| |
|

This overlay will guide you through the buttons:

मौल-भृतक-श्रेणी-मित्र-अमित्र-अटवी-बलानां समुद्दान-कालाः ॥ ०९.२.०१ ॥
मौल-भृतक-श्रेणी-मित्र-अमित्र-अटवी-बलानाम् समुद्दान-कालाः ॥ ०९।२।०१ ॥
maula-bhṛtaka-śreṇī-mitra-amitra-aṭavī-balānām samuddāna-kālāḥ .. 09.2.01 ..
मूल-रक्षणादतिरिक्तं मौल-बलम् । अत्यावाप-युक्ता वा मौला मूले विकुर्वीरन् । बहुल-अनुरक्त-मौल-बलः सार-बलो वा प्रतियोद्धा । व्यायामेन योद्धव्यम् । प्रकृष्टेअध्वनि काले वा क्षय-व्यय-सहत्वान्मौलानाम् । बहुल-अनुरक्त-सम्पाते च यातव्यस्यौपजाप-भयादन्य-सैन्यानां भृत-आदीनां अविश्वासे । बल-क्षये वा सर्व-सैन्यानां इति मौल-बल-कालः ॥ ०९.२.०२ ॥
मूल-रक्षणात् अतिरिक्तम् मौल-बलम् । अत्यावाप-युक्ताः वा मौलाः मूले विकुर्वीरन् । बहुल-अनुरक्त-मौल-बलः सार-बलः वा प्रतियोद्धा । व्यायामेन योद्धव्यम् । प्रकृष्टे अध्वनि काले वा क्षय-व्यय-सह-त्वात् मौलानाम् । बहुल-अनुरक्त-सम्पाते च यातव्यस्य औपजाप-भयात् अन्य-सैन्यानाम् भृत-आदीनाम् अविश्वासे । बल-क्षये वा सर्व-सैन्यानाम् इति मौल-बल-कालः ॥ ०९।२।०२ ॥
mūla-rakṣaṇāt atiriktam maula-balam . atyāvāpa-yuktāḥ vā maulāḥ mūle vikurvīran . bahula-anurakta-maula-balaḥ sāra-balaḥ vā pratiyoddhā . vyāyāmena yoddhavyam . prakṛṣṭe adhvani kāle vā kṣaya-vyaya-saha-tvāt maulānām . bahula-anurakta-sampāte ca yātavyasya aupajāpa-bhayāt anya-sainyānām bhṛta-ādīnām aviśvāse . bala-kṣaye vā sarva-sainyānām iti maula-bala-kālaḥ .. 09.2.02 ..
प्रभूतं मे भृत-बलं अल्पं च मौल-बलम्ण् "परस्याल्पं विरक्तं वा मौल-बलम् । फल्गु-प्रायं असारं वा भृत-सैन्यम्ण्" "मन्त्रेण योद्धव्यं अल्प-व्यायामेनण्" "ह्रस्वो देशः कालो वा तनु-क्षय-व्ययह्ण्" "अल्प-आवापं शान्त-उपजापं विश्वस्तं वा मे सैन्यम्ण्" "परस्याल्पः प्रसारो हन्तव्यह्ण्" इति भृत-बल-कालः ॥ ०९.२.०३ ॥
प्रभूतम् मे भृत-बलम् अल्पम् च मौल-बलम् "परस्य अल्पम् विरक्तम् वा मौल-बलम् । फल्गु-प्रायम् असारम् वा भृत-सैन्यम्" "मन्त्रेण योद्धव्यम्" "ह्रस्वः देशः कालः वा तनु-क्षय-व्यय-ह्ण्" "अल्प-आवापम् शान्त-उपजापम् विश्वस्तम् वा मे सैन्यम्ण्" "परस्य अल्पः प्रसारः हन्तव्य-ह्ण्" इति भृत-बल-कालः ॥ ०९।२।०३ ॥
prabhūtam me bhṛta-balam alpam ca maula-balam "parasya alpam viraktam vā maula-balam . phalgu-prāyam asāram vā bhṛta-sainyam" "mantreṇa yoddhavyam" "hrasvaḥ deśaḥ kālaḥ vā tanu-kṣaya-vyaya-hṇ" "alpa-āvāpam śānta-upajāpam viśvastam vā me sainyamṇ" "parasya alpaḥ prasāraḥ hantavya-hṇ" iti bhṛta-bala-kālaḥ .. 09.2.03 ..
प्रभूतं मे श्रेणी-बलम् । शक्यं मूले यात्रायां चऽधातुम्ण् ह्रस्वः प्रवासः । श्रेणी-बल-प्रायः प्रतियोद्धा मन्त्र-व्यायामाभ्यां प्रतियोद्धु-कामः । दण्ड-बल-व्यवहारः इति श्रेणी-बल-कालः ॥ ०९.२.०४ ॥
प्रभूतम् मे श्रेणी-बलम् । शक्यम् मूले यात्रायाम् च अ धातुम्-ण् ह्रस्वः प्रवासः । श्रेणी-बल-प्रायः प्रतियोद्धा मन्त्र-व्यायामाभ्याम् प्रतियोद्धु-कामः । दण्ड-बल-व्यवहारः इति श्रेणी-बल-कालः ॥ ०९।२।०४ ॥
prabhūtam me śreṇī-balam . śakyam mūle yātrāyām ca a dhātum-ṇ hrasvaḥ pravāsaḥ . śreṇī-bala-prāyaḥ pratiyoddhā mantra-vyāyāmābhyām pratiyoddhu-kāmaḥ . daṇḍa-bala-vyavahāraḥ iti śreṇī-bala-kālaḥ .. 09.2.04 ..
प्रभूतं मे मित्र-बलं शक्यं मूले यात्रायां चऽधातुम्ण् "अल्पः प्रवासो मन्त्र-युद्धाच्च भूयो व्यायाम-युद्धम्ण्" "मित्र-बलेन वा पूर्वं अटवीं नगर-स्थानं आसारं वा योधयित्वा पश्चात्स्व-बलेन योद्धयिष्यामिण्" "मित्र-साधारणं वा मे कार्यम्ण्" "मित्र-आयत्ता वा मे कार्य-सिद्धिह्ण्" "आसन्नं अनुग्राह्यं वा मे मित्रम्ण्" "अत्यावापं वाअस्य सादयिष्यामि" इति मित्र-बल-कालः ॥ ०९.२.०५ ॥
प्रभूतम् मे मित्र-बलम् शक्यम् मूले यात्रायाम् "अल्पः प्रवासः मन्त्र-युद्धात् च भूयस् व्यायाम-युद्धम्" "मित्र-बलेन वा पूर्वम् अटवीम् नगर-स्थानम् आसारम् वा योधयित्वा पश्चात् स्व-बलेन" "मित्र-साधारणम् वा मे कार्यम्" "मित्र-आयत्ता वा मे कार्य-सिद्धिह्ण्" "आसन्नम् अनुग्राह्यम् वा मे मित्रम्ण्" "अत्यावापम् वा अस्य सादयिष्यामि" इति मित्र-बल-कालः ॥ ०९।२।०५ ॥
prabhūtam me mitra-balam śakyam mūle yātrāyām "alpaḥ pravāsaḥ mantra-yuddhāt ca bhūyas vyāyāma-yuddham" "mitra-balena vā pūrvam aṭavīm nagara-sthānam āsāram vā yodhayitvā paścāt sva-balena" "mitra-sādhāraṇam vā me kāryam" "mitra-āyattā vā me kārya-siddhihṇ" "āsannam anugrāhyam vā me mitramṇ" "atyāvāpam vā asya sādayiṣyāmi" iti mitra-bala-kālaḥ .. 09.2.05 ..
प्रभूतं मे शत्रु-बलम् । शत्रु-बलेन योधयिष्यामि नगर-स्थानं अटवीं वा । तत्र मे श्व-वराहयोः कलहे चण्डालस्यैवान्यतर-सिद्धिर्भविष्यतिण् "आसाराणां अटवीनां वा कण्टक-मर्दनं एतत्करिष्यामिण्" अत्युपचितं वा कोप-भयान्नित्यं आसन्नं अरि-बलं वासयेद् । अन्यत्र-अभ्यन्तर-कोप-शङ्कायाः शत्रु-युद्ध-अवर-युद्ध-कालश्च इत्यमित्र-बल-कालः ॥ ०९.२.०६ ॥
प्रभूतम् मे शत्रु-बलम् । शत्रु-बलेन योधयिष्यामि नगर-स्थानम् अटवीम् वा । तत्र मे श्व-वराहयोः कलहे चण्डालस्य एव अन्यतर-सिद्धिः "आसाराणाम् अटवीनाम् वा" अति उपचितम् वा कोप-भयात् नित्यम् आसन्नम् अरि-बलम् वासयेत् । अन्यत्र अभ्यन्तर-कोप-शङ्कायाः शत्रु-युद्ध-अवर-युद्ध-कालः च इति अमित्र-बल-कालः ॥ ०९।२।०६ ॥
prabhūtam me śatru-balam . śatru-balena yodhayiṣyāmi nagara-sthānam aṭavīm vā . tatra me śva-varāhayoḥ kalahe caṇḍālasya eva anyatara-siddhiḥ "āsārāṇām aṭavīnām vā" ati upacitam vā kopa-bhayāt nityam āsannam ari-balam vāsayet . anyatra abhyantara-kopa-śaṅkāyāḥ śatru-yuddha-avara-yuddha-kālaḥ ca iti amitra-bala-kālaḥ .. 09.2.06 ..
तेनाटवी-बल-कालो व्याख्यातः ॥ ०९.२.०७ ॥
तेन अटवी-बल-कालः व्याख्यातः ॥ ०९।२।०७ ॥
tena aṭavī-bala-kālaḥ vyākhyātaḥ .. 09.2.07 ..
मार्ग-आदेशिकम् । पर-भूमि-योग्यम् । अरि-युद्ध-प्रतिलोमम् । अटवी-बल-प्रायः शत्रुर्वा । "बिल्वं बिल्वेन हन्यताम्ण्" अल्पः प्रसारो हन्तव्यः इत्यटवी-बल-कालः ॥ ०९.२.०८ ॥
मार्ग-आदेशिकम् । पर-भूमि-योग्यम् । अरि-युद्ध-प्रतिलोमम् । अटवी-बल-प्रायः शत्रुः वा । "बिल्वम् बिल्वेन हन्यताम् अम्ण्" अल्पः प्रसारः हन्तव्यः इति अटवी-बल-कालः ॥ ०९।२।०८ ॥
mārga-ādeśikam . para-bhūmi-yogyam . ari-yuddha-pratilomam . aṭavī-bala-prāyaḥ śatruḥ vā . "bilvam bilvena hanyatām amṇ" alpaḥ prasāraḥ hantavyaḥ iti aṭavī-bala-kālaḥ .. 09.2.08 ..
सैन्यं अनेकं अनेकस्थं उक्तं अनुक्तं वा विलोप-अर्थं यदुत्तिष्ठति तदौत्साहिकं अभक्त-वेतनं विलोप-विष्टि-प्रताप-करं भेद्यं परेषाम् । अभेद्यं तुल्य-देश-जाति-शिल्प-प्रायं संहतं महत् [इति बल-उपादान-कालाह्] ॥ ०९.२.०९ ॥
सैन्यम् अनेकम् अनेक-स्थम् उक्तम् अनुक्तम् वा विलोप-अर्थम् यत् उत्तिष्ठति तत् औत्साहिकम् अभक्त-वेतनम् विलोप-विष्टि-प्रताप-करम् भेद्यम् परेषाम् । अभेद्यम् तुल्य-देश-जाति-शिल्प-प्रायम् संहतम् महत् [इति बल-उपादान-कालाः ॥ ०९।२।०९ ॥
sainyam anekam aneka-stham uktam anuktam vā vilopa-artham yat uttiṣṭhati tat autsāhikam abhakta-vetanam vilopa-viṣṭi-pratāpa-karam bhedyam pareṣām . abhedyam tulya-deśa-jāti-śilpa-prāyam saṃhatam mahat [iti bala-upādāna-kālāḥ .. 09.2.09 ..
तेषां कुप्य-भृतं अमित्र-अटवी-बलं विलोप-भृतं वा कुर्यात् ॥ ०९.२.१० ॥
तेषाम् कुप्य-भृतम् अमित्र-अटवी-बलम् विलोप-भृतम् वा कुर्यात् ॥ ०९।२।१० ॥
teṣām kupya-bhṛtam amitra-aṭavī-balam vilopa-bhṛtam vā kuryāt .. 09.2.10 ..
अमित्रस्य वा बल-काले प्रत्युत्पन्ने शत्रु-बलं अवगृह्णीयात् । अन्यत्र वा प्रेषयेत् । अफलं वा कुर्यात् । विक्षिप्तं वा वासयेत् । काले वाअतिक्रान्ते विसृजेत् ॥ ०९.२.११ ॥
अमित्रस्य वा बल-काले प्रत्युत्पन्ने शत्रु-बलम् अवगृह्णीयात् । अन्यत्र वा प्रेषयेत् । अफलम् वा कुर्यात् । विक्षिप्तम् वा वासयेत् । काले वा अ अतिक्रान्ते विसृजेत् ॥ ०९।२।११ ॥
amitrasya vā bala-kāle pratyutpanne śatru-balam avagṛhṇīyāt . anyatra vā preṣayet . aphalam vā kuryāt . vikṣiptam vā vāsayet . kāle vā a atikrānte visṛjet .. 09.2.11 ..
परस्य चएतद्बल-समुद्दानं विघातयेत् । आत्मनः सम्पादयेत् ॥ ०९.२.१२ ॥
परस्य च एतद्-बल-समुद्दानम् विघातयेत् । आत्मनः सम्पादयेत् ॥ ०९।२।१२ ॥
parasya ca etad-bala-samuddānam vighātayet . ātmanaḥ sampādayet .. 09.2.12 ..
पूर्वं पूर्वं चएषां श्रेयः सम्नाहयितुं ॥ ०९.२.१३ ॥
पूर्वम् पूर्वम् च एषाम् श्रेयः सम्नाहयितुम् ॥ ०९।२।१३ ॥
pūrvam pūrvam ca eṣām śreyaḥ samnāhayitum .. 09.2.13 ..
तद्-भाव-भावित्वान्नित्य-सत्कार-अनुगमाच्च मौल-बलं भृत-बलात्श्रेयः ॥ ०९.२.१४ ॥
तद्-भाव-भावि-त्वात् नित्य-सत्कार-अनुगमात् च मौल-बलम् भृत-बलात् श्रेयः ॥ ०९।२।१४ ॥
tad-bhāva-bhāvi-tvāt nitya-satkāra-anugamāt ca maula-balam bhṛta-balāt śreyaḥ .. 09.2.14 ..
नित्य-अनन्तरं क्षिप्र-उत्थायि वश्यं व भृत-बलं श्रेणी-बलात्श्रेयः ॥ ०९.२.१५ ॥
नित्य-अनन्तरम् क्षिप्र-उत्थायि वश्यम् भृत-बलम् श्रेणी-बलात् श्रेयः ॥ ०९।२।१५ ॥
nitya-anantaram kṣipra-utthāyi vaśyam bhṛta-balam śreṇī-balāt śreyaḥ .. 09.2.15 ..
जानपदं एक-अर्थ-उपगतं तुल्य-संघर्ष-अमर्ष-सिद्धि-लाभं च श्रेणी-बलं मित्र-बलात्श्रेयः ॥ ०९.२.१६ ॥
जानपदम् एक-अर्थ-उपगतम् तुल्य-संघर्ष-अमर्ष-सिद्धि-लाभम् च श्रेणी-बलम् मित्र-बलात् श्रेयः ॥ ०९।२।१६ ॥
jānapadam eka-artha-upagatam tulya-saṃgharṣa-amarṣa-siddhi-lābham ca śreṇī-balam mitra-balāt śreyaḥ .. 09.2.16 ..
अपरिमित-देश-कालं एक-अर्थ-उपगमाच्च मित्र-बलं अमित्र-बलात्श्रेयः ॥ ०९.२.१७ ॥
अपरिमित-देश-कालम् एक-अर्थ-उपगमात् च मित्र-बलम् अमित्र-बलात् श्रेयः ॥ ०९।२।१७ ॥
aparimita-deśa-kālam eka-artha-upagamāt ca mitra-balam amitra-balāt śreyaḥ .. 09.2.17 ..
आर्य-अधिष्ठितं अमित्र-बलं अटवी-बलात्श्रेयः ॥ ०९.२.१८ ॥
आर्य-अधिष्ठितम् अमित्र-बलम् अटवी-बलात् श्रेयः ॥ ०९।२।१८ ॥
ārya-adhiṣṭhitam amitra-balam aṭavī-balāt śreyaḥ .. 09.2.18 ..
तदुभयं विलोप-अर्थं ॥ ०९.२.१९ ॥
तत् उभयम् विलोप-अर्थम् ॥ ०९।२।१९ ॥
tat ubhayam vilopa-artham .. 09.2.19 ..
अविलोपे व्यसने च ताभ्यां अहि-भयं स्यात् ॥ ०९.२.२० ॥
अविलोपे व्यसने च ताभ्याम् अहि-भयम् स्यात् ॥ ०९।२।२० ॥
avilope vyasane ca tābhyām ahi-bhayam syāt .. 09.2.20 ..
ब्राह्मण-क्षत्रिय-वैश्य-शूद्र-सैन्यानां तेजः-प्राधान्यात्पूर्वं पूर्वं श्रेयः सम्नाहयितुम् इत्याचार्याः ॥ ०९.२.२१ ॥
ब्राह्मण-क्षत्रिय-वैश्य-शूद्र-सैन्यानाम् तेजः-प्राधान्यात् पूर्वम् पूर्वम् श्रेयः सम्नाहयितुम् इति आचार्याः ॥ ०९।२।२१ ॥
brāhmaṇa-kṣatriya-vaiśya-śūdra-sainyānām tejaḥ-prādhānyāt pūrvam pūrvam śreyaḥ samnāhayitum iti ācāryāḥ .. 09.2.21 ..
नैति कौटिल्यः ॥ ०९.२.२२ ॥
न एति कौटिल्यः ॥ ०९।२।२२ ॥
na eti kauṭilyaḥ .. 09.2.22 ..
प्रणिपातेन ब्राह्मण-बलं परोअभिहारयेत् ॥ ०९.२.२३ ॥
प्रणिपातेन ब्राह्मण-बलम् परोअभिहारयेत् ॥ ०९।२।२३ ॥
praṇipātena brāhmaṇa-balam paroabhihārayet .. 09.2.23 ..
प्रहरण-विद्या-विनीतं तु क्षत्रिय-बलं श्रेयः । बहुल-सारं वा वैश्य-शूद्र-बलं इति ॥ ०९.२.२४ ॥
प्रहरण-विद्या-विनीतम् तु क्षत्रिय-बलम् श्रेयः । बहुल-सारम् वा वैश्य-शूद्र-बलम् इति ॥ ०९।२।२४ ॥
praharaṇa-vidyā-vinītam tu kṣatriya-balam śreyaḥ . bahula-sāram vā vaiśya-śūdra-balam iti .. 09.2.24 ..
तस्मादेवं-बलः परः । तस्यएतत्प्रतिबलं इति बल-समुद्दानं कुर्यात् ॥ ०९.२.२५ ॥
तस्मात् एवम् बलः परः । तस्य एतत् प्रतिबलम् इति बल-समुद्दानम् कुर्यात् ॥ ०९।२।२५ ॥
tasmāt evam balaḥ paraḥ . tasya etat pratibalam iti bala-samuddānam kuryāt .. 09.2.25 ..
हस्ति-यन्त्र-शकट-गर्भ-कुन्त-प्रास-हाटक-वेणु-शल्यवद्हस्ति-बलस्य प्रतिबलं ॥ ०९.२.२६ ॥
हस्ति-यन्त्र-शकट-गर्भ-कुन्त-प्रास-हाटक-वेणु-शल्यवत्-हस्ति-बलस्य प्रतिबलम् ॥ ०९।२।२६ ॥
hasti-yantra-śakaṭa-garbha-kunta-prāsa-hāṭaka-veṇu-śalyavat-hasti-balasya pratibalam .. 09.2.26 ..
तदेव पाषाण-लगुड-आवरण-अङ्कुश-कच-ग्रहणी-प्रायं रथ-बलस्य प्रतिबलं ॥ ०९.२.२७ ॥
तत् एव पाषाण-लगुड-आवरण-अङ्कुश-कच-ग्रहणी-प्रायम् रथ-बलस्य प्रतिबलम् ॥ ०९।२।२७ ॥
tat eva pāṣāṇa-laguḍa-āvaraṇa-aṅkuśa-kaca-grahaṇī-prāyam ratha-balasya pratibalam .. 09.2.27 ..
तदेवाश्वानां प्रतिबलम् । वर्मिणो वा हस्तिनोअश्वा वा वर्मिणः ॥ ०९.२.२८ ॥
तत् एव अश्वानाम् प्रतिबलम् । वर्मिणः वा हस्तिनः अश्वाः वा वर्मिणः ॥ ०९।२।२८ ॥
tat eva aśvānām pratibalam . varmiṇaḥ vā hastinaḥ aśvāḥ vā varmiṇaḥ .. 09.2.28 ..
कवचिनो रथा आवरणिनः पत्तयश्च चतुर्-अङ्ग-बलस्य प्रतिबलं ॥ ०९.२.२९ ॥
कवचिनः रथाः आवरणिनः पत्तयः च चतुर्-अङ्ग-बलस्य प्रतिबलम् ॥ ०९।२।२९ ॥
kavacinaḥ rathāḥ āvaraṇinaḥ pattayaḥ ca catur-aṅga-balasya pratibalam .. 09.2.29 ..
एवं बल-समुद्दानं पर-सैन्य-निवारणं । ॥ ०९.२.३०अ ब ॥
एवम् बल-समुद्दानम् पर-सैन्य-निवारणम् । ॥ ०९।२।३०अ ब ॥
evam bala-samuddānam para-sainya-nivāraṇam . .. 09.2.30a ba ..
विभवेन स्व-सैन्यानां कुर्यादङ्ग-विकल्पशः ॥ ०९.२.३०च्द् ॥
विभवेन स्व-सैन्यानाम् कुर्यात् अङ्ग-विकल्पशः ॥ ०९।२।३०च् ॥
vibhavena sva-sainyānām kuryāt aṅga-vikalpaśaḥ .. 09.2.30c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In