| |
|

This overlay will guide you through the buttons:

संघ-लाभो दण्ड-मित्र-लाभानां उत्तमः ॥ ११.१.०१ ॥
saṃgha-lābho daṇḍa-mitra-lābhānāṃ uttamaḥ .. 11.1.01 ..
संघा हि संहतत्वादधृष्याः परेषां ॥ ११.१.०२ ॥
saṃghā hi saṃhatatvādadhṛṣyāḥ pareṣāṃ .. 11.1.02 ..
ताननुगुणान्भुञ्जीत साम-दानाभ्याम् । विगुणान्भेद-दण्डाभ्यां ॥ ११.१.०३ ॥
tānanuguṇānbhuñjīta sāma-dānābhyām . viguṇānbheda-daṇḍābhyāṃ .. 11.1.03 ..
काम्बोज-सुराष्ट्र-क्षत्रिय-श्रेण्य्-आदयो वार्त्त-शस्त्र-उपजीविनः ॥ ११.१.०४ ॥
kāmboja-surāṣṭra-kṣatriya-śreṇy-ādayo vārtta-śastra-upajīvinaḥ .. 11.1.04 ..
लिच्छिविक-वृजिक-मल्लक-मद्रक-कुकुर-कुरु-पाञ्चाल-आदयो राज-शब्द-उपजीविनः ॥ ११.१.०५ ॥
licchivika-vṛjika-mallaka-madraka-kukura-kuru-pāñcāla-ādayo rāja-śabda-upajīvinaḥ .. 11.1.05 ..
सर्वेषां आसन्नाः सत्त्रिणः संघानां परस्पर-न्यङ्ग-द्वेष-वैर-कलह-स्थानान्युपलभ्य क्रम-अभिनीतं भेदं उपचारयेयुः "असौ त्वा विजल्पति" इति ॥ ११.१.०६ ॥
sarveṣāṃ āsannāḥ sattriṇaḥ saṃghānāṃ paraspara-nyaṅga-dveṣa-vaira-kalaha-sthānānyupalabhya krama-abhinītaṃ bhedaṃ upacārayeyuḥ "asau tvā vijalpati" iti .. 11.1.06 ..
एवं उभयतो-बद्ध-रोषाणां विद्या-शिल्प-द्यूत-वैहारिकेष्वाचार्य-व्यञ्जना बाल-कलहानुत्पादयेयुः ॥ ११.१.०७ ॥
evaṃ ubhayato-baddha-roṣāṇāṃ vidyā-śilpa-dyūta-vaihārikeṣvācārya-vyañjanā bāla-kalahānutpādayeyuḥ .. 11.1.07 ..
वेश-शौण्डिकेषु वा प्रतिलोम-प्रशंसाभिः संघ-मुख्य-मनुष्याणां तीक्ष्णाः कलहानुत्पादयेयुः । कृत्य-पक्ष-उपग्रहेण वा ॥ ११.१.०८ ॥
veśa-śauṇḍikeṣu vā pratiloma-praśaṃsābhiḥ saṃgha-mukhya-manuṣyāṇāṃ tīkṣṇāḥ kalahānutpādayeyuḥ . kṛtya-pakṣa-upagraheṇa vā .. 11.1.08 ..
कुमारकान्विशिष्टच्-छिन्दिकया हीनच्-छिन्दिकानुत्साहयेयुः ॥ ११.१.०९ ॥
kumārakānviśiṣṭac-chindikayā hīnac-chindikānutsāhayeyuḥ .. 11.1.09 ..
विशिष्टानां चएक-पात्रं विवाहं वा हीनेभ्यो वारयेयुः ॥ ११.१.१० ॥
viśiṣṭānāṃ caeka-pātraṃ vivāhaṃ vā hīnebhyo vārayeyuḥ .. 11.1.10 ..
हीनान्वा विशिष्टैरेक-पात्रे विवाहे वा योजयेयुः ॥ ११.१.११ ॥
hīnānvā viśiṣṭaireka-pātre vivāhe vā yojayeyuḥ .. 11.1.11 ..
अवहीनान्वा तुल्य-भाव-उपगमने कुलतः पौरुषतः स्थान-विपर्यासतो वा ॥ ११.१.१२ ॥
avahīnānvā tulya-bhāva-upagamane kulataḥ pauruṣataḥ sthāna-viparyāsato vā .. 11.1.12 ..
व्यवहारं अवस्थितं वा प्रतिलोम-स्थापनेन निशामयेयुः ॥ ११.१.१३ ॥
vyavahāraṃ avasthitaṃ vā pratiloma-sthāpanena niśāmayeyuḥ .. 11.1.13 ..
विवाद-पदेषु वा द्रव्य-पशु-मनुष्य-अभिघातेन रात्रौ तीक्ष्णाः कलहानुत्पादयेयुः ॥ ११.१.१४ ॥
vivāda-padeṣu vā dravya-paśu-manuṣya-abhighātena rātrau tīkṣṇāḥ kalahānutpādayeyuḥ .. 11.1.14 ..
सर्वेषु च कलह-स्थानेषु हीन-पक्षं राजा कोश-दण्डाभ्यां उपगृह्य प्रतिपक्ष-वधे योजयेत् ॥ ११.१.१५ ॥
sarveṣu ca kalaha-sthāneṣu hīna-pakṣaṃ rājā kośa-daṇḍābhyāṃ upagṛhya pratipakṣa-vadhe yojayet .. 11.1.15 ..
भिन्नानपवाहयेद्वा ॥ ११.१.१६ ॥
bhinnānapavāhayedvā .. 11.1.16 ..
भूमौ चएषां पञ्च-कुलीं दश-कुलीं वा कृष्यायां निवेशयेत् ॥ ११.१.१७ ॥
bhūmau caeṣāṃ pañca-kulīṃ daśa-kulīṃ vā kṛṣyāyāṃ niveśayet .. 11.1.17 ..
एकस्था हि शस्त्र-ग्रहण-समर्थाः स्युः ॥ ११.१.१८ ॥
ekasthā hi śastra-grahaṇa-samarthāḥ syuḥ .. 11.1.18 ..
समवाये चएषां अत्ययं स्थापयेत् ॥ ११.१.१९ ॥
samavāye caeṣāṃ atyayaṃ sthāpayet .. 11.1.19 ..
राज-शब्दिभिरवरुद्धं अवक्षिप्तं वा कुल्यं अभिजातं राज-पुत्रत्वे स्थापयेत् ॥ ११.१.२० ॥
rāja-śabdibhiravaruddhaṃ avakṣiptaṃ vā kulyaṃ abhijātaṃ rāja-putratve sthāpayet .. 11.1.20 ..
कार्तान्तिक-आदिश्चास्य वर्गो राज-लक्षण्यतां संघेषु प्रकाशयेत् ॥ ११.१.२१ ॥
kārtāntika-ādiścāsya vargo rāja-lakṣaṇyatāṃ saṃgheṣu prakāśayet .. 11.1.21 ..
संघ-मुख्यांश्च धर्मिष्ठानुपजपेत्"स्व-धर्मं अमुष्य राज्ञः पुत्रे भ्रातरि वा प्रतिपद्यध्वम्" इति ॥ ११.१.२२ ॥
saṃgha-mukhyāṃśca dharmiṣṭhānupajapet"sva-dharmaṃ amuṣya rājñaḥ putre bhrātari vā pratipadyadhvam" iti .. 11.1.22 ..
प्रतिपन्नेषु कृत्य-पक्ष-उपग्रह-अर्थं अर्थं दण्डं च प्रेषयेत् ॥ ११.१.२३ ॥
pratipanneṣu kṛtya-pakṣa-upagraha-arthaṃ arthaṃ daṇḍaṃ ca preṣayet .. 11.1.23 ..
विक्रम-काले शौण्डिक-व्यञ्जनाः पुत्र-दार-प्रेत-अपदेशेन "नैषेचनिकम्" इति मदन-रस-युक्तान्मद्य-कुम्भान्शतशः प्रयच्छेयुः ॥ ११.१.२४ ॥
vikrama-kāle śauṇḍika-vyañjanāḥ putra-dāra-preta-apadeśena "naiṣecanikam" iti madana-rasa-yuktānmadya-kumbhānśataśaḥ prayaccheyuḥ .. 11.1.24 ..
चैत्य-दैवत-द्वार-रक्षा-स्थानेषु च सत्त्रिणः समय-कर्म-निक्षेपं सहिरण्य-अभिज्ञान-मुद्राणि हिरण्य-भाजनानि च प्ररूपयेयुः ॥ ११.१.२५ ॥
caitya-daivata-dvāra-rakṣā-sthāneṣu ca sattriṇaḥ samaya-karma-nikṣepaṃ sahiraṇya-abhijñāna-mudrāṇi hiraṇya-bhājanāni ca prarūpayeyuḥ .. 11.1.25 ..
दृश्यमानेषु च संघेषु "राजकीयाः" इत्यावेदयेयुः ॥ ११.१.२६ ॥
dṛśyamāneṣu ca saṃgheṣu "rājakīyāḥ" ityāvedayeyuḥ .. 11.1.26 ..
अथावस्कन्दं दद्यात् ॥ ११.१.२७ ॥
athāvaskandaṃ dadyāt .. 11.1.27 ..
संघानां वा वाहन-हिरण्ये कालिके गृहीत्वा संघ-मुख्याय प्रख्यातं द्रव्यं प्रयच्छेत् ॥ ११.१.२८ ॥
saṃghānāṃ vā vāhana-hiraṇye kālike gṛhītvā saṃgha-mukhyāya prakhyātaṃ dravyaṃ prayacchet .. 11.1.28 ..
तदेषां याचिते "दत्तं अमुष्मै मुख्याय" इति ब्रूयात् ॥ ११.१.२९ ॥
tadeṣāṃ yācite "dattaṃ amuṣmai mukhyāya" iti brūyāt .. 11.1.29 ..
एतेन स्कन्ध-आवार-अटवी-भेदो व्याख्यातः ॥ ११.१.३० ॥
etena skandha-āvāra-aṭavī-bhedo vyākhyātaḥ .. 11.1.30 ..
संघ-मुख्य-पुत्रं आत्म-सम्भावितं वा सत्त्री ग्राहयेत्"अमुष्य राज्ञः पुत्रस्त्वम् । शत्रु-भयादिह न्यस्तोअसि" इति ॥ ११.१.३१ ॥
saṃgha-mukhya-putraṃ ātma-sambhāvitaṃ vā sattrī grāhayet"amuṣya rājñaḥ putrastvam . śatru-bhayādiha nyastoasi" iti .. 11.1.31 ..
प्रतिपन्नं राजा कोश-दण्डाभ्यां उपगृह्य संघेषु विक्रमयेत् ॥ ११.१.३२ ॥
pratipannaṃ rājā kośa-daṇḍābhyāṃ upagṛhya saṃgheṣu vikramayet .. 11.1.32 ..
अवाप्त-अर्थस्तं अपि प्रवासयेत् ॥ ११.१.३३ ॥
avāpta-arthastaṃ api pravāsayet .. 11.1.33 ..
बन्धकी-पोषकाः प्लवक-नट-नर्तक-सौभिका वा प्रणिहिताः स्त्रीभिः परम-रूप-यौवनाभिः संघ-मुख्यानुन्मादयेयुः ॥ ११.१.३४ ॥
bandhakī-poṣakāḥ plavaka-naṭa-nartaka-saubhikā vā praṇihitāḥ strībhiḥ parama-rūpa-yauvanābhiḥ saṃgha-mukhyānunmādayeyuḥ .. 11.1.34 ..
जात-कामानां अन्यतमस्य प्रत्ययं कृत्वाअन्यत्र गमनेन प्रसभ-हरणेन वा कलहानुत्पादयेयुः ॥ ११.१.३५ ॥
jāta-kāmānāṃ anyatamasya pratyayaṃ kṛtvāanyatra gamanena prasabha-haraṇena vā kalahānutpādayeyuḥ .. 11.1.35 ..
कलहे तीक्ष्णाः कर्म कुर्युः "हतोअयं इत्थं कामुकः" इति ॥ ११.१.३६ ॥
kalahe tīkṣṇāḥ karma kuryuḥ "hatoayaṃ itthaṃ kāmukaḥ" iti .. 11.1.36 ..
विसंवादितं वा मर्षयमाणं अभिसृत्य स्त्री ब्रूयात्"असौ मां मुख्यस्त्वयि जात-कामां बाधते । तस्मिन्जीवति नैह स्थास्यामि" इति घातं अस्य प्रयोजयेत् ॥ ११.१.३७ ॥
visaṃvāditaṃ vā marṣayamāṇaṃ abhisṛtya strī brūyāt"asau māṃ mukhyastvayi jāta-kāmāṃ bādhate . tasminjīvati naiha sthāsyāmi" iti ghātaṃ asya prayojayet .. 11.1.37 ..
प्रसह्य-अपहृता वा वन-अन्ते क्रिडा-गृहे वाअपहर्तारं रात्रौ तीक्ष्णेन घातयेत् । स्वयं वा रसेन ॥ ११.१.३८ ॥
prasahya-apahṛtā vā vana-ante kriḍā-gṛhe vāapahartāraṃ rātrau tīkṣṇena ghātayet . svayaṃ vā rasena .. 11.1.38 ..
ततः प्रकाशयेत्"अमुना मे प्रियो हतः" इति ॥ ११.१.३९ ॥
tataḥ prakāśayet"amunā me priyo hataḥ" iti .. 11.1.39 ..
जात-कामं वा सिद्ध-व्यञ्जनः सांवदनिकीभिरौषधीभिः संवास्य रसेनातिसंधायापगच्छेत् ॥ ११.१.४० ॥
jāta-kāmaṃ vā siddha-vyañjanaḥ sāṃvadanikībhirauṣadhībhiḥ saṃvāsya rasenātisaṃdhāyāpagacchet .. 11.1.40 ..
तस्मिन्नपक्रान्ते सत्त्रिणः पर-प्रयोगं अभिशंसेयुः ॥ ११.१.४१ ॥
tasminnapakrānte sattriṇaḥ para-prayogaṃ abhiśaṃseyuḥ .. 11.1.41 ..
आढ्य-विधवा गूढ-आजीवा योग-स्त्रियो वा दाय-निक्षेप-अर्थं विवदमानाः संघ-मुख्यानुन्मादयेयुः । अदिति-कौशिक-स्त्रियो नर्तकी-गायना वा ॥ ११.१.४२ ॥
āḍhya-vidhavā gūḍha-ājīvā yoga-striyo vā dāya-nikṣepa-arthaṃ vivadamānāḥ saṃgha-mukhyānunmādayeyuḥ . aditi-kauśika-striyo nartakī-gāyanā vā .. 11.1.42 ..
प्रतिपन्नान्गूढ-वेश्मसु रात्रि-समागम-प्रविष्टांस्तीक्ष्णा हन्युर्बद्ध्वा हरेयुर्वा ॥ ११.१.४३ ॥
pratipannāngūḍha-veśmasu rātri-samāgama-praviṣṭāṃstīkṣṇā hanyurbaddhvā hareyurvā .. 11.1.43 ..
सत्त्री वा स्त्री-लोलुपं संघ-मुख्यं प्ररूपयेत्"अमुष्मिन्ग्रामे दरिद्र-कुल्लं अपसृतम् । तस्य स्त्री राज-अर्हा । गृहाणएनाम्" इति ॥ ११.१.४४ ॥
sattrī vā strī-lolupaṃ saṃgha-mukhyaṃ prarūpayet"amuṣmingrāme daridra-kullaṃ apasṛtam . tasya strī rāja-arhā . gṛhāṇaenām" iti .. 11.1.44 ..
गृहीतायां अर्ध-मास-अनन्तरं सिद्ध-व्यञ्जनो दूष्य-संघ-मुख्य-मध्ये प्रक्रोशेत्"असौ मे मुख्यो भार्यां स्नुषां भगिनीं दुहितरं वाअधिचरति" इति ॥ ११.१.४५ ॥
gṛhītāyāṃ ardha-māsa-anantaraṃ siddha-vyañjano dūṣya-saṃgha-mukhya-madhye prakrośet"asau me mukhyo bhāryāṃ snuṣāṃ bhaginīṃ duhitaraṃ vāadhicarati" iti .. 11.1.45 ..
तं चेत्संघो निगृह्णीयात् । राजाएनं उपगृह्य विगुणेषु विक्रमयेत् ॥ ११.१.४६ ॥
taṃ cetsaṃgho nigṛhṇīyāt . rājāenaṃ upagṛhya viguṇeṣu vikramayet .. 11.1.46 ..
अनिगृहीते सिद्ध-व्यञ्जनं रात्रौ तीक्ष्णाः प्रवासयेयुः ॥ ११.१.४७ ॥
anigṛhīte siddha-vyañjanaṃ rātrau tīkṣṇāḥ pravāsayeyuḥ .. 11.1.47 ..
ततस्तद्-व्यञ्जनाः प्रक्रोशेयुः "असौ ब्रह्महा ब्राह्मणी-जारश्च" इति ॥ ११.१.४८ ॥
tatastad-vyañjanāḥ prakrośeyuḥ "asau brahmahā brāhmaṇī-jāraśca" iti .. 11.1.48 ..
कार्तान्तिक-व्यञ्जनो वा कन्यां अन्येन वृतां अन्यस्य प्ररूपयेत्"अमुष्य कन्या राज-पत्नी राज-प्रसविनी च भविष्यति । सर्व-स्वेन प्रसह्य वाएनां लभस्व" इति ॥ ११.१.४९ ॥
kārtāntika-vyañjano vā kanyāṃ anyena vṛtāṃ anyasya prarūpayet"amuṣya kanyā rāja-patnī rāja-prasavinī ca bhaviṣyati . sarva-svena prasahya vāenāṃ labhasva" iti .. 11.1.49 ..
अलभ्यमानायां पर-पक्षं उद्धर्षयेत् ॥ ११.१.५० ॥
alabhyamānāyāṃ para-pakṣaṃ uddharṣayet .. 11.1.50 ..
लब्धायां सिद्धः कलहः ॥ ११.१.५१ ॥
labdhāyāṃ siddhaḥ kalahaḥ .. 11.1.51 ..
भिक्षुकी वा प्रिय-भार्यं मुख्यं ब्रूयात्"असौ ते मुख्यो यौवन-उत्सिक्तो भार्यायां मां प्राहिणोत् । तस्याहं भयाल्लेख्यं आभरणं गृहीत्वाआगताअस्मि । निर्दोषा ते भार्या । गूढं अस्मिन्प्रतिकर्तव्यम् । अहं अपि तावत्प्रतिपत्स्यामि" इति ॥ ११.१.५२ ॥
bhikṣukī vā priya-bhāryaṃ mukhyaṃ brūyāt"asau te mukhyo yauvana-utsikto bhāryāyāṃ māṃ prāhiṇot . tasyāhaṃ bhayāllekhyaṃ ābharaṇaṃ gṛhītvāāgatāasmi . nirdoṣā te bhāryā . gūḍhaṃ asminpratikartavyam . ahaṃ api tāvatpratipatsyāmi" iti .. 11.1.52 ..
एवं-आदिषु कलह-स्थानेषु स्वयं उत्पन्ने वा कलहे तीक्ष्णैरुत्पादिते वा हीन-पक्षं राजा कोश-दण्डाभ्यां उपगृह्य विगुणेषु विक्रमयेदपवाहयेद्वा ॥ ११.१.५३ ॥
evaṃ-ādiṣu kalaha-sthāneṣu svayaṃ utpanne vā kalahe tīkṣṇairutpādite vā hīna-pakṣaṃ rājā kośa-daṇḍābhyāṃ upagṛhya viguṇeṣu vikramayedapavāhayedvā .. 11.1.53 ..
संघेष्वेवं एक-राजो वर्तेत ॥ ११.१.५४ ॥
saṃgheṣvevaṃ eka-rājo varteta .. 11.1.54 ..
संघाश्चाप्येवं एक-राजादेतेभ्योअतिसंघानेभ्यो रक्षयेयुः ॥ ११.१.५५ ॥
saṃghāścāpyevaṃ eka-rājādetebhyoatisaṃghānebhyo rakṣayeyuḥ .. 11.1.55 ..
संघ-मुख्यश्च संघेषु न्याय-वृत्तिर्हितः प्रियः । ॥ ११.१.५६अ ब ॥
saṃgha-mukhyaśca saṃgheṣu nyāya-vṛttirhitaḥ priyaḥ . .. 11.1.56a ba ..
दान्तो युक्त-जनस्तिष्ठेत्सर्व-चित्त-अनुवर्तकः ॥ ११.१.५६च्द् ॥
dānto yukta-janastiṣṭhetsarva-citta-anuvartakaḥ .. 11.1.56cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In