः पौरुषतः स्थान-विपर्यासतो वा ॥ ११.१.१२ ॥
अवहीनान् वा तुल्य-भाव-उपगमने कुलतः पौरुषतः स्थान-विपर्यासतः वा ॥ ११।१।१२ ॥
avahīnān vā tulya-bhāva-upagamane kulataḥ pauruṣataḥ sthāna-viparyāsataḥ vā .. 11.1.12 ..
व्यवहारं अवस्थितं वा प्रतिलोम-स्थापनेन निशामयेयुः ॥ ११.१.१३ ॥
व्यवहारम् अवस्थितम् वा प्रतिलोम-स्थापनेन निशामयेयुः ॥ ११।१।१३ ॥
vyavahāram avasthitam vā pratiloma-sthāpanena niśāmayeyuḥ .. 11.1.13 ..
विवाद-पदेषु वा द्रव्य-पशु-मनुष्य-अभिघातेन रात्रौ तीक्ष्णाः कलहानुत्पादयेयुः ॥ ११.१.१४ ॥
विवाद-पदेषु वा द्रव्य-पशु-मनुष्य-अभिघातेन रात्रौ तीक्ष्णाः कलहान् उत्पादयेयुः ॥ ११।१।१४ ॥
vivāda-padeṣu vā dravya-paśu-manuṣya-abhighātena rātrau tīkṣṇāḥ kalahān utpādayeyuḥ .. 11.1.14 ..
सर्वेषु च कलह-स्थानेषु हीन-पक्षं राजा कोश-दण्डाभ्यां उपगृह्य प्रतिपक्ष-वधे योजयेत् ॥ ११.१.१५ ॥
सर्वेषु च कलह-स्थानेषु हीन-पक्षम् राजा कोश-दण्डाभ्याम् उपगृह्य प्रतिपक्ष-वधे योजयेत् ॥ ११।१।१५ ॥
sarveṣu ca kalaha-sthāneṣu hīna-pakṣam rājā kośa-daṇḍābhyām upagṛhya pratipakṣa-vadhe yojayet .. 11.1.15 ..
भिन्नानपवाहयेद्वा ॥ ११.१.१६ ॥
भिन्नान् अपवाहयेत् वा ॥ ११।१।१६ ॥
bhinnān apavāhayet vā .. 11.1.16 ..
भूमौ चएषां पञ्च-कुलीं दश-कुलीं वा कृष्यायां निवेशयेत् ॥ ११.१.१७ ॥
भूमौ च एषाम् पञ्च-कुलीम् दश-कुलीम् वा कृष्यायाम् निवेशयेत् ॥ ११।१।१७ ॥
bhūmau ca eṣām pañca-kulīm daśa-kulīm vā kṛṣyāyām niveśayet .. 11.1.17 ..
एकस्था हि शस्त्र-ग्रहण-समर्थाः स्युः ॥ ११.१.१८ ॥
एकस्थाः हि शस्त्र-ग्रहण-समर्थाः स्युः ॥ ११।१।१८ ॥
ekasthāḥ hi śastra-grahaṇa-samarthāḥ syuḥ .. 11.1.18 ..
समवाये चएषां अत्ययं स्थापयेत् ॥ ११.१.१९ ॥
समवाये च एषाम् अत्ययम् स्थापयेत् ॥ ११।१।१९ ॥
samavāye ca eṣām atyayam sthāpayet .. 11.1.19 ..
राज-शब्दिभिरवरुद्धं अवक्षिप्तं वा कुल्यं अभिजातं राज-पुत्रत्वे स्थापयेत् ॥ ११.१.२० ॥
राज-शब्दिभिः अवरुद्धम् अवक्षिप्तम् वा कुल्यम् अभिजातम् राज-पुत्र-त्वे स्थापयेत् ॥ ११।१।२० ॥
rāja-śabdibhiḥ avaruddham avakṣiptam vā kulyam abhijātam rāja-putra-tve sthāpayet .. 11.1.20 ..
कार्तान्तिक-आदिश्चास्य वर्गो राज-लक्षण्यतां संघेषु प्रकाशयेत् ॥ ११.१.२१ ॥
कार्तान्तिक-आदिः च अस्य वर्गः राज-लक्षण्य-ताम् संघेषु प्रकाशयेत् ॥ ११।१।२१ ॥
kārtāntika-ādiḥ ca asya vargaḥ rāja-lakṣaṇya-tām saṃgheṣu prakāśayet .. 11.1.21 ..
संघ-मुख्यांश्च धर्मिष्ठानुपजपेत्"स्व-धर्मं अमुष्य राज्ञः पुत्रे भ्रातरि वा प्रतिपद्यध्वम्" इति ॥ ११.१.२२ ॥
संघ-मुख्यान् च धर्मिष्ठान् उपजपेत्"स्व-धर्मम् अमुष्य राज्ञः पुत्रे भ्रातरि वा प्रतिपद्यध्वम्" इति ॥ ११।१।२२ ॥
saṃgha-mukhyān ca dharmiṣṭhān upajapet"sva-dharmam amuṣya rājñaḥ putre bhrātari vā pratipadyadhvam" iti .. 11.1.22 ..
प्रतिपन्नेषु कृत्य-पक्ष-उपग्रह-अर्थं अर्थं दण्डं च प्रेषयेत् ॥ ११.१.२३ ॥
प्रतिपन्नेषु कृत्य-पक्ष-उपग्रह-अर्थम् अर्थम् दण्डम् च प्रेषयेत् ॥ ११।१।२३ ॥
pratipanneṣu kṛtya-pakṣa-upagraha-artham artham daṇḍam ca preṣayet .. 11.1.23 ..
विक्रम-काले शौण्डिक-व्यञ्जनाः पुत्र-दार-प्रेत-अपदेशेन "नैषेचनिकम्" इति मदन-रस-युक्तान्मद्य-कुम्भान्शतशः प्रयच्छेयुः ॥ ११.१.२४ ॥
विक्रम-काले शौण्डिक-व्यञ्जनाः पुत्र-दार-प्रेत-अपदेशेन "नैषेचनिकम्" इति मदन-रस-युक्तान् मद्य-कुम्भान् शतशस् प्रयच्छेयुः ॥ ११।१।२४ ॥
vikrama-kāle śauṇḍika-vyañjanāḥ putra-dāra-preta-apadeśena "naiṣecanikam" iti madana-rasa-yuktān madya-kumbhān śataśas prayaccheyuḥ .. 11.1.24 ..
चैत्य-दैवत-द्वार-रक्षा-स्थानेषु च सत्त्रिणः समय-कर्म-निक्षेपं सहिरण्य-अभिज्ञान-मुद्राणि हिरण्य-भाजनानि च प्ररूपयेयुः ॥ ११.१.२५ ॥
चैत्य-दैवत-द्वार-रक्षा-स्थानेषु च सत्त्रिणः समय-कर्म-निक्षेपम् स हिरण्य-अभिज्ञान-मुद्राणि हिरण्य-भाजनानि च प्ररूपयेयुः ॥ ११।१।२५ ॥
caitya-daivata-dvāra-rakṣā-sthāneṣu ca sattriṇaḥ samaya-karma-nikṣepam sa hiraṇya-abhijñāna-mudrāṇi hiraṇya-bhājanāni ca prarūpayeyuḥ .. 11.1.25 ..
दृश्यमानेषु च संघेषु "राजकीयाः" इत्यावेदयेयुः ॥ ११.१.२६ ॥
दृश्यमानेषु च संघेषु "राजकीयाः" इति आवेदयेयुः ॥ ११।१।२६ ॥
dṛśyamāneṣu ca saṃgheṣu "rājakīyāḥ" iti āvedayeyuḥ .. 11.1.26 ..
अथावस्कन्दं दद्यात् ॥ ११.१.२७ ॥
अथ अवस्कन्दम् दद्यात् ॥ ११।१।२७ ॥
atha avaskandam dadyāt .. 11.1.27 ..
संघानां वा वाहन-हिरण्ये कालिके गृहीत्वा संघ-मुख्याय प्रख्यातं द्रव्यं प्रयच्छेत् ॥ ११.१.२८ ॥
संघानाम् वा वाहन-हिरण्ये कालिके गृहीत्वा संघ-मुख्याय प्रख्यातम् द्रव्यम् प्रयच्छेत् ॥ ११।१।२८ ॥
saṃghānām vā vāhana-hiraṇye kālike gṛhītvā saṃgha-mukhyāya prakhyātam dravyam prayacchet .. 11.1.28 ..
तदेषां याचिते "दत्तं अमुष्मै मुख्याय" इति ब्रूयात् ॥ ११.१.२९ ॥
तत् एषाम् याचिते "दत्तम् अमुष्मै मुख्याय" इति ब्रूयात् ॥ ११।१।२९ ॥
tat eṣām yācite "dattam amuṣmai mukhyāya" iti brūyāt .. 11.1.29 ..
एतेन स्कन्ध-आवार-अटवी-भेदो व्याख्यातः ॥ ११.१.३० ॥
एतेन स्कन्ध-आवार-अटवी-भेदः व्याख्यातः ॥ ११।१।३० ॥
etena skandha-āvāra-aṭavī-bhedaḥ vyākhyātaḥ .. 11.1.30 ..
संघ-मुख्य-पुत्रं आत्म-सम्भावितं वा सत्त्री ग्राहयेत्"अमुष्य राज्ञः पुत्रस्त्वम् । शत्रु-भयादिह न्यस्तोअसि" इति ॥ ११.१.३१ ॥
संघ-मुख्य-पुत्रम् आत्म-सम्भावितम् वा सत्त्री ग्राहयेत्"अमुष्य राज्ञः पुत्रः त्वम् । शत्रु-भयात् इह न्यस्तः असि" इति ॥ ११।१।३१ ॥
saṃgha-mukhya-putram ātma-sambhāvitam vā sattrī grāhayet"amuṣya rājñaḥ putraḥ tvam . śatru-bhayāt iha nyastaḥ asi" iti .. 11.1.31 ..
प्रतिपन्नं राजा कोश-दण्डाभ्यां उपगृह्य संघेषु विक्रमयेत् ॥ ११.१.३२ ॥
प्रतिपन्नम् राजा कोश-दण्डाभ्याम् उपगृह्य संघेषु विक्रमयेत् ॥ ११।१।३२ ॥
pratipannam rājā kośa-daṇḍābhyām upagṛhya saṃgheṣu vikramayet .. 11.1.32 ..
अवाप्त-अर्थस्तं अपि प्रवासयेत् ॥ ११.१.३३ ॥
अवाप्त-अर्थः तम् अपि प्रवासयेत् ॥ ११।१।३३ ॥
avāpta-arthaḥ tam api pravāsayet .. 11.1.33 ..
बन्धकी-पोषकाः प्लवक-नट-नर्तक-सौभिका वा प्रणिहिताः स्त्रीभिः परम-रूप-यौवनाभिः संघ-मुख्यानुन्मादयेयुः ॥ ११.१.३४ ॥
बन्धकी-पोषकाः प्लवक-नट-नर्तक-सौभिकाः वा प्रणिहिताः स्त्रीभिः परम-रूप-यौवनाभिः संघ-मुख्यान् उन्मादयेयुः ॥ ११।१।३४ ॥
bandhakī-poṣakāḥ plavaka-naṭa-nartaka-saubhikāḥ vā praṇihitāḥ strībhiḥ parama-rūpa-yauvanābhiḥ saṃgha-mukhyān unmādayeyuḥ .. 11.1.34 ..
जात-कामानां अन्यतमस्य प्रत्ययं कृत्वाअन्यत्र गमनेन प्रसभ-हरणेन वा कलहानुत्पादयेयुः ॥ ११.१.३५ ॥
जात-कामानाम् अन्यतमस्य प्रत्ययम् कृत्वा अन्यत्र गमनेन प्रसभ-हरणेन वा कलहान् उत्पादयेयुः ॥ ११।१।३५ ॥
jāta-kāmānām anyatamasya pratyayam kṛtvā anyatra gamanena prasabha-haraṇena vā kalahān utpādayeyuḥ .. 11.1.35 ..
कलहे तीक्ष्णाः कर्म कुर्युः "हतोअयं इत्थं कामुकः" इति ॥ ११.१.३६ ॥
कलहे तीक्ष्णाः कर्म कुर्युः "हतः अयम् इत्थम् कामुकः" इति ॥ ११।१।३६ ॥
kalahe tīkṣṇāḥ karma kuryuḥ "hataḥ ayam ittham kāmukaḥ" iti .. 11.1.36 ..
विसंवादितं वा मर्षयमाणं अभिसृत्य स्त्री ब्रूयात्"असौ मां मुख्यस्त्वयि जात-कामां बाधते । तस्मिन्जीवति नैह स्थास्यामि" इति घातं अस्य प्रयोजयेत् ॥ ११.१.३७ ॥
विसंवादितम् वा मर्षयमाणम् अभिसृत्य स्त्री ब्रूयात्"असौ माम् मुख्यः त्वयि जात-कामाम् बाधते । तस्मिन् जीवति न एह स्थास्यामि" इति घातम् अस्य प्रयोजयेत् ॥ ११।१।३७ ॥
visaṃvāditam vā marṣayamāṇam abhisṛtya strī brūyāt"asau mām mukhyaḥ tvayi jāta-kāmām bādhate . tasmin jīvati na eha sthāsyāmi" iti ghātam asya prayojayet .. 11.1.37 ..
प्रसह्य-अपहृता वा वन-अन्ते क्रिडा-गृहे वाअपहर्तारं रात्रौ तीक्ष्णेन घातयेत् । स्वयं वा रसेन ॥ ११.१.३८ ॥
प्रसह्य अपहृता वा वन-अन्ते क्रिडा-गृहे वा अपहर्तारम् रात्रौ तीक्ष्णेन घातयेत् । स्वयम् वा रसेन ॥ ११।१।३८ ॥
prasahya apahṛtā vā vana-ante kriḍā-gṛhe vā apahartāram rātrau tīkṣṇena ghātayet . svayam vā rasena .. 11.1.38 ..
ततः प्रकाशयेत्"अमुना मे प्रियो हतः" इति ॥ ११.१.३९ ॥
ततस् प्रकाशयेत्"अमुना मे प्रियः हतः" इति ॥ ११।१।३९ ॥
tatas prakāśayet"amunā me priyaḥ hataḥ" iti .. 11.1.39 ..
जात-कामं वा सिद्ध-व्यञ्जनः सांवदनिकीभिरौषधीभिः संवास्य रसेनातिसंधायापगच्छेत् ॥ ११.१.४० ॥
जात-कामम् वा सिद्ध-व्यञ्जनः सांवदनिकीभिः औषधीभिः संवास्य रसेन अतिसंधाय अपगच्छेत् ॥ ११।१।४० ॥
jāta-kāmam vā siddha-vyañjanaḥ sāṃvadanikībhiḥ auṣadhībhiḥ saṃvāsya rasena atisaṃdhāya apagacchet .. 11.1.40 ..
तस्मिन्नपक्रान्ते सत्त्रिणः पर-प्रयोगं अभिशंसेयुः ॥ ११.१.४१ ॥
तस्मिन् अपक्रान्ते सत्त्रिणः पर-प्रयोगम् अभिशंसेयुः ॥ ११।१।४१ ॥
tasmin apakrānte sattriṇaḥ para-prayogam abhiśaṃseyuḥ .. 11.1.41 ..
आढ्य-विधवा गूढ-आजीवा योग-स्त्रियो वा दाय-निक्षेप-अर्थं विवदमानाः संघ-मुख्यानुन्मादयेयुः । अदिति-कौशिक-स्त्रियो नर्तकी-गायना वा ॥ ११.१.४२ ॥
आढ्य-विधवाः गूढ-आजीवाः योग-स्त्रियः वा दाय-निक्षेप-अर्थम् विवदमानाः संघ-मुख्यान् उन्मादयेयुः । अदिति-कौशिक-स्त्रियः नर्तकी-गायनाः वा ॥ ११।१।४२ ॥
āḍhya-vidhavāḥ gūḍha-ājīvāḥ yoga-striyaḥ vā dāya-nikṣepa-artham vivadamānāḥ saṃgha-mukhyān unmādayeyuḥ . aditi-kauśika-striyaḥ nartakī-gāyanāḥ vā .. 11.1.42 ..
प्रतिपन्नान्गूढ-वेश्मसु रात्रि-समागम-प्रविष्टांस्तीक्ष्णा हन्युर्बद्ध्वा हरेयुर्वा ॥ ११.१.४३ ॥
प्रतिपन्नान् गूढ-वेश्मसु रात्रि-समागम-प्रविष्टान् तीक्ष्णाः हन्युः बद्ध्वा हरेयुः वा ॥ ११।१।४३ ॥
pratipannān gūḍha-veśmasu rātri-samāgama-praviṣṭān tīkṣṇāḥ hanyuḥ baddhvā hareyuḥ vā .. 11.1.43 ..
सत्त्री वा स्त्री-लोलुपं संघ-मुख्यं प्ररूपयेत्"अमुष्मिन्ग्रामे दरिद्र-कुल्लं अपसृतम् । तस्य स्त्री राज-अर्हा । गृहाणएनाम्" इति ॥ ११.१.४४ ॥
सत्त्री वा स्त्री-लोलुपम् संघ-मुख्यम् प्ररूपयेत्"अमुष्मिन् ग्रामे दरिद्र-कुल्लम् अपसृतम् । तस्य स्त्री राज-अर्हा । गृहाण एनाम्" इति ॥ ११।१।४४ ॥
sattrī vā strī-lolupam saṃgha-mukhyam prarūpayet"amuṣmin grāme daridra-kullam apasṛtam . tasya strī rāja-arhā . gṛhāṇa enām" iti .. 11.1.44 ..
गृहीतायां अर्ध-मास-अनन्तरं सिद्ध-व्यञ्जनो दूष्य-संघ-मुख्य-मध्ये प्रक्रोशेत्"असौ मे मुख्यो भार्यां स्नुषां भगिनीं दुहितरं वाअधिचरति" इति ॥ ११.१.४५ ॥
गृहीतायाम् अर्ध-मास-अनन्तरम् सिद्ध-व्यञ्जनः दूष्य-संघ-मुख्य-मध्ये प्रक्रोशेत्"असौ मे मुख्यः भार्याम् स्नुषाम् भगिनीम् दुहितरम् वा अधिचरति" इति ॥ ११।१।४५ ॥
gṛhītāyām ardha-māsa-anantaram siddha-vyañjanaḥ dūṣya-saṃgha-mukhya-madhye prakrośet"asau me mukhyaḥ bhāryām snuṣām bhaginīm duhitaram vā adhicarati" iti .. 11.1.45 ..
तं चेत्संघो निगृह्णीयात् । राजाएनं उपगृह्य विगुणेषु विक्रमयेत् ॥ ११.१.४६ ॥
तम् चेद् संघः निगृह्णीयात् । राजा एनम् उपगृह्य विगुणेषु विक्रमयेत् ॥ ११।१।४६ ॥
tam ced saṃghaḥ nigṛhṇīyāt . rājā enam upagṛhya viguṇeṣu vikramayet .. 11.1.46 ..
अनिगृहीते सिद्ध-व्यञ्जनं रात्रौ तीक्ष्णाः प्रवासयेयुः ॥ ११.१.४७ ॥
अ निगृहीते सिद्ध-व्यञ्जनम् रात्रौ तीक्ष्णाः प्रवासयेयुः ॥ ११।१।४७ ॥
a nigṛhīte siddha-vyañjanam rātrau tīkṣṇāḥ pravāsayeyuḥ .. 11.1.47 ..
ततस्तद्-व्यञ्जनाः प्रक्रोशेयुः "असौ ब्रह्महा ब्राह्मणी-जारश्च" इति ॥ ११.१.४८ ॥
ततस् तद्-व्यञ्जनाः प्रक्रोशेयुः "असौ ब्रह्म-हा ब्राह्मणी-जारः च" इति ॥ ११।१।४८ ॥
tatas tad-vyañjanāḥ prakrośeyuḥ "asau brahma-hā brāhmaṇī-jāraḥ ca" iti .. 11.1.48 ..
कार्तान्तिक-व्यञ्जनो वा कन्यां अन्येन वृतां अन्यस्य प्ररूपयेत्"अमुष्य कन्या राज-पत्नी राज-प्रसविनी च भविष्यति । सर्व-स्वेन प्रसह्य वाएनां लभस्व" इति ॥ ११.१.४९ ॥
कार्तान्तिक-व्यञ्जनः वा कन्याम् अन्येन वृताम् अन्यस्य प्ररूपयेत्"अमुष्य कन्या राज-पत्नी राज-प्रसविनी च भविष्यति । सर्व-स्वेन प्रसह्य वा एनाम् लभस्व" इति ॥ ११।१।४९ ॥
kārtāntika-vyañjanaḥ vā kanyām anyena vṛtām anyasya prarūpayet"amuṣya kanyā rāja-patnī rāja-prasavinī ca bhaviṣyati . sarva-svena prasahya vā enām labhasva" iti .. 11.1.49 ..
अलभ्यमानायां पर-पक्षं उद्धर्षयेत् ॥ ११.१.५० ॥
अ लभ्यमानायाम् पर-पक्षम् उद् हर्षयेत् ॥ ११।१।५० ॥
a labhyamānāyām para-pakṣam ud harṣayet .. 11.1.50 ..
लब्धायां सिद्धः कलहः ॥ ११.१.५१ ॥
लब्धायाम् सिद्धः कलहः ॥ ११।१।५१ ॥
labdhāyām siddhaḥ kalahaḥ .. 11.1.51 ..
भिक्षुकी वा प्रिय-भार्यं मुख्यं ब्रूयात्"असौ ते मुख्यो यौवन-उत्सिक्तो भार्यायां मां प्राहिणोत् । तस्याहं भयाल्लेख्यं आभरणं गृहीत्वाआगताअस्मि । निर्दोषा ते भार्या । गूढं अस्मिन्प्रतिकर्तव्यम् । अहं अपि तावत्प्रतिपत्स्यामि" इति ॥ ११.१.५२ ॥
भिक्षुकी वा प्रिय-भार्यम् मुख्यम् ब्रूयात्"असौ ते मुख्यः यौवन-उत्सिक्तः भार्यायाम् माम् प्राहिणोत् । तस्य अहम् भयात् लेख्यम् आभरणम् गृहीत्वा आगता अस्मि । निर्दोषा ते भार्या । गूढम् अस्मिन् प्रतिकर्तव्यम् । अहम् अपि तावत् प्रतिपत्स्यामि" इति ॥ ११।१।५२ ॥
bhikṣukī vā priya-bhāryam mukhyam brūyāt"asau te mukhyaḥ yauvana-utsiktaḥ bhāryāyām mām prāhiṇot . tasya aham bhayāt lekhyam ābharaṇam gṛhītvā āgatā asmi . nirdoṣā te bhāryā . gūḍham asmin pratikartavyam . aham api tāvat pratipatsyāmi" iti .. 11.1.52 ..
एवं-आदिषु कलह-स्थानेषु स्वयं उत्पन्ने वा कलहे तीक्ष्णैरुत्पादिते वा हीन-पक्षं राजा कोश-दण्डाभ्यां उपगृह्य विगुणेषु विक्रमयेदपवाहयेद्वा ॥ ११.१.५३ ॥
एवं-आदिषु कलह-स्थानेषु स्वयम् उत्पन्ने वा कलहे तीक्ष्णैः उत्पादिते वा हीन-पक्षम् राजा कोश-दण्डाभ्याम् उपगृह्य विगुणेषु विक्रमयेत् अपवाहयेत् वा ॥ ११।१।५३ ॥
evaṃ-ādiṣu kalaha-sthāneṣu svayam utpanne vā kalahe tīkṣṇaiḥ utpādite vā hīna-pakṣam rājā kośa-daṇḍābhyām upagṛhya viguṇeṣu vikramayet apavāhayet vā .. 11.1.53 ..
संघेष्वेवं एक-राजो वर्तेत ॥ ११.१.५४ ॥
संघेषु एवम् एक-राजः वर्तेत ॥ ११।१।५४ ॥
saṃgheṣu evam eka-rājaḥ varteta .. 11.1.54 ..
संघाश्चाप्येवं एक-राजादेतेभ्योअतिसंघानेभ्यो रक्षयेयुः ॥ ११.१.५५ ॥
संघाः च अपि एवम् रक्षयेयुः ॥ ११।१।५५ ॥
saṃghāḥ ca api evam rakṣayeyuḥ .. 11.1.55 ..
संघ-मुख्यश्च संघेषु न्याय-वृत्तिर्हितः प्रियः । ॥ ११.१.५६अ ब ॥
संघ-मुख्यः च संघेषु न्याय-वृत्तिः हितः प्रियः । ॥ ११।१।५६अ ब ॥
saṃgha-mukhyaḥ ca saṃgheṣu nyāya-vṛttiḥ hitaḥ priyaḥ . .. 11.1.56a ba ..
दान्तो युक्त-जनस्तिष्ठेत्सर्व-चित्त-अनुवर्तकः ॥ ११.१.५६च्द् ॥
दान्तः युक्त-जनः तिष्ठेत् सर्व-चित्त-अनुवर्तकः ॥ ११।१।५६च् ॥
dāntaḥ yukta-janaḥ tiṣṭhet sarva-citta-anuvartakaḥ .. 11.1.56c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In