| |
|

This overlay will guide you through the buttons:

काम-आदिरुत्सेकः स्वाः प्रकृतीः कोपयति । अपनयो बाह्याः ॥ ०९.७.०१ ॥
काम-आदिः उत्सेकः स्वाः प्रकृतीः कोपयति । अपनयः बाह्याः ॥ ०९।७।०१ ॥
kāma-ādiḥ utsekaḥ svāḥ prakṛtīḥ kopayati . apanayaḥ bāhyāḥ .. 09.7.01 ..
तदुभयं आसुरी वृत्तिः ॥ ०९.७.०२ ॥
तत् उभयम् आसुरी वृत्तिः ॥ ०९।७।०२ ॥
tat ubhayam āsurī vṛttiḥ .. 09.7.02 ..
स्व-जन-विकारः कोपः ॥ ०९.७.०३ ॥
स्व-जन-विकारः कोपः ॥ ०९।७।०३ ॥
sva-jana-vikāraḥ kopaḥ .. 09.7.03 ..
पर-वृद्धि-हेतुषु आपद्-अर्थोअनर्थः संशय इति ॥ ०९.७.०४ ॥
पर-वृद्धि-हेतुषु आपद्-अर्थः अनर्थः संशयः इति ॥ ०९।७।०४ ॥
para-vṛddhi-hetuṣu āpad-arthaḥ anarthaḥ saṃśayaḥ iti .. 09.7.04 ..
योअर्थः शत्रु-वृद्धिं अप्राप्तः करोति । प्राप्तः प्रत्यादेयः परेषां भवति । प्राप्यमाणो वा क्षय-व्यय-उदयो भवति । स भवत्यापद्-अर्थः ॥ ०९.७.०५ ॥
योअर्थः शत्रु-वृद्धिम् अप्राप्तः करोति । प्राप्तः प्रत्यादेयः परेषाम् भवति । प्राप्यमाणः वा क्षय-व्यय-उदयः भवति । स भवति आपद्-अर्थः ॥ ०९।७।०५ ॥
yoarthaḥ śatru-vṛddhim aprāptaḥ karoti . prāptaḥ pratyādeyaḥ pareṣām bhavati . prāpyamāṇaḥ vā kṣaya-vyaya-udayaḥ bhavati . sa bhavati āpad-arthaḥ .. 09.7.05 ..
यथा सामन्तानां आमिष-भूतः सामन्त-व्यसनजो लाभः । शत्रु-प्रार्थितो वा स्व-भाव-अधिगम्यो लाभः । पश्चात्कोपेन पार्ष्णि-ग्राहेण वा विगृहीतः पुरस्ताल्-लाभः । मित्र-उच्छेदेन संधि-व्यतिक्रमेण वा मण्डल-विरुद्धो लाभः इत्यापद्-अर्थः ॥ ०९.७.०६ ॥
यथा सामन्तानाम् आमिष-भूतः सामन्त-व्यसन-जः लाभः । शत्रु-प्रार्थितः वा स्व-भाव-अधिगम्यः लाभः । पश्चात्कोपेन पार्ष्णि-ग्राहेण वा विगृहीतः पुरस्तात् लाभः । मित्र-उच्छेदेन संधि-व्यतिक्रमेण वा मण्डल-विरुद्धः लाभः इति आपद्-अर्थः ॥ ०९।७।०६ ॥
yathā sāmantānām āmiṣa-bhūtaḥ sāmanta-vyasana-jaḥ lābhaḥ . śatru-prārthitaḥ vā sva-bhāva-adhigamyaḥ lābhaḥ . paścātkopena pārṣṇi-grāheṇa vā vigṛhītaḥ purastāt lābhaḥ . mitra-ucchedena saṃdhi-vyatikrameṇa vā maṇḍala-viruddhaḥ lābhaḥ iti āpad-arthaḥ .. 09.7.06 ..
स्वतः परतो वा भय-उत्पत्तिरित्यनर्थः ॥ ०९.७.०७ ॥
स्वतस् परतस् वा भय-उत्पत्तिः इति अनर्थः ॥ ०९।७।०७ ॥
svatas paratas vā bhaya-utpattiḥ iti anarthaḥ .. 09.7.07 ..
तयोः अर्थो न वाइति । अनर्थो न वाइति । अर्थोअनर्थ इति । अनर्थोअर्थ इति संशयः ॥ ०९.७.०८ ॥
तयोः अर्थः न वा इति । अनर्थः न वा इति । अर्थः अनर्थः इति । अनर्थः अर्थः इति संशयः ॥ ०९।७।०८ ॥
tayoḥ arthaḥ na vā iti . anarthaḥ na vā iti . arthaḥ anarthaḥ iti . anarthaḥ arthaḥ iti saṃśayaḥ .. 09.7.08 ..
शत्रु-मित्रं उत्साहयितुं अर्थो न वाइति संशयः ॥ ०९.७.०९ ॥
शत्रु-मित्रम् उत्साहयितुम् अर्थः न वा ऐति संशयः ॥ ०९।७।०९ ॥
śatru-mitram utsāhayitum arthaḥ na vā aiti saṃśayaḥ .. 09.7.09 ..
शत्रु-बलं अर्थ-मानाभ्यां आवाहयितुं अनर्थो न वाइति संशयः ॥ ०९.७.१० ॥
शत्रु-बलम् अर्थ-मानाभ्याम् आवाहयितुम् अनर्थः न वा इति संशयः ॥ ०९।७।१० ॥
śatru-balam artha-mānābhyām āvāhayitum anarthaḥ na vā iti saṃśayaḥ .. 09.7.10 ..
बलवत्-सामन्तां भूमिं आदातुं अर्थोअनर्थ इति संशयः ॥ ०९.७.११ ॥
बलवत्-सामन्ताम् भूमिम् आदातुम् अर्थः अनर्थः इति संशयः ॥ ०९।७।११ ॥
balavat-sāmantām bhūmim ādātum arthaḥ anarthaḥ iti saṃśayaḥ .. 09.7.11 ..
जायसा सम्भूययानं अनर्थोअर्थ इति संशयः ॥ ०९.७.१२ ॥
जायसा अनर्थः अर्थः इति संशयः ॥ ०९।७।१२ ॥
jāyasā anarthaḥ arthaḥ iti saṃśayaḥ .. 09.7.12 ..
तेषां अर्थ-संशयं उपगच्छेत् ॥ ०९.७.१३ ॥
तेषाम् अर्थ-संशयम् उपगच्छेत् ॥ ०९।७।१३ ॥
teṣām artha-saṃśayam upagacchet .. 09.7.13 ..
अर्थोअर्थ-अनुबन्धः । अर्थो निरनुबन्धः । अर्थोअनर्थ-अनुबन्धः । अनर्थोअर्थ-अनुबन्धः । अनर्थो निरनुबन्धः । अनर्थोअनर्थ-अनुबन्धः इत्यनुबन्ध-षड्-वर्गः ॥ ०९.७.१४ ॥
अर्थः अर्थ-अनुबन्धः । अर्थः निरनुबन्धः । अर्थः अनर्थ-अनुबन्धः । अनर्थः अर्थ-अनुबन्धः । अनर्थः निरनुबन्धः । अनर्थः अनर्थ-अनुबन्धः इति अनुबन्ध-षष्-वर्गः ॥ ०९।७।१४ ॥
arthaḥ artha-anubandhaḥ . arthaḥ niranubandhaḥ . arthaḥ anartha-anubandhaḥ . anarthaḥ artha-anubandhaḥ . anarthaḥ niranubandhaḥ . anarthaḥ anartha-anubandhaḥ iti anubandha-ṣaṣ-vargaḥ .. 09.7.14 ..
शत्रुं उत्पाट्य पार्ष्णि-ग्राह-आदानं अर्थोअनर्थ-अनुबन्धः ॥ ०९.७.१५ ॥
शत्रुम् उत्पाट्य पार्ष्णि-ग्राह-आदानम् अर्थः अनर्थ-अनुबन्धः ॥ ०९।७।१५ ॥
śatrum utpāṭya pārṣṇi-grāha-ādānam arthaḥ anartha-anubandhaḥ .. 09.7.15 ..
उदासीनस्य दण्ड-अनुग्रहः फलेन अर्थो निरनुबन्धः ॥ ०९.७.१६ ॥
उदासीनस्य दण्ड-अनुग्रहः फलेन अर्थः निरनुबन्धः ॥ ०९।७।१६ ॥
udāsīnasya daṇḍa-anugrahaḥ phalena arthaḥ niranubandhaḥ .. 09.7.16 ..
परस्यान्तर्-उच्छेदनं अर्थोअनर्थ-अनुबन्धः ॥ ०९.७.१७ ॥
परस्य अन्तर् उच्छेदनम् अर्थः अनर्थ-अनुबन्धः ॥ ०९।७।१७ ॥
parasya antar ucchedanam arthaḥ anartha-anubandhaḥ .. 09.7.17 ..
शत्रु-प्रतिवेशस्यानुग्रहः कोश-दण्डाभ्यां अनर्थोअनर्थ-अनुबन्धः ॥ ०९.७.१८ ॥
शत्रु-प्रतिवेशस्य अनुग्रहः कोश-दण्डाभ्याम् अनर्थः अनर्थ-अनुबन्धः ॥ ०९।७।१८ ॥
śatru-prativeśasya anugrahaḥ kośa-daṇḍābhyām anarthaḥ anartha-anubandhaḥ .. 09.7.18 ..
हीन-शक्तिं उत्साह्य निवृत्तिरनर्थो निरनुबन्धः ॥ ०९.७.१९ ॥
हीन-शक्तिम् उत्साह्य निवृत्तिः अनर्थः निरनुबन्धः ॥ ०९।७।१९ ॥
hīna-śaktim utsāhya nivṛttiḥ anarthaḥ niranubandhaḥ .. 09.7.19 ..
ज्यायांसं उत्थाप्य निवृत्तिरनर्थोअनर्थ-अनुबन्धः ॥ ०९.७.२० ॥
ज्यायांसम् उत्थाप्य निवृत्तिः अनर्थः अनर्थ-अनुबन्धः ॥ ०९।७।२० ॥
jyāyāṃsam utthāpya nivṛttiḥ anarthaḥ anartha-anubandhaḥ .. 09.7.20 ..
तेषां पूर्वः पूर्वः श्रेयानुपसम्प्राप्तुं ॥ ०९.७.२१ ॥
तेषाम् पूर्वः पूर्वः श्रेयान् उपसम्प्राप्तुम् ॥ ०९।७।२१ ॥
teṣām pūrvaḥ pūrvaḥ śreyān upasamprāptum .. 09.7.21 ..
इति कार्य-अवस्थापनं ॥ ०९.७.२२ ॥
इति कार्य-अवस्थापनम् ॥ ०९।७।२२ ॥
iti kārya-avasthāpanam .. 09.7.22 ..
समन्ततो युगपद्-अर्थ-उत्पत्तिः समन्ततोअर्थ-आपद्भवति ॥ ०९.७.२३ ॥
समन्ततः युगपद् अर्थ-उत्पत्तिः समन्ततः अर्थ-आपद् भवति ॥ ०९।७।२३ ॥
samantataḥ yugapad artha-utpattiḥ samantataḥ artha-āpad bhavati .. 09.7.23 ..
साएव पार्ष्णि-ग्राह-विगृहीता समन्ततोअर्थ-संशय-आपद्भवति ॥ ०९.७.२४ ॥
सा एव पार्ष्णि-ग्राह-विगृहीता समन्ततः अर्थ-संशय-आपद् भवति ॥ ०९।७।२४ ॥
sā eva pārṣṇi-grāha-vigṛhītā samantataḥ artha-saṃśaya-āpad bhavati .. 09.7.24 ..
तयोर्मित्र-आक्रन्द-उपग्रहात्सिद्धिः ॥ ०९.७.२५ ॥
तयोः मित्र-आक्रन्द-उपग्रहात् सिद्धिः ॥ ०९।७।२५ ॥
tayoḥ mitra-ākranda-upagrahāt siddhiḥ .. 09.7.25 ..
समन्ततः शत्रुभ्यो भय-उत्पत्तिः समन्त्तोअनर्थ-आपद्भवति ॥ ०९.७.२६ ॥
समन्ततः शत्रुभ्यः भय-उत्पत्तिः समन्त्तः अनर्थ-आपद् भवति ॥ ०९।७।२६ ॥
samantataḥ śatrubhyaḥ bhaya-utpattiḥ samanttaḥ anartha-āpad bhavati .. 09.7.26 ..
साएव मित्र-विगृहीता समन्ततोअनर्थ-संशय-आपद्भवति ॥ ०९.७.२७ ॥
सा एव मित्र-विगृहीता समन्ततः अनर्थ-संशय-आपद् भवति ॥ ०९।७।२७ ॥
sā eva mitra-vigṛhītā samantataḥ anartha-saṃśaya-āpad bhavati .. 09.7.27 ..
तयोश्चल-अमित्र-आक्रन्द-उपग्रहात्सिद्धिः । पर-मिश्र-अप्रतीकारो वा ॥ ०९.७.२८ ॥
तयोः चल-अमित्र-आक्रन्द-उपग्रहात् सिद्धिः । पर-मिश्र-अप्रतीकारः वा ॥ ०९।७।२८ ॥
tayoḥ cala-amitra-ākranda-upagrahāt siddhiḥ . para-miśra-apratīkāraḥ vā .. 09.7.28 ..
इतो लाभ इतरतो लाभ इत्युभयतोअर्थ-आपद्भवति ॥ ०९.७.२९ ॥
इतस् लाभः इतरतस् लाभः इति उभयतोअर्थ-आपद् भवति ॥ ०९।७।२९ ॥
itas lābhaḥ itaratas lābhaḥ iti ubhayatoartha-āpad bhavati .. 09.7.29 ..
तस्यां समन्ततोअर्थायां च लाभ-गुण-युक्तं अर्थं आदातुं यायात् ॥ ०९.७.३० ॥
तस्याम् समन्ततोअर्थायाम् च लाभ-गुण-युक्तम् अर्थम् आदातुम् यायात् ॥ ०९।७।३० ॥
tasyām samantatoarthāyām ca lābha-guṇa-yuktam artham ādātum yāyāt .. 09.7.30 ..
तुल्ये लाभ-गुणे प्रधानं आसन्नं अनतिपातिनं ऊनो वा येन भवेत्तं आदातुं यायात् ॥ ०९.७.३१ ॥
तुल्ये लाभ-गुणे प्रधानम् आसन्नम् अनतिपातिनम् ऊनः वा येन भवेत् तम् आदातुम् यायात् ॥ ०९।७।३१ ॥
tulye lābha-guṇe pradhānam āsannam anatipātinam ūnaḥ vā yena bhavet tam ādātum yāyāt .. 09.7.31 ..
इतोअनर्थ इतरतोअनर्थ इत्युभयतोअनर्थ-आपत् ॥ ०९.७.३२ ॥
इतस् अनर्थः इतरतस् अनर्थः इति उभयतस् अनर्थ-आपद् ॥ ०९।७।३२ ॥
itas anarthaḥ itaratas anarthaḥ iti ubhayatas anartha-āpad .. 09.7.32 ..
तस्यां समन्ततोअनर्थायां च मित्रेभ्यः सिद्धिं लिप्सेत ॥ ०९.७.३३ ॥
तस्याम् समन्ततः अनर्थायाम् च मित्रेभ्यः सिद्धिम् लिप्सेत ॥ ०९।७।३३ ॥
tasyām samantataḥ anarthāyām ca mitrebhyaḥ siddhim lipseta .. 09.7.33 ..
मित्र-अभावे प्रकृतीनां लघीयस्यएकतोअनर्थां साधयेत् । उभयतोअनर्थां ज्यायस्या । समन्ततोअनर्थां मूलेन प्रतिकुर्यात् ॥ ०९.७.३४ ॥
मित्र-अभावे प्रकृतीनाम् लघीयसः एकतस् अनर्थाम् साधयेत् । उभयतस् अनर्थाम् ज्यायस्या । समन्ततोअनर्थाम् मूलेन प्रतिकुर्यात् ॥ ०९।७।३४ ॥
mitra-abhāve prakṛtīnām laghīyasaḥ ekatas anarthām sādhayet . ubhayatas anarthām jyāyasyā . samantatoanarthām mūlena pratikuryāt .. 09.7.34 ..
अशक्ये सर्वं उत्सृज्यापगच्छेत् ॥ ०९.७.३५ ॥
अशक्ये सर्वम् उत्सृज्य अपगच्छेत् ॥ ०९।७।३५ ॥
aśakye sarvam utsṛjya apagacchet .. 09.7.35 ..
दृष्टा हि जीवतः पुनर्-आवृत्तिर्यथा सुयात्रा-उदयनाभ्यां ॥ ०९.७.३६ ॥
दृष्टा हि जीवतः पुनर् आवृत्तिः यथा सुयात्रा-उदयनाभ्याम् ॥ ०९।७।३६ ॥
dṛṣṭā hi jīvataḥ punar āvṛttiḥ yathā suyātrā-udayanābhyām .. 09.7.36 ..
इतो लाभ इतरतो राज्य-अभिमर्श इत्युभयतोअर्थ-अनर्थ-आपद्भवति ॥ ०९.७.३७ ॥
इतस् लाभः इतरतस् राज्य-अभिमर्शः इति उभयतोअर्थ-अनर्थ-आपद् भवति ॥ ०९।७।३७ ॥
itas lābhaḥ itaratas rājya-abhimarśaḥ iti ubhayatoartha-anartha-āpad bhavati .. 09.7.37 ..
तस्यां अनर्थ-साधको योअर्थस्तं आदातुं यायात् ॥ ०९.७.३८ ॥
तस्याम् अनर्थ-साधकः यः अर्थः तम् आदातुम् यायात् ॥ ०९।७।३८ ॥
tasyām anartha-sādhakaḥ yaḥ arthaḥ tam ādātum yāyāt .. 09.7.38 ..
अन्यथा हि राज्य-अभिमर्शं वारयेत् ॥ ०९.७.३९ ॥
अन्यथा हि राज्य-अभिमर्शम् वारयेत् ॥ ०९।७।३९ ॥
anyathā hi rājya-abhimarśam vārayet .. 09.7.39 ..
एतया समन्ततोअर्थ-अनर्थ-आपद्व्याख्याता ॥ ०९.७.४० ॥
एतया समन्ततोअर्थ-अनर्थ-आपद् व्याख्याता ॥ ०९।७।४० ॥
etayā samantatoartha-anartha-āpad vyākhyātā .. 09.7.40 ..
इतोअनर्थ इतरतोअर्थ-संशय इत्युभयतोअनर्थ-अर्थ-संशया ॥ ०९.७.४१ ॥
इतस् अनर्थः इतरतस् अर्थ-संशयः इति उभयतस् अनर्थ-अर्थ-संशया ॥ ०९।७।४१ ॥
itas anarthaḥ itaratas artha-saṃśayaḥ iti ubhayatas anartha-artha-saṃśayā .. 09.7.41 ..
तस्यां पूर्वं अनर्थं साधयेत् । तत्-सिद्धावर्थ-संशयं ॥ ०९.७.४२ ॥
तस्याम् पूर्वम् अनर्थम् साधयेत् । तद्-सिद्धौ अर्थ-संशयम् ॥ ०९।७।४२ ॥
tasyām pūrvam anartham sādhayet . tad-siddhau artha-saṃśayam .. 09.7.42 ..
एतया समन्ततोअनर्थ-अर्थ-संशया व्याख्याता ॥ ०९.७.४३ ॥
एतया समन्ततः अनर्थ-अर्थ-संशया व्याख्याता ॥ ०९।७।४३ ॥
etayā samantataḥ anartha-artha-saṃśayā vyākhyātā .. 09.7.43 ..
इतोअर्थ इतरतोअनर्थ-संशय इत्युभयतोअर्थ-अनर्थ-संशय-आपड ॥ ०९.७.४४ ॥
इतस् अर्थः इतरतस् अनर्थ-संशयः इति उभयतस् अर्थ-अनर्थ-संशय-आपड ॥ ०९।७।४४ ॥
itas arthaḥ itaratas anartha-saṃśayaḥ iti ubhayatas artha-anartha-saṃśaya-āpaḍa .. 09.7.44 ..
एतया समन्ततोअर्थ-अनर्थ-संशया व्याख्याता ॥ ०९.७.४५ ॥
एतया समन्ततोअर्थ-अनर्थ-संशया व्याख्याता ॥ ०९।७।४५ ॥
etayā samantatoartha-anartha-saṃśayā vyākhyātā .. 09.7.45 ..
तस्यां पूर्वां पूर्वां प्रकृतीनां अनर्थ-संशयान्मोक्षयितुं यतेत ॥ ०९.७.४६ ॥
तस्याम् पूर्वाम् पूर्वाम् प्रकृतीनाम् अनर्थ-संशयात् मोक्षयितुम् यतेत ॥ ०९।७।४६ ॥
tasyām pūrvām pūrvām prakṛtīnām anartha-saṃśayāt mokṣayitum yateta .. 09.7.46 ..
श्रेयो हि मित्रं अनर्थ-संशये तिष्ठन्न दण्डः । दण्डो वा न कोश इति ॥ ०९.७.४७ ॥
श्रेयः हि मित्रम् अनर्थ-संशये तिष्ठत् न दण्डः । दण्डः वा न कोशः इति ॥ ०९।७।४७ ॥
śreyaḥ hi mitram anartha-saṃśaye tiṣṭhat na daṇḍaḥ . daṇḍaḥ vā na kośaḥ iti .. 09.7.47 ..
समग्र-मोक्षण-अभावे प्रकृतीनां अवयवान्मोक्षयितुं यतेत ॥ ०९.७.४८ ॥
समग्र-मोक्षण-अभावे प्रकृतीनाम् अवयवान् मोक्षयितुम् यतेत ॥ ०९।७।४८ ॥
samagra-mokṣaṇa-abhāve prakṛtīnām avayavān mokṣayitum yateta .. 09.7.48 ..
तत्र पुरुष-प्रकृतीनां बहुलं अनुरक्तं वा तीक्ष्ण-लुब्ध-वर्जम् । द्रव्य-प्रकृतीनां सारं महा-उपकारं वा ॥ ०९.७.४९ ॥
तत्र पुरुष-प्रकृतीनाम् बहुलम् अनुरक्तम् वा तीक्ष्ण-लुब्ध-वर्जम् । द्रव्य-प्रकृतीनाम् सारम् महा-उपकारम् वा ॥ ०९।७।४९ ॥
tatra puruṣa-prakṛtīnām bahulam anuraktam vā tīkṣṇa-lubdha-varjam . dravya-prakṛtīnām sāram mahā-upakāram vā .. 09.7.49 ..
संधिनाआसनेन द्वैधी-भावेन वा लघूनि । विपर्ययैर्गुरूणि ॥ ०९.७.५० ॥
संधिना आआसनेन द्वैधी-भावेन वा लघूनि । विपर्ययैः गुरूणि ॥ ०९।७।५० ॥
saṃdhinā āāsanena dvaidhī-bhāvena vā laghūni . viparyayaiḥ gurūṇi .. 09.7.50 ..
क्षय-स्थान-वृद्धीनां चौत्तर-उत्तरं लिप्सेत ॥ ०९.७.५१ ॥
क्षय-स्थान-वृद्धीनाम् च औत्तर-उत्तरम् लिप्सेत ॥ ०९।७।५१ ॥
kṣaya-sthāna-vṛddhīnām ca auttara-uttaram lipseta .. 09.7.51 ..
प्रातिलोम्येन वा क्षय-आदीनां आयत्यां विशेषं पश्येत् ॥ ०९.७.५२ ॥
प्रातिलोम्येन वा क्षय-आदीनाम् आयत्याम् विशेषम् पश्येत् ॥ ०९।७।५२ ॥
prātilomyena vā kṣaya-ādīnām āyatyām viśeṣam paśyet .. 09.7.52 ..
इति देश-अवस्थापनं ॥ ०९.७.५३ ॥
इति देश-अवस्थापनम् ॥ ०९।७।५३ ॥
iti deśa-avasthāpanam .. 09.7.53 ..
एतेन यात्रा-आदि-मध्य-अन्तेष्वर्थ-अनर्थ-संशयानां उपसम्प्राप्तिर्व्याख्याता ॥ ०९.७.५४ ॥
एतेन यात्रा-आदि-मध्य-अन्तेषु अर्थ-अनर्थ-संशयानाम् उपसम्प्राप्तिः व्याख्याता ॥ ०९।७।५४ ॥
etena yātrā-ādi-madhya-anteṣu artha-anartha-saṃśayānām upasamprāptiḥ vyākhyātā .. 09.7.54 ..
निरन्तर-योगित्वाच्चार्थ-अनर्थ-संशयानां यात्रा-आदावर्थः श्रेयानुपसम्प्राप्तुं पार्ष्णि-ग्राह-आसार-प्रतिघाते क्षय-व्यय-प्रवास-प्रत्यादेये मूल-रक्षणेषु च भवति ॥ ०९.७.५५ ॥
निरन्तर-योगि-त्वात् च अर्थ-अनर्थ-संशयानाम् यात्रा-आदौ अर्थः श्रेयान् उपसम्प्राप्तुम् पार्ष्णि-ग्राह-आसार-प्रतिघाते क्षय-व्यय-प्रवास-प्रत्यादेये मूल-रक्षणेषु च भवति ॥ ०९।७।५५ ॥
nirantara-yogi-tvāt ca artha-anartha-saṃśayānām yātrā-ādau arthaḥ śreyān upasamprāptum pārṣṇi-grāha-āsāra-pratighāte kṣaya-vyaya-pravāsa-pratyādeye mūla-rakṣaṇeṣu ca bhavati .. 09.7.55 ..
तथाअनर्थः संशयो वा स्व-भूमिष्ठस्य विषह्यो भवति ॥ ०९.७.५६ ॥
तथा अनर्थः संशयः वा स्व-भूमिष्ठस्य विषह्यः भवति ॥ ०९।७।५६ ॥
tathā anarthaḥ saṃśayaḥ vā sva-bhūmiṣṭhasya viṣahyaḥ bhavati .. 09.7.56 ..
एतेन यात्रा-मध्येअर्थ-अनर्थ-संशयानां उपसम्प्राप्तिर्व्याख्याता ॥ ०९.७.५७ ॥
एतेन यात्रा-मध्येअर्थ-अनर्थ-संशयानाम् उपसम्प्राप्तिः व्याख्याता ॥ ०९।७।५७ ॥
etena yātrā-madhyeartha-anartha-saṃśayānām upasamprāptiḥ vyākhyātā .. 09.7.57 ..
यात्रा-अन्ते तु कर्शनीयं उच्छेदनीयं वा कर्शयित्वाउच्छिद्य वाअर्थः श्रेयानुपसम्प्राप्तुं नानर्थः संशयो वा पर-आबाध-भयात् ॥ ०९.७.५८ ॥
यात्रा-अन्ते तु कर्शनीयम् उच्छेदनीयम् वा कर्शयित्वा उच्छिद्य वा अर्थः श्रेयान् उपसम्प्राप्तुम् न अनर्थः संशयः वा पर-आबाध-भयात् ॥ ०९।७।५८ ॥
yātrā-ante tu karśanīyam ucchedanīyam vā karśayitvā ucchidya vā arthaḥ śreyān upasamprāptum na anarthaḥ saṃśayaḥ vā para-ābādha-bhayāt .. 09.7.58 ..
सामवायिकानां अपुरोगस्य तु यात्रा-मध्य-अन्तगोअनर्थः संशयो वा श्रेयानुपसम्प्राप्तुं अनिर्बन्ध-गामित्वात् ॥ ०९.७.५९ ॥
सामवायिकानाम् अपुरोगस्य तु यात्रा-मध्य-अन्त-गः अनर्थः संशयः वा श्रेयान् उपसम्प्राप्तुम् अ निर्बन्ध-गामि-त्वात् ॥ ०९।७।५९ ॥
sāmavāyikānām apurogasya tu yātrā-madhya-anta-gaḥ anarthaḥ saṃśayaḥ vā śreyān upasamprāptum a nirbandha-gāmi-tvāt .. 09.7.59 ..
अर्थो धर्मः काम इत्यर्थ-त्रि-वर्गः ॥ ०९.७.६० ॥
अर्थः धर्मः कामः इति अर्थ-त्रि-वर्गः ॥ ०९।७।६० ॥
arthaḥ dharmaḥ kāmaḥ iti artha-tri-vargaḥ .. 09.7.60 ..
तस्य पूर्वः पूर्वः श्रेयानुपसम्प्राप्तुं ॥ ०९.७.६१ ॥
तस्य पूर्वः पूर्वः श्रेयान् उपसम्प्राप्तुम् ॥ ०९।७।६१ ॥
tasya pūrvaḥ pūrvaḥ śreyān upasamprāptum .. 09.7.61 ..
अनर्थोअधर्मः शोक इत्यनर्थ-त्रि-वर्गः ॥ ०९.७.६२ ॥
अनर्थः अधर्मः शोकः इति अनर्थ-त्रि-वर्गः ॥ ०९।७।६२ ॥
anarthaḥ adharmaḥ śokaḥ iti anartha-tri-vargaḥ .. 09.7.62 ..
तस्य पूर्वः पूर्वः श्रेयान्प्रतिकर्तुं ॥ ०९.७.६३ ॥
तस्य पूर्वः पूर्वः श्रेयान् प्रतिकर्तुम् ॥ ०९।७।६३ ॥
tasya pūrvaḥ pūrvaḥ śreyān pratikartum .. 09.7.63 ..
अर्थोअनर्थ इति । धर्मोअधर्म इति । कामः शोक इति संशय-त्रि-वर्गः ॥ ०९.७.६४ ॥
अर्थः अनर्थः इति । धर्मः अधर्मः इति । कामः शोकः इति संशय-त्रि-वर्गः ॥ ०९।७।६४ ॥
arthaḥ anarthaḥ iti . dharmaḥ adharmaḥ iti . kāmaḥ śokaḥ iti saṃśaya-tri-vargaḥ .. 09.7.64 ..
तस्यौत्तर-पक्ष-सिद्धौ पूर्व-पक्षः श्रेयानुपसम्प्राप्तुं ॥ ०९.७.६५ ॥
तस्य औत्तर-पक्ष-सिद्धौ पूर्व-पक्षः श्रेयान् उपसम्प्राप्तुम् ॥ ०९।७।६५ ॥
tasya auttara-pakṣa-siddhau pūrva-pakṣaḥ śreyān upasamprāptum .. 09.7.65 ..
इति काल-अवस्थापनं ॥ ०९.७.६६ ॥
इति काल-अवस्थापनम् ॥ ०९।७।६६ ॥
iti kāla-avasthāpanam .. 09.7.66 ..
इत्यापदः तासां सिद्धिः ॥ ०९.७.६७ ॥
इति आपदः तासाम् सिद्धिः ॥ ०९।७।६७ ॥
iti āpadaḥ tāsām siddhiḥ .. 09.7.67 ..
पुत्र-भ्रातृ-बन्धुषु साम-दानाभ्यां सिद्धिरनुरूपा । पौर-जानपद-दण्ड-मुख्येषु दान-भेदाभ्याम् । सामन्त-आटविकेषु भेद-दण्डाभ्यां ॥ ०९.७.६८ ॥
पुत्र-भ्रातृ-बन्धुषु साम-दानाभ्याम् सिद्धिः अनुरूपा । पौर-जानपद-दण्ड-मुख्येषु दान-भेदाभ्याम् । सामन्त-आटविकेषु भेद-दण्डाभ्याम् ॥ ०९।७।६८ ॥
putra-bhrātṛ-bandhuṣu sāma-dānābhyām siddhiḥ anurūpā . paura-jānapada-daṇḍa-mukhyeṣu dāna-bhedābhyām . sāmanta-āṭavikeṣu bheda-daṇḍābhyām .. 09.7.68 ..
एषाअनुलोमा । विपर्यये प्रतिलोमा ॥ ०९.७.६९ ॥
एषा अअनुलोमा । विपर्यये प्रतिलोमा ॥ ०९।७।६९ ॥
eṣā aanulomā . viparyaye pratilomā .. 09.7.69 ..
मित्र-अमित्रेषु व्यामिश्रा सिद्धिः ॥ ०९.७.७० ॥
मित्र-अमित्रेषु व्यामिश्रा सिद्धिः ॥ ०९।७।७० ॥
mitra-amitreṣu vyāmiśrā siddhiḥ .. 09.7.70 ..
परस्पर-साधका ह्युपायाः ॥ ०९.७.७१ ॥
परस्पर-साधकाः हि उपायाः ॥ ०९।७।७१ ॥
paraspara-sādhakāḥ hi upāyāḥ .. 09.7.71 ..
शत्रोः शङ्कित-अमात्येषु सान्त्वं प्रयुक्तं शेष-प्रयोगं निवर्तयति । दूष्य-अमात्येषु दानम् । संघातेषु भेदः । शक्तिमत्सु दण्ड इति ॥ ०९.७.७२ ॥
शत्रोः शङ्कित-अमात्येषु सान्त्वम् प्रयुक्तम् शेष-प्रयोगम् निवर्तयति । दूष्य-अमात्येषु दानम् । संघातेषु भेदः । शक्तिमत्सु दण्डः इति ॥ ०९।७।७२ ॥
śatroḥ śaṅkita-amātyeṣu sāntvam prayuktam śeṣa-prayogam nivartayati . dūṣya-amātyeṣu dānam . saṃghāteṣu bhedaḥ . śaktimatsu daṇḍaḥ iti .. 09.7.72 ..
गुरु-लाघव-योगाच्चऽपदां नियोग-विकल्प-समुच्चया भवन्ति ॥ ०९.७.७३ ॥
गुरु-लाघव-योगात् च अ पदाम् नियोग-विकल्प-समुच्चयाः भवन्ति ॥ ०९।७।७३ ॥
guru-lāghava-yogāt ca a padām niyoga-vikalpa-samuccayāḥ bhavanti .. 09.7.73 ..
अनेनएवौपायेन नान्येन इति नियोगः ॥ ०९.७.७४ ॥
अनेन एव औपायेन न अन्येन इति नियोगः ॥ ०९।७।७४ ॥
anena eva aupāyena na anyena iti niyogaḥ .. 09.7.74 ..
अनेन वाअन्येन वा इति विकल्पः ॥ ०९.७.७५ ॥
अनेन वा अ अन्येन वा इति विकल्पः ॥ ०९।७।७५ ॥
anena vā a anyena vā iti vikalpaḥ .. 09.7.75 ..
अनेनान्येन च इति समुच्चयः ॥ ०९.७.७६ ॥
अनेन अन्येन च इति समुच्चयः ॥ ०९।७।७६ ॥
anena anyena ca iti samuccayaḥ .. 09.7.76 ..
तेषां एक-योगाश्चत्वारस्त्रि-योगाश्च । द्वि-योगाः षट् । एकश्चतुर्-योगः ॥ ०९.७.७७ ॥
तेषाम् एक-योगाः चत्वारः त्रि-योगाः च । द्वि-योगाः षट् । एकः चतुर्-योगः ॥ ०९।७।७७ ॥
teṣām eka-yogāḥ catvāraḥ tri-yogāḥ ca . dvi-yogāḥ ṣaṭ . ekaḥ catur-yogaḥ .. 09.7.77 ..
इति पञ्च-दश-उपायाः ॥ ०९.७.७८ ॥
इति पञ्च-दश-उपायाः ॥ ०९।७।७८ ॥
iti pañca-daśa-upāyāḥ .. 09.7.78 ..
तावन्तः प्रतिलोमाः ॥ ०९.७.७९ ॥
तावन्तः प्रतिलोमाः ॥ ०९।७।७९ ॥
tāvantaḥ pratilomāḥ .. 09.7.79 ..
तेषां एकेनौपायेन सिद्धिरेक-सिद्धिः । द्वाभ्यां द्वि-सिद्धिः । त्रिभिस्त्रि-सिद्धिः । चतुर्भिश्चतुः-सिद्धिरिति ॥ ०९.७.८० ॥
तेषाम् एकेन औपायेन सिद्धिः एक-सिद्धिः । द्वाभ्याम् द्वि-सिद्धिः । त्रिभिः त्रि-सिद्धिः । चतुर्भिः चतुः सिद्धिः इति ॥ ०९।७।८० ॥
teṣām ekena aupāyena siddhiḥ eka-siddhiḥ . dvābhyām dvi-siddhiḥ . tribhiḥ tri-siddhiḥ . caturbhiḥ catuḥ siddhiḥ iti .. 09.7.80 ..
धर्म-मूलत्वात्काम-फलत्वाच्चार्थस्य धर्म-अर्थ-काम-अनुबन्धा याअर्थस्य सिद्धिः सा सर्व-अर्थ-सिद्धिः <इति सिद्धयह्> ॥ ०९.७.८१ ॥
धर्म-मूल-त्वात् काम-फल-त्वात् च अर्थस्य धर्म-अर्थ-काम-अनुबन्धा या अर्थस्य सिद्धिः सा सर्व-अर्थ-सिद्धिः <इति सिद्धयः ॥ ०९।७।८१ ॥
dharma-mūla-tvāt kāma-phala-tvāt ca arthasya dharma-artha-kāma-anubandhā yā arthasya siddhiḥ sā sarva-artha-siddhiḥ <iti siddhayaḥ .. 09.7.81 ..
दैवादग्निरुदकं व्याधिः प्रमारो विद्रवो दुर्भिक्षं आसुरी सृष्टिरित्यापदः ॥ ०९.७.८२ ॥
दैवात् अग्निः उदकम् व्याधिः प्रमारः विद्रवः दुर्भिक्षम् आसुरी सृष्टिः इति आपदः ॥ ०९।७।८२ ॥
daivāt agniḥ udakam vyādhiḥ pramāraḥ vidravaḥ durbhikṣam āsurī sṛṣṭiḥ iti āpadaḥ .. 09.7.82 ..
तासां दैवत-ब्राह्मण-र्पणिपाततः सिद्धिः ॥ ०९.७.८३ ॥
तासाम् दैवत-ब्राह्मण-र्पणिपाततः सिद्धिः ॥ ०९।७।८३ ॥
tāsām daivata-brāhmaṇa-rpaṇipātataḥ siddhiḥ .. 09.7.83 ..
अतिवृष्टिरवृष्टिर्वा सृष्टिर्वा याआसुरी भवेत् । ॥ ०९.७.८४अ ब ॥
अति वृष्टिः अवृष्टिः वा सृष्टिः वा या आसुरी भवेत् । ॥ ०९।७।८४अ ब ॥
ati vṛṣṭiḥ avṛṣṭiḥ vā sṛṣṭiḥ vā yā āsurī bhavet . .. 09.7.84a ba ..
तस्यां आथर्वणं कर्म सिद्ध-आरम्भाश्च सिद्धयः ॥ ०९.७.८४च्द् ॥
तस्याम् आथर्वणम् कर्म सिद्ध-आरम्भाः च सिद्धयः ॥ ०९।७।८४च् ॥
tasyām ātharvaṇam karma siddha-ārambhāḥ ca siddhayaḥ .. 09.7.84c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In