| |
|

This overlay will guide you through the buttons:

दुर्ग-राष्ट्रयोः कण्टक-शोधनं उक्तं ॥ ०५.१.०१ ॥
दुर्ग-राष्ट्रयोः कण्टक-शोधनम् उक्तम् ॥ ०५।१।०१ ॥
durga-rāṣṭrayoḥ kaṇṭaka-śodhanam uktam .. 05.1.01 ..
राज-राज्ययोर्वक्ष्यामः ॥ ०५.१.०२ ॥
राज-राज्ययोः वक्ष्यामः ॥ ०५।१।०२ ॥
rāja-rājyayoḥ vakṣyāmaḥ .. 05.1.02 ..
राजानं अवगृह्यौपजीविनः शत्रु-साधारणा वा ये मुख्यास्तेषु गूढ-पुरुष-प्रणिधिः कृत्य-पक्ष-उपग्रहो वा सिद्धिः यथा-उक्तं पुरस्ताद् । उपजापोअपसर्पो वा यथा पारग्रामिके वक्ष्यामः ॥ ०५.१.०३ ॥
राजानम् अवगृह्य औपजीविनः शत्रु-साधारणाः वा ये मुख्याः तेषु गूढ-पुरुष-प्रणिधिः कृत्य-पक्ष-उपग्रहः वा सिद्धिः यथा उक्तम् पुरस्तात् । उपजापः अपसर्पः वा यथा पारग्रामिके वक्ष्यामः ॥ ०५।१।०३ ॥
rājānam avagṛhya aupajīvinaḥ śatru-sādhāraṇāḥ vā ye mukhyāḥ teṣu gūḍha-puruṣa-praṇidhiḥ kṛtya-pakṣa-upagrahaḥ vā siddhiḥ yathā uktam purastāt . upajāpaḥ apasarpaḥ vā yathā pāragrāmike vakṣyāmaḥ .. 05.1.03 ..
राज्य-उपघातिनस्तु वल्लभाः संहता वा ये मुख्याः प्रकाशं अशक्याः प्रतिषेद्धुं दूष्याः तेषु धर्म-रुचिरुपांशु-दण्डं प्रयुञ्जीत ॥ ०५.१.०४ ॥
राज्य-उपघातिनः तु वल्लभाः संहताः वा ये मुख्याः प्रकाशम् अशक्याः प्रतिषेद्धुम् दूष्याः तेषु धर्म-रुचिः उपांशु दण्डम् प्रयुञ्जीत ॥ ०५।१।०४ ॥
rājya-upaghātinaḥ tu vallabhāḥ saṃhatāḥ vā ye mukhyāḥ prakāśam aśakyāḥ pratiṣeddhum dūṣyāḥ teṣu dharma-ruciḥ upāṃśu daṇḍam prayuñjīta .. 05.1.04 ..
दूष्य-महा-मात्र-भ्रातरं असत्-कृतं सत्त्री प्रोत्साह्य राजानं दर्शयेत् ॥ ०५.१.०५ ॥
दूष्य-महा-मात्र-भ्रातरम् असत्-कृतम् सत्त्री प्रोत्साह्य राजानम् दर्शयेत् ॥ ०५।१।०५ ॥
dūṣya-mahā-mātra-bhrātaram asat-kṛtam sattrī protsāhya rājānam darśayet .. 05.1.05 ..
तं राजा दूष्य-द्रव्य-उपभोग-अतिसर्गेण दूष्ये विक्रमयेत् ॥ ०५.१.०६ ॥
तम् राजा दूष्य-द्रव्य-उपभोग-अतिसर्गेण दूष्ये विक्रमयेत् ॥ ०५।१।०६ ॥
tam rājā dūṣya-dravya-upabhoga-atisargeṇa dūṣye vikramayet .. 05.1.06 ..
शस्त्रेण रसेन वा विक्रान्तं तत्रएव घातयेद्"भ्रातृ-घातकोअयम्" इति ॥ ०५.१.०७ ॥
शस्त्रेण रसेन वा विक्रान्तम् तत्र एव घातयेत्"भ्रातृ-घातकः अयम्" इति ॥ ०५।१।०७ ॥
śastreṇa rasena vā vikrāntam tatra eva ghātayet"bhrātṛ-ghātakaḥ ayam" iti .. 05.1.07 ..
तेन पारशवः परिचारिका-पुत्रश्च व्याख्यातौ ॥ ०५.१.०८ ॥
तेन पारशवः परिचारिका-पुत्रः च व्याख्यातौ ॥ ०५।१।०८ ॥
tena pāraśavaḥ paricārikā-putraḥ ca vyākhyātau .. 05.1.08 ..
दूष्यं-महामात्रं वा सत्त्रि-प्रोत्साहितो भ्राता दायं याचेत ॥ ०५.१.०९ ॥
दूष्यम् महामात्रम् वा सत्त्रि-प्रोत्साहितः भ्राता दायम् याचेत ॥ ०५।१।०९ ॥
dūṣyam mahāmātram vā sattri-protsāhitaḥ bhrātā dāyam yāceta .. 05.1.09 ..
तं दूष्य-गृह-प्रतिद्वारि रात्रावुपशयानं अन्यत्र वा वसन्तं तीक्ष्णो हन्ता ब्रूयाद्"हतोअयं दाय-कामुकः" इति ॥ ०५.१.१० ॥
तम् दूष्य-गृह-प्रतिद्वारि रात्रौ उपशयानम् अन्यत्र वा वसन्तम् तीक्ष्णः हन्ता ब्रूयात्"हतः अयम् दाय-कामुकः" इति ॥ ०५।१।१० ॥
tam dūṣya-gṛha-pratidvāri rātrau upaśayānam anyatra vā vasantam tīkṣṇaḥ hantā brūyāt"hataḥ ayam dāya-kāmukaḥ" iti .. 05.1.10 ..
ततो हत-पक्षं उपगृह्यैतरं निगृह्णीयात् ॥ ०५.१.११ ॥
ततस् हत-पक्षम् उपगृह्य एतरम् निगृह्णीयात् ॥ ०५।१।११ ॥
tatas hata-pakṣam upagṛhya etaram nigṛhṇīyāt .. 05.1.11 ..
दूष्य-समीपस्था वा सत्त्रिणो भ्रातरं दायं याचमानं घातेन परिभर्त्सयेयुः ॥ ०५.१.१२ ॥
दूष्य-समीप-स्थाः वा सत्त्रिणः भ्रातरम् दायम् याचमानम् घातेन परिभर्त्सयेयुः ॥ ०५।१।१२ ॥
dūṣya-samīpa-sthāḥ vā sattriṇaḥ bhrātaram dāyam yācamānam ghātena paribhartsayeyuḥ .. 05.1.12 ..
तं रात्रौ इति समानं ॥ ०५.१.१३ ॥
तम् रात्रौ इति समानम् ॥ ०५।१।१३ ॥
tam rātrau iti samānam .. 05.1.13 ..
दूष्य-महा-मात्रयोर्वा यः पुत्रः पितुः पिता वा पुत्रस्य दारानधिचरति । भ्राता वा भ्रातुः । तयोः कापटिक-मुखः कलहः पूर्वेण व्याख्यातः ॥ ०५.१.१४ ॥
दूष्य-महा-मात्रयोः वा यः पुत्रः पितुः पिता वा पुत्रस्य दारान् अधिचरति । भ्राता वा भ्रातुः । तयोः कापटिक-मुखः कलहः पूर्वेण व्याख्यातः ॥ ०५।१।१४ ॥
dūṣya-mahā-mātrayoḥ vā yaḥ putraḥ pituḥ pitā vā putrasya dārān adhicarati . bhrātā vā bhrātuḥ . tayoḥ kāpaṭika-mukhaḥ kalahaḥ pūrveṇa vyākhyātaḥ .. 05.1.14 ..
दूष्य-महा-मात्र-पुत्रं आत्म-संभावितं वा सत्त्री "राज-पुत्रस्त्वम् । शत्रु-भयादिह न्यस्तोअसि" इत्युपजपेत् ॥ ०५.१.१५ ॥
दूष्य-महा-मात्र-पुत्रम् आत्म-संभावितम् वा सत्त्री "राज-पुत्रः त्वम् । शत्रु-भयात् इह न्यस्तः असि" इति उपजपेत् ॥ ०५।१।१५ ॥
dūṣya-mahā-mātra-putram ātma-saṃbhāvitam vā sattrī "rāja-putraḥ tvam . śatru-bhayāt iha nyastaḥ asi" iti upajapet .. 05.1.15 ..
प्रतिपन्नं राजा रहसि पूजयेत्"प्राप्त-यौवराज्य-कालं त्वां महा-मात्र-भयान्नाभिषिञ्चामि" इति ॥ ०५.१.१६ ॥
प्रतिपन्नम् राजा रहसि पूजयेत्"प्राप्त-यौवराज्य-कालम् त्वाम् महा-मात्र-भयात् न अभिषिञ्चामि" इति ॥ ०५।१।१६ ॥
pratipannam rājā rahasi pūjayet"prāpta-yauvarājya-kālam tvām mahā-mātra-bhayāt na abhiṣiñcāmi" iti .. 05.1.16 ..
तं सत्त्री महा-मात्र-वधे योजयेत् ॥ ०५.१.१७ ॥
तम् सत्त्री महा-मात्र-वधे योजयेत् ॥ ०५।१।१७ ॥
tam sattrī mahā-mātra-vadhe yojayet .. 05.1.17 ..
विक्रान्तं तत्रएव घातयेत्"पितृ-घातकोअयम्" इति ॥ ०५.१.१८ ॥
विक्रान्तम् तत्र एव घातयेत्"पितृ-घातकः अयम्" इति ॥ ०५।१।१८ ॥
vikrāntam tatra eva ghātayet"pitṛ-ghātakaḥ ayam" iti .. 05.1.18 ..
भिक्षुकी वा दूष्य-भार्यां सांवदनिकीभिरौषधीभिः संवास्य रसेनातिसंदध्यात् ॥ ०५.१.१९ ॥
भिक्षुकी वा दूष्य-भार्याम् सांवदनिकीभिः औषधीभिः संवास्य रसेन अतिसंदध्यात् ॥ ०५।१।१९ ॥
bhikṣukī vā dūṣya-bhāryām sāṃvadanikībhiḥ auṣadhībhiḥ saṃvāsya rasena atisaṃdadhyāt .. 05.1.19 ..
इत्याप्य-प्रयोगः ॥ ०५.१.२० ॥
इति आप्य-प्रयोगः ॥ ०५।१।२० ॥
iti āpya-prayogaḥ .. 05.1.20 ..
दूष्य-महा-मात्रं अटवीं पर-ग्रामं वा हन्तुं कान्तार-व्यवहिते वा देशे राष्ट्र-पालं अन्त-पालं वा स्थापयितुं नागर-स्थानं वा कुपितं अवग्राहितुं सार्थ-अतिवाह्यं प्रत्यन्ते वा सप्रत्यादेयं आदातुं फल्गु-बलं तीक्ष्ण-युक्तं प्रेषयेत् ॥ ०५.१.२१ ॥
दूष्य-महा-मात्रम् अटवीम् पर-ग्रामम् वा हन्तुम् कान्तार-व्यवहिते वा देशे राष्ट्र-पालम् अन्त-पालम् वा स्थापयितुम् नागर-स्थानम् वा कुपितम् अवग्राहितुम् सार्थ-अतिवाह्यम् प्रत्यन्ते वा स प्रत्यादेयम् आदातुम् फल्गु-बलम् तीक्ष्ण-युक्तम् प्रेषयेत् ॥ ०५।१।२१ ॥
dūṣya-mahā-mātram aṭavīm para-grāmam vā hantum kāntāra-vyavahite vā deśe rāṣṭra-pālam anta-pālam vā sthāpayitum nāgara-sthānam vā kupitam avagrāhitum sārtha-ativāhyam pratyante vā sa pratyādeyam ādātum phalgu-balam tīkṣṇa-yuktam preṣayet .. 05.1.21 ..
रात्रौ दिवा वा युद्धे प्रवृत्ते तीक्ष्णाः प्रतिरोधक-व्यञ्जना वा हन्युः "अभियोगे हतः" इति ॥ ०५.१.२२ ॥
रात्रौ दिवा वा युद्धे प्रवृत्ते तीक्ष्णाः प्रतिरोधक-व्यञ्जनाः वा हन्युः "अभियोगे हतः" इति ॥ ०५।१।२२ ॥
rātrau divā vā yuddhe pravṛtte tīkṣṇāḥ pratirodhaka-vyañjanāḥ vā hanyuḥ "abhiyoge hataḥ" iti .. 05.1.22 ..
यात्रा-विहार-गतो वा दूष्य-महा-मात्रान्दर्शनायऽह्वयेत् ॥ ०५.१.२३ ॥
यात्रा-विहार-गतः वा दूष्य-महा-मात्रान् दर्शनाय आह्वयेत् ॥ ०५।१।२३ ॥
yātrā-vihāra-gataḥ vā dūṣya-mahā-mātrān darśanāya āhvayet .. 05.1.23 ..
ते गूढ-शस्त्रैस्तीक्ष्णैः सह प्रविष्टा मध्यम-कक्ष्यायां आत्म-विचयं अन्तः-प्रवेशन-अर्थं दद्युः ॥ ०५.१.२४ ॥
ते गूढ-शस्त्रैः तीक्ष्णैः सह प्रविष्टाः मध्यम-कक्ष्यायाम् आत्म-विचयम् अन्तर् प्रवेशन-अर्थम् दद्युः ॥ ०५।१।२४ ॥
te gūḍha-śastraiḥ tīkṣṇaiḥ saha praviṣṭāḥ madhyama-kakṣyāyām ātma-vicayam antar praveśana-artham dadyuḥ .. 05.1.24 ..
ततो दौवारिक-अभिगृहीतास्तीक्ष्णाः "दूष्य-प्रयुक्ताः स्म" इति ब्रूयुः ॥ ०५.१.२५ ॥
ततस् दौवारिक-अभिगृहीताः तीक्ष्णाः "दूष्य-प्रयुक्ताः स्म" इति ब्रूयुः ॥ ०५।१।२५ ॥
tatas dauvārika-abhigṛhītāḥ tīkṣṇāḥ "dūṣya-prayuktāḥ sma" iti brūyuḥ .. 05.1.25 ..
ते तद्-अभिविख्याप्य दूष्यान्हन्युः ॥ ०५.१.२६ ॥
ते तत् अभिविख्याप्य दूष्यान् हन्युः ॥ ०५।१।२६ ॥
te tat abhivikhyāpya dūṣyān hanyuḥ .. 05.1.26 ..
तीक्ष्ण-स्थाने चान्ये वध्याः ॥ ०५.१.२७ ॥
तीक्ष्ण-स्थाने च अन्ये वध्याः ॥ ०५।१।२७ ॥
tīkṣṇa-sthāne ca anye vadhyāḥ .. 05.1.27 ..
बहिर्-विहार-गतो वा दूष्यानासन्न-आवासान्पूजयेत् ॥ ०५.१.२८ ॥
बहिस् विहार-गतः वा दूष्य-अनासन्न-आवासान् पूजयेत् ॥ ०५।१।२८ ॥
bahis vihāra-gataḥ vā dūṣya-anāsanna-āvāsān pūjayet .. 05.1.28 ..
तेषां देवी-व्यञ्जना वा दुःस्त्री रात्रावावासेषु गृह्येतैति समानं पूर्वेण ॥ ०५.१.२९ ॥
तेषाम् देवी-व्यञ्जना वा दुःस्त्री रात्रौ आवासेषु गृह्येत एति समानम् पूर्वेण ॥ ०५।१।२९ ॥
teṣām devī-vyañjanā vā duḥstrī rātrau āvāseṣu gṛhyeta eti samānam pūrveṇa .. 05.1.29 ..
दूष्य-महा-मात्रं वा "सूदो भक्ष-कारो वा ते शोभनः" इति स्तवेन भक्ष्य-भोज्यं याचेत । बहिर्वा क्वचिदध्व-गतः पानीयं ॥ ०५.१.३० ॥
दूष्य-महा-मात्रम् वा "सूदः भक्ष-कारः वा ते शोभनः" इति स्तवेन भक्ष्य-भोज्यम् याचेत । बहिस् वा क्वचिद् अध्व-गतः पानीयम् ॥ ०५।१।३० ॥
dūṣya-mahā-mātram vā "sūdaḥ bhakṣa-kāraḥ vā te śobhanaḥ" iti stavena bhakṣya-bhojyam yāceta . bahis vā kvacid adhva-gataḥ pānīyam .. 05.1.30 ..
तद्-उभयं रसेन योजयित्वा प्रतिस्वादने तावेवौपयोजयेत् ॥ ०५.१.३१ ॥
तत् उभयम् रसेन योजयित्वा प्रतिस्वादने तौ एव औपयोजयेत् ॥ ०५।१।३१ ॥
tat ubhayam rasena yojayitvā pratisvādane tau eva aupayojayet .. 05.1.31 ..
तद्-अभिविख्याप्य "रसदौ" इति घातयेत् ॥ ०५.१.३२ ॥
तत् अभिविख्याप्य "रस-दौ" इति घातयेत् ॥ ०५।१।३२ ॥
tat abhivikhyāpya "rasa-dau" iti ghātayet .. 05.1.32 ..
अभिचार-शीलं वा सिद्ध-व्यञ्जनो "गोधा-कूर्म-कर्कटक-कूटानां लक्षण्यानां अन्यतम-प्राशनेन मनोरथानवाप्स्यसि" इति ग्राहयेत् ॥ ०५.१.३३ ॥
अभिचार-शीलम् वा सिद्ध-व्यञ्जनः "गोधा-कूर्म-कर्कटक-कूटानाम् लक्षण्यानाम् अन्यतम-प्राशनेन मनोरथान् अवाप्स्यसि" इति ग्राहयेत् ॥ ०५।१।३३ ॥
abhicāra-śīlam vā siddha-vyañjanaḥ "godhā-kūrma-karkaṭaka-kūṭānām lakṣaṇyānām anyatama-prāśanena manorathān avāpsyasi" iti grāhayet .. 05.1.33 ..
प्रतिपन्नं कर्मणि रसेन लोह-मुसलैर्वा घातयेत्"कर्म-व्यापदा हतः" इति ॥ ०५.१.३४ ॥
प्रतिपन्नम् कर्मणि रसेन लोह-मुसलैः वा घातयेत्"कर्म-व्यापदा हतः" इति ॥ ०५।१।३४ ॥
pratipannam karmaṇi rasena loha-musalaiḥ vā ghātayet"karma-vyāpadā hataḥ" iti .. 05.1.34 ..
चिकित्सक-व्यञ्जनो वा दौरात्मिकं असाध्यं वा व्याधिं दूष्यस्य स्थापयित्वा भैषज्य-आहार-योगेषु रसेनातिसंदध्यात् ॥ ०५.१.३५ ॥
चिकित्सक-व्यञ्जनः वा दौरात्मिकम् असाध्यम् वा व्याधिम् दूष्यस्य स्थापयित्वा भैषज्य-आहार-योगेषु रसेन अतिसंदध्यात् ॥ ०५।१।३५ ॥
cikitsaka-vyañjanaḥ vā daurātmikam asādhyam vā vyādhim dūṣyasya sthāpayitvā bhaiṣajya-āhāra-yogeṣu rasena atisaṃdadhyāt .. 05.1.35 ..
सूद-आरालिक-व्यञ्जना वा प्रणिहिता दूष्यं रसेनातिसंदध्युः ॥ ०५.१.३६ ॥
सूद-आरालिक-व्यञ्जनाः वा प्रणिहिताः दूष्यम् रसेन अतिसंदध्युः ॥ ०५।१।३६ ॥
sūda-ārālika-vyañjanāḥ vā praṇihitāḥ dūṣyam rasena atisaṃdadhyuḥ .. 05.1.36 ..
इत्युपनिषत्-प्रतिषेधः ॥ ०५.१.३७ ॥
इति उपनिषद्-प्रतिषेधः ॥ ०५।१।३७ ॥
iti upaniṣad-pratiṣedhaḥ .. 05.1.37 ..
उभय-दूष्य-प्रतिषेधस्तु ॥ ०५.१.३८ ॥
उभय-दूष्य-प्रतिषेधः तु ॥ ०५।१।३८ ॥
ubhaya-dūṣya-pratiṣedhaḥ tu .. 05.1.38 ..
यत्र दूष्यः प्रतिषेद्धव्यस्तत्र दूष्यं एव फल्गु-बल-तीक्ष्ण-युक्तं प्रेषयेत् । गच्छ । अमुष्मिन्दुर्गे राष्ट्रे वा सैन्यं उत्थापय हिरण्यं वा । वल्लभाद्वा हिरण्यं आहारय । वल्लभ-कन्यां वा प्रसह्यऽनय । दुर्ग-सेतु-वणिक्-पथ-शून्य-निवेश-खनि-द्रव्य-हस्ति-वन-कर्मणां अन्यतमद्वा कारय राष्ट्र-पाल्यं अन्त-पाल्यं वा यश्च त्वा प्रतिषेधयेन् ॥ ०५.१.३९ ॥
यत्र दूष्यः प्रतिषेद्धव्यः तत्र दूष्यम् एव फल्गु-बल-तीक्ष्ण-युक्तम् प्रेषयेत् । गच्छ । अमुष्मिन् दुर्गे राष्ट्रे वा सैन्यम् उत्थापय हिरण्यम् वा । वल्लभात् वा हिरण्यम् आहारय । वल्लभ-कन्याम् वा प्रसह्य अनय । दुर्ग-सेतु-वणिज्-पथ-शून्य-निवेश-खनि-द्रव्य-हस्ति-वन-कर्मणाम् अन्यतमत् वा कारय राष्ट्र-पाल्यम् अन्त-पाल्यम् वा यः च त्वा प्रतिषेधयेन् ॥ ०५।१।३९ ॥
yatra dūṣyaḥ pratiṣeddhavyaḥ tatra dūṣyam eva phalgu-bala-tīkṣṇa-yuktam preṣayet . gaccha . amuṣmin durge rāṣṭre vā sainyam utthāpaya hiraṇyam vā . vallabhāt vā hiraṇyam āhāraya . vallabha-kanyām vā prasahya anaya . durga-setu-vaṇij-patha-śūnya-niveśa-khani-dravya-hasti-vana-karmaṇām anyatamat vā kāraya rāṣṭra-pālyam anta-pālyam vā yaḥ ca tvā pratiṣedhayen .. 05.1.39 ..
॥ न वा ते साहाय्यं दद्यात्स बन्धव्यः स्यात्" इति ॥
॥ न वा ते साहाय्यम् दद्यात् स बन्धव्यः स्यात्" इति ॥
.. na vā te sāhāyyam dadyāt sa bandhavyaḥ syāt" iti ..
तथैवैतरेषां प्रेषयेद्"अमुष्याविनयः प्रतिषेद्धव्यः" इति ॥ ०५.१.४० ॥
तथा एव एतरेषाम् प्रेषयेत्"अमुष्य अविनयः प्रतिषेद्धव्यः" इति ॥ ०५।१।४० ॥
tathā eva etareṣām preṣayet"amuṣya avinayaḥ pratiṣeddhavyaḥ" iti .. 05.1.40 ..
तं एतेषु कलह-स्थानेषु कर्म-प्रतिघातेषु वा विवदमानं तीक्ष्णाः शस्त्रं पातयित्वा प्रच्छन्नं हन्युः ॥ ०५.१.४१ ॥
तम् एतेषु कलह-स्थानेषु कर्म-प्रतिघातेषु वा विवदमानम् तीक्ष्णाः शस्त्रम् पातयित्वा प्रच्छन्नम् हन्युः ॥ ०५।१।४१ ॥
tam eteṣu kalaha-sthāneṣu karma-pratighāteṣu vā vivadamānam tīkṣṇāḥ śastram pātayitvā pracchannam hanyuḥ .. 05.1.41 ..
तेन दोषेणैतरे नियन्तव्याः ॥ ०५.१.४२ ॥
तेन दोषेण एतरे नियन्तव्याः ॥ ०५।१।४२ ॥
tena doṣeṇa etare niyantavyāḥ .. 05.1.42 ..
पुराणां ग्रामाणां कुलानां वा दूष्याणां सीमा-क्षेत्र-खल-वेश्म-मर्यादासु द्रव्य-उपकरण-सस्य-वाहन-हिंसासु प्रेक्षा-कृत्यौत्सवेषु वा समुत्पन्ने कलहे तीक्ष्णैरुत्पादिते वा तीक्ष्णाः शस्त्रं पातयित्वा ब्रूयुः "एवं क्रियन्ते येअमुना कलहायन्तेः इति ॥ ०५.१.४३ ॥
पुराणाम् ग्रामाणाम् कुलानाम् वा दूष्याणाम् सीमा-क्षेत्र-खल-वेश्म-मर्यादासु द्रव्य-उपकरण-सस्य-वाहन-हिंसासु प्रेक्षा-कृत्या-औत्सवेषु वा समुत्पन्ने कलहे तीक्ष्णैः उत्पादिते वा तीक्ष्णाः शस्त्रम् पातयित्वा ब्रूयुः "एवम् क्रियन्ते कलहायन्तेः इति ॥ ०५।१।४३ ॥
purāṇām grāmāṇām kulānām vā dūṣyāṇām sīmā-kṣetra-khala-veśma-maryādāsu dravya-upakaraṇa-sasya-vāhana-hiṃsāsu prekṣā-kṛtyā-autsaveṣu vā samutpanne kalahe tīkṣṇaiḥ utpādite vā tīkṣṇāḥ śastram pātayitvā brūyuḥ "evam kriyante kalahāyanteḥ iti .. 05.1.43 ..
तेन दोषेणैतरे नियन्तव्याः ॥ ०५.१.४४ ॥
तेन दोषेण एतरे नियन्तव्याः ॥ ०५।१।४४ ॥
tena doṣeṇa etare niyantavyāḥ .. 05.1.44 ..
येषां वा दूष्याणां जात-मूलाः कलहास्तेषां क्षेत्र-खल-वेश्मान्यादीपयित्वा बन्धु-संबन्धिषु वाहनेषु वा तीक्ष्णाः शस्त्रं पातयित्वा तथैव ब्रूयुः "अमुना प्रयुक्ताः स्मः" इति ॥ ०५.१.४५ ॥
येषाम् वा दूष्याणाम् जात-मूलाः कलहाः तेषाम् क्षेत्र-खल-वेश्मानि आदीपयित्वा बन्धु-संबन्धिषु वाहनेषु वा तीक्ष्णाः शस्त्रम् पातयित्वा तथा एव ब्रूयुः "अमुना प्रयुक्ताः स्मः" इति ॥ ०५।१।४५ ॥
yeṣām vā dūṣyāṇām jāta-mūlāḥ kalahāḥ teṣām kṣetra-khala-veśmāni ādīpayitvā bandhu-saṃbandhiṣu vāhaneṣu vā tīkṣṇāḥ śastram pātayitvā tathā eva brūyuḥ "amunā prayuktāḥ smaḥ" iti .. 05.1.45 ..
तेन दोषेणैतरे नियन्तव्याः ॥ ०४.१.४६ ॥
तेन दोषेण एतरे नियन्तव्याः ॥ ०४।१।४६ ॥
tena doṣeṇa etare niyantavyāḥ .. 04.1.46 ..
दुर्ग-राष्ट्र-दूष्यान्वा सत्त्रिणः परस्परस्यऽवेशनिकान्कारयेयुः ॥ ०५.१.४७ ॥
दुर्ग-राष्ट्र-दूष्यान् वा सत्त्रिणः परस्परस्य अ वेशनिकान् कारयेयुः ॥ ०५।१।४७ ॥
durga-rāṣṭra-dūṣyān vā sattriṇaḥ parasparasya a veśanikān kārayeyuḥ .. 05.1.47 ..
तत्र रसदा रसं दद्युः ॥ ०५.१.४८ ॥
तत्र रसदाः रसम् दद्युः ॥ ०५।१।४८ ॥
tatra rasadāḥ rasam dadyuḥ .. 05.1.48 ..
तेन दोषेणैतरे नियन्तव्याः ॥ ०५.१.४९ ॥
तेन दोषेण एतरे नियन्तव्याः ॥ ०५।१।४९ ॥
tena doṣeṇa etare niyantavyāḥ .. 05.1.49 ..
भिक्षुकी वा दूष्य-राष्ट्र-मुख्यं "दूष्य-राष्ट्र-मुख्यस्य भार्या स्नुषा दुहिता वा कामयते" इत्युपजपेत् ॥ ०५.१.५० ॥
भिक्षुकी वा दूष्य-राष्ट्र-मुख्यम् "दूष्य-राष्ट्र-मुख्यस्य भार्या स्नुषा दुहिता वा कामयते" इति उपजपेत् ॥ ०५।१।५० ॥
bhikṣukī vā dūṣya-rāṣṭra-mukhyam "dūṣya-rāṣṭra-mukhyasya bhāryā snuṣā duhitā vā kāmayate" iti upajapet .. 05.1.50 ..
प्रतिपन्नस्यऽभरणं आदाय स्वामिने दर्शयेत्"असौ ते मुख्यो यौवन-उत्सिक्तो भार्यां स्नुषां दुहितरं वाअभिमन्यते" इति ॥ ०५.१.५१ ॥
प्रतिपन्नस्य अभरणम् आदाय स्वामिने दर्शयेत्"असौ ते मुख्यः यौवन-उत्सिक्तः भार्याम् स्नुषाम् दुहितरम् वा अभिमन्यते" इति ॥ ०५।१।५१ ॥
pratipannasya abharaṇam ādāya svāmine darśayet"asau te mukhyaḥ yauvana-utsiktaḥ bhāryām snuṣām duhitaram vā abhimanyate" iti .. 05.1.51 ..
तयोः कलहो रात्रौ इति समानं ॥ ०५.१.५२ ॥
तयोः कलहः रात्रौ इति समानम् ॥ ०५।१।५२ ॥
tayoḥ kalahaḥ rātrau iti samānam .. 05.1.52 ..
दूष्य-दण्ड-उपनतेषु तु युव-राजः सेना-पतिर्वा किंचिदपकृत्यापक्रान्तो विक्रमेत ॥ ०५.१.५३ ॥
दूष्य-दण्ड-उपनतेषु तु युव-राजः सेना-पतिः वा किंचिद् अपकृत्य अपक्रान्तः विक्रमेत ॥ ०५।१।५३ ॥
dūṣya-daṇḍa-upanateṣu tu yuva-rājaḥ senā-patiḥ vā kiṃcid apakṛtya apakrāntaḥ vikrameta .. 05.1.53 ..
ततो राजा दूष्य-दण्ड-उपनतानेव प्रेषयेत्फल्गु-बल-तीक्ष्ण-युक्तानिति समानाः सर्व एव योगाः ॥ ०५.१.५४ ॥
ततस् राजा दूष्य-दण्ड-उपनतान् एव प्रेषयेत् फल्गु-बल-तीक्ष्ण-युक्तान् इति समानाः सर्वे एव योगाः ॥ ०५।१।५४ ॥
tatas rājā dūṣya-daṇḍa-upanatān eva preṣayet phalgu-bala-tīkṣṇa-yuktān iti samānāḥ sarve eva yogāḥ .. 05.1.54 ..
तेषां च पुत्रेष्वनुक्षियत्सु यो निर्विकारः स पितृ-दायं लभेत ॥ ०५.१.५५ ॥
तेषाम् च पुत्रेषु अनुक्षियत्सु यः निर्विकारः स पितृ-दायम् लभेत ॥ ०५।१।५५ ॥
teṣām ca putreṣu anukṣiyatsu yaḥ nirvikāraḥ sa pitṛ-dāyam labheta .. 05.1.55 ..
एवं अस्य पुत्र-पौत्राननुवर्तते राज्यं अपास्त-पुरुष-दोषं ॥ ०५.१.५६ ॥
एवम् अस्य पुत्र-पौत्रान् अनुवर्तते राज्यम् अपास्त-पुरुष-दोषम् ॥ ०५।१।५६ ॥
evam asya putra-pautrān anuvartate rājyam apāsta-puruṣa-doṣam .. 05.1.56 ..
स्व-पक्षे पर-पक्षे वा तूष्णीं दण्डं प्रयोजयेत् । ॥ ०५.१.५७अ ब ॥
स्व-पक्षे पर-पक्षे वा तूष्णीम् दण्डम् प्रयोजयेत् । ॥ ०५।१।५७अ ब ॥
sva-pakṣe para-pakṣe vā tūṣṇīm daṇḍam prayojayet . .. 05.1.57a ba ..
आयत्यां च तदात्वे च क्षमावानविशङ्कितः ॥ ०५.१.५७च्द् ॥
आयत्याम् च तदात्वे च क्षमावान् अ विशङ्कितः ॥ ०५।१।५७च् ॥
āyatyām ca tadātve ca kṣamāvān a viśaṅkitaḥ .. 05.1.57c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In