| |
|

This overlay will guide you through the buttons:

संध्य्-आदीनां अयथा-उद्देश-अवस्थापनं अपनयः ॥ ०९.५.०१ ॥
संधि-आदीनाम् अयथा उद्देश-अवस्थापनम् अपनयः ॥ ०९।५।०१ ॥
saṃdhi-ādīnām ayathā uddeśa-avasthāpanam apanayaḥ .. 09.5.01 ..
तस्मादापदः सम्भवन्ति ॥ ०९.५.०२ ॥
तस्मात् आपदः सम्भवन्ति ॥ ०९।५।०२ ॥
tasmāt āpadaḥ sambhavanti .. 09.5.02 ..
बाह्य-उत्पत्तिरभ्यन्तर-प्रतिजापा । अभ्यन्तर-उत्पत्तिर्बाह्य-प्रतिजापा । बाह्य-उत्पत्तिर्बाह्य-प्रतिजापा । अभ्यन्तर-उत्पत्तिरभ्यन्तर-प्रतिजापा इत्यापदः ॥ ०९.५.०३ ॥
बाह्य-उत्पत्तिः अभ्यन्तर-प्रतिजापा । । बाह्य-उत्पत्तिः बाह्य-प्रतिजापा । अभ्यन्तर-उत्पत्तिः अभ्यन्तर-प्रतिजापाः इति आपदः ॥ ०९।५।०३ ॥
bāhya-utpattiḥ abhyantara-pratijāpā . . bāhya-utpattiḥ bāhya-pratijāpā . abhyantara-utpattiḥ abhyantara-pratijāpāḥ iti āpadaḥ .. 09.5.03 ..
यत्र बाह्या अभ्यन्तर-अनुपजपन्ति । अभ्यन्तरा वा बाह्यान् । तत्र-उभय-योगे प्रतिजपतः सिद्धिर्विशेषवती ॥ ०९.५.०४ ॥
यत्र बाह्याः अभ्यन्तर-अनुपजपन्ति । अभ्यन्तरा वा बाह्यान् । तत्र उभय-योगे प्रतिजपतः सिद्धिः विशेषवती ॥ ०९।५।०४ ॥
yatra bāhyāḥ abhyantara-anupajapanti . abhyantarā vā bāhyān . tatra ubhaya-yoge pratijapataḥ siddhiḥ viśeṣavatī .. 09.5.04 ..
सुव्याजा हि प्रतिजपितारो भवन्ति । नौपजपितारः ॥ ०९.५.०५ ॥
सु व्याजाः हि प्रतिजपितारः भवन्ति । न औपजपितारः ॥ ०९।५।०५ ॥
su vyājāḥ hi pratijapitāraḥ bhavanti . na aupajapitāraḥ .. 09.5.05 ..
तेषु प्रशान्तेषु नान्यान्शक्नुयुरुपजपितुं उपजपितारः ॥ ०९.५.०६ ॥
तेषु प्रशान्तेषु न अन्यान् शक्नुयुः उपजपितुम् उपजपितारः ॥ ०९।५।०६ ॥
teṣu praśānteṣu na anyān śaknuyuḥ upajapitum upajapitāraḥ .. 09.5.06 ..
कृच्छ्र-उपजापा हि बाह्यानां अभ्यन्तरास्तेषां इतरे वा ॥ ०९.५.०७ ॥
कृच्छ्र-उपजापाः हि बाह्यानाम् अभ्यन्तराः तेषाम् इतरे वा ॥ ०९।५।०७ ॥
kṛcchra-upajāpāḥ hi bāhyānām abhyantarāḥ teṣām itare vā .. 09.5.07 ..
महतश्च प्रयत्नस्य वधः परेषाम् । अर्थ-अनुबन्धश्चऽत्मन इति ॥ ०९.५.०८ ॥
महतः च प्रयत्नस्य वधः परेषाम् । अर्थ-अनुबन्धः च अ त्मनः इति ॥ ०९।५।०८ ॥
mahataḥ ca prayatnasya vadhaḥ pareṣām . artha-anubandhaḥ ca a tmanaḥ iti .. 09.5.08 ..
अभ्यन्तरेषु प्रतिजपत्सु साम-दाने प्रयुञ्जीत ॥ ०९.५.०९ ॥
अभ्यन्तरेषु प्रतिजपत्सु साम-दाने प्रयुञ्जीत ॥ ०९।५।०९ ॥
abhyantareṣu pratijapatsu sāma-dāne prayuñjīta .. 09.5.09 ..
स्थान-मान-कर्म सान्त्वं ॥ ०९.५.१० ॥
स्थान-मान-कर्म सान्त्वम् ॥ ०९।५।१० ॥
sthāna-māna-karma sāntvam .. 09.5.10 ..
अनुग्रह-परिहारौ कर्मस्वायोगो वा दानं ॥ ०९.५.११ ॥
अनुग्रह-परिहारौ कर्मसु अयोगः वा दानम् ॥ ०९।५।११ ॥
anugraha-parihārau karmasu ayogaḥ vā dānam .. 09.5.11 ..
बाह्येषु प्रतिजपत्सु भेद-दण्डौ प्रयुञ्जीत ॥ ०९.५.१२ ॥
बाह्येषु प्रतिजपत्सु भेद-दण्डौ प्रयुञ्जीत ॥ ०९।५।१२ ॥
bāhyeṣu pratijapatsu bheda-daṇḍau prayuñjīta .. 09.5.12 ..
सत्त्रिणो मित्र-व्यञ्जना वा बाह्यानां चारं एषां ब्रूयुः "अयं वो राजा दूष्य-व्यञ्जनैरतिसंधातु-कामः । बुध्यध्वम्" इति ॥ ०९.५.१३ ॥
सत्त्रिणः मित्र-व्यञ्जनाः वा बाह्यानाम् चारम् एषाम् ब्रूयुः "अयम् वः राजा दूष्य-व्यञ्जनैः अतिसंधातु-कामः । बुध्यध्वम्" इति ॥ ०९।५।१३ ॥
sattriṇaḥ mitra-vyañjanāḥ vā bāhyānām cāram eṣām brūyuḥ "ayam vaḥ rājā dūṣya-vyañjanaiḥ atisaṃdhātu-kāmaḥ . budhyadhvam" iti .. 09.5.13 ..
दूष्येषु वा दूष्य-व्यञ्जनाः प्रणिहिता दूष्यान्बाह्यैर्भेदयेयुः । बाह्यान्वा दूष्यैः ॥ ०९.५.१४ ॥
दूष्येषु वा दूष्य-व्यञ्जनाः प्रणिहिताः दूष्यान् बाह्यैः भेदयेयुः । बाह्यान् वा दूष्यैः ॥ ०९।५।१४ ॥
dūṣyeṣu vā dūṣya-vyañjanāḥ praṇihitāḥ dūṣyān bāhyaiḥ bhedayeyuḥ . bāhyān vā dūṣyaiḥ .. 09.5.14 ..
दूष्याननुप्रविष्टा वा तीक्ष्णाः शस्त्र-रसाभ्यां हन्युः ॥ ०९.५.१५ ॥
दूष्य-अननुप्रविष्टाः वा तीक्ष्णाः शस्त्र-रसाभ्याम् हन्युः ॥ ०९।५।१५ ॥
dūṣya-ananupraviṣṭāḥ vā tīkṣṇāḥ śastra-rasābhyām hanyuḥ .. 09.5.15 ..
आहूय वा बाह्यान्घातयेयुः ॥ ०९.५.१६ ॥
आहूय वा बाह्यान् घातयेयुः ॥ ०९।५।१६ ॥
āhūya vā bāhyān ghātayeyuḥ .. 09.5.16 ..
यत्र बाह्या बाह्यानुपजपन्ति । अभ्यन्तरानभ्यन्तरा वा । तत्रएकान्त-योग उपजपितुः सिद्धिर्विशेषवती ॥ ०९.५.१७ ॥
यत्र बाह्याः बाह्यान् उपजपन्ति । अभ्यन्तर-अन् अभ्यन्तराः वा । तत्र एकान्त-योगे उपजपितुः सिद्धिः विशेषवती ॥ ०९।५।१७ ॥
yatra bāhyāḥ bāhyān upajapanti . abhyantara-an abhyantarāḥ vā . tatra ekānta-yoge upajapituḥ siddhiḥ viśeṣavatī .. 09.5.17 ..
दोष-शुद्धौ हि दूष्या न विद्यन्ते ॥ ०९.५.१८ ॥
दोष-शुद्धौ हि दूष्याः न विद्यन्ते ॥ ०९।५।१८ ॥
doṣa-śuddhau hi dūṣyāḥ na vidyante .. 09.5.18 ..
दूष्य-शुद्धौ हि दोषः पुनरन्यान्दूषयति ॥ ०९.५.१९ ॥
दूष्य-शुद्धौ हि दोषः पुनर् अन्यान् दूषयति ॥ ०९।५।१९ ॥
dūṣya-śuddhau hi doṣaḥ punar anyān dūṣayati .. 09.5.19 ..
तस्माद्बाह्येषुउपजपत्सु भेद-दण्डौ प्रयुञ्जीत ॥ ०९.५.२० ॥
तस्मात् बाह्येषु उपजपत्सु भेद-दण्डौ प्रयुञ्जीत ॥ ०९।५।२० ॥
tasmāt bāhyeṣu upajapatsu bheda-daṇḍau prayuñjīta .. 09.5.20 ..
सत्त्रिणो मित्र-व्यञ्जना वा ब्रूयुः "अयं वो राजा स्वयं आदातु-कामः । विगृहीताः स्थानेन राज्ञा । बुध्यध्वम्" इति ॥ ०९.५.२१ ॥
सत्त्रिणः मित्र-व्यञ्जनाः वा ब्रूयुः "अयम् वः राजा स्वयम् आदातु-कामः । विगृहीताः स्थानेन राज्ञा । बुध्यध्वम्" इति ॥ ०९।५।२१ ॥
sattriṇaḥ mitra-vyañjanāḥ vā brūyuḥ "ayam vaḥ rājā svayam ādātu-kāmaḥ . vigṛhītāḥ sthānena rājñā . budhyadhvam" iti .. 09.5.21 ..
प्रतिजपितुर्वा दूत-दण्डाननुप्रविष्टास्तीक्ष्णाः शस्त्र-रस-आदिभिरेषां छिद्रेषु प्रहरेयुः ॥ ०९.५.२२ ॥
प्रतिजपितुः वा दूत-दण्डान् अनुप्रविष्टाः तीक्ष्णाः शस्त्र-रस-आदिभिः एषाम् छिद्रेषु प्रहरेयुः ॥ ०९।५।२२ ॥
pratijapituḥ vā dūta-daṇḍān anupraviṣṭāḥ tīkṣṇāḥ śastra-rasa-ādibhiḥ eṣām chidreṣu prahareyuḥ .. 09.5.22 ..
ततः सत्त्रिणः प्रतिजपितारं अभिशंसेयुः ॥ ०९.५.२३ ॥
ततस् सत्त्रिणः प्रतिजपितारम् अभिशंसेयुः ॥ ०९।५।२३ ॥
tatas sattriṇaḥ pratijapitāram abhiśaṃseyuḥ .. 09.5.23 ..
अभ्यन्तरानभ्यन्तरेषुउपजपत्सु यथा-अर्हं उपायं प्रयुञ्जीत ॥ ०९.५.२४ ॥
अभ्यन्तर-अनभ्यन्तरेषु उपजपत्सु यथा अर्हम् उपायम् प्रयुञ्जीत ॥ ०९।५।२४ ॥
abhyantara-anabhyantareṣu upajapatsu yathā arham upāyam prayuñjīta .. 09.5.24 ..
तुष्ट-लिङ्गं अतुष्टं विपरीतं वा साम प्रयुञ्जीत ॥ ०९.५.२५ ॥
तुष्ट-लिङ्गम् अतुष्टम् विपरीतम् वा साम प्रयुञ्जीत ॥ ०९।५।२५ ॥
tuṣṭa-liṅgam atuṣṭam viparītam vā sāma prayuñjīta .. 09.5.25 ..
शौच-सामर्थ्य-अपदेशेन व्यसन-अभ्युदय-अवेक्षणेन वा प्रतिपूजनं इति दानं ॥ ०९.५.२६ ॥
शौच-सामर्थ्य-अपदेशेन व्यसन-अभ्युदय-अवेक्षणेन वा प्रतिपूजनम् इति दानम् ॥ ०९।५।२६ ॥
śauca-sāmarthya-apadeśena vyasana-abhyudaya-avekṣaṇena vā pratipūjanam iti dānam .. 09.5.26 ..
मित्र-व्यञ्जनो वा ब्रूयादेतान्"चित्त-ज्ञान-अर्थं उपधास्यति वो राजा । तदस्यऽख्यातव्यं इति ॥ ०९.५.२७ ॥
मित्र-व्यञ्जनः वा ब्रूयात् एतान्"चित्त-ज्ञान-अर्थम् उपधास्यति वः राजा । तत् अस्य अ ख्यातव्यम् इति ॥ ०९।५।२७ ॥
mitra-vyañjanaḥ vā brūyāt etān"citta-jñāna-artham upadhāsyati vaḥ rājā . tat asya a khyātavyam iti .. 09.5.27 ..
परस्पराद्वा भेदयेदेनान्"असौ चासौ च वो राजन्येवं उपजपति" इति भेदः ॥ ०९.५.२८ ॥
परस्परात् वा भेदयेत् एनान्"असौ च असौ च वः राजनि एवम् उपजपति" इति भेदः ॥ ०९।५।२८ ॥
parasparāt vā bhedayet enān"asau ca asau ca vaḥ rājani evam upajapati" iti bhedaḥ .. 09.5.28 ..
दाण्डकर्मिकवच्च दण्डः ॥ ०९.५.२९ ॥
दाण्ड-कर्मिक-वत् च दण्डः ॥ ०९।५।२९ ॥
dāṇḍa-karmika-vat ca daṇḍaḥ .. 09.5.29 ..
एतासां चतसृणां आपदां अभ्यन्तरां एव पूर्वं साधयेत् ॥ ०९.५.३० ॥
एतासाम् चतसृणाम् आपदाम् अभ्यन्तराम् एव पूर्वम् साधयेत् ॥ ०९।५।३० ॥
etāsām catasṛṇām āpadām abhyantarām eva pūrvam sādhayet .. 09.5.30 ..
अहि-भयादभ्यन्तर-कोपो बाह्य-कोपात्पापीयानित्युक्तं पुरस्ताड ॥ ०९.५.३१ ॥
अहि-भयात् अभ्यन्तर-कोपः बाह्य-कोपात् पापीयान् इति उक्तम् पुरस् ताड ॥ ०९।५।३१ ॥
ahi-bhayāt abhyantara-kopaḥ bāhya-kopāt pāpīyān iti uktam puras tāḍa .. 09.5.31 ..
पूर्वां पूर्वां विजानीयाल्लघ्वीं आपदं आपदां । ॥ ०९.५.३२अ ब ॥
पूर्वाम् पूर्वाम् विजानीयात् लघ्वीम् आपदम् आपदाम् । ॥ ०९।५।३२अ ब ॥
pūrvām pūrvām vijānīyāt laghvīm āpadam āpadām . .. 09.5.32a ba ..
उत्थितां बलवद्भ्यो वा गुर्वीं लघ्वीं विपर्यये ॥ ०९.५.३२च्द् ॥
उत्थिताम् बलवद्भ्यः वा गुर्वीम् लघ्वीम् विपर्यये ॥ ०९।५।३२च् ॥
utthitām balavadbhyaḥ vā gurvīm laghvīm viparyaye .. 09.5.32c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In