| |
|

This overlay will guide you through the buttons:

विजिगीषुरात्मनः परस्य च बल-अबलं शक्ति-देश-काल-यात्रा-काल-बल-समुद्दान-काल-पश्चात्-कोप-क्षय-व्यय-लाभ-आपदां ज्ञात्वा विशिष्ट-बलो यायात् । अन्यथाआसीत ॥ ०९.१.०१ ॥
vijigīṣurātmanaḥ parasya ca bala-abalaṃ śakti-deśa-kāla-yātrā-kāla-bala-samuddāna-kāla-paścāt-kopa-kṣaya-vyaya-lābha-āpadāṃ jñātvā viśiṣṭa-balo yāyāt . anyathāāsīta .. 09.1.01 ..
उत्साह-प्रभावयोरुत्साहः श्रेयान् ॥ ०९.१.०२ ॥
utsāha-prabhāvayorutsāhaḥ śreyān .. 09.1.02 ..
स्वयं हि राजा शूरो बलवानरोगः कृत-अस्त्रो दण्ड-द्वितीयोअपि शक्तः प्रभाववन्तं राजानं जेतुं ॥ ०९.१.०३ ॥
svayaṃ hi rājā śūro balavānarogaḥ kṛta-astro daṇḍa-dvitīyoapi śaktaḥ prabhāvavantaṃ rājānaṃ jetuṃ .. 09.1.03 ..
अल्पोअपि चास्य दण्डस्तेजसा कृत्य-करो भवति ॥ ०९.१.०४ ॥
alpoapi cāsya daṇḍastejasā kṛtya-karo bhavati .. 09.1.04 ..
निरुत्साहस्तु प्रभाववान्राजा विक्रम-अभिपन्नो नश्यति इत्याचार्याः ॥ ०९.१.०५ ॥
nirutsāhastu prabhāvavānrājā vikrama-abhipanno naśyati ityācāryāḥ .. 09.1.05 ..
नैति कौटिल्यः ॥ ०९.१.०६ ॥
naiti kauṭilyaḥ .. 09.1.06 ..
प्रभाववानुत्साहवन्तं राजानं प्रभावेनातिसंधत्ते तद्-विशिष्टं अन्यं राजानं आवाह्य भृत्वा क्रीत्वा प्रवीर-पुरुषान् ॥ ०९.१.०७ ॥
prabhāvavānutsāhavantaṃ rājānaṃ prabhāvenātisaṃdhatte tad-viśiṣṭaṃ anyaṃ rājānaṃ āvāhya bhṛtvā krītvā pravīra-puruṣān .. 09.1.07 ..
प्रभूत-प्रभाव-हय-हस्ति-रथ-उपकरण-सम्पन्नश्चास्य दण्डः सर्वत्राप्रतिहतश्चरति ॥ ०९.१.०८ ॥
prabhūta-prabhāva-haya-hasti-ratha-upakaraṇa-sampannaścāsya daṇḍaḥ sarvatrāpratihataścarati .. 09.1.08 ..
उत्साहवतश्च प्रभाववन्तो जित्वा क्रीत्वा च स्त्रियो बालाः पङ्गवोअन्धाश्च पृथिवीं जिग्युरिति ॥ ०९.१.०९ ॥
utsāhavataśca prabhāvavanto jitvā krītvā ca striyo bālāḥ paṅgavoandhāśca pṛthivīṃ jigyuriti .. 09.1.09 ..
प्रभाव-मन्त्रयोः प्रभावः श्रेयान् ॥ ०९.१.१० ॥
prabhāva-mantrayoḥ prabhāvaḥ śreyān .. 09.1.10 ..
मन्त्र-शक्ति-सम्पन्नो हि वन्ध्य-बुद्धिरप्रभावो भवति ॥ ०९.१.११ ॥
mantra-śakti-sampanno hi vandhya-buddhiraprabhāvo bhavati .. 09.1.11 ..
मन्त्र-कर्म चास्य निश्चितं अप्रभावो गर्भ-धान्यं अवृष्टिरिवौपहन्ति इत्याचार्याः ॥ ०९.१.१२ ॥
mantra-karma cāsya niścitaṃ aprabhāvo garbha-dhānyaṃ avṛṣṭirivaupahanti ityācāryāḥ .. 09.1.12 ..
नैति कौटिल्यः ॥ ०९.१.१३ ॥
naiti kauṭilyaḥ .. 09.1.13 ..
मन्त्र-शक्तिः श्रेयसी ॥ ०९.१.१४ ॥
mantra-śaktiḥ śreyasī .. 09.1.14 ..
प्रज्ञा-शास्त्र-चक्षुर्हि राजाअल्पेनापि प्रयत्नेन मन्त्रं आधातुं शक्तः परानुत्साह-प्रभाववतश्च साम-आदिभिर्योग-उपनिषद्भ्यां चातिसंधातुं ॥ ०९.१.१५ ॥
prajñā-śāstra-cakṣurhi rājāalpenāpi prayatnena mantraṃ ādhātuṃ śaktaḥ parānutsāha-prabhāvavataśca sāma-ādibhiryoga-upaniṣadbhyāṃ cātisaṃdhātuṃ .. 09.1.15 ..
एवं उत्साह-प्रभाव-मन्त्र-शक्तीनां उत्तर-उत्तर-अधिकोअतिसंधत्ते ॥ ०९.१.१६ ॥
evaṃ utsāha-prabhāva-mantra-śaktīnāṃ uttara-uttara-adhikoatisaṃdhatte .. 09.1.16 ..
देशः पृथिवी ॥ ०९.१.१७ ॥
deśaḥ pṛthivī .. 09.1.17 ..
तस्यां हिमवत्-समुद्र-अन्तरं उदीचीनं योजन-सहस्र-परिमाणं तिर्यक्चक्र-वर्ति-क्षेत्रं ॥ ०९.१.१८ ॥
tasyāṃ himavat-samudra-antaraṃ udīcīnaṃ yojana-sahasra-parimāṇaṃ tiryakcakra-varti-kṣetraṃ .. 09.1.18 ..
तत्रारण्यो ग्राम्यः पर्वत औदको भौमः समो विषम इति विशेषाः ॥ ०९.१.१९ ॥
tatrāraṇyo grāmyaḥ parvata audako bhaumaḥ samo viṣama iti viśeṣāḥ .. 09.1.19 ..
तेषु यथा-स्व-बल-वृद्धि-करं कर्म प्रयुञ्जीत ॥ ०९.१.२० ॥
teṣu yathā-sva-bala-vṛddhi-karaṃ karma prayuñjīta .. 09.1.20 ..
यत्र-आत्मनः सैन्य-व्यायामानां भूमिः । अभूमिः परस्य । स उत्तमो देशः । विपरीतोअधमः । साधारणो मध्यमः ॥ ०९.१.२१ ॥
yatra-ātmanaḥ sainya-vyāyāmānāṃ bhūmiḥ . abhūmiḥ parasya . sa uttamo deśaḥ . viparītoadhamaḥ . sādhāraṇo madhyamaḥ .. 09.1.21 ..
कालः शीत-उष्ण-वर्ष-आत्मा ॥ ०९.१.२२ ॥
kālaḥ śīta-uṣṇa-varṣa-ātmā .. 09.1.22 ..
तस्य रात्रिरहः पक्षो मास ऋतुरयनं संवत्सरो युगं इति विशेषाः ॥ ०९.१.२३ ॥
tasya rātrirahaḥ pakṣo māsa ṛturayanaṃ saṃvatsaro yugaṃ iti viśeṣāḥ .. 09.1.23 ..
तेषु यथा-स्व-बल-वृद्धि-करं कर्म-प्रयुञ्जीत ॥ ०९.१.२४ ॥
teṣu yathā-sva-bala-vṛddhi-karaṃ karma-prayuñjīta .. 09.1.24 ..
यत्र-आत्मनः सैन्य-व्यायामानां ऋतुः अनृतुः परस्य । स उत्तमः कालः । विपरीतोअधमः । साधारणो मध्यमः ॥ ०९.१.२५ ॥
yatra-ātmanaḥ sainya-vyāyāmānāṃ ṛtuḥ anṛtuḥ parasya . sa uttamaḥ kālaḥ . viparītoadhamaḥ . sādhāraṇo madhyamaḥ .. 09.1.25 ..
शक्ति-देश-कालानां तु शक्तिः श्रेयसी इत्याचार्याः ॥ ०९.१.२६ ॥
śakti-deśa-kālānāṃ tu śaktiḥ śreyasī ityācāryāḥ .. 09.1.26 ..
शक्तिमान्हि निम्न-स्थलवतो देशस्य शीत-उष्ण-वर्षवतश्च कालस्य शक्तः प्रतीकारे भवति ॥ ०९.१.२७ ॥
śaktimānhi nimna-sthalavato deśasya śīta-uṣṇa-varṣavataśca kālasya śaktaḥ pratīkāre bhavati .. 09.1.27 ..
देशः श्रेयान् इत्येके ॥ ०९.१.२८ ॥
deśaḥ śreyān ityeke .. 09.1.28 ..
स्थल-गतो हि श्वा नक्रं विकर्षति । निम्न-गतो नक्रः श्वानम् इति ॥ ०९.१.२९ ॥
sthala-gato hi śvā nakraṃ vikarṣati . nimna-gato nakraḥ śvānam iti .. 09.1.29 ..
कालः श्रेयान् इत्येके ॥ ०९.१.३० ॥
kālaḥ śreyān ityeke .. 09.1.30 ..
दिवा काकः कौशिकं हन्ति । रात्रौ कौशिकः काकम् इति ॥ ०९.१.३१ ॥
divā kākaḥ kauśikaṃ hanti . rātrau kauśikaḥ kākam iti .. 09.1.31 ..
नैति कौटिल्यः ॥ ०९.१.३२ ॥
naiti kauṭilyaḥ .. 09.1.32 ..
परस्पर-साधका हि शक्ति-देश-कालाः ॥ ०९.१.३३ ॥
paraspara-sādhakā hi śakti-deśa-kālāḥ .. 09.1.33 ..
तैरभ्युच्चितस्तृतीयं चतुर्थं वा दण्डस्यांशं मूले पार्ष्ण्यां प्रत्यन्त-अटवीषु च रक्षा विधाय कार्य-साधन-सहं कोश-दण्डं चऽदाय क्षीण-पुराण-भक्तं अगृहीत-नव-भक्तं असंस्कृत-दुर्गम-मित्रं वार्षिकं चास्य सस्यं हैमनं च मुष्टिं उपहन्तुं मार्गशीर्षीं यात्रां यायात् ॥ ०९.१.३४ ॥
tairabhyuccitastṛtīyaṃ caturthaṃ vā daṇḍasyāṃśaṃ mūle pārṣṇyāṃ pratyanta-aṭavīṣu ca rakṣā vidhāya kārya-sādhana-sahaṃ kośa-daṇḍaṃ ca'dāya kṣīṇa-purāṇa-bhaktaṃ agṛhīta-nava-bhaktaṃ asaṃskṛta-durgama-mitraṃ vārṣikaṃ cāsya sasyaṃ haimanaṃ ca muṣṭiṃ upahantuṃ mārgaśīrṣīṃ yātrāṃ yāyāt .. 09.1.34 ..
हैमानं चास्य सस्यं वासन्तिकं च मुष्टिं उपहन्तुं चैत्रीं यात्रां यायात् ॥ ०९.१.३५ ॥
haimānaṃ cāsya sasyaṃ vāsantikaṃ ca muṣṭiṃ upahantuṃ caitrīṃ yātrāṃ yāyāt .. 09.1.35 ..
क्षीण-कृण-काष्ठ-उदकं असंस्कृत-दुर्गम-मित्रं वासन्तिकं चास्य सस्यं वार्षिकीं च मुष्टिं उपहन्तुं ज्येष्ठामूलीयां यात्रां यायात् ॥ ०९.१.३६ ॥
kṣīṇa-kṛṇa-kāṣṭha-udakaṃ asaṃskṛta-durgama-mitraṃ vāsantikaṃ cāsya sasyaṃ vārṣikīṃ ca muṣṭiṃ upahantuṃ jyeṣṭhāmūlīyāṃ yātrāṃ yāyāt .. 09.1.36 ..
अत्युष्णं अल्प-यवस-इन्धन-उदकं वा देशं हेमन्ते यायात् ॥ ०९.१.३७ ॥
atyuṣṇaṃ alpa-yavasa-indhana-udakaṃ vā deśaṃ hemante yāyāt .. 09.1.37 ..
तुषार-दुर्दिनं अगाध-निम्न-प्रायं गहन-तृण-वृक्षं वा देशं ग्रीष्मे यायात् ॥ ०९.१.३८ ॥
tuṣāra-durdinaṃ agādha-nimna-prāyaṃ gahana-tṛṇa-vṛkṣaṃ vā deśaṃ grīṣme yāyāt .. 09.1.38 ..
स्व-सैन्य-व्यायाम-योग्यं परस्यायोग्यं वर्षति यायात् ॥ ०९.१.३९ ॥
sva-sainya-vyāyāma-yogyaṃ parasyāyogyaṃ varṣati yāyāt .. 09.1.39 ..
मार्गशीर्षीं तैषीं चान्तरेण दीर्घ-कालां यात्रां यायात् । चैत्रीं वैशाखीं चान्तरेण मध्यम-कालाम् । ज्येष्ठामूलीयां आषाढीं चान्तरेण ह्रस्व-कालाम् । उपोषिष्यन्व्यसने चतुर्थीं ॥ ०९.१.४० ॥
mārgaśīrṣīṃ taiṣīṃ cāntareṇa dīrgha-kālāṃ yātrāṃ yāyāt . caitrīṃ vaiśākhīṃ cāntareṇa madhyama-kālām . jyeṣṭhāmūlīyāṃ āṣāḍhīṃ cāntareṇa hrasva-kālām . upoṣiṣyanvyasane caturthīṃ .. 09.1.40 ..
व्यसन-अभियानं विगृह्य-याने व्याख्यातं ॥ ०९.१.४१ ॥
vyasana-abhiyānaṃ vigṛhya-yāne vyākhyātaṃ .. 09.1.41 ..
प्रायशश्चऽचार्याः "पर-व्यसने यातव्यम्" इत्युपदिशन्ति ॥ ०९.१.४२ ॥
prāyaśaśca'cāryāḥ "para-vyasane yātavyam" ityupadiśanti .. 09.1.42 ..
शक्त्य्-उदये यातव्यं अनैकान्न्तिकत्वाद्व्यसनानां इति कौटिल्यः ॥ ०९.१.४३ ॥
śakty-udaye yātavyaṃ anaikānntikatvādvyasanānāṃ iti kauṭilyaḥ .. 09.1.43 ..
यदा वा प्रयातः कर्शयितुं उच्छेतुं वा शक्नुयादमित्रं तदा यायात् ॥ ०९.१.४४ ॥
yadā vā prayātaḥ karśayituṃ ucchetuṃ vā śaknuyādamitraṃ tadā yāyāt .. 09.1.44 ..
अत्युष्ण-उपक्षीणे काले हस्ति-बल-प्रायो यायात् ॥ ०९.१.४५ ॥
atyuṣṇa-upakṣīṇe kāle hasti-bala-prāyo yāyāt .. 09.1.45 ..
हस्तिनो ह्यन्तः-स्वेदाः कुष्ठिनो भवन्ति ॥ ०९.१.४६ ॥
hastino hyantaḥ-svedāḥ kuṣṭhino bhavanti .. 09.1.46 ..
अनवगाहमानास्तोयं अपिबन्तश्चान्तर्-अवक्षाराच्चान्धी-भवन्ति ॥ ०९.१.४७ ॥
anavagāhamānāstoyaṃ apibantaścāntar-avakṣārāccāndhī-bhavanti .. 09.1.47 ..
तस्मात्प्रभूत-उदके देशे वर्षति च हस्ति-बल-प्रायो यायात् ॥ ०९.१.४८ ॥
tasmātprabhūta-udake deśe varṣati ca hasti-bala-prāyo yāyāt .. 09.1.48 ..
विपर्यये खर-उष्ट्र-अश्व-बल-प्रायो देशं अल्प-वर्ष-पङ्कं ॥ ०९.१.४९ ॥
viparyaye khara-uṣṭra-aśva-bala-prāyo deśaṃ alpa-varṣa-paṅkaṃ .. 09.1.49 ..
वर्षति मरु-प्रायं चतुर्-अङ्ग-बलो यायात् ॥ ०९.१.५० ॥
varṣati maru-prāyaṃ catur-aṅga-balo yāyāt .. 09.1.50 ..
सम-विषम-निम्न-स्थल-ह्रस्व-दीर्घ-वशेन वाअध्वनो यात्रां विभजेत् ॥ ०९.१.५१ ॥
sama-viṣama-nimna-sthala-hrasva-dīrgha-vaśena vāadhvano yātrāṃ vibhajet .. 09.1.51 ..
सर्वा वा ह्रस्व-कालाः स्युर्यातव्याः कार्य-लाघवात् । ॥ ०९.१.५२अ ब ॥
sarvā vā hrasva-kālāḥ syuryātavyāḥ kārya-lāghavāt . .. 09.1.52a ba ..
दीर्घाः कार्य-गुरुत्वाद्वा वर्षा-वासः परत्र च ॥ ०९.१.५२च्द् ॥
dīrghāḥ kārya-gurutvādvā varṣā-vāsaḥ paratra ca .. 09.1.52cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In