| |
|

This overlay will guide you through the buttons:

अल्पः पश्चात्-कोपो महान्पुरस्ताल्-लाभ इति अल्पः पश्चात्-कोपो गरीयान् ॥ ०९.३.०१ ॥
अल्पः पश्चात् कोपः महान् पुरस्तात् लाभः इति अल्पः पश्चात् कोपः गरीयान् ॥ ०९।३।०१ ॥
alpaḥ paścāt kopaḥ mahān purastāt lābhaḥ iti alpaḥ paścāt kopaḥ garīyān .. 09.3.01 ..
अल्पं पश्चात्-कोपं प्रयातस्स्य दूष्य-अमित्र-आटविका हि सर्वतः समेधयन्ति । प्रकृति-कोपो वा ॥ ०९.३.०२ ॥
अल्पम् पश्चात् कोपम् प्रयातस्स्य दूष्य-अमित्र-आटविकाः हि सर्वतस् समेधयन्ति । प्रकृति-कोपः वा ॥ ०९।३।०२ ॥
alpam paścāt kopam prayātassya dūṣya-amitra-āṭavikāḥ hi sarvatas samedhayanti . prakṛti-kopaḥ vā .. 09.3.02 ..
लब्धं अपि च महान्तं पुरस्ताल्-लाहं एवं-भूते भृत्य-मित्र-क्षय-व्यया ग्रसन्ते ॥ ०९.३.०३ ॥
लब्धम् अपि च महान्तम् पुरस्तात् लाहम् एवं भूते भृत्य-मित्र-क्षय-व्ययाः ग्रसन्ते ॥ ०९।३।०३ ॥
labdham api ca mahāntam purastāt lāham evaṃ bhūte bhṛtya-mitra-kṣaya-vyayāḥ grasante .. 09.3.03 ..
तस्मात्सहस्र-एकीयः पुरस्ताल्-लाभस्यायोगः शत-एकीयो वा पश्चात्-कोप इति न यायात् ॥ ०९.३.०४ ॥
तस्मात् सहस्र-एकीयः पुरस्तात् लाभस्य अयोगः शत-एकीयः वा पश्चात् कोपः इति न यायात् ॥ ०९।३।०४ ॥
tasmāt sahasra-ekīyaḥ purastāt lābhasya ayogaḥ śata-ekīyaḥ vā paścāt kopaḥ iti na yāyāt .. 09.3.04 ..
सूची-मुखा ह्यनर्था इति लोक-प्रवादः ॥ ०९.३.०५ ॥
सूची-मुखाः हि अनर्थाः इति लोक-प्रवादः ॥ ०९।३।०५ ॥
sūcī-mukhāḥ hi anarthāḥ iti loka-pravādaḥ .. 09.3.05 ..
पश्चात्-कोपे साम-दान-भेद-दण्डान्प्रयुञ्जीत ॥ ०९.३.०६ ॥
पश्चात् कोपे साम-दान-भेद-दण्डान् प्रयुञ्जीत ॥ ०९।३।०६ ॥
paścāt kope sāma-dāna-bheda-daṇḍān prayuñjīta .. 09.3.06 ..
पुरस्ताल्-लाभे सेना-पतिं कुमारं वा दण्ड-चारिणं कुर्वीत ॥ ०९.३.०७ ॥
पुरस्तात् लाभे सेना-पतिम् कुमारम् वा दण्ड-चारिणम् कुर्वीत ॥ ०९।३।०७ ॥
purastāt lābhe senā-patim kumāram vā daṇḍa-cāriṇam kurvīta .. 09.3.07 ..
बलवान्वा राजा पश्चात्-कोप-अवग्रह-समर्थः पुरस्ताल्-लाभं आदातुं यायात् ॥ ०९.३.०८ ॥
बलवान् वा राजा पश्चात् कोप-अवग्रह-समर्थः पुरस्तात् लाभम् आदातुम् यायात् ॥ ०९।३।०८ ॥
balavān vā rājā paścāt kopa-avagraha-samarthaḥ purastāt lābham ādātum yāyāt .. 09.3.08 ..
अभ्यन्तर-कोप-शङ्कायां शङ्कितानादाय यायात् । बाह्य-कोप-शङ्कायां वा पुत्र-दारं एषां ॥ ०९.३.०९ ॥
अभ्यन्तर-कोप-शङ्कायाम् शङ्कितान् आदाय यायात् । बाह्य-कोप-शङ्कायाम् वा पुत्र-दारम् एषाम् ॥ ०९।३।०९ ॥
abhyantara-kopa-śaṅkāyām śaṅkitān ādāya yāyāt . bāhya-kopa-śaṅkāyām vā putra-dāram eṣām .. 09.3.09 ..
अभ्यन्तर-अवग्रहं कृत्वा शून्य-पालं अनेक-बल-वर्गं अनेक-मुख्यं च स्थापयित्वा यायात् । न वा यायात् ॥ ०९.३.१० ॥
अभ्यन्तर-अवग्रहम् कृत्वा शून्य-पालम् अनेक-बल-वर्गम् अनेक-मुख्यम् च स्थापयित्वा यायात् । न वा यायात् ॥ ०९।३।१० ॥
abhyantara-avagraham kṛtvā śūnya-pālam aneka-bala-vargam aneka-mukhyam ca sthāpayitvā yāyāt . na vā yāyāt .. 09.3.10 ..
अभ्यन्तर-कोपो बाह्य-कोपात्पापीयानित्युक्तं पुरस्तात् ॥ ०९.३.११ ॥
अभ्यन्तर-कोपः बाह्य-कोपात् पापीयान् इति उक्तम् पुरस्तात् ॥ ०९।३।११ ॥
abhyantara-kopaḥ bāhya-kopāt pāpīyān iti uktam purastāt .. 09.3.11 ..
मन्त्र-पुरोहित-सेना-पति-युव-राजानां अन्यतम-कोपोअभ्यन्तर-कोपः ॥ ०९.३.१२ ॥
मन्त्र-पुरोहित-सेना-पति-युव-राजानाम् अन्यतम-कोपः अभ्यन्तर-कोपः ॥ ०९।३।१२ ॥
mantra-purohita-senā-pati-yuva-rājānām anyatama-kopaḥ abhyantara-kopaḥ .. 09.3.12 ..
तं आत्म-दोष-त्यागेन पर-शक्त्य्-अपराध-वशेन वा साधयेत् ॥ ०९.३.१३ ॥
तम् आत्म-दोष-त्यागेन पर-शक्ति-अपराध-वशेन वा साधयेत् ॥ ०९।३।१३ ॥
tam ātma-doṣa-tyāgena para-śakti-aparādha-vaśena vā sādhayet .. 09.3.13 ..
महा-अपराधेअपि पुरोहिते सम्रोधनं अवस्रावणं वा सिद्धिः । युव-राजे सम्रोधनं निग्रहो वा गुणवत्यन्यस्मिन्सति पुत्रे ॥ ०९.३.१४ ॥
महा-अपराधे अपि पुरोहिते सम्रोधनम् अवस्रावणम् वा सिद्धिः । युव-राजे सम्रोधनम् निग्रहः वा गुणवति अन्यस्मिन् सति पुत्रे ॥ ०९।३।१४ ॥
mahā-aparādhe api purohite samrodhanam avasrāvaṇam vā siddhiḥ . yuva-rāje samrodhanam nigrahaḥ vā guṇavati anyasmin sati putre .. 09.3.14 ..
पुत्रं भ्रातरं अन्यं वा कुल्यं राज-ग्राहिणं उत्साहेन साधयेत् । उत्साह-अब्भावे गृहीत-अनुवर्तन-संधि-कर्मभ्यां अरि-संधान-भयात् ॥ ०९.३.१५ ॥
पुत्रम् भ्रातरम् अन्यम् वा कुल्यम् राज-ग्राहिणम् उत्साहेन साधयेत् । उत्साह-अप्-भावे गृहीत-अनुवर्तन-संधि-कर्मभ्याम् अरि-संधान-भयात् ॥ ०९।३।१५ ॥
putram bhrātaram anyam vā kulyam rāja-grāhiṇam utsāhena sādhayet . utsāha-ap-bhāve gṛhīta-anuvartana-saṃdhi-karmabhyām ari-saṃdhāna-bhayāt .. 09.3.15 ..
अन्येभ्यस्तद्-विधेभ्यो वा भूमि-दानैर्विश्वासयेदेनं ॥ ०९.३.१६ ॥
अन्येभ्यः तद्-विधेभ्यः वा भूमि-दानैः विश्वासयेत् एनम् ॥ ०९।३।१६ ॥
anyebhyaḥ tad-vidhebhyaḥ vā bhūmi-dānaiḥ viśvāsayet enam .. 09.3.16 ..
तद्-विशिष्टं स्वयं-ग्राहं दण्डं वा प्रेषयेत् । सामन्त-आटविकान्वा । तैर्विगृहीतं अतिसंदध्यात् ॥ ०९.३.१७ ॥
तद्-विशिष्टम् स्वयम् ग्राहम् दण्डम् वा प्रेषयेत् । सामन्त-आटविकान् वा । तैः विगृहीतम् अतिसंदध्यात् ॥ ०९।३।१७ ॥
tad-viśiṣṭam svayam grāham daṇḍam vā preṣayet . sāmanta-āṭavikān vā . taiḥ vigṛhītam atisaṃdadhyāt .. 09.3.17 ..
अपरुद्ध-आदानं पारग्रामिकं वा योगं आतिष्ठेत् ॥ ०९.३.१८ ॥
अपरुद्ध-आदानम् पारग्रामिकम् वा योगम् आतिष्ठेत् ॥ ०९।३।१८ ॥
aparuddha-ādānam pāragrāmikam vā yogam ātiṣṭhet .. 09.3.18 ..
एतेन मन्त्र-सेना-पती व्याख्यातौ ॥ ०९.३.१९ ॥
एतेन मन्त्र-सेना-पती व्याख्यातौ ॥ ०९।३।१९ ॥
etena mantra-senā-patī vyākhyātau .. 09.3.19 ..
मन्त्र्य्-आदि-वर्जानां अन्तर्-अमात्यानां अन्यतम-कोपोअन्तर्-अमात्य-कोपः ॥ ०९.३.२० ॥
मन्त्रि-आदि-वर्जानाम् अन्तर् अमात्यानाम् अन्यतम-कोपः अन्तर् अमात्य-कोपः ॥ ०९।३।२० ॥
mantri-ādi-varjānām antar amātyānām anyatama-kopaḥ antar amātya-kopaḥ .. 09.3.20 ..
तत्रापि यथा-अर्हं उपायान्प्रयुञ्जीत ॥ ०९.३.२१ ॥
तत्र अपि यथा अर्हम् उपायान् प्रयुञ्जीत ॥ ०९।३।२१ ॥
tatra api yathā arham upāyān prayuñjīta .. 09.3.21 ..
राष्ट्र-मुख्य-अन्त-पाल-आटविक-दण्ड-उपनतानां अन्यतम-कोपो बाह्य-कोपः ॥ ०९.३.२२ ॥
राष्ट्र-मुख्य-अन्त-पाल-आटविक-दण्ड-उपनतानाम् अन्यतम-कोपः बाह्य-कोपः ॥ ०९।३।२२ ॥
rāṣṭra-mukhya-anta-pāla-āṭavika-daṇḍa-upanatānām anyatama-kopaḥ bāhya-kopaḥ .. 09.3.22 ..
तं अन्योन्येनावग्राहयेत् ॥ ०९.३.२३ ॥
तम् अन्योन्येन अवग्राहयेत् ॥ ०९।३।२३ ॥
tam anyonyena avagrāhayet .. 09.3.23 ..
अतिदुर्ग-प्रतिष्टब्धं वा सामन्त-आटविक-तत्-कुलीन-अपरुद्धानां अन्यतमेनावग्राहयेत् ॥ ०९.३.२४ ॥
अति दुर्ग-प्रतिष्टब्धम् वा सामन्त-आटविक-तद्-कुलीन-अपरुद्धानाम् अन्यतमेन अवग्राहयेत् ॥ ०९।३।२४ ॥
ati durga-pratiṣṭabdham vā sāmanta-āṭavika-tad-kulīna-aparuddhānām anyatamena avagrāhayet .. 09.3.24 ..
मित्रेणौपग्राहयेद्वा यथा नामित्रं गच्छेत् ॥ ०९.३.२५ ॥
मित्रेण औपग्राहयेत् वा यथा न अमित्रम् गच्छेत् ॥ ०९।३।२५ ॥
mitreṇa aupagrāhayet vā yathā na amitram gacchet .. 09.3.25 ..
अमित्राद्वा सत्त्री भेदयेदेनं "अयं त्वा योग-पुरुषं मन्यमानो भर्तर्येव विक्रमयिष्यति । अवाप्त-अर्थो दण्ड-चारिणं अमित्र-आटविकेषु कृच्छ्रे वा प्रयासे योक्ष्यति । विपुत्र-दारं अन्ते वा वासयिष्यति ॥ ०९.३.२६ ॥
अमित्रात् वा सत्त्री भेदयेत् एनम् "अयम् त्वा योग-पुरुषम् मन्यमानः भर्तरि एव विक्रमयिष्यति । अवाप्त-अर्थः दण्ड-चारिणम् अमित्र-आटविकेषु कृच्छ्रे वा प्रयासे योक्ष्यति । विपुत्र-दारम् अन्ते वा वासयिष्यति ॥ ०९।३।२६ ॥
amitrāt vā sattrī bhedayet enam "ayam tvā yoga-puruṣam manyamānaḥ bhartari eva vikramayiṣyati . avāpta-arthaḥ daṇḍa-cāriṇam amitra-āṭavikeṣu kṛcchre vā prayāse yokṣyati . viputra-dāram ante vā vāsayiṣyati .. 09.3.26 ..
प्रतिहत-विक्रमं त्वां भर्तर्य्पण्यं करिष्यति । त्वया वा संधिं कृत्वा भर्तारं एव प्रसादयिष्यति ॥ ०९.३.२७ ॥
प्रतिहत-विक्रमम् त्वाम् भर्तरि पण्यम् करिष्यति । त्वया वा संधिम् कृत्वा भर्तारम् एव प्रसादयिष्यति ॥ ०९।३।२७ ॥
pratihata-vikramam tvām bhartari paṇyam kariṣyati . tvayā vā saṃdhim kṛtvā bhartāram eva prasādayiṣyati .. 09.3.27 ..
मित्रं उपकृष्टं वाअस्य गच्छ" इति ॥ ०९.३.२८ ॥
मित्रम् उपकृष्टम् वा अस्य गच्छ" इति ॥ ०९।३।२८ ॥
mitram upakṛṣṭam vā asya gaccha" iti .. 09.3.28 ..
प्रतिपन्नं इष्ट-अभिप्रायैः पूजयेत् ॥ ०९.३.२९ ॥
प्रतिपन्नम् इष्ट-अभिप्रायैः पूजयेत् ॥ ०९।३।२९ ॥
pratipannam iṣṭa-abhiprāyaiḥ pūjayet .. 09.3.29 ..
अप्रतिपन्नस्य संश्रयं भेदयेद्"असौ ते योग-पुरुषः प्रणिहितः" इति ॥ ०९.३.३० ॥
अ प्रतिपन्नस्य संश्रयम् भेदयेत्"असौ ते योग-पुरुषः प्रणिहितः" इति ॥ ०९।३।३० ॥
a pratipannasya saṃśrayam bhedayet"asau te yoga-puruṣaḥ praṇihitaḥ" iti .. 09.3.30 ..
सत्त्री चएनं अभित्यक्त-शासनैर्घातयेत् । गूढ-पुरुषैर्वा ॥ ०९.३.३१ ॥
सत्त्री च एनम् अभित्यक्त-शासनैः घातयेत् । गूढ-पुरुषैः वा ॥ ०९।३।३१ ॥
sattrī ca enam abhityakta-śāsanaiḥ ghātayet . gūḍha-puruṣaiḥ vā .. 09.3.31 ..
सह-प्रस्थायिनो वाअस्य प्रवीर-पुरुषान्यथा-अभिप्राय-करणेनऽवाहयेत् ॥ ०९.३.३२ ॥
सह प्रस्थायिनः वाअस्य प्रवीर-पुरुषान् यथा अभिप्राय-करणेन अवाहयेत् ॥ ०९।३।३२ ॥
saha prasthāyinaḥ vāasya pravīra-puruṣān yathā abhiprāya-karaṇena avāhayet .. 09.3.32 ..
तेन प्रणिहितान्सत्त्री ब्रूयात् ॥ ०९.३.३३ ॥
तेन प्रणिहितान् सत्त्री ब्रूयात् ॥ ०९।३।३३ ॥
tena praṇihitān sattrī brūyāt .. 09.3.33 ..
इति सिद्धिः ॥ ०९.३.३४ ॥
इति सिद्धिः ॥ ०९।३।३४ ॥
iti siddhiḥ .. 09.3.34 ..
परस्य चएनान्कोपानुत्थापयेत् । आत्मनश्च शमयेत् ॥ ०९.३.३५ ॥
परस्य च एनान् कोपान् उत्थापयेत् । आत्मनः च शमयेत् ॥ ०९।३।३५ ॥
parasya ca enān kopān utthāpayet . ātmanaḥ ca śamayet .. 09.3.35 ..
यः कोपं कर्तुं शमयितुं वा शक्तस्तत्रौपजापः कार्यः ॥ ०९.३.३६ ॥
यः कोपम् कर्तुम् शमयितुम् वा शक्तः तत्र औपजापः कार्यः ॥ ०९।३।३६ ॥
yaḥ kopam kartum śamayitum vā śaktaḥ tatra aupajāpaḥ kāryaḥ .. 09.3.36 ..
यः सत्य-संधः शक्तः कर्मणि फल-अवाप्तौ चानुग्रहीतुं विनिपाते च त्रातुं तत्र प्रतिजापः कार्यः । तर्कयितव्यश्च कल्याण-बुद्धिरुताहो शठ इति ॥ ०९.३.३७ ॥
यः सत्य-संधः शक्तः कर्मणि फल-अवाप्तौ च अनुग्रहीतुम् विनिपाते च त्रातुम् तत्र प्रतिजापः कार्यः । तर्कयितव्यः च कल्याण-बुद्धिः उत अहो शठः इति ॥ ०९।३।३७ ॥
yaḥ satya-saṃdhaḥ śaktaḥ karmaṇi phala-avāptau ca anugrahītum vinipāte ca trātum tatra pratijāpaḥ kāryaḥ . tarkayitavyaḥ ca kalyāṇa-buddhiḥ uta aho śaṭhaḥ iti .. 09.3.37 ..
शठो हि बाह्योअभ्यन्तरं एवं उपजपति "भर्तारं चेद्द्हत्वा मां प्रतिपादयिष्यति शत्रु-वधो भूमि-लाभश्च मे द्विविधो लाभो भविष्यति । अथ वा शत्रुरेनं आहनिष्यतिइति हत-बन्धु-पक्षस्तुल्य-दोष-दण्डेनौद्विग्नश्च मे भूयानकृत्य-पक्षो भविष्यति । तद्-विधे वाअन्यस्मिन्नपि शङ्कितो भविष्यति । अन्यं अन्यं चास्य मुख्यम् अभित्यक्त-शासनेन घातयिष्यामि" इति ॥ ०९.३.३८ ॥
शठः हि बाह्यः अभ्यन्तरम् एवम् उपजपति "भर्तारम् चेद् हत्वा माम् प्रतिपादयिष्यति शत्रु-वधः भूमि-लाभः च मे द्विविधः लाभः भविष्यति । अथ वा शत्रुः एनम् आहनिष्यति इति हत-बन्धु-पक्षः तुल्य-दोष-दण्डेन औद्विग्नः च मे भूयान् अकृत्य-पक्षः भविष्यति । तद्-विधे वा अअन्यस्मिन् अपि शङ्कितः भविष्यति । अन्यम् अन्यम् च अस्य मुख्यम् अभित्यक्त-शासनेन घातयिष्यामि" इति ॥ ०९।३।३८ ॥
śaṭhaḥ hi bāhyaḥ abhyantaram evam upajapati "bhartāram ced hatvā mām pratipādayiṣyati śatru-vadhaḥ bhūmi-lābhaḥ ca me dvividhaḥ lābhaḥ bhaviṣyati . atha vā śatruḥ enam āhaniṣyati iti hata-bandhu-pakṣaḥ tulya-doṣa-daṇḍena audvignaḥ ca me bhūyān akṛtya-pakṣaḥ bhaviṣyati . tad-vidhe vā aanyasmin api śaṅkitaḥ bhaviṣyati . anyam anyam ca asya mukhyam abhityakta-śāsanena ghātayiṣyāmi" iti .. 09.3.38 ..
अभ्यन्तरो वा शठो बाह्यं एवं उपजपति "कोशं अस्य हरिष्यामि । दण्डं वाअस्य हनिष्यामि । दुष्टं वा भर्तारं अनेन घातयिष्यामि । प्रतिपन्नं बाह्यं अमित्र-आटविकेषु विक्रमयिष्यामि "चक्रं अस्य सज्यताम् । वैरं अस्य प्रसज्यताम् । ततः स्व-अधीनो मे भविष्यति । ततो भर्तारं एव प्रसादयिष्यामि । स्वयं वा राज्यं ग्रहीष्यामिण्" बद्ध्वा वा बाह्य-भूमिं भर्तृ-भूमिं चौभयं अवाप्स्यामि । विरुद्धं वाआवाहयित्वा बाह्यं विश्वस्तं घातयिष्यामि । शून्यं वाअस्य मूलं हरिष्यामि" इति ॥ ०९.३.३९ ॥
अभ्यन्तरः वा शठः बाह्यम् एवम् उपजपति "कोशम् अस्य हरिष्यामि । दण्डम् वा अ अस्य हनिष्यामि । दुष्टम् वा भर्तारम् अनेन घातयिष्यामि । प्रतिपन्नम् बाह्यम् अमित्र-आटविकेषु विक्रमयिष्यामि "चक्रम् अस्य सज्यताम् । वैरम् अस्य प्रसज्यताम् । ततस् स्व-अधीनः मे भविष्यति । ततस् भर्तारम् एव प्रसादयिष्यामि । स्वयम् वा राज्यम्" बद्ध्वा वा बाह्य-भूमिम् भर्तृ-भूमिम् च ओभयम् अवाप्स्यामि । विरुद्धम् वा आवाहयित्वा बाह्यम् विश्वस्तम् घातयिष्यामि । शून्यम् वा अअस्य मूलम् हरिष्यामि" इति ॥ ०९।३।३९ ॥
abhyantaraḥ vā śaṭhaḥ bāhyam evam upajapati "kośam asya hariṣyāmi . daṇḍam vā a asya haniṣyāmi . duṣṭam vā bhartāram anena ghātayiṣyāmi . pratipannam bāhyam amitra-āṭavikeṣu vikramayiṣyāmi "cakram asya sajyatām . vairam asya prasajyatām . tatas sva-adhīnaḥ me bhaviṣyati . tatas bhartāram eva prasādayiṣyāmi . svayam vā rājyam" baddhvā vā bāhya-bhūmim bhartṛ-bhūmim ca obhayam avāpsyāmi . viruddham vā āvāhayitvā bāhyam viśvastam ghātayiṣyāmi . śūnyam vā aasya mūlam hariṣyāmi" iti .. 09.3.39 ..
कल्याण-बुद्धिस्तु सह-जीव्यर्थं उपजपति ॥ ०९.३.४० ॥
कल्याण-बुद्धिः तु सह जीवि-अर्थम् उपजपति ॥ ०९।३।४० ॥
kalyāṇa-buddhiḥ tu saha jīvi-artham upajapati .. 09.3.40 ..
कल्याण-बुद्धिना संदधीत । शठं "तथा" इति प्रतिगृह्यातिसंदध्यात् इति ॥ ०९.३.४१ ॥
कल्याण-बुद्धिना संदधीत । शठम् "तथा" इति प्रतिगृह्य अतिसंदध्यात् इति ॥ ०९।३।४१ ॥
kalyāṇa-buddhinā saṃdadhīta . śaṭham "tathā" iti pratigṛhya atisaṃdadhyāt iti .. 09.3.41 ..
एवं उपलभ्य परे परेभ्यः स्वे स्वेभ्यः स्वे परेभ्यः स्वतः परे । ॥ ०९.३.४२अ ब ॥
एवम् उपलभ्य परे परेभ्यः स्वे स्वेभ्यः स्वे परेभ्यः स्वतस् परे । ॥ ०९।३।४२अ ब ॥
evam upalabhya pare parebhyaḥ sve svebhyaḥ sve parebhyaḥ svatas pare . .. 09.3.42a ba ..
रक्ष्याः स्वेभ्यः परेभ्यश्च नित्यं आत्मा विपश्चिता ॥ ०९.३.४२च्द् ॥
रक्ष्याः स्वेभ्यः परेभ्यः च नित्यम् आत्मा विपश्चिता ॥ ०९।३।४२च् ॥
rakṣyāḥ svebhyaḥ parebhyaḥ ca nityam ātmā vipaścitā .. 09.3.42c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In