| |
|

This overlay will guide you through the buttons:

विजिगीषुरात्मनः परस्य च बल-अबलं शक्ति-देश-काल-यात्रा-काल-बल-समुद्दान-काल-पश्चात्-कोप-क्षय-व्यय-लाभ-आपदां ज्ञात्वा विशिष्ट-बलो यायात् । अन्यथाआसीत ॥ ०९.१.०१ ॥
विजिगीषुः आत्मनः परस्य च बल-अबलम् शक्ति-देश-काल-यात्रा-काल-बल-समुद्दान-काल-पश्चात् कोप-क्षय-व्यय-लाभ-आपदाम् ज्ञात्वा विशिष्ट-बलः यायात् । अन्यथा आसीत ॥ ०९।१।०१ ॥
vijigīṣuḥ ātmanaḥ parasya ca bala-abalam śakti-deśa-kāla-yātrā-kāla-bala-samuddāna-kāla-paścāt kopa-kṣaya-vyaya-lābha-āpadām jñātvā viśiṣṭa-balaḥ yāyāt . anyathā āsīta .. 09.1.01 ..
उत्साह-प्रभावयोरुत्साहः श्रेयान् ॥ ०९.१.०२ ॥
उत्साह-प्रभावयोः उत्साहः श्रेयान् ॥ ०९।१।०२ ॥
utsāha-prabhāvayoḥ utsāhaḥ śreyān .. 09.1.02 ..
स्वयं हि राजा शूरो बलवानरोगः कृत-अस्त्रो दण्ड-द्वितीयोअपि शक्तः प्रभाववन्तं राजानं जेतुं ॥ ०९.१.०३ ॥
स्वयम् हि राजा शूरः बलवान् अरोगः कृत-अस्त्रः दण्ड-द्वितीयः अपि शक्तः प्रभाववन्तम् राजानम् जेतुम् ॥ ०९।१।०३ ॥
svayam hi rājā śūraḥ balavān arogaḥ kṛta-astraḥ daṇḍa-dvitīyaḥ api śaktaḥ prabhāvavantam rājānam jetum .. 09.1.03 ..
अल्पोअपि चास्य दण्डस्तेजसा कृत्य-करो भवति ॥ ०९.१.०४ ॥
अल्पः अपि च अस्य दण्डः तेजसा कृत्य-करः भवति ॥ ०९।१।०४ ॥
alpaḥ api ca asya daṇḍaḥ tejasā kṛtya-karaḥ bhavati .. 09.1.04 ..
निरुत्साहस्तु प्रभाववान्राजा विक्रम-अभिपन्नो नश्यति इत्याचार्याः ॥ ०९.१.०५ ॥
निरुत्साहः तु प्रभाववान् राजा विक्रम-अभिपन्नः नश्यति इति आचार्याः ॥ ०९।१।०५ ॥
nirutsāhaḥ tu prabhāvavān rājā vikrama-abhipannaḥ naśyati iti ācāryāḥ .. 09.1.05 ..
नैति कौटिल्यः ॥ ०९.१.०६ ॥
न एति कौटिल्यः ॥ ०९।१।०६ ॥
na eti kauṭilyaḥ .. 09.1.06 ..
प्रभाववानुत्साहवन्तं राजानं प्रभावेनातिसंधत्ते तद्-विशिष्टं अन्यं राजानं आवाह्य भृत्वा क्रीत्वा प्रवीर-पुरुषान् ॥ ०९.१.०७ ॥
प्रभाववान् उत्साहवन्तम् राजानम् प्रभावेन अतिसंधत्ते तद्-विशिष्टम् अन्यम् राजानम् आवाह्य भृत्वा क्रीत्वा प्रवीर-पुरुषान् ॥ ०९।१।०७ ॥
prabhāvavān utsāhavantam rājānam prabhāvena atisaṃdhatte tad-viśiṣṭam anyam rājānam āvāhya bhṛtvā krītvā pravīra-puruṣān .. 09.1.07 ..
प्रभूत-प्रभाव-हय-हस्ति-रथ-उपकरण-सम्पन्नश्चास्य दण्डः सर्वत्राप्रतिहतश्चरति ॥ ०९.१.०८ ॥
प्रभूत-प्रभाव-हय-हस्ति-रथ-उपकरण-सम्पन्नः च अस्य दण्डः सर्वत्र अप्रतिहतः चरति ॥ ०९।१।०८ ॥
prabhūta-prabhāva-haya-hasti-ratha-upakaraṇa-sampannaḥ ca asya daṇḍaḥ sarvatra apratihataḥ carati .. 09.1.08 ..
उत्साहवतश्च प्रभाववन्तो जित्वा क्रीत्वा च स्त्रियो बालाः पङ्गवोअन्धाश्च पृथिवीं जिग्युरिति ॥ ०९.१.०९ ॥
उत्साहवतः च प्रभाववन्तः जित्वा क्रीत्वा च स्त्रियः बालाः पङ्गवः अन्धाः च पृथिवीम् जिग्युः इति ॥ ०९।१।०९ ॥
utsāhavataḥ ca prabhāvavantaḥ jitvā krītvā ca striyaḥ bālāḥ paṅgavaḥ andhāḥ ca pṛthivīm jigyuḥ iti .. 09.1.09 ..
प्रभाव-मन्त्रयोः प्रभावः श्रेयान् ॥ ०९.१.१० ॥
प्रभाव-मन्त्रयोः प्रभावः श्रेयान् ॥ ०९।१।१० ॥
prabhāva-mantrayoḥ prabhāvaḥ śreyān .. 09.1.10 ..
मन्त्र-शक्ति-सम्पन्नो हि वन्ध्य-बुद्धिरप्रभावो भवति ॥ ०९.१.११ ॥
मन्त्र-शक्ति-सम्पन्नः हि वन्ध्य-बुद्धिः अप्रभावः भवति ॥ ०९।१।११ ॥
mantra-śakti-sampannaḥ hi vandhya-buddhiḥ aprabhāvaḥ bhavati .. 09.1.11 ..
मन्त्र-कर्म चास्य निश्चितं अप्रभावो गर्भ-धान्यं अवृष्टिरिवौपहन्ति इत्याचार्याः ॥ ०९.१.१२ ॥
मन्त्र-कर्म च अस्य निश्चितम् अ प्रभावः गर्भ-धान्यम् अवृष्टिः इव औपहन्ति इति आचार्याः ॥ ०९।१।१२ ॥
mantra-karma ca asya niścitam a prabhāvaḥ garbha-dhānyam avṛṣṭiḥ iva aupahanti iti ācāryāḥ .. 09.1.12 ..
नैति कौटिल्यः ॥ ०९.१.१३ ॥
न एति कौटिल्यः ॥ ०९।१।१३ ॥
na eti kauṭilyaḥ .. 09.1.13 ..
मन्त्र-शक्तिः श्रेयसी ॥ ०९.१.१४ ॥
मन्त्र-शक्तिः श्रेयसी ॥ ०९।१।१४ ॥
mantra-śaktiḥ śreyasī .. 09.1.14 ..
प्रज्ञा-शास्त्र-चक्षुर्हि राजाअल्पेनापि प्रयत्नेन मन्त्रं आधातुं शक्तः परानुत्साह-प्रभाववतश्च साम-आदिभिर्योग-उपनिषद्भ्यां चातिसंधातुं ॥ ०९.१.१५ ॥
प्रज्ञा-शास्त्र-चक्षुः हि राजा अ अल्पेन अपि प्रयत्नेन मन्त्रम् आधातुम् शक्तः परान् उत्साह-प्रभाववतः च साम-आदिभिः योग-उपनिषद्भ्याम् च अतिसंधातुम् ॥ ०९।१।१५ ॥
prajñā-śāstra-cakṣuḥ hi rājā a alpena api prayatnena mantram ādhātum śaktaḥ parān utsāha-prabhāvavataḥ ca sāma-ādibhiḥ yoga-upaniṣadbhyām ca atisaṃdhātum .. 09.1.15 ..
एवं उत्साह-प्रभाव-मन्त्र-शक्तीनां उत्तर-उत्तर-अधिकोअतिसंधत्ते ॥ ०९.१.१६ ॥
एवम् उत्साह-प्रभाव-मन्त्र-शक्तीनाम् उत्तर-उत्तर-अधिकः अतिसंधत्ते ॥ ०९।१।१६ ॥
evam utsāha-prabhāva-mantra-śaktīnām uttara-uttara-adhikaḥ atisaṃdhatte .. 09.1.16 ..
देशः पृथिवी ॥ ०९.१.१७ ॥
देशः पृथिवी ॥ ०९।१।१७ ॥
deśaḥ pṛthivī .. 09.1.17 ..
तस्यां हिमवत्-समुद्र-अन्तरं उदीचीनं योजन-सहस्र-परिमाणं तिर्यक्चक्र-वर्ति-क्षेत्रं ॥ ०९.१.१८ ॥
तस्याम् हिमवत्-समुद्र-अन्तरम् उदीचीनम् योजन-सहस्र-परिमाणम् तिर्यक्चक्र-वर्ति-क्षेत्रम् ॥ ०९।१।१८ ॥
tasyām himavat-samudra-antaram udīcīnam yojana-sahasra-parimāṇam tiryakcakra-varti-kṣetram .. 09.1.18 ..
तत्रारण्यो ग्राम्यः पर्वत औदको भौमः समो विषम इति विशेषाः ॥ ०९.१.१९ ॥
तत्र आरण्यः ग्राम्यः पर्वतः औदकः भौमः समः विषमः इति विशेषाः ॥ ०९।१।१९ ॥
tatra āraṇyaḥ grāmyaḥ parvataḥ audakaḥ bhaumaḥ samaḥ viṣamaḥ iti viśeṣāḥ .. 09.1.19 ..
तेषु यथा-स्व-बल-वृद्धि-करं कर्म प्रयुञ्जीत ॥ ०९.१.२० ॥
तेषु यथा स्व-बल-वृद्धि-करम् कर्म प्रयुञ्जीत ॥ ०९।१।२० ॥
teṣu yathā sva-bala-vṛddhi-karam karma prayuñjīta .. 09.1.20 ..
यत्र-आत्मनः सैन्य-व्यायामानां भूमिः । अभूमिः परस्य । स उत्तमो देशः । विपरीतोअधमः । साधारणो मध्यमः ॥ ०९.१.२१ ॥
यत्र आत्मनः सैन्य-व्यायामानाम् भूमिः । अभूमिः परस्य । सः उत्तमः देशः । विपरीतः अधमः । साधारणः मध्यमः ॥ ०९।१।२१ ॥
yatra ātmanaḥ sainya-vyāyāmānām bhūmiḥ . abhūmiḥ parasya . saḥ uttamaḥ deśaḥ . viparītaḥ adhamaḥ . sādhāraṇaḥ madhyamaḥ .. 09.1.21 ..
कालः शीत-उष्ण-वर्ष-आत्मा ॥ ०९.१.२२ ॥
कालः शीत-उष्ण-वर्ष-आत्मा ॥ ०९।१।२२ ॥
kālaḥ śīta-uṣṇa-varṣa-ātmā .. 09.1.22 ..
तस्य रात्रिरहः पक्षो मास ऋतुरयनं संवत्सरो युगं इति विशेषाः ॥ ०९.१.२३ ॥
तस्य रात्रिः अहर् पक्षः मासः ऋतुः अयनम् संवत्सरः युगम् इति विशेषाः ॥ ०९।१।२३ ॥
tasya rātriḥ ahar pakṣaḥ māsaḥ ṛtuḥ ayanam saṃvatsaraḥ yugam iti viśeṣāḥ .. 09.1.23 ..
तेषु यथा-स्व-बल-वृद्धि-करं कर्म-प्रयुञ्जीत ॥ ०९.१.२४ ॥
तेषु यथा स्व-बल-वृद्धि-करम् कर्म प्रयुञ्जीत ॥ ०९।१।२४ ॥
teṣu yathā sva-bala-vṛddhi-karam karma prayuñjīta .. 09.1.24 ..
यत्र-आत्मनः सैन्य-व्यायामानां ऋतुः अनृतुः परस्य । स उत्तमः कालः । विपरीतोअधमः । साधारणो मध्यमः ॥ ०९.१.२५ ॥
यत्र आत्मनः सैन्य-व्यायामानाम् ऋतुः अनृतुः परस्य । सः उत्तमः कालः । विपरीतः अधमः । साधारणः मध्यमः ॥ ०९।१।२५ ॥
yatra ātmanaḥ sainya-vyāyāmānām ṛtuḥ anṛtuḥ parasya . saḥ uttamaḥ kālaḥ . viparītaḥ adhamaḥ . sādhāraṇaḥ madhyamaḥ .. 09.1.25 ..
शक्ति-देश-कालानां तु शक्तिः श्रेयसी इत्याचार्याः ॥ ०९.१.२६ ॥
शक्ति-देश-कालानाम् तु शक्तिः श्रेयसी इति आचार्याः ॥ ०९।१।२६ ॥
śakti-deśa-kālānām tu śaktiḥ śreyasī iti ācāryāḥ .. 09.1.26 ..
शक्तिमान्हि निम्न-स्थलवतो देशस्य शीत-उष्ण-वर्षवतश्च कालस्य शक्तः प्रतीकारे भवति ॥ ०९.१.२७ ॥
शक्तिमान् हि निम्न-स्थलवतः देशस्य शीत-उष्ण-वर्षवतः च कालस्य शक्तः प्रतीकारे भवति ॥ ०९।१।२७ ॥
śaktimān hi nimna-sthalavataḥ deśasya śīta-uṣṇa-varṣavataḥ ca kālasya śaktaḥ pratīkāre bhavati .. 09.1.27 ..
देशः श्रेयान् इत्येके ॥ ०९.१.२८ ॥
देशः श्रेयान् इति एके ॥ ०९।१।२८ ॥
deśaḥ śreyān iti eke .. 09.1.28 ..
स्थल-गतो हि श्वा नक्रं विकर्षति । निम्न-गतो नक्रः श्वानम् इति ॥ ०९.१.२९ ॥
स्थल-गतः हि श्वा नक्रम् विकर्षति । निम्न-गतः नक्रः श्वानम् इति ॥ ०९।१।२९ ॥
sthala-gataḥ hi śvā nakram vikarṣati . nimna-gataḥ nakraḥ śvānam iti .. 09.1.29 ..
कालः श्रेयान् इत्येके ॥ ०९.१.३० ॥
कालः श्रेयान् इति एके ॥ ०९।१।३० ॥
kālaḥ śreyān iti eke .. 09.1.30 ..
दिवा काकः कौशिकं हन्ति । रात्रौ कौशिकः काकम् इति ॥ ०९.१.३१ ॥
दिवा काकः कौशिकम् हन्ति । रात्रौ कौशिकः काकम् इति ॥ ०९।१।३१ ॥
divā kākaḥ kauśikam hanti . rātrau kauśikaḥ kākam iti .. 09.1.31 ..
नैति कौटिल्यः ॥ ०९.१.३२ ॥
न एति कौटिल्यः ॥ ०९।१।३२ ॥
na eti kauṭilyaḥ .. 09.1.32 ..
परस्पर-साधका हि शक्ति-देश-कालाः ॥ ०९.१.३३ ॥
परस्पर-साधकाः हि शक्ति-देश-कालाः ॥ ०९।१।३३ ॥
paraspara-sādhakāḥ hi śakti-deśa-kālāḥ .. 09.1.33 ..
तैरभ्युच्चितस्तृतीयं चतुर्थं वा दण्डस्यांशं मूले पार्ष्ण्यां प्रत्यन्त-अटवीषु च रक्षा विधाय कार्य-साधन-सहं कोश-दण्डं चऽदाय क्षीण-पुराण-भक्तं अगृहीत-नव-भक्तं असंस्कृत-दुर्गम-मित्रं वार्षिकं चास्य सस्यं हैमनं च मुष्टिं उपहन्तुं मार्गशीर्षीं यात्रां यायात् ॥ ०९.१.३४ ॥
तैः अभ्युच्चितः तृतीयम् चतुर्थम् वा दण्डस्य अंशम् मूले पार्ष्ण्याम् प्रत्यन्त-अटवीषु च रक्षाः विधाय कार्य-साधन-सहम् कोश-दण्डम् च अदाय क्षीण-पुराण-भक्तम् अ गृहीत-नव-भक्तम् अ संस्कृत-दुर्गम-मित्रम् वार्षिकम् च अस्य सस्यम् हैमनम् च मुष्टिम् उपहन्तुम् मार्गशीर्षीम् यात्राम् यायात् ॥ ०९।१।३४ ॥
taiḥ abhyuccitaḥ tṛtīyam caturtham vā daṇḍasya aṃśam mūle pārṣṇyām pratyanta-aṭavīṣu ca rakṣāḥ vidhāya kārya-sādhana-saham kośa-daṇḍam ca adāya kṣīṇa-purāṇa-bhaktam a gṛhīta-nava-bhaktam a saṃskṛta-durgama-mitram vārṣikam ca asya sasyam haimanam ca muṣṭim upahantum mārgaśīrṣīm yātrām yāyāt .. 09.1.34 ..
हैमानं चास्य सस्यं वासन्तिकं च मुष्टिं उपहन्तुं चैत्रीं यात्रां यायात् ॥ ०९.१.३५ ॥
हैमानम् च अस्य सस्यम् वासन्तिकम् च मुष्टिम् उपहन्तुम् चैत्रीम् यात्राम् यायात् ॥ ०९।१।३५ ॥
haimānam ca asya sasyam vāsantikam ca muṣṭim upahantum caitrīm yātrām yāyāt .. 09.1.35 ..
क्षीण-कृण-काष्ठ-उदकं असंस्कृत-दुर्गम-मित्रं वासन्तिकं चास्य सस्यं वार्षिकीं च मुष्टिं उपहन्तुं ज्येष्ठामूलीयां यात्रां यायात् ॥ ०९.१.३६ ॥
क्षीण-कृण-काष्ठ-उदकम् अ संस्कृत-दुर्गम-मित्रम् वासन्तिकम् च अस्य सस्यम् वार्षिकीम् च मुष्टिम् उपहन्तुम् ज्येष्ठामूलीयाम् यात्राम् यायात् ॥ ०९।१।३६ ॥
kṣīṇa-kṛṇa-kāṣṭha-udakam a saṃskṛta-durgama-mitram vāsantikam ca asya sasyam vārṣikīm ca muṣṭim upahantum jyeṣṭhāmūlīyām yātrām yāyāt .. 09.1.36 ..
अत्युष्णं अल्प-यवस-इन्धन-उदकं वा देशं हेमन्ते यायात् ॥ ०९.१.३७ ॥
अति उष्णम् अल्प-यवस-इन्धन-उदकम् वा देशम् हेमन्ते यायात् ॥ ०९।१।३७ ॥
ati uṣṇam alpa-yavasa-indhana-udakam vā deśam hemante yāyāt .. 09.1.37 ..
तुषार-दुर्दिनं अगाध-निम्न-प्रायं गहन-तृण-वृक्षं वा देशं ग्रीष्मे यायात् ॥ ०९.१.३८ ॥
तुषार-दुर्दिनम् अगाध-निम्न-प्रायम् गहन-तृण-वृक्षम् वा देशम् ग्रीष्मे यायात् ॥ ०९।१।३८ ॥
tuṣāra-durdinam agādha-nimna-prāyam gahana-tṛṇa-vṛkṣam vā deśam grīṣme yāyāt .. 09.1.38 ..
स्व-सैन्य-व्यायाम-योग्यं परस्यायोग्यं वर्षति यायात् ॥ ०९.१.३९ ॥
स्व-सैन्य-व्यायाम-योग्यम् परस्य अयोग्यम् वर्षति यायात् ॥ ०९।१।३९ ॥
sva-sainya-vyāyāma-yogyam parasya ayogyam varṣati yāyāt .. 09.1.39 ..
मार्गशीर्षीं तैषीं चान्तरेण दीर्घ-कालां यात्रां यायात् । चैत्रीं वैशाखीं चान्तरेण मध्यम-कालाम् । ज्येष्ठामूलीयां आषाढीं चान्तरेण ह्रस्व-कालाम् । उपोषिष्यन्व्यसने चतुर्थीं ॥ ०९.१.४० ॥
मार्गशीर्षीम् तैषीम् च अन्तरेण दीर्घ-कालाम् यात्राम् यायात् । चैत्रीम् वैशाखीम् च अन्तरेण मध्यम-कालाम् । ज्येष्ठामूलीयाम् आषाढीम् च अन्तरेण ह्रस्व-कालाम् । उपोषिष्यन् व्यसने चतुर्थीम् ॥ ०९।१।४० ॥
mārgaśīrṣīm taiṣīm ca antareṇa dīrgha-kālām yātrām yāyāt . caitrīm vaiśākhīm ca antareṇa madhyama-kālām . jyeṣṭhāmūlīyām āṣāḍhīm ca antareṇa hrasva-kālām . upoṣiṣyan vyasane caturthīm .. 09.1.40 ..
व्यसन-अभियानं विगृह्य-याने व्याख्यातं ॥ ०९.१.४१ ॥
व्यसन-अभियानम् विगृह्य याने व्याख्यातम् ॥ ०९।१।४१ ॥
vyasana-abhiyānam vigṛhya yāne vyākhyātam .. 09.1.41 ..
प्रायशश्चऽचार्याः "पर-व्यसने यातव्यम्" इत्युपदिशन्ति ॥ ०९.१.४२ ॥
प्रायशस् च आचार्याः "पर-व्यसने यातव्यम्" इति उपदिशन्ति ॥ ०९।१।४२ ॥
prāyaśas ca ācāryāḥ "para-vyasane yātavyam" iti upadiśanti .. 09.1.42 ..
शक्त्य्-उदये यातव्यं अनैकान्न्तिकत्वाद्व्यसनानां इति कौटिल्यः ॥ ०९.१.४३ ॥
शक्ति-उदये यातव्यम् अनैकान्न्तिक-त्वात् व्यसनानाम् इति कौटिल्यः ॥ ०९।१।४३ ॥
śakti-udaye yātavyam anaikānntika-tvāt vyasanānām iti kauṭilyaḥ .. 09.1.43 ..
यदा वा प्रयातः कर्शयितुं उच्छेतुं वा शक्नुयादमित्रं तदा यायात् ॥ ०९.१.४४ ॥
यदा वा प्रयातः कर्शयितुम् उच्छेतुम् वा शक्नुयात् अमित्रम् तदा यायात् ॥ ०९।१।४४ ॥
yadā vā prayātaḥ karśayitum ucchetum vā śaknuyāt amitram tadā yāyāt .. 09.1.44 ..
अत्युष्ण-उपक्षीणे काले हस्ति-बल-प्रायो यायात् ॥ ०९.१.४५ ॥
अति उष्ण-उपक्षीणे काले हस्ति-बल-प्रायः यायात् ॥ ०९।१।४५ ॥
ati uṣṇa-upakṣīṇe kāle hasti-bala-prāyaḥ yāyāt .. 09.1.45 ..
हस्तिनो ह्यन्तः-स्वेदाः कुष्ठिनो भवन्ति ॥ ०९.१.४६ ॥
हस्तिनः हि अन्तर् स्वेदाः कुष्ठिनः भवन्ति ॥ ०९।१।४६ ॥
hastinaḥ hi antar svedāḥ kuṣṭhinaḥ bhavanti .. 09.1.46 ..
अनवगाहमानास्तोयं अपिबन्तश्चान्तर्-अवक्षाराच्चान्धी-भवन्ति ॥ ०९.१.४७ ॥
अन् अवगाहमानाः तोयम् अ पिबन्तः च अन्तर् अवक्षारात् च अन्धी भवन्ति ॥ ०९।१।४७ ॥
an avagāhamānāḥ toyam a pibantaḥ ca antar avakṣārāt ca andhī bhavanti .. 09.1.47 ..
तस्मात्प्रभूत-उदके देशे वर्षति च हस्ति-बल-प्रायो यायात् ॥ ०९.१.४८ ॥
तस्मात् प्रभूत-उदके देशे वर्षति च हस्ति-बल-प्रायः यायात् ॥ ०९।१।४८ ॥
tasmāt prabhūta-udake deśe varṣati ca hasti-bala-prāyaḥ yāyāt .. 09.1.48 ..
विपर्यये खर-उष्ट्र-अश्व-बल-प्रायो देशं अल्प-वर्ष-पङ्कं ॥ ०९.१.४९ ॥
विपर्यये खर-उष्ट्र-अश्व-बल-प्रायः देशम् अल्प-वर्ष-पङ्कम् ॥ ०९।१।४९ ॥
viparyaye khara-uṣṭra-aśva-bala-prāyaḥ deśam alpa-varṣa-paṅkam .. 09.1.49 ..
वर्षति मरु-प्रायं चतुर्-अङ्ग-बलो यायात् ॥ ०९.१.५० ॥
वर्षति मरु-प्रायम् चतुर्-अङ्ग-बलः यायात् ॥ ०९।१।५० ॥
varṣati maru-prāyam catur-aṅga-balaḥ yāyāt .. 09.1.50 ..
सम-विषम-निम्न-स्थल-ह्रस्व-दीर्घ-वशेन वाअध्वनो यात्रां विभजेत् ॥ ०९.१.५१ ॥
सम-विषम-निम्न-स्थल-ह्रस्व-दीर्घ-वशेन वा अअध्वनः यात्राम् विभजेत् ॥ ०९।१।५१ ॥
sama-viṣama-nimna-sthala-hrasva-dīrgha-vaśena vā aadhvanaḥ yātrām vibhajet .. 09.1.51 ..
सर्वा वा ह्रस्व-कालाः स्युर्यातव्याः कार्य-लाघवात् । ॥ ०९.१.५२अ ब ॥
सर्वाः वा ह्रस्व-कालाः स्युः यातव्याः कार्य-लाघवात् । ॥ ०९।१।५२अ ब ॥
sarvāḥ vā hrasva-kālāḥ syuḥ yātavyāḥ kārya-lāghavāt . .. 09.1.52a ba ..
दीर्घाः कार्य-गुरुत्वाद्वा वर्षा-वासः परत्र च ॥ ०९.१.५२च्द् ॥
दीर्घाः कार्य-गुरु-त्वात् वा वर्षा-वासः परत्र च ॥ ०९।१।५२च् ॥
dīrghāḥ kārya-guru-tvāt vā varṣā-vāsaḥ paratra ca .. 09.1.52c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In