| |
|

This overlay will guide you through the buttons:

लोक-यात्राविद्राजानं आत्म-द्रव्य-प्रकृति-संपन्नं प्रिय-हित-द्वारेणऽश्रयेत ॥ ०५.४.०१ ॥
लोक-यात्रा-विद् राजानम् आत्म-द्रव्य-प्रकृति-संपन्नम् प्रिय-हित-द्वारेण अश्रयेत ॥ ०५।४।०१ ॥
loka-yātrā-vid rājānam ātma-dravya-prakṛti-saṃpannam priya-hita-dvāreṇa aśrayeta .. 05.4.01 ..
यं वा मन्येत "यथाअहं आश्रय-ईप्सुरेवं असौ विनय-ईप्सुराभिगामिक-गुण-युक्तः" इति । द्रव्य-प्रकृति-हीनं अप्येनं आश्रयेत । न त्वेवानात्म-संपन्नं ॥ ०५.४.०२ ॥
यम् वा मन्येत "यथा अहम् आश्रय-ईप्सुः एवम् असौ विनय-ईप्सुः आभिगामिक-गुण-युक्तः" इति । द्रव्य-प्रकृति-हीनम् अपि एनम् आश्रयेत । न तु एव अन् आत्म-संपन्नम् ॥ ०५।४।०२ ॥
yam vā manyeta "yathā aham āśraya-īpsuḥ evam asau vinaya-īpsuḥ ābhigāmika-guṇa-yuktaḥ" iti . dravya-prakṛti-hīnam api enam āśrayeta . na tu eva an ātma-saṃpannam .. 05.4.02 ..
अनात्मवा हि नीति-शास्त्र-द्वेषादनर्थ्य-संयोगाद्वा प्राप्यापि महदैश्वर्यं न भवति ॥ ०५.४.०३ ॥
अनात्मवा हि नीति-शास्त्र-द्वेषात् अनर्थ्य-संयोगात् वा प्राप्य अपि महत् ऐश्वर्यम् न भवति ॥ ०५।४।०३ ॥
anātmavā hi nīti-śāstra-dveṣāt anarthya-saṃyogāt vā prāpya api mahat aiśvaryam na bhavati .. 05.4.03 ..
आत्मवति लब्ध-अवकाशः शास्त्र-अनुयोगं दद्यात् ॥ ०५.४.०४ ॥
आत्मवति लब्ध-अवकाशः शास्त्र-अनुयोगम् दद्यात् ॥ ०५।४।०४ ॥
ātmavati labdha-avakāśaḥ śāstra-anuyogam dadyāt .. 05.4.04 ..
अविसंवादाद्द्हि स्थान-स्थैर्यं अवाप्नोति ॥ ०५.४.०५ ॥
अविसंवादात् हि स्थान-स्थैर्यम् अवाप्नोति ॥ ०५।४।०५ ॥
avisaṃvādāt hi sthāna-sthairyam avāpnoti .. 05.4.05 ..
मति-कर्मसु पृष्ठस्तदात्वे चऽयत्यां च धर्म-अर्थ-संयुक्तं समर्थं प्रवीणवदपरिषद्-भीरुः कथयेत् ॥ ०५.४.०६ ॥
मति-कर्मसु पृष्ठः तदात्वे च अयत्याम् च धर्म-अर्थ-संयुक्तम् समर्थम् प्रवीणवत् अ परिषद्-भीरुः कथयेत् ॥ ०५।४।०६ ॥
mati-karmasu pṛṣṭhaḥ tadātve ca ayatyām ca dharma-artha-saṃyuktam samartham pravīṇavat a pariṣad-bhīruḥ kathayet .. 05.4.06 ..
ईप्सितः पणेत "धर्म-अर्थ-अनुयोगं अविशिष्टेषु बलवत्-संयुक्तेषु दण्ड-धारणं मत्-संयोगे तदात्वे च दण्ड-धारणं इति न कुर्याः । पक्षं वृत्तिं गुह्यं च मे नौपहन्याः । संज्ञया च त्वां काम-क्रोध-दण्डनेषु वारयेयम्" इति ॥ ०५.४.०७ ॥
ईप्सितः पणेत "धर्म-अर्थ-अनुयोगम् अविशिष्टेषु बलवत्-संयुक्तेषु दण्ड-धारणम् मद्-संयोगे तदात्वे च दण्ड-धारणम् इति न कुर्याः । पक्षम् वृत्तिम् गुह्यम् च मे न औपहन्याः । संज्ञया च त्वाम् काम-क्रोध-दण्डनेषु वारयेयम्" इति ॥ ०५।४।०७ ॥
īpsitaḥ paṇeta "dharma-artha-anuyogam aviśiṣṭeṣu balavat-saṃyukteṣu daṇḍa-dhāraṇam mad-saṃyoge tadātve ca daṇḍa-dhāraṇam iti na kuryāḥ . pakṣam vṛttim guhyam ca me na aupahanyāḥ . saṃjñayā ca tvām kāma-krodha-daṇḍaneṣu vārayeyam" iti .. 05.4.07 ..
आदिष्टः प्रदिष्टायां भूमावनुज्ञातः प्रविशेत् । उपविशेच्च पार्श्वतः संनिकृष्ट-विप्रकृष्टः पर-आसनं ॥ ०५.४.०८ ॥
आदिष्टः प्रदिष्टायाम् भूमौ अनुज्ञातः प्रविशेत् । उपविशेत् च पार्श्वतस् संनिकृष्ट-विप्रकृष्टः पर-आसनम् ॥ ०५।४।०८ ॥
ādiṣṭaḥ pradiṣṭāyām bhūmau anujñātaḥ praviśet . upaviśet ca pārśvatas saṃnikṛṣṭa-viprakṛṣṭaḥ para-āsanam .. 05.4.08 ..
विगृह्य कथनं असभ्यं अप्रत्यक्षं अश्रद्धेयं अनृतं च वाक्यं उच्चैरनर्मणि हासं वात-ष्ठीवने च शब्दवती न कुर्यात् ॥ ०५.४.०९ ॥
विगृह्य कथनम् असभ्यम् अप्रत्यक्षम् अश्रद्धेयम् अनृतम् च वाक्यम् उच्चैस् अनर्मणि हासम् वात-ष्ठीवने च शब्दवती न कुर्यात् ॥ ०५।४।०९ ॥
vigṛhya kathanam asabhyam apratyakṣam aśraddheyam anṛtam ca vākyam uccais anarmaṇi hāsam vāta-ṣṭhīvane ca śabdavatī na kuryāt .. 05.4.09 ..
मिथः कथनं अन्येन । जन-वादे द्वन्द्व-कथनम् । राज्ञो वेषं उद्धत-कुहकानां च । रत्न-अतिशय-प्रकाश-अभ्यर्थनम् । एक-अक्ष्य्-ओष्ठ-निर्भोगं भ्रुकुटी-कर्म वाक्य-अवक्षेपणं च ब्रुवति । बलवत्संयुक्त-विरोधम् । स्त्रीभिः स्त्री-दर्शिभिः सामन्त-दूतैर्द्वेष्य-पक्ष-अवक्षिप्तानर्थ्यैश्च प्रतिसंसर्गं एक-अर्थ-चर्यां संघातं च वर्जयेत् ॥ ०५.४.१० ॥
मिथस् कथनम् अन्येन । जन-वादे द्वन्द्व-कथनम् । राज्ञः वेषम् उद्धत-कुहकानाम् च । रत्न-अतिशय-प्रकाश-अभ्यर्थनम् । एक-अक्षि-ओष्ठ-निर्भोगम् भ्रुकुटी-कर्म वाक्य-अवक्षेपणम् च ब्रुवति । बलवत्-संयुक्त-विरोधम् । स्त्रीभिः स्त्री-दर्शिभिः सामन्त-दूतैः द्वेष्य-पक्ष-अवक्षिप्त-अनर्थ्यैः च प्रतिसंसर्गम् एक-अर्थ-चर्याम् संघातम् च वर्जयेत् ॥ ०५।४।१० ॥
mithas kathanam anyena . jana-vāde dvandva-kathanam . rājñaḥ veṣam uddhata-kuhakānām ca . ratna-atiśaya-prakāśa-abhyarthanam . eka-akṣi-oṣṭha-nirbhogam bhrukuṭī-karma vākya-avakṣepaṇam ca bruvati . balavat-saṃyukta-virodham . strībhiḥ strī-darśibhiḥ sāmanta-dūtaiḥ dveṣya-pakṣa-avakṣipta-anarthyaiḥ ca pratisaṃsargam eka-artha-caryām saṃghātam ca varjayet .. 05.4.10 ..
अहीन-कालं राज-अर्थं स्व-अर्थं प्रिय-हितैः सह । ॥ ०५.४.११अ ब ॥
अहीन-कालम् राज-अर्थम् स्व-अर्थम् प्रिय-हितैः सह । ॥ ०५।४।११अ ब ॥
ahīna-kālam rāja-artham sva-artham priya-hitaiḥ saha . .. 05.4.11a ba ..
पर-अर्थं देश-काले च ब्रूयाद्धर्म-अर्थ-संहितं ॥ ०५.४.११च्द् ॥
पर-अर्थम् देश-काले च ब्रूयात् धर्म-अर्थ-संहितम् ॥ ०५।४।११च् ॥
para-artham deśa-kāle ca brūyāt dharma-artha-saṃhitam .. 05.4.11c ..
पृष्टः प्रिय-हितं ब्रूयान्न ब्रूयादहितं प्रियं । ॥ ०५.४.१२अ ब ॥
पृष्टः प्रिय-हितम् ब्रूयात् न ब्रूयात् अहितम् प्रियम् । ॥ ०५।४।१२अ ब ॥
pṛṣṭaḥ priya-hitam brūyāt na brūyāt ahitam priyam . .. 05.4.12a ba ..
अप्रियं वा हितं ब्रूयात्शृण्वतोअनुमतो मिथः ॥ ०५.४.१२च्द् ॥
अप्रियम् वा हितम् ब्रूयात् शृण्वतः अनुमतः मिथस् ॥ ०५।४।१२च् ॥
apriyam vā hitam brūyāt śṛṇvataḥ anumataḥ mithas .. 05.4.12c ..
तूष्णीं वा प्रतिवाक्ये स्याद्वेष्य-आदींश्च न वर्णयेत् । ॥ ०५.४.१३अ ब ॥
तूष्णीम् वा प्रतिवाक्ये स्याद्वेष्य-आदीन् च न वर्णयेत् । ॥ ०५।४।१३अ ब ॥
tūṣṇīm vā prativākye syādveṣya-ādīn ca na varṇayet . .. 05.4.13a ba ..
अप्रिया अपि दक्षाः स्युस्तद्-भावाद्ये बहिष्-कृताः ॥ ०५.४.१३च्द् ॥
अप्रियाः अपि दक्षाः स्युः तद्-भावात् ये बहिष् कृताः ॥ ०५।४।१३च् ॥
apriyāḥ api dakṣāḥ syuḥ tad-bhāvāt ye bahiṣ kṛtāḥ .. 05.4.13c ..
अनर्थ्याश्च प्रिया दृष्टाश्चित्त-ज्ञान-अनुवर्तिनः । ॥ ०५.४.१४अ ब ॥
अनर्थ्याः च प्रियाः दृष्टाः चित्त-ज्ञान-अनुवर्तिनः । ॥ ०५।४।१४अ ब ॥
anarthyāḥ ca priyāḥ dṛṣṭāḥ citta-jñāna-anuvartinaḥ . .. 05.4.14a ba ..
अभिहास्येष्वभिहसेद्घोर-हासांश्च वर्जयेत् ॥ ०५.४.१४च्द् ॥
अभिहास्येषु अभिहसेत् घोर-हासान् च वर्जयेत् ॥ ०५।४।१४च् ॥
abhihāsyeṣu abhihaset ghora-hāsān ca varjayet .. 05.4.14c ..
परात्संक्रामयेद्घोरं न च घोरं परे वदेत् । ॥ ०५.४.१५अ ब ॥
परात् संक्रामयेत् घोरम् न च घोरम् परे वदेत् । ॥ ०५।४।१५अ ब ॥
parāt saṃkrāmayet ghoram na ca ghoram pare vadet . .. 05.4.15a ba ..
तितिक्षेतऽत्मनश्चैव क्षमावान्पृथिवी-समः ॥ ०५.४.१५च्द् ॥
तितिक्षेत अ त्मनः च एव क्षमावान् पृथिवी-समः ॥ ०५।४।१५च् ॥
titikṣeta a tmanaḥ ca eva kṣamāvān pṛthivī-samaḥ .. 05.4.15c ..
आत्म-रक्षा हि सततं पूर्वं कार्या विजानता । ॥ ०५.४.१६अ ब ॥
आत्म-रक्षा हि सततम् पूर्वम् कार्या विजानता । ॥ ०५।४।१६अ ब ॥
ātma-rakṣā hi satatam pūrvam kāryā vijānatā . .. 05.4.16a ba ..
अग्नाविव हि संप्रोक्ता वृत्ती राजाउपजीविनां ॥ ०५.४.१६च्द् ॥
अग्नौ इव हि संप्रोक्ता वृत्ती ॥ ०५।४।१६च् ॥
agnau iva hi saṃproktā vṛttī .. 05.4.16c ..
एक-देशं दहेदग्निः शरीरं वा परं गतः । ॥ ०५.४.१७अ ब ॥
एक-देशम् दहेत् अग्निः शरीरम् वा परम् गतः । ॥ ०५।४।१७अ ब ॥
eka-deśam dahet agniḥ śarīram vā param gataḥ . .. 05.4.17a ba ..
सपुत्र-दारं राजा तु घातयेदर्धयेत वा ॥ ०५.४.१७च्द् ॥
स पुत्र-दारम् राजा तु घातयेत् अर्धयेत वा ॥ ०५।४।१७च् ॥
sa putra-dāram rājā tu ghātayet ardhayeta vā .. 05.4.17c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In