| |
|

This overlay will guide you through the buttons:

कोशं अकोशः प्रत्युत्पन्न-अर्थ-कृच्छ्रः संगृह्णीयात् ॥ ०५.२.०१ ॥
कोशम् अकोशः प्रत्युत्पन्न-अर्थ-कृच्छ्रः संगृह्णीयात् ॥ ०५।२।०१ ॥
kośam akośaḥ pratyutpanna-artha-kṛcchraḥ saṃgṛhṇīyāt .. 05.2.01 ..
जन-पदं महान्तं अल्प-प्रमाणं वाअदेव-मातृकं प्रभूत-धान्यं धान्यस्यांशं तृतीयं चतुर्थं वा याचेत । यथा-सारं मध्यं अवरं वा ॥ ०५.२.०२ ॥
जन-पदम् महान्तम् अल्प-प्रमाणम् वाअदेव-मातृकम् प्रभूत-धान्यम् धान्यस्य अंशम् तृतीयम् चतुर्थम् वा याचेत । यथा सारम् मध्यम् अवरम् वा ॥ ०५।२।०२ ॥
jana-padam mahāntam alpa-pramāṇam vāadeva-mātṛkam prabhūta-dhānyam dhānyasya aṃśam tṛtīyam caturtham vā yāceta . yathā sāram madhyam avaram vā .. 05.2.02 ..
दुर्ग-सेतु-कर्म-वणिक्-पथ-शून्य-निवेश-खनि-द्रव्य-हस्ति-वन-कर्म-उपकारिणं प्रत्यन्तं अल्प-प्रमाणं वा न याचेत ॥ ०५.२.०३ ॥
दुर्ग-सेतु-कर्म-वणिज्-पथ-शून्य-निवेश-खनि-द्रव्य-हस्ति-वन-कर्म-उपकारिणम् प्रत्यन्तम् अल्प-प्रमाणम् वा न याचेत ॥ ०५।२।०३ ॥
durga-setu-karma-vaṇij-patha-śūnya-niveśa-khani-dravya-hasti-vana-karma-upakāriṇam pratyantam alpa-pramāṇam vā na yāceta .. 05.2.03 ..
धान्य-पशु-हिरण्य-आदि निविशमानाय दद्यात् ॥ ०५.२.०४ ॥
धान्य-पशु-हिरण्य-आदि निविशमानाय दद्यात् ॥ ०५।२।०४ ॥
dhānya-paśu-hiraṇya-ādi niviśamānāya dadyāt .. 05.2.04 ..
चतुर्थं अंशं धान्यानां बीज-भक्त-शुद्धं च हिरण्येन क्रीणीयात् ॥ ०५.२.०५ ॥
चतुर्थम् अंशम् धान्यानाम् बीज-भक्त-शुद्धम् च हिरण्येन क्रीणीयात् ॥ ०५।२।०५ ॥
caturtham aṃśam dhānyānām bīja-bhakta-śuddham ca hiraṇyena krīṇīyāt .. 05.2.05 ..
अरण्य-जातं श्रोत्रिय-स्वं च परिहरेत् ॥ ०५.२.०६ ॥
अरण्य-जातम् श्रोत्रिय-स्वम् च परिहरेत् ॥ ०५।२।०६ ॥
araṇya-jātam śrotriya-svam ca pariharet .. 05.2.06 ..
तदप्यनुग्रहेण क्रीणीयात् ॥ ०५.२.०७ ॥
तत् अपि अनुग्रहेण क्रीणीयात् ॥ ०५।२।०७ ॥
tat api anugraheṇa krīṇīyāt .. 05.2.07 ..
तस्याकरणे वा समाहर्तृ-पुरुषा ग्रीष्मे कर्षकाणां उद्वापं कारयेयुः ॥ ०५.२.०८ ॥
तस्य अ करणे वा समाहर्तृ-पुरुषाः ग्रीष्मे कर्षकाणाम् उद्वापम् कारयेयुः ॥ ०५।२।०८ ॥
tasya a karaṇe vā samāhartṛ-puruṣāḥ grīṣme karṣakāṇām udvāpam kārayeyuḥ .. 05.2.08 ..
प्रमाद-अवस्कन्नस्यात्ययं द्वि-गुणं उदाहरन्तो बीज-काले बीज-लेख्यं कुर्युः ॥ ०५.२.०९ ॥
प्रमाद-अवस्कन्नस्य अत्ययम् द्वि-गुणम् उदाहरन्तः बीज-काले बीज-लेख्यम् कुर्युः ॥ ०५।२।०९ ॥
pramāda-avaskannasya atyayam dvi-guṇam udāharantaḥ bīja-kāle bīja-lekhyam kuryuḥ .. 05.2.09 ..
निष्पन्ने हरित-पक्व-आदानं वारयेयुः । अन्यत्र शाक-कट-भङ्ग-मुष्टिभ्यां देव-पितृ-पूजा-दान-अर्थं गव-अर्थं वा ॥ ०५.२.१० ॥
निष्पन्ने हरित-पक्व-आदानम् वारयेयुः । अन्यत्र शाक-कट-भङ्ग-मुष्टिभ्याम् देव-पितृ-पूजा-दान-अर्थम् गव-अर्थम् वा ॥ ०५।२।१० ॥
niṣpanne harita-pakva-ādānam vārayeyuḥ . anyatra śāka-kaṭa-bhaṅga-muṣṭibhyām deva-pitṛ-pūjā-dāna-artham gava-artham vā .. 05.2.10 ..
भिक्षुक-ग्राम-भृतक-अर्थं च राशि-मूलं परिहरेयुः ॥ ०५.२.११ ॥
भिक्षुक-ग्राम-भृतक-अर्थम् च राशि-मूलम् परिहरेयुः ॥ ०५।२।११ ॥
bhikṣuka-grāma-bhṛtaka-artham ca rāśi-mūlam parihareyuḥ .. 05.2.11 ..
स्व-सस्य-अपहारिणः प्रतिपातोअष्ट-गुणः ॥ ०५.२.१२ ॥
स्व-सस्य-अपहारिणः प्रतिपातः अष्ट-गुणः ॥ ०५।२।१२ ॥
sva-sasya-apahāriṇaḥ pratipātaḥ aṣṭa-guṇaḥ .. 05.2.12 ..
पर-सस्य-अपहारिणः पञ्चाशद्-गुणः सीता-अत्ययः । स्व-वर्गस्य । बाह्यस्य तु वधः ॥ ०५.२.१३ ॥
पर-सस्य-अपहारिणः पञ्चाशत्-गुणः सीता-अत्ययः । स्व-वर्गस्य । बाह्यस्य तु वधः ॥ ०५।२।१३ ॥
para-sasya-apahāriṇaḥ pañcāśat-guṇaḥ sītā-atyayaḥ . sva-vargasya . bāhyasya tu vadhaḥ .. 05.2.13 ..
चतुर्थं अंशं धान्यानां षष्ठं वन्यानां तूल-लाक्षा-क्षौम-वल्क-कार्पास-रौम-कौशेय-कौषध-गन्ध-पुष्प-फल-शाक-पण्यानां काष्ठ-वेणु-मांस-वल्लूराणां च गृह्णीयुः । दन्त-अजिनस्यार्धं ॥ ०५.२.१४ ॥
चतुर्थम् अंशम् धान्यानाम् षष्ठम् वन्यानाम् तूल-लाक्षा-क्षौम-वल्क-कार्पास-रौम-कौशेय-कौषध-गन्ध-पुष्प-फल-शाक-पण्यानाम् काष्ठ-वेणु-मांस-वल्लूराणाम् च गृह्णीयुः । दन्त-अजिनस्य अर्धम् ॥ ०५।२।१४ ॥
caturtham aṃśam dhānyānām ṣaṣṭham vanyānām tūla-lākṣā-kṣauma-valka-kārpāsa-rauma-kauśeya-kauṣadha-gandha-puṣpa-phala-śāka-paṇyānām kāṣṭha-veṇu-māṃsa-vallūrāṇām ca gṛhṇīyuḥ . danta-ajinasya ardham .. 05.2.14 ..
तदनिसृष्टं विक्रीणानस्य पूर्वः साहस-दण्डः ॥ ०५.२.१५ ॥
तत् अनिसृष्टम् विक्रीणानस्य पूर्वः साहस-दण्डः ॥ ०५।२।१५ ॥
tat anisṛṣṭam vikrīṇānasya pūrvaḥ sāhasa-daṇḍaḥ .. 05.2.15 ..
इति कर्षकेषु प्रणयः ॥ ०५.२.१६ ॥
इति कर्षकेषु प्रणयः ॥ ०५।२।१६ ॥
iti karṣakeṣu praṇayaḥ .. 05.2.16 ..
सुवर्ण-रजत-वज्र-मणि-मुक्ता-प्रवाल-अश्व-हस्ति-पण्याः पञ्चाशत्-कराः ॥ ०५.२.१७ ॥
सुवर्ण-रजत-वज्र-मणि-मुक्ता-प्रवाल-अश्व-हस्ति-पण्याः पञ्चाशत्-कराः ॥ ०५।२।१७ ॥
suvarṇa-rajata-vajra-maṇi-muktā-pravāla-aśva-hasti-paṇyāḥ pañcāśat-karāḥ .. 05.2.17 ..
सूत्र-वस्त्र-ताम्र-वृत्त-कंस-गन्ध-भैषज्य-शीधु-पण्याश्चत्वारिंशत्-कराः ॥ ०५.२.१८ ॥
सूत्र-वस्त्र-ताम्र-वृत्त-कंस-गन्ध-भैषज्य-शीधु-पण्याः चत्वारिंशत्-कराः ॥ ०५।२।१८ ॥
sūtra-vastra-tāmra-vṛtta-kaṃsa-gandha-bhaiṣajya-śīdhu-paṇyāḥ catvāriṃśat-karāḥ .. 05.2.18 ..
धान्य-रस-लोह-पण्याः शकट-व्यवहारिणश्च त्रिंशत्-कराः ॥ ०५.२.१९ ॥
धान्य-रस-लोह-पण्याः शकट-व्यवहारिणः च त्रिंशत्-कराः ॥ ०५।२।१९ ॥
dhānya-rasa-loha-paṇyāḥ śakaṭa-vyavahāriṇaḥ ca triṃśat-karāḥ .. 05.2.19 ..
काच-व्यवहारिणो महा-कारवश्च विंशति-कराः ॥ ०५.२.२० ॥
काच-व्यवहारिणः महा-कारवः च विंशति-कराः ॥ ०५।२।२० ॥
kāca-vyavahāriṇaḥ mahā-kāravaḥ ca viṃśati-karāḥ .. 05.2.20 ..
क्षुद्र-कारवो बन्धकी-पोषकाश्च दश-कराः ॥ ०५.२.२१ ॥
क्षुद्र-कारवः बन्धकी-पोषकाः च दश-कराः ॥ ०५।२।२१ ॥
kṣudra-kāravaḥ bandhakī-poṣakāḥ ca daśa-karāḥ .. 05.2.21 ..
काष्ठ-वेणु-पाषाण-मृद्-भाण्ड-पक्व-अन्न-हरित-पण्याः पञ्च-कराः ॥ ०५.२.२२ ॥
काष्ठ-वेणु-पाषाण-मृद्-भाण्ड-पक्व-अन्न-हरित-पण्याः पञ्च-कराः ॥ ०५।२।२२ ॥
kāṣṭha-veṇu-pāṣāṇa-mṛd-bhāṇḍa-pakva-anna-harita-paṇyāḥ pañca-karāḥ .. 05.2.22 ..
कुशीलवा रूप-आजीवाश्च वेतन-अर्धं दद्युः ॥ ०५.२.२३ ॥
कुशीलवाः रूप-आजीवाः च वेतन-अर्धम् दद्युः ॥ ०५।२।२३ ॥
kuśīlavāḥ rūpa-ājīvāḥ ca vetana-ardham dadyuḥ .. 05.2.23 ..
हिरण्य-करं कर्मण्यानाहारयेयुः । न चएषां कंचिदपराधं परिहरेयुः ॥ ०५.२.२४ ॥
हिरण्य-करम् कर्मणि अन् आहारयेयुः । न च एषाम् कंचिद् अपराधम् परिहरेयुः ॥ ०५।२।२४ ॥
hiraṇya-karam karmaṇi an āhārayeyuḥ . na ca eṣām kaṃcid aparādham parihareyuḥ .. 05.2.24 ..
ते ह्यपरिगृहीतं अभिनीय विक्रीणीरन् ॥ ०५.२.२५ ॥
ते हि अ परिगृहीतम् अभिनीय विक्रीणीरन् ॥ ०५।२।२५ ॥
te hi a parigṛhītam abhinīya vikrīṇīran .. 05.2.25 ..
इति व्यवहारिषु प्रणयः ॥ ०५.२.२६ ॥
इति व्यवहारिषु प्रणयः ॥ ०५।२।२६ ॥
iti vyavahāriṣu praṇayaḥ .. 05.2.26 ..
कुक्कुट-सूकरं अर्धं दद्यात् । क्षुद्र-पशवः षड्-भागम् । गो-महिष-अश्वतर-खर-उष्ट्राश्च दश-भागं ॥ ०५.२.२७ ॥
कुक्कुट-सूकरम् अर्धम् दद्यात् । क्षुद्र-पशवः षष्-भागम् । गो-महिष-अश्वतर-खर-उष्ट्राः च दश-भागम् ॥ ०५।२।२७ ॥
kukkuṭa-sūkaram ardham dadyāt . kṣudra-paśavaḥ ṣaṣ-bhāgam . go-mahiṣa-aśvatara-khara-uṣṭrāḥ ca daśa-bhāgam .. 05.2.27 ..
बन्धकी-पोषका राज-प्रेष्याभिः परम-रूप-यौवनाभिः कोशं संहरेयुः ॥ ०५.२.२८ ॥
बन्धकी-पोषकाः राज-प्रेष्याभिः परम-रूप-यौवनाभिः कोशम् संहरेयुः ॥ ०५।२।२८ ॥
bandhakī-poṣakāḥ rāja-preṣyābhiḥ parama-rūpa-yauvanābhiḥ kośam saṃhareyuḥ .. 05.2.28 ..
इति योनि-पोषकेषु प्रणयः ॥ ०५.२.२९ ॥
इति योनि-पोषकेषु प्रणयः ॥ ०५।२।२९ ॥
iti yoni-poṣakeṣu praṇayaḥ .. 05.2.29 ..
सकृदेव न द्विः प्रयोज्यः ॥ ०५.२.३० ॥
सकृत् एव न द्विस् प्रयोज्यः ॥ ०५।२।३० ॥
sakṛt eva na dvis prayojyaḥ .. 05.2.30 ..
तस्याकरणे वा समाहर्ता कार्यं अपदिश्य पौर-जानपदान्भिक्षेत ॥ ०५.२.३१ ॥
तस्य अकरणे वा समाहर्ता कार्यम् अपदिश्य पौर-जानपदान् भिक्षेत ॥ ०५।२।३१ ॥
tasya akaraṇe vā samāhartā kāryam apadiśya paura-jānapadān bhikṣeta .. 05.2.31 ..
योग-पुरुषाश्चात्र पूर्वं अतिमात्रं दद्युः ॥ ०५.२.३२ ॥
योग-पुरुषाः च अत्र पूर्वम् अतिमात्रम् दद्युः ॥ ०५।२।३२ ॥
yoga-puruṣāḥ ca atra pūrvam atimātram dadyuḥ .. 05.2.32 ..
एतेन प्रदेशेन राजा पौर-जानपदान्भिक्षेत ॥ ०५.२.३३ ॥
एतेन प्रदेशेन राजा पौर-जानपदान् भिक्षेत ॥ ०५।२।३३ ॥
etena pradeśena rājā paura-jānapadān bhikṣeta .. 05.2.33 ..
कापटिकाश्चएनानल्पं प्रयच्छतः कुत्सयेयुः ॥ ०५.२.३४ ॥
कापटिकाः च एनान् अल्पम् प्रयच्छतः कुत्सयेयुः ॥ ०५।२।३४ ॥
kāpaṭikāḥ ca enān alpam prayacchataḥ kutsayeyuḥ .. 05.2.34 ..
सारतो वा हिरण्यं आढ्यान्याचेत । यथा-उपकारं वा । स्व-वशा वा यदुपहरेयुः ॥ ०५.२.३५ ॥
सारतः वा हिरण्यम् आढ्यान् याचेत । यथा उपकारम् वा । स्व-वशाः वा यत् उपहरेयुः ॥ ०५।२।३५ ॥
sārataḥ vā hiraṇyam āḍhyān yāceta . yathā upakāram vā . sva-vaśāḥ vā yat upahareyuḥ .. 05.2.35 ..
स्थानच्-छत्र-वेष्टन-विभूषाश्चएषां हिरण्येन प्रयच्छेत् ॥ ०५.२.३६ ॥
स्थानत्-छत्र-वेष्टन-विभूषाः च एषाम् हिरण्येन प्रयच्छेत् ॥ ०५।२।३६ ॥
sthānat-chatra-veṣṭana-vibhūṣāḥ ca eṣām hiraṇyena prayacchet .. 05.2.36 ..
पाषण्ड-संघ-द्रव्यं अश्रोत्रिय-उपभोग्यं देव-द्रव्यं वा कृत्य-कराः प्रेतस्य दग्ध-गृहस्य वा हस्ते न्यस्तं इत्युपहरेयुः ॥ ०५.२.३७ ॥
पाषण्ड-संघ-द्रव्यम् अश्रोत्रिय-उपभोग्यम् देव-द्रव्यम् वा कृत्य-कराः प्रेतस्य दग्ध-गृहस्य वा हस्ते न्यस्तम् इति उपहरेयुः ॥ ०५।२।३७ ॥
pāṣaṇḍa-saṃgha-dravyam aśrotriya-upabhogyam deva-dravyam vā kṛtya-karāḥ pretasya dagdha-gṛhasya vā haste nyastam iti upahareyuḥ .. 05.2.37 ..
देवता-अध्यक्षो दुर्ग-राष्ट्र-देवतानां यथा-स्वं एकस्थं कोशं कुर्यात् । तथैव चौपहरेत् ॥ ०५.२.३८ ॥
देवता-अध्यक्षः दुर्ग-राष्ट्र-देवतानाम् यथा स्वम् एकस्थम् कोशम् कुर्यात् । तथा एव च औपहरेत् ॥ ०५।२।३८ ॥
devatā-adhyakṣaḥ durga-rāṣṭra-devatānām yathā svam ekastham kośam kuryāt . tathā eva ca aupaharet .. 05.2.38 ..
दैवत-चैत्यं सिद्ध-पुण्य-स्थानं औपपादिकं वा रात्रावुत्थाप्य यात्रा-समाजाभ्यां आजीवेत् ॥ ०५.२.३९ ॥
दैवत-चैत्यम् सिद्ध-पुण्य-स्थानम् औपपादिकम् वा रात्रौ उत्थाप्य यात्रा-समाजाभ्याम् आजीवेत् ॥ ०५।२।३९ ॥
daivata-caityam siddha-puṇya-sthānam aupapādikam vā rātrau utthāpya yātrā-samājābhyām ājīvet .. 05.2.39 ..
चैत्य-उपवन-वृक्षेण वा देवता-अभिगमनं अनार्तव-पुष्प-फल-युक्तेन ख्यापयेत् ॥ ०५.२.४० ॥
चैत्य-उपवन-वृक्षेण वा देवता-अभिगमनम् अनार्तव-पुष्प-फल-युक्तेन ख्यापयेत् ॥ ०५।२।४० ॥
caitya-upavana-vṛkṣeṇa vā devatā-abhigamanam anārtava-puṣpa-phala-yuktena khyāpayet .. 05.2.40 ..
मनुष्य-करं वा वृक्षे रक्षो-भयं प्ररूपयित्वा सिद्ध-व्यञ्जनाः पौर-जानपदानां हिरण्येन प्रतिकुर्युः ॥ ०५.२.४१ ॥
मनुष्य-करम् वा वृक्षे रक्षः-भयम् प्ररूपयित्वा सिद्ध-व्यञ्जनाः पौर-जानपदानाम् हिरण्येन प्रतिकुर्युः ॥ ०५।२।४१ ॥
manuṣya-karam vā vṛkṣe rakṣaḥ-bhayam prarūpayitvā siddha-vyañjanāḥ paura-jānapadānām hiraṇyena pratikuryuḥ .. 05.2.41 ..
सुरुङ्गा-युक्ते वा कूपे नागं अनियत-शिरस्कं हिरण्य-उपहारेण दर्शयेत् ॥ ०५.२.४२ ॥
सुरुङ्गा-युक्ते वा कूपे नागम् अनियत-शिरस्कम् हिरण्य-उपहारेण दर्शयेत् ॥ ०५।२।४२ ॥
suruṅgā-yukte vā kūpe nāgam aniyata-śiraskam hiraṇya-upahāreṇa darśayet .. 05.2.42 ..
नाग-प्रतिमायां अन्तश्-छन्नायां चैत्यच्-छिद्रे वल्मीकच्-छिद्रे वा सर्प-दर्शनं आहारेण प्रतिबद्ध-संज्ञं कृत्वा श्रद्दधानानां दर्शयेत् ॥ ०५.२.४३ ॥
नाग-प्रतिमायाम् अन्तर् छन्नायाम् चैत्य-छिद्रे वल्मीक-छिद्रे वा सर्प-दर्शनम् आहारेण प्रतिबद्ध-संज्ञम् कृत्वा श्रद्दधानानाम् दर्शयेत् ॥ ०५।२।४३ ॥
nāga-pratimāyām antar channāyām caitya-chidre valmīka-chidre vā sarpa-darśanam āhāreṇa pratibaddha-saṃjñam kṛtvā śraddadhānānām darśayet .. 05.2.43 ..
अश्रद्दधानानां आचमन-प्रोक्षणेषु रसं उपचार्य देवता-अभिशापं ब्रूयात् । अभित्यक्तं वा दंशयित्वा ॥ ०५.२.४४ ॥
अ श्रद्दधानानाम् आचमन-प्रोक्षणेषु रसम् उपचार्य देवता-अभिशापम् ब्रूयात् । अभित्यक्तम् वा दंशयित्वा ॥ ०५।२।४४ ॥
a śraddadhānānām ācamana-prokṣaṇeṣu rasam upacārya devatā-abhiśāpam brūyāt . abhityaktam vā daṃśayitvā .. 05.2.44 ..
योग-दर्शन-प्रतीकारेण वा कोश-अभिसंहरणं कुर्यात् ॥ ०५.२.४५ ॥
योग-दर्शन-प्रतीकारेण वा कोश-अभिसंहरणम् कुर्यात् ॥ ०५।२।४५ ॥
yoga-darśana-pratīkāreṇa vā kośa-abhisaṃharaṇam kuryāt .. 05.2.45 ..
वैदेहक-व्यञ्जनो वा प्रभूत-पण्य-अन्तेवासी व्यवहरेत ॥ ०५.२.४६ ॥
वैदेहक-व्यञ्जनः वा प्रभूत-पण्य-अन्तेवासी व्यवहरेत ॥ ०५।२।४६ ॥
vaidehaka-vyañjanaḥ vā prabhūta-paṇya-antevāsī vyavahareta .. 05.2.46 ..
स यदा पण्य-मूल्ये निक्षेप-प्रयोगैरुपचितः स्यात्तदाएनं रात्रौ मोषयेत् ॥ ०५.२.४७ ॥
स यदा पण्य-मूल्ये निक्षेप-प्रयोगैः उपचितः स्यात् तदा एनम् रात्रौ मोषयेत् ॥ ०५।२।४७ ॥
sa yadā paṇya-mūlye nikṣepa-prayogaiḥ upacitaḥ syāt tadā enam rātrau moṣayet .. 05.2.47 ..
एतेन रूप-दर्शकः सुवर्ण-कारश्च व्याख्यातौ ॥ ०५.२.४८ ॥
एतेन रूप-दर्शकः सुवर्ण-कारः च व्याख्यातौ ॥ ०५।२।४८ ॥
etena rūpa-darśakaḥ suvarṇa-kāraḥ ca vyākhyātau .. 05.2.48 ..
वैदेहक-व्यञ्जनो वा प्रख्यात-व्यवहारः प्रहवण-निमित्तं याचितकं अवक्रीतकं वा रूप्य-सुवर्ण-भाण्डं अनेकं गृह्णीयात् ॥ ०५.२.४९ ॥
वैदेहक-व्यञ्जनः वा प्रख्यात-व्यवहारः प्रहवण-निमित्तम् याचितकम् अवक्रीतकम् वा रूप्य-सुवर्ण-भाण्डम् अनेकम् गृह्णीयात् ॥ ०५।२।४९ ॥
vaidehaka-vyañjanaḥ vā prakhyāta-vyavahāraḥ prahavaṇa-nimittam yācitakam avakrītakam vā rūpya-suvarṇa-bhāṇḍam anekam gṛhṇīyāt .. 05.2.49 ..
समाजे वा सर्व-पण्य-संदोहेन प्रभूतं हिरण्य-सुवर्णं ऋणं गृह्णीयात् । प्रतिभाण्ड-मूल्यं च ॥ ०५.२.५० ॥
समाजे वा सर्व-पण्य-संदोहेन प्रभूतम् हिरण्य-सुवर्णम् ऋणम् गृह्णीयात् । प्रतिभाण्ड-मूल्यम् च ॥ ०५।२।५० ॥
samāje vā sarva-paṇya-saṃdohena prabhūtam hiraṇya-suvarṇam ṛṇam gṛhṇīyāt . pratibhāṇḍa-mūlyam ca .. 05.2.50 ..
तदुभयं रात्रौ मोषयेत् ॥ ०५.२.५१ ॥
तत् उभयम् रात्रौ मोषयेत् ॥ ०५।२।५१ ॥
tat ubhayam rātrau moṣayet .. 05.2.51 ..
साध्वी-व्यञ्जनाभिः स्त्रीभिर्दूष्यानुन्मादयित्वा तासां एव वेश्मस्वभिगृह्य सर्व-स्वान्याहरेयुः ॥ ०५.२.५२ ॥
साध्वी-व्यञ्जनाभिः स्त्रीभिः दूष्यान् उन्मादयित्वा तासाम् एव वेश्मसु अभिगृह्य सर्व-स्वानि आहरेयुः ॥ ०५।२।५२ ॥
sādhvī-vyañjanābhiḥ strībhiḥ dūṣyān unmādayitvā tāsām eva veśmasu abhigṛhya sarva-svāni āhareyuḥ .. 05.2.52 ..
दूष्य-कुल्यानां वा विवादे प्रत्युत्पन्ने रसदाः प्रणिहिता रसं दद्युः ॥ ०५.२.५३ ॥
दूष्य-कुल्यानाम् वा विवादे प्रत्युत्पन्ने रसदाः प्रणिहिताः रसम् दद्युः ॥ ०५।२।५३ ॥
dūṣya-kulyānām vā vivāde pratyutpanne rasadāḥ praṇihitāḥ rasam dadyuḥ .. 05.2.53 ..
तेन दोषेणैतरे पर्यादातव्याः ॥ ०५.२.५४ ॥
तेन दोषेण एतरे पर्यादातव्याः ॥ ०५।२।५४ ॥
tena doṣeṇa etare paryādātavyāḥ .. 05.2.54 ..
दूष्यं अभित्यक्तो वा श्रद्धेय-अपदेशं पण्यं हिरण्य-निक्षेपं ऋण-प्रयोगं दायं वा याचेत ॥ ०५.२.५५ ॥
दूष्यम् अभित्यक्तः वा श्रद्धेय-अपदेशम् पण्यम् हिरण्य-निक्षेपम् ऋण-प्रयोगम् दायम् वा याचेत ॥ ०५।२।५५ ॥
dūṣyam abhityaktaḥ vā śraddheya-apadeśam paṇyam hiraṇya-nikṣepam ṛṇa-prayogam dāyam vā yāceta .. 05.2.55 ..
दास-शब्देन वा दूष्यं आलम्बेत । भार्यां अस्य स्नुषां दुहितरं वा दासी-शब्देन भार्या-शब्देन वा ॥ ०५.२.५६ ॥
दास-शब्देन वा दूष्यम् आलम्बेत । भार्याम् अस्य स्नुषाम् दुहितरम् वा दासी-शब्देन भार्या-शब्देन वा ॥ ०५।२।५६ ॥
dāsa-śabdena vā dūṣyam ālambeta . bhāryām asya snuṣām duhitaram vā dāsī-śabdena bhāryā-śabdena vā .. 05.2.56 ..
तं दूष्य-गृह-प्रतिद्वारि रात्रावुपशयानं अन्यत्र वा वसन्तं तीक्ष्णो हत्वा ब्रूयात्"हतोअयं अर्थ-कामुकः" इति ॥ ०५.२.५७ ॥
तम् दूष्य-गृह-प्रतिद्वारि रात्रौ उपशयानम् अन्यत्र वा वसन्तम् तीक्ष्णः हत्वा ब्रूयात्"हतः अयम् अर्थ-कामुकः" इति ॥ ०५।२।५७ ॥
tam dūṣya-gṛha-pratidvāri rātrau upaśayānam anyatra vā vasantam tīkṣṇaḥ hatvā brūyāt"hataḥ ayam artha-kāmukaḥ" iti .. 05.2.57 ..
तेन दोषेणैतरे पर्यादातव्याः ॥ ०५.२.५८ ॥
तेन दोषेण एतरे पर्यादातव्याः ॥ ०५।२।५८ ॥
tena doṣeṇa etare paryādātavyāḥ .. 05.2.58 ..
सिद्ध-व्यञ्जनो वा दूष्यं जम्भक-विद्याभिः प्रलोभयित्वा ब्रूयात्"अक्षय-हिरण्यं राज-द्वारिकं स्त्री-हृदयं अरि-व्याधि-करं आयुष्यं पुत्रीयं वा कर्म जानामि" इति ॥ ०५.२.५९ ॥
सिद्ध-व्यञ्जनः वा दूष्यम् जम्भक-विद्याभिः प्रलोभयित्वा ब्रूयात्"अक्षय-हिरण्यम् राज-द्वारिकम् स्त्री-हृदयम् अरि-व्याधि-करम् आयुष्यम् पुत्रीयम् वा कर्म जानामि" इति ॥ ०५।२।५९ ॥
siddha-vyañjanaḥ vā dūṣyam jambhaka-vidyābhiḥ pralobhayitvā brūyāt"akṣaya-hiraṇyam rāja-dvārikam strī-hṛdayam ari-vyādhi-karam āyuṣyam putrīyam vā karma jānāmi" iti .. 05.2.59 ..
प्रतिपन्नं चैत्य-स्थाने रात्रौ प्रभूत-सुरा-मांस-गन्धं उपहारं कारयेत् ॥ ०५.२.६० ॥
प्रतिपन्नम् चैत्य-स्थाने रात्रौ प्रभूत-सुरा-मांस-गन्धम् उपहारम् कारयेत् ॥ ०५।२।६० ॥
pratipannam caitya-sthāne rātrau prabhūta-surā-māṃsa-gandham upahāram kārayet .. 05.2.60 ..
एक-रूपं चात्र हिरण्यं पूर्व-निखातं प्रेत-अङ्गं प्रेत-शिशुर्वा यत्र निहितः स्यात् । ततो हिरण्यं अस्य दर्शयेद्"अत्यल्पम्" इति च ब्रूयात् ॥ ०५.२.६१ ॥
एक-रूपम् च अत्र हिरण्यम् पूर्व-निखातम् प्रेत-अङ्गम् प्रेत-शिशुः वा यत्र निहितः स्यात् । ततस् हिरण्यम् अस्य दर्शयेत्"अति अल्पम्" इति च ब्रूयात् ॥ ०५।२।६१ ॥
eka-rūpam ca atra hiraṇyam pūrva-nikhātam preta-aṅgam preta-śiśuḥ vā yatra nihitaḥ syāt . tatas hiraṇyam asya darśayet"ati alpam" iti ca brūyāt .. 05.2.61 ..
प्रभूत-हिरण्य-हेतोः पुनरुपहारः कर्तव्य इति स्वयं एवएतेन हिरण्येन श्वो-भूते प्रभूतं औपहारिकं क्रीणीहि इति ॥ ०५.२.६२ ॥
प्रभूत-हिरण्य-हेतोः पुनर् उपहारः कर्तव्यः इति स्वयम् एव एतेन हिरण्येन श्वोभूते प्रभूतम् औपहारिकम् क्रीणीहि इति ॥ ०५।२।६२ ॥
prabhūta-hiraṇya-hetoḥ punar upahāraḥ kartavyaḥ iti svayam eva etena hiraṇyena śvobhūte prabhūtam aupahārikam krīṇīhi iti .. 05.2.62 ..
स तेन हिरण्येनाउपहारिक-क्रये गृह्येत ॥ ०५.२.६३ ॥
स तेन हिरण्येन आउपहारिक-क्रये गृह्येत ॥ ०५।२।६३ ॥
sa tena hiraṇyena āupahārika-kraye gṛhyeta .. 05.2.63 ..
मातृ-व्यञ्जनया वा "पुत्रो मे त्वया हतः" इत्यवकुपिता स्यात् ॥ ०५.२.६४ ॥
मातृ-व्यञ्जनया वा "पुत्रः मे त्वया हतः" इति अवकुपिता स्यात् ॥ ०५।२।६४ ॥
mātṛ-vyañjanayā vā "putraḥ me tvayā hataḥ" iti avakupitā syāt .. 05.2.64 ..
संसिद्धं एवास्य रात्रि-यागे वन-यागे वन-क्रीडायां वा प्रवृत्तायां तीक्ष्णा विशस्याभित्यक्तं अतिनयेयुः ॥ ०५.२.६५ ॥
संसिद्धम् एव अस्य रात्रि-यागे वन-यागे वन-क्रीडायाम् वा प्रवृत्तायाम् तीक्ष्णाः विशस्य अभित्यक्तम् अतिनयेयुः ॥ ०५।२।६५ ॥
saṃsiddham eva asya rātri-yāge vana-yāge vana-krīḍāyām vā pravṛttāyām tīkṣṇāḥ viśasya abhityaktam atinayeyuḥ .. 05.2.65 ..
दूष्यस्य वा भृतक-व्यञ्जनो वेतन-हिरण्ये कूट-रूपं प्रक्षिप्य प्ररूपयेत् ॥ ०५.२.६६ ॥
दूष्यस्य वा भृतक-व्यञ्जनः वेतन-हिरण्ये कूट-रूपम् प्रक्षिप्य प्ररूपयेत् ॥ ०५।२।६६ ॥
dūṣyasya vā bhṛtaka-vyañjanaḥ vetana-hiraṇye kūṭa-rūpam prakṣipya prarūpayet .. 05.2.66 ..
कर्म-कर-व्यञ्जनो वा गृहे कर्म कुर्वाणः स्तेन-कूट-रूप-कारक-उपकरणं उपनिदध्यात् । चिकित्सक-व्यञ्जनो वा गरं अगद-अपदेशेन ॥ ०५.२.६७ ॥
कर्म-कर-व्यञ्जनः वा गृहे कर्म कुर्वाणः स्तेन-कूट-रूप-कारक-उपकरणम् उपनिदध्यात् । चिकित्सक-व्यञ्जनः वा गरम् अगद-अपदेशेन ॥ ०५।२।६७ ॥
karma-kara-vyañjanaḥ vā gṛhe karma kurvāṇaḥ stena-kūṭa-rūpa-kāraka-upakaraṇam upanidadhyāt . cikitsaka-vyañjanaḥ vā garam agada-apadeśena .. 05.2.67 ..
प्रत्यासन्नो वा दूष्यस्य सत्त्री प्रणिहितं अभिषेक-भाण्डं अमित्र-शासनं च कापटिक-मुखेनऽचक्षीत । कारणं च ब्रूयात् ॥ ०५.२.६८ ॥
प्रत्यासन्नः वा दूष्यस्य सत्त्री प्रणिहितम् अभिषेक-भाण्डम् अमित्र-शासनम् च कापटिक-मुखेन आचक्षीत । कारणम् च ब्रूयात् ॥ ०५।२।६८ ॥
pratyāsannaḥ vā dūṣyasya sattrī praṇihitam abhiṣeka-bhāṇḍam amitra-śāsanam ca kāpaṭika-mukhena ācakṣīta . kāraṇam ca brūyāt .. 05.2.68 ..
एवं दूष्येष्वधार्मिकेषु च वर्तेत । नैतरेषु ॥ ०५.२.६९ ॥
एवम् दूष्येषु अधार्मिकेषु च वर्तेत । न एतरेषु ॥ ०५।२।६९ ॥
evam dūṣyeṣu adhārmikeṣu ca varteta . na etareṣu .. 05.2.69 ..
पक्वं पक्वं इवऽरामात्फलं राज्यादवाप्नुयात् । ॥ ०५.२.७०अ ब ॥
पक्वम् पक्वम् इव अ रामात् फलम् राज्यात् अवाप्नुयात् । ॥ ०५।२।७०अ ब ॥
pakvam pakvam iva a rāmāt phalam rājyāt avāpnuyāt . .. 05.2.70a ba ..
आत्मच्-छेद-भयादामं वर्जयेत्कोप-कारकं ॥ ०५.२.७०च्द् ॥
आत्म-छेद-भयात् आमम् वर्जयेत् कोप-कारकम् ॥ ०५।२।७०च् ॥
ātma-cheda-bhayāt āmam varjayet kopa-kārakam .. 05.2.70c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In