| |
|

This overlay will guide you through the buttons:

युग्य-पुरुष-अपचयः क्षयः ॥ ०९.४.०१ ॥
युग्य-पुरुष-अपचयः क्षयः ॥ ०९।४।०१ ॥
yugya-puruṣa-apacayaḥ kṣayaḥ .. 09.4.01 ..
हिरण्य-धान्य-अपचयो व्ययः ॥ ०९.४.०२ ॥
हिरण्य-धान्य-अपचयः व्ययः ॥ ०९।४।०२ ॥
hiraṇya-dhānya-apacayaḥ vyayaḥ .. 09.4.02 ..
ताभ्यां बहु-गुण-विशिष्टे लाभे यायात् ॥ ०९.४.०३ ॥
ताभ्याम् बहु-गुण-विशिष्टे लाभे यायात् ॥ ०९।४।०३ ॥
tābhyām bahu-guṇa-viśiṣṭe lābhe yāyāt .. 09.4.03 ..
आदेयः प्रत्यादेयः प्रसादकः प्रकोपको ह्रस्व-कालस्तनु-क्षयोअल्प-व्ययो महान्वृद्ध्य्-उदयः कल्यो धर्म्यः पुरोगश्चैति लाभ-सम्पत् ॥ ०९.४.०४ ॥
आदेयः प्रत्यादेयः प्रसादकः प्रकोपकः ह्रस्व-कालः तनु-क्षयः अल्प-व्ययः महान् वृद्धि-उदयः कल्यः धर्म्यः पुरोगः च एति लाभ-सम्पद् ॥ ०९।४।०४ ॥
ādeyaḥ pratyādeyaḥ prasādakaḥ prakopakaḥ hrasva-kālaḥ tanu-kṣayaḥ alpa-vyayaḥ mahān vṛddhi-udayaḥ kalyaḥ dharmyaḥ purogaḥ ca eti lābha-sampad .. 09.4.04 ..
सुप्राप्य-अनुपाल्यः परेषां अप्रत्यादेय इत्यादेयः ॥ ०९.४.०५ ॥
सु प्राप्य-अनुपाल्यः परेषाम् अप्रत्यादेयः इति आदेयः ॥ ०९।४।०५ ॥
su prāpya-anupālyaḥ pareṣām apratyādeyaḥ iti ādeyaḥ .. 09.4.05 ..
विपर्यये प्रत्यादेयः ॥ ०९.४.०६ ॥
विपर्यये प्रत्यादेयः ॥ ०९।४।०६ ॥
viparyaye pratyādeyaḥ .. 09.4.06 ..
तं आददानस्तत्रस्थो वा विनाशं प्राप्नोति ॥ ०९.४.०७ ॥
तम् आददानः तत्रस्थः वा विनाशम् प्राप्नोति ॥ ०९।४।०७ ॥
tam ādadānaḥ tatrasthaḥ vā vināśam prāpnoti .. 09.4.07 ..
यदि वा पश्येत्"प्रत्यादेयं आदाय कोश-दण्ड-निचय-रक्षा-विधानान्यवस्रावयिष्यामि । खनि-द्रव्य-हस्ति-वन-सेतु-बन्ध-वणिक्-पथानुद्धृत-सारान्करिष्यामि । प्रकृतीरस्य कर्शयिष्यामि । अपवाहयिष्यामि । आयोगेनऽराधयिष्यामि वा । ताः परं प्रतियोगेन कोपयिष्यति । प्रतिपक्षे वाअस्य पण्यं एनं करिष्यामि । मित्रं अपरुद्धं वाअस्य प्रतिपादयिष्यामि । मित्रस्य स्वस्य वा देशस्य पीडां अत्रस्थस्तस्करेभ्यः परेभ्यश्च प्रतिकरिष्यामि । मित्रं आश्रयं वाअस्य वैगुण्यं ग्राहयिष्यामि । तदमित्र-विरक्तं तत्-कुलीनं प्रतिपत्स्यते । सत्कृत्य वाअस्मै भूमिं दास्यामि इति संहित-समुत्थितं मित्रं मे चिराय भविष्यति" इति प्रत्यादेयं अपि लाभं आददीत ॥ ०९.४.०८ ॥
यदि वा पश्येत्"प्रत्यादेयम् आदाय कोश-दण्ड-निचय-रक्षा-विधानानि अवस्रावयिष्यामि । खनि-द्रव्य-हस्ति-वन-सेतु-बन्ध-वणिज्-पथान् उद्धृत-सारान् करिष्यामि । प्रकृतीः अस्य कर्शयिष्यामि । अपवाहयिष्यामि । आयोगेन आराधयिष्यामि वा । ताः परम् प्रतियोगेन कोपयिष्यति । प्रतिपक्षे वा अस्य पण्यम् एनम् करिष्यामि । मित्रम् अपरुद्धम् वा अस्य प्रतिपादयिष्यामि । मित्रस्य स्वस्य वा देशस्य पीडाम् अत्रस्थः तस्करेभ्यः परेभ्यः च प्रतिकरिष्यामि । मित्रम् आश्रयम् वा अस्य वैगुण्यम् ग्राहयिष्यामि । तद्-अमित्र-विरक्तम् तद्-कुलीनम् प्रतिपत्स्यते । सत्कृत्य वा अस्मै भूमिम् दास्यामि इति संहित-समुत्थितम् मित्रम् मे चिराय भविष्यति" इति प्रत्यादेयम् अपि लाभम् आददीत ॥ ०९।४।०८ ॥
yadi vā paśyet"pratyādeyam ādāya kośa-daṇḍa-nicaya-rakṣā-vidhānāni avasrāvayiṣyāmi . khani-dravya-hasti-vana-setu-bandha-vaṇij-pathān uddhṛta-sārān kariṣyāmi . prakṛtīḥ asya karśayiṣyāmi . apavāhayiṣyāmi . āyogena ārādhayiṣyāmi vā . tāḥ param pratiyogena kopayiṣyati . pratipakṣe vā asya paṇyam enam kariṣyāmi . mitram aparuddham vā asya pratipādayiṣyāmi . mitrasya svasya vā deśasya pīḍām atrasthaḥ taskarebhyaḥ parebhyaḥ ca pratikariṣyāmi . mitram āśrayam vā asya vaiguṇyam grāhayiṣyāmi . tad-amitra-viraktam tad-kulīnam pratipatsyate . satkṛtya vā asmai bhūmim dāsyāmi iti saṃhita-samutthitam mitram me cirāya bhaviṣyati" iti pratyādeyam api lābham ādadīta .. 09.4.08 ..
इत्यादेय-प्रत्यादेयौ व्याख्यातौ ॥ ०९.४.०९ ॥
इति आदेय-प्रत्यादेयौ व्याख्यातौ ॥ ०९।४।०९ ॥
iti ādeya-pratyādeyau vyākhyātau .. 09.4.09 ..
अधार्मिकाद्धार्मिकस्य लाभो लभ्यमानः स्वेषां परेषां च प्रसादको भवति ॥ ०९.४.१० ॥
अधार्मिकात् धार्मिकस्य लाभः लभ्यमानः स्वेषाम् परेषाम् च प्रसादकः भवति ॥ ०९।४।१० ॥
adhārmikāt dhārmikasya lābhaḥ labhyamānaḥ sveṣām pareṣām ca prasādakaḥ bhavati .. 09.4.10 ..
विपरीतः प्रकोपक इति ॥ ०९.४.११ ॥
विपरीतः प्रकोपकः इति ॥ ०९।४।११ ॥
viparītaḥ prakopakaḥ iti .. 09.4.11 ..
मन्त्रिणां उपदेशाल्लाभोअलभ्यमानः कोपको भवति "अयं अस्माभिः क्षय-व्ययौ ग्राहितः" इति ॥ ०९.४.१२ ॥
मन्त्रिणाम् उपदेशात् लाभः अलभ्यमानः कोपकः भवति "अयम् अस्माभिः क्षय-व्ययौ ग्राहितः" इति ॥ ०९।४।१२ ॥
mantriṇām upadeśāt lābhaḥ alabhyamānaḥ kopakaḥ bhavati "ayam asmābhiḥ kṣaya-vyayau grāhitaḥ" iti .. 09.4.12 ..
दूष्य-मन्त्रिणां अनादराल्लाभो लभ्यमानः कोपको भवति "सिद्ध-अर्थोअयं अस्मान्विनाशयिष्यति" इति ॥ ०९.४.१३ ॥
दूष्य-मन्त्रिणाम् अनादरात् लाभः लभ्यमानः कोपकः भवति "सिद्ध-अर्थः अयम् अस्मान् विनाशयिष्यति" इति ॥ ०९।४।१३ ॥
dūṣya-mantriṇām anādarāt lābhaḥ labhyamānaḥ kopakaḥ bhavati "siddha-arthaḥ ayam asmān vināśayiṣyati" iti .. 09.4.13 ..
विपरीतः प्रसादकः ॥ ०९.४.१४ ॥
विपरीतः प्रसादकः ॥ ०९।४।१४ ॥
viparītaḥ prasādakaḥ .. 09.4.14 ..
इति प्रसादक-कोपकौ व्याख्यातौ ॥ ०९.४.१५ ॥
इति प्रसादक-कोपकौ व्याख्यातौ ॥ ०९।४।१५ ॥
iti prasādaka-kopakau vyākhyātau .. 09.4.15 ..
गमन-मात्र-साध्यत्वाद्ह्रस्व-कालह् ॥ ०९.४.१६ ॥
गमन-मात्र-साध्य-त्वात् ह्रस्व-कालह् ॥ ०९।४।१६ ॥
gamana-mātra-sādhya-tvāt hrasva-kālah .. 09.4.16 ..
मन्त्र-साध्यत्वात्तनु-क्षयः ॥ ०९.४.१७ ॥
मन्त्र-साध्य-त्वात् तनु-क्षयः ॥ ०९।४।१७ ॥
mantra-sādhya-tvāt tanu-kṣayaḥ .. 09.4.17 ..
भक्त-मात्र-व्ययत्वादल्प-व्ययह् ॥ ०९.४.१८ ॥
भक्त-मात्र-व्यय-त्वात् अल्प-व्ययह् ॥ ०९।४।१८ ॥
bhakta-mātra-vyaya-tvāt alpa-vyayah .. 09.4.18 ..
तदात्व-वैपुल्यान्महान् ॥ ०९.४.१९ ॥
तदात्व-वैपुल्यात् महान् ॥ ०९।४।१९ ॥
tadātva-vaipulyāt mahān .. 09.4.19 ..
अर्थ-अनुबन्धकत्वाद्वृद्ध्य्-उदयः ॥ ०९.४.२० ॥
अर्थ-अनुबन्धक-त्वात् वृद्धि-उदयः ॥ ०९।४।२० ॥
artha-anubandhaka-tvāt vṛddhi-udayaḥ .. 09.4.20 ..
निराबाधकत्वात्कल्यः ॥ ०९.४.२१ ॥
निराबाधक-त्वात् कल्यः ॥ ०९।४।२१ ॥
nirābādhaka-tvāt kalyaḥ .. 09.4.21 ..
प्रशस्त-उपादानाद्धर्म्यः ॥ ०९.४.२२ ॥
प्रशस्त-उपादानात् धर्म्यः ॥ ०९।४।२२ ॥
praśasta-upādānāt dharmyaḥ .. 09.4.22 ..
सामवायिकानां अनिर्बन्ध-गामित्वात्पुरोगः इति ॥ ०९.४.२३ ॥
सामवायिकानाम् अ निर्बन्ध-गामि-त्वात् पुरोगः इति ॥ ०९।४।२३ ॥
sāmavāyikānām a nirbandha-gāmi-tvāt purogaḥ iti .. 09.4.23 ..
तुल्ये लाभे देश-कालौ शक्त्य्-उपायौ प्रिय-अप्रियौ जव-अजवौ सामीप्य-विप्रकर्षौ तदात्व-अनुबन्धौ सारत्व-सातत्ये बाहुल्य-बाहु-गुण्ये च विमृश्य बहु-गुण-युक्तं लाभं आददीत ॥ ०९.४.२४ ॥
तुल्ये लाभे देश-कालौ शक्ति-उपायौ प्रिय-अप्रियौ जव-अजवौ सामीप्य-विप्रकर्षौ तदात्व-अनुबन्धौ सारत्व-सातत्ये बाहुल्य-बाहु-गुण्ये च विमृश्य बहु-गुण-युक्तम् लाभम् आददीत ॥ ०९।४।२४ ॥
tulye lābhe deśa-kālau śakti-upāyau priya-apriyau java-ajavau sāmīpya-viprakarṣau tadātva-anubandhau sāratva-sātatye bāhulya-bāhu-guṇye ca vimṛśya bahu-guṇa-yuktam lābham ādadīta .. 09.4.24 ..
लाभ-विघ्नाः कामः कोपः साध्वसं कारुण्यं ह्रीरनार्य-भावो मानः सानुक्रोशता पर-लोक-अपेक्षा धार्मिकत्वं अत्यागित्वं दैन्यं असूया हस्त-गत-अवमानो दौरात्म्यं अविश्वासो भयं अप्रतीकारः शीत-उष्ण-वर्षाणां आक्षम्यं मङ्गल-तिथि-नक्षत्र-इष्टित्वं इति ॥ ०९.४.२५ ॥
लाभ-विघ्नाः कामः कोपः साध्वसम् कारुण्यम् ह्रीः अनार्य-भावः मानः स अनुक्रोश-ता पर-लोक-अपेक्षा धार्मिक-त्वम् अत्यागि-त्वम् दैन्यम् असूया हस्त-गत-अवमानः दौरात्म्यम् अविश्वासः भयम् अप्रतीकारः शीत-उष्ण-वर्षाणाम् आक्षम्यम् मङ्गल-तिथि-नक्षत्र-इष्टि-त्वम् इति ॥ ०९।४।२५ ॥
lābha-vighnāḥ kāmaḥ kopaḥ sādhvasam kāruṇyam hrīḥ anārya-bhāvaḥ mānaḥ sa anukrośa-tā para-loka-apekṣā dhārmika-tvam atyāgi-tvam dainyam asūyā hasta-gata-avamānaḥ daurātmyam aviśvāsaḥ bhayam apratīkāraḥ śīta-uṣṇa-varṣāṇām ākṣamyam maṅgala-tithi-nakṣatra-iṣṭi-tvam iti .. 09.4.25 ..
नक्षत्रं अति पृच्छन्तं बालं अर्थोअतिवर्तते । ॥ ०९.४.२६अ ब ॥
नक्षत्रम् अति पृच्छन्तम् बालम् । ॥ ०९।४।२६अ ब ॥
nakṣatram ati pṛcchantam bālam . .. 09.4.26a ba ..
अर्थो ह्यर्थस्य नक्षत्रं किं करिष्यन्ति तारकाः ॥ ०९.४.२६च्द् ॥
अर्थः हि अर्थस्य नक्षत्रम् किम् करिष्यन्ति तारकाः ॥ ०९।४।२६च् ॥
arthaḥ hi arthasya nakṣatram kim kariṣyanti tārakāḥ .. 09.4.26c ..
नाधनाः प्राप्नुवन्त्यर्थान्नरा यत्न-शतैरपि । ॥ ०९.४.२७अ ब ॥
न अधनाः प्राप्नुवन्ति अर्थान् नराः यत्न-शतैः अपि । ॥ ०९।४।२७अ ब ॥
na adhanāḥ prāpnuvanti arthān narāḥ yatna-śataiḥ api . .. 09.4.27a ba ..
अर्थैरर्था प्रबध्यन्ते गजाः प्रजिगजैरिव ॥ ०९.४.२७च्द् ॥
अर्थैः अर्था प्रबध्यन्ते गजाः प्रजि-गजैः इव ॥ ०९।४।२७च् ॥
arthaiḥ arthā prabadhyante gajāḥ praji-gajaiḥ iva .. 09.4.27c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In