| |
|

This overlay will guide you through the buttons:

दुर्ग-जन-पद-शक्त्या भृत्य-कर्म समुदय-पादेन स्थापयेत् । कार्य-साधन-सहेन वा भृत्य-लाभेन ॥ ०५.३.०१ ॥
दुर्ग-जन-पद-शक्त्या भृत्य-कर्म समुदय-पादेन स्थापयेत् । कार्य-साधन-सहेन वा भृत्य-लाभेन ॥ ०५।३।०१ ॥
durga-jana-pada-śaktyā bhṛtya-karma samudaya-pādena sthāpayet . kārya-sādhana-sahena vā bhṛtya-lābhena .. 05.3.01 ..
शरीरं अवेक्षेत । न धर्म-अर्थौ पीडयेत् ॥ ०५.३.०२ ॥
शरीरम् अवेक्षेत । न धर्म-अर्थौ पीडयेत् ॥ ०५।३।०२ ॥
śarīram avekṣeta . na dharma-arthau pīḍayet .. 05.3.02 ..
ऋत्विग्-आचार्य-मन्त्रि-पुरोहित-सेना-पति-युव-राज-राज-मातृ-राज-महिष्योअष्ट-चत्वारिंशत्-साहस्राः ॥ ०५.३.०३ ॥
ऋत्विज्-आचार्य-मन्त्रि-पुरोहित-सेना-पति-युव-राज-राज-मातृ-राज-महिष्यः अष्ट-चत्वारिंशत्-साहस्राः ॥ ०५।३।०३ ॥
ṛtvij-ācārya-mantri-purohita-senā-pati-yuva-rāja-rāja-mātṛ-rāja-mahiṣyaḥ aṣṭa-catvāriṃśat-sāhasrāḥ .. 05.3.03 ..
एतावता भरणेनानास्पद्यत्वं अकोपकं चएषां भवति ॥ ०५.३.०४ ॥
एतावता भरणेन अनास्पद्य-त्वम् अकोपकम् च एषाम् भवति ॥ ०५।३।०४ ॥
etāvatā bharaṇena anāspadya-tvam akopakam ca eṣām bhavati .. 05.3.04 ..
दौवारिक-अन्तर्-वंशिक-प्रशास्तृ-समाहर्तृ-संनिधातारश्चतुर्-विंशति-साहस्राः ॥ ०५.३.०५ ॥
दौवारिक-अन्तर् वंशिक-प्रशास्तृ-समाहर्तृ-संनिधातारः चतुर्-विंशति-साहस्राः ॥ ०५।३।०५ ॥
dauvārika-antar vaṃśika-praśāstṛ-samāhartṛ-saṃnidhātāraḥ catur-viṃśati-sāhasrāḥ .. 05.3.05 ..
एतावता कर्मण्या भवन्ति ॥ ०५.३.०६ ॥
एतावता कर्मण्याः भवन्ति ॥ ०५।३।०६ ॥
etāvatā karmaṇyāḥ bhavanti .. 05.3.06 ..
कुमार-कुमार-मातृ-नायक-पौर-व्यावहारिक-कार्मान्तिक-मन्त्रि-परिषद्-राष्ट्र-अन्त-पालाश्च द्वादश-साहस्राः ॥ ०५.३.०७ ॥
कुमार-कुमार-मातृ-नायक-पौर-व्यावहारिक-कार्मान्तिक-मन्त्रि-परिषद्-राष्ट्र-अन्त-पालाः च द्वादश-साहस्राः ॥ ०५।३।०७ ॥
kumāra-kumāra-mātṛ-nāyaka-paura-vyāvahārika-kārmāntika-mantri-pariṣad-rāṣṭra-anta-pālāḥ ca dvādaśa-sāhasrāḥ .. 05.3.07 ..
स्वामि-परिबन्ध-बल-सहाया ह्येतावता भवन्ति ॥ ०५.३.०८ ॥
स्वामि-परिबन्ध-बल-सहायाः हि एतावता भवन्ति ॥ ०५।३।०८ ॥
svāmi-paribandha-bala-sahāyāḥ hi etāvatā bhavanti .. 05.3.08 ..
श्रेणी-मुख्या हस्त्य्-अश्व-रथ-मुख्याः प्रदेष्टारश्चाष्ट-साहस्राः ॥ ०५.३.०९ ॥
श्रेणी-मुख्याः हस्ति-अश्व-रथ-मुख्याः प्रदेष्टारः च अष्ट-साहस्राः ॥ ०५।३।०९ ॥
śreṇī-mukhyāḥ hasti-aśva-ratha-mukhyāḥ pradeṣṭāraḥ ca aṣṭa-sāhasrāḥ .. 05.3.09 ..
स्व-वर्ग-अनुकर्षिणो ह्येतावता भवन्ति ॥ ०५.३.१० ॥
स्व-वर्ग-अनुकर्षिणः हि एतावता भवन्ति ॥ ०५।३।१० ॥
sva-varga-anukarṣiṇaḥ hi etāvatā bhavanti .. 05.3.10 ..
पत्त्य्-अश्व-रथ-हस्त्य्-अध्यक्षा द्रव्य-हस्ति-वन-पालाश्च चतुः-साहस्राः ॥ ०५.३.११ ॥
पत्ति-अश्व-रथ-हस्ति-अध्यक्षाः द्रव्य-हस्ति-वन-पालाः च चतुर्-साहस्राः ॥ ०५।३।११ ॥
patti-aśva-ratha-hasti-adhyakṣāḥ dravya-hasti-vana-pālāḥ ca catur-sāhasrāḥ .. 05.3.11 ..
रथिक-अनीकस्थ-चिकित्सक-अश्व-दमक-वर्धकयो योनि-पोषकाश्च द्वि-साहस्राः ॥ ०५.३.१२ ॥
रथिक-अनीकस्थ-चिकित्सक-अश्व-दमक-वर्धकयः योनि-पोषकाः च द्वि-साहस्राः ॥ ०५।३।१२ ॥
rathika-anīkastha-cikitsaka-aśva-damaka-vardhakayaḥ yoni-poṣakāḥ ca dvi-sāhasrāḥ .. 05.3.12 ..
कार्तान्तिक-नैमित्तिक-मौहूर्तिक-पौराणिक-सूत-मागधाः पुरोहित-पुरुषाः सर्व-अध्यक्षाश्च साहस्राः ॥ ०५.३.१३ ॥
कार्तान्तिक-नैमित्तिक-मौहूर्तिक-पौराणिक-सूत-मागधाः पुरोहित-पुरुषाः सर्व-अध्यक्षाः च साहस्राः ॥ ०५।३।१३ ॥
kārtāntika-naimittika-mauhūrtika-paurāṇika-sūta-māgadhāḥ purohita-puruṣāḥ sarva-adhyakṣāḥ ca sāhasrāḥ .. 05.3.13 ..
शिल्पवन्तः पादाताः संख्यायक-लेखक-आदि-वर्गश्च पञ्च-शताः ॥ ०५.३.१४ ॥
शिल्पवन्तः पादाताः संख्यायक-लेखक-आदि-वर्गः च पञ्च-शताः ॥ ०५।३।१४ ॥
śilpavantaḥ pādātāḥ saṃkhyāyaka-lekhaka-ādi-vargaḥ ca pañca-śatāḥ .. 05.3.14 ..
कुशीलवास्त्वर्ध-तृतीय-शताः । द्वि-गुण-वेतनाश्चएषां तूर्य-कराः ॥ ०५.३.१५ ॥
कुशीलवास्तु तु अर्ध-तृतीय-शताः । द्वि-गुण-वेतनाः च एषाम् तूर्य-कराः ॥ ०५।३।१५ ॥
kuśīlavāstu tu ardha-tṛtīya-śatāḥ . dvi-guṇa-vetanāḥ ca eṣām tūrya-karāḥ .. 05.3.15 ..
कारु-शिल्पिनो विंशति-शतिकाः ॥ ०५.३.१६ ॥
कारु-शिल्पिनः विंशति-शतिकाः ॥ ०५।३।१६ ॥
kāru-śilpinaḥ viṃśati-śatikāḥ .. 05.3.16 ..
चतुष्पद-द्विपद-परिचारक-पारिकर्मिक-औपस्थायिक-पालक-विष्टि-बन्धकाः षष्टि-वेतनाः । आर्य-युक्त-आरोहक-माणवक-शैल-खनकाः सर्व-उपस्थायिनश्च ॥ ०५.३.१७ ॥
चतुष्पद-द्विपद-परिचारक-पारिकर्मिक-औपस्थायिक-पालक-विष्टि-बन्धकाः षष्टि-वेतनाः । आर्य-युक्त-आरोहक-माणवक-शैल-खनकाः सर्व-उपस्थायिनः च ॥ ०५।३।१७ ॥
catuṣpada-dvipada-paricāraka-pārikarmika-aupasthāyika-pālaka-viṣṭi-bandhakāḥ ṣaṣṭi-vetanāḥ . ārya-yukta-ārohaka-māṇavaka-śaila-khanakāḥ sarva-upasthāyinaḥ ca .. 05.3.17 ..
आचार्या विद्यावन्तश्च पूजा-वेतनानि यथा-अर्हं लभेरन्पञ्च-शत-अवरं सहस्र-परं ॥ ०५.३.१८ ॥
आचार्याः विद्यावन्तः च पूजा-वेतनानि यथा अर्हम् लभेरन् पञ्च-शत-अवरम् सहस्र-परम् ॥ ०५।३।१८ ॥
ācāryāḥ vidyāvantaḥ ca pūjā-vetanāni yathā arham labheran pañca-śata-avaram sahasra-param .. 05.3.18 ..
दश-पणिको योजने दूतो मध्यमः । दश-उत्तरे द्वि-गुण-वेतन आ-योजन-शतादिति ॥ ०५.३.१९ ॥
दश-पणिकः योजने दूतः मध्यमः । दश-उत्तरे द्वि-गुण-वेतने आ योजन-शतात् इति ॥ ०५।३।१९ ॥
daśa-paṇikaḥ yojane dūtaḥ madhyamaḥ . daśa-uttare dvi-guṇa-vetane ā yojana-śatāt iti .. 05.3.19 ..
समान-विद्येभ्यस्त्रि-गुण-वेतनो राजा राज-सूय-आदिषु क्रतुषु ॥ ०५.३.२० ॥
समान-विद्येभ्यः त्रि-गुण-वेतनः राजा राज-सूय-आदिषु क्रतुषु ॥ ०५।३।२० ॥
samāna-vidyebhyaḥ tri-guṇa-vetanaḥ rājā rāja-sūya-ādiṣu kratuṣu .. 05.3.20 ..
राज्ञः सारथिः साहस्रः ॥ ०५.३.२१ ॥
राज्ञः सारथिः साहस्रः ॥ ०५।३।२१ ॥
rājñaḥ sārathiḥ sāhasraḥ .. 05.3.21 ..
कापटिक-उदास्थित-गृह-पतिक-वैदेहक-तापस-व्यञ्जनाः साहस्राः ॥ ०५.३.२२ ॥
कापटिक-उदास्थित-गृह-पतिक-वैदेहक-तापस-व्यञ्जनाः साहस्राः ॥ ०५।३।२२ ॥
kāpaṭika-udāsthita-gṛha-patika-vaidehaka-tāpasa-vyañjanāḥ sāhasrāḥ .. 05.3.22 ..
ग्राम-भृतक-सत्त्रि-तीक्ष्ण-रसद-भिक्षुक्यः पञ्च-शताः ॥ ०५.३.२३ ॥
ग्राम-भृतक-सत्त्रि-तीक्ष्ण-रसद-भिक्षुक्यः पञ्च-शताः ॥ ०५।३।२३ ॥
grāma-bhṛtaka-sattri-tīkṣṇa-rasada-bhikṣukyaḥ pañca-śatāḥ .. 05.3.23 ..
चार-संचारिणोअर्ध-तृतीय-शताः । प्रयास-वृद्ध-वेतना वा ॥ ०५.३.२४ ॥
चार-संचारिणः अर्ध-तृतीय-शताः । प्रयास-वृद्ध-वेतना वा ॥ ०५।३।२४ ॥
cāra-saṃcāriṇaḥ ardha-tṛtīya-śatāḥ . prayāsa-vṛddha-vetanā vā .. 05.3.24 ..
शत-वर्ग-सहस्र-वर्गाणां अध्यक्षा भक्त-वेतन-लाभं आदेशं विक्षेपं च कुर्युः ॥ ०५.३.२५ ॥
शत-वर्ग-सहस्र-वर्गाणाम् अध्यक्षाः भक्त-वेतन-लाभम् आदेशम् विक्षेपम् च कुर्युः ॥ ०५।३।२५ ॥
śata-varga-sahasra-vargāṇām adhyakṣāḥ bhakta-vetana-lābham ādeśam vikṣepam ca kuryuḥ .. 05.3.25 ..
अविक्षेपो राज-परिग्रह-दुर्ग-राष्ट्र-रक्ष-अवेक्षणेषु च ॥ ०५.३.२६ ॥
अविक्षेपः राज-परिग्रह-दुर्ग-राष्ट्र-रक्ष-अवेक्षणेषु च ॥ ०५।३।२६ ॥
avikṣepaḥ rāja-parigraha-durga-rāṣṭra-rakṣa-avekṣaṇeṣu ca .. 05.3.26 ..
नित्य-मुख्याः स्युरनेक-मुख्याश्च ॥ ०५.३.२७ ॥
नित्य-मुख्याः स्युः अनेक-मुख्याः च ॥ ०५।३।२७ ॥
nitya-mukhyāḥ syuḥ aneka-mukhyāḥ ca .. 05.3.27 ..
कर्मसु मृतानां पुत्र-दारा भक्त-वेतनं लभेरन् ॥ ०५.३.२८ ॥
कर्मसु मृतानाम् पुत्र-दाराः भक्त-वेतनम् लभेरन् ॥ ०५।३।२८ ॥
karmasu mṛtānām putra-dārāḥ bhakta-vetanam labheran .. 05.3.28 ..
बाल-वृद्ध-व्याधिताश्चएषां अनुग्राह्याः ॥ ०५.३.२९ ॥
बाल-वृद्ध-व्याधिताः च एषाम् अनुग्राह्याः ॥ ०५।३।२९ ॥
bāla-vṛddha-vyādhitāḥ ca eṣām anugrāhyāḥ .. 05.3.29 ..
प्रेत-व्याधित-सूतिका-कृत्येषु चएषां अर्थ-मान-कर्म कुर्यात् ॥ ०५.३.३० ॥
प्रेत-व्याधित-सूतिका-कृत्येषु चएषाम् अर्थ-मान-कर्म कुर्यात् ॥ ०५।३।३० ॥
preta-vyādhita-sūtikā-kṛtyeṣu caeṣām artha-māna-karma kuryāt .. 05.3.30 ..
अल्प-कोशः कुप्य-पशु-क्षेत्राणि दद्यात् । अल्पं च हिरण्यं ॥ ०५.३.३१ ॥
अल्प-कोशः कुप्य-पशु-क्षेत्राणि दद्यात् । अल्पम् च हिरण्यम् ॥ ०५।३।३१ ॥
alpa-kośaḥ kupya-paśu-kṣetrāṇi dadyāt . alpam ca hiraṇyam .. 05.3.31 ..
शून्यं वा निवेशयितुं अभ्युत्थितो हिरण्यं एव दद्यात् । न ग्रामं ग्राम-संजात-व्यवहार-स्थापन-अर्थं ॥ ०५.३.३२ ॥
शून्यम् वा निवेशयितुम् अभ्युत्थितः हिरण्यम् एव दद्यात् । न ग्रामम् ग्राम-संजात-व्यवहार-स्थापन-अर्थम् ॥ ०५।३।३२ ॥
śūnyam vā niveśayitum abhyutthitaḥ hiraṇyam eva dadyāt . na grāmam grāma-saṃjāta-vyavahāra-sthāpana-artham .. 05.3.32 ..
एतेन भृतानां अभृतानां च विद्या-कर्मभ्यां भक्त-वेतन-विशेषं च कुर्यात् ॥ ०५.३.३३ ॥
एतेन भृतानाम् अभृतानाम् च विद्या-कर्मभ्याम् भक्त-वेतन-विशेषम् च कुर्यात् ॥ ०५।३।३३ ॥
etena bhṛtānām abhṛtānām ca vidyā-karmabhyām bhakta-vetana-viśeṣam ca kuryāt .. 05.3.33 ..
षष्टि-वेतनस्यऽढकं कृत्वा हिरण्य-अनुरूपं भक्तं कुर्यात् ॥ ०५.३.३४ ॥
षष्टि-वेतनस्य अढकम् कृत्वा हिरण्य-अनुरूपम् भक्तम् कुर्यात् ॥ ०५।३।३४ ॥
ṣaṣṭi-vetanasya aḍhakam kṛtvā hiraṇya-anurūpam bhaktam kuryāt .. 05.3.34 ..
पत्त्य्-अश्व-रथ-द्विपाः सूर्य-उदये बहिः संधि-दिवस-वर्जं शिल्प-योग्याः कुर्युः ॥ ०५.३.३५ ॥
पत्ति-अश्व-रथ-द्विपाः सूर्य-उदये बहिस् संधि-दिवस-वर्जम् शिल्प-योग्याः कुर्युः ॥ ०५।३।३५ ॥
patti-aśva-ratha-dvipāḥ sūrya-udaye bahis saṃdhi-divasa-varjam śilpa-yogyāḥ kuryuḥ .. 05.3.35 ..
तेषु राजा नित्य-युक्तः स्यात् । अभीक्ष्णं चएषां शिल्प-दर्शनं कुर्यात् ॥ ०५.३.३६ ॥
तेषु राजा नित्य-युक्तः स्यात् । अभीक्ष्णम् च एषाम् शिल्प-दर्शनम् कुर्यात् ॥ ०५।३।३६ ॥
teṣu rājā nitya-yuktaḥ syāt . abhīkṣṇam ca eṣām śilpa-darśanam kuryāt .. 05.3.36 ..
कृत-नर-इन्द्र-अङ्कं शस्त्र-आवरणं आयुध-अगारं प्रवेशयेत् ॥ ०५.३.३७ ॥
कृत-नर-इन्द्र-अङ्कम् शस्त्र-आवरणम् आयुध-अगारम् प्रवेशयेत् ॥ ०५।३।३७ ॥
kṛta-nara-indra-aṅkam śastra-āvaraṇam āyudha-agāram praveśayet .. 05.3.37 ..
अशस्त्राश्चरेयुः । अन्यत्र मुद्रा-अनुज्ञातात् ॥ ०५.३.३८ ॥
अ शस्त्राः चरेयुः । अन्यत्र मुद्रा-अनुज्ञातात् ॥ ०५।३।३८ ॥
a śastrāḥ careyuḥ . anyatra mudrā-anujñātāt .. 05.3.38 ..
नष्टं-विनष्टं वा द्वि-गुणं दद्यात् ॥ ०५.३.३९ ॥
नष्टम् विनष्टम् वा द्वि-गुणम् दद्यात् ॥ ०५।३।३९ ॥
naṣṭam vinaṣṭam vā dvi-guṇam dadyāt .. 05.3.39 ..
विध्वस्त-गणनां च कुर्यात् ॥ ०५.३.४० ॥
विध्वस्त-गणनाम् च कुर्यात् ॥ ०५।३।४० ॥
vidhvasta-gaṇanām ca kuryāt .. 05.3.40 ..
सार्थिकानां शस्त्र-आवरणं अन्त-पाला गृह्णीयुः । समुद्रं अवचारयेयुर्वा ॥ ०५.३.४१ ॥
सार्थिकानाम् शस्त्र-आवरणम् अन्त-पालाः गृह्णीयुः । समुद्रम् अवचारयेयुः वा ॥ ०५।३।४१ ॥
sārthikānām śastra-āvaraṇam anta-pālāḥ gṛhṇīyuḥ . samudram avacārayeyuḥ vā .. 05.3.41 ..
यात्रां अभ्युत्थितो वा सेनां उद्योजयेत् ॥ ०५.३.४२ ॥
यात्राम् अभ्युत्थितः वा सेनाम् उद्योजयेत् ॥ ०५।३।४२ ॥
yātrām abhyutthitaḥ vā senām udyojayet .. 05.3.42 ..
ततो वैदेहक-व्यञ्जनाः सर्व-पण्यान्यायुधीयेभ्यो यात्रा-काले द्वि-गुण-प्रत्यादेयानि दद्युः ॥ ०५.३.४३ ॥
ततस् वैदेहक-व्यञ्जनाः सर्व-पण्यानि आयुधीयेभ्यः यात्रा-काले द्वि-गुण-प्रत्यादेयानि दद्युः ॥ ०५।३।४३ ॥
tatas vaidehaka-vyañjanāḥ sarva-paṇyāni āyudhīyebhyaḥ yātrā-kāle dvi-guṇa-pratyādeyāni dadyuḥ .. 05.3.43 ..
एवं राज-पण्य-योग-विक्रयो वेतन-प्रत्यादानं च भवति ॥ ०५.३.४४ ॥
एवम् राज-पण्य-योग-विक्रयः वेतन-प्रत्यादानम् च भवति ॥ ०५।३।४४ ॥
evam rāja-paṇya-yoga-vikrayaḥ vetana-pratyādānam ca bhavati .. 05.3.44 ..
एवं अवेक्षित-आय-व्ययः कोश-दण्ड-व्यसनं नावाप्नोति ॥ ०५.३.४५ ॥
एवम् अवेक्षित-आय-व्ययः कोश-दण्ड-व्यसनम् न अवाप्नोति ॥ ०५।३।४५ ॥
evam avekṣita-āya-vyayaḥ kośa-daṇḍa-vyasanam na avāpnoti .. 05.3.45 ..
इति भक्त-वेतन-विकल्पः ॥ ०५.३.४६ ॥
इति भक्त-वेतन-विकल्पः ॥ ०५।३।४६ ॥
iti bhakta-vetana-vikalpaḥ .. 05.3.46 ..
सत्त्रिणश्चऽयुधीयानां वेश्याः कारु-कुशीलवाः । ॥ ०५.३.४७अ ब ॥
सत्त्रिणः च अयुधीयानाम् वेश्याः कारु-कुशीलवाः । ॥ ०५।३।४७अ ब ॥
sattriṇaḥ ca ayudhīyānām veśyāḥ kāru-kuśīlavāḥ . .. 05.3.47a ba ..
दण्ड-वृद्धाश्च जानीयुः शौच-अशौचं अतन्द्रिताः ॥ ०५.३.४७च्द् ॥
दण्ड-वृद्धाः च जानीयुः शौच-अशौचम् अतन्द्रिताः ॥ ०५।३।४७च् ॥
daṇḍa-vṛddhāḥ ca jānīyuḥ śauca-aśaucam atandritāḥ .. 05.3.47c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In