| |
|

This overlay will guide you through the buttons:

नियुक्तः कर्मसु व्यय-विशुद्धं उदयं दर्शयेत् ॥ ०५.५.०१ ॥
नियुक्तः कर्मसु व्यय-विशुद्धम् उदयम् दर्शयेत् ॥ ०५।५।०१ ॥
niyuktaḥ karmasu vyaya-viśuddham udayam darśayet .. 05.5.01 ..
आभ्यन्तरं बाह्यं गुह्यं प्रकाश्यं आत्ययिकं उपेक्षितव्यं वा कार्यं "इदं एवम्" इति विशेषयेच्च ॥ ०५.५.०२ ॥
आभ्यन्तरम् बाह्यम् गुह्यम् प्रकाश्यम् आत्ययिकम् उपेक्षितव्यम् वा कार्यम् "इदम् एवम्" इति विशेषयेत् च ॥ ०५।५।०२ ॥
ābhyantaram bāhyam guhyam prakāśyam ātyayikam upekṣitavyam vā kāryam "idam evam" iti viśeṣayet ca .. 05.5.02 ..
मृगया-द्यूत-मद्य-स्त्रीषु प्रसक्तं नएनं अनुवर्तेत प्रशंसाभिः ॥ ०५.५.०३ ॥
मृगया-द्यूत-मद्य-स्त्रीषु प्रसक्तम् न एनम् अनुवर्तेत प्रशंसाभिः ॥ ०५।५।०३ ॥
mṛgayā-dyūta-madya-strīṣu prasaktam na enam anuvarteta praśaṃsābhiḥ .. 05.5.03 ..
आसन्नश्चास्य व्यसन-उपघाते प्रयतेत । पर-उपजाप-अतिसंधान-उपधिभ्यश्च रक्षेत् ॥ ०५.५.०४ ॥
आसन्नः च अस्य व्यसन-उपघाते प्रयतेत । पर-उपजाप-अतिसंधान-उपधिभ्यः च रक्षेत् ॥ ०५।५।०४ ॥
āsannaḥ ca asya vyasana-upaghāte prayateta . para-upajāpa-atisaṃdhāna-upadhibhyaḥ ca rakṣet .. 05.5.04 ..
इङ्गित-आकारौ चास्य लक्षयेत् ॥ ०५.५.०५ ॥
इङ्गित-आकारौ च अस्य लक्षयेत् ॥ ०५।५।०५ ॥
iṅgita-ākārau ca asya lakṣayet .. 05.5.05 ..
काम-द्वेष-हर्ष-दैन्य-व्यवसाय-भय-द्वन्द्व-विपर्यासं इङ्गित-आकाराभ्यां हि मन्त्र-संवरण-अर्थं आचरति प्राज्ञः ॥ ०५.५.०६ ॥
काम-द्वेष-हर्ष-दैन्य-व्यवसाय-भय-द्वन्द्व-विपर्यासम् इङ्गित-आकाराभ्याम् हि मन्त्र-संवरण-अर्थम् आचरति प्राज्ञः ॥ ०५।५।०६ ॥
kāma-dveṣa-harṣa-dainya-vyavasāya-bhaya-dvandva-viparyāsam iṅgita-ākārābhyām hi mantra-saṃvaraṇa-artham ācarati prājñaḥ .. 05.5.06 ..
दर्शने प्रसीदति । वाक्यं प्रतिगृह्णाति । आसनं ददाति । विविक्तो दर्शयते । शङ्का-स्थाने नातिशङ्कते । कथायां रमते । परिज्ञाप्येष्ववेक्षते । पथ्यं उक्तं सहते । स्मयमानो नियुङ्क्ते । हस्तेन स्पृशति । श्लाघ्ये नौपहसति । परोक्षं गुणं ब्रवीति । भक्ष्येषु स्मरति । सह विहारं याति । व्यसनेअभ्युपपद्यते । तद्-भक्तीन्पूजयति । गुह्यं आचष्टे । मानं वर्धयति । अर्थं करोति । अनर्थं प्रतिहन्ति इति तुष्ट-ज्ञानं ॥ ०५.५.०७ ॥
दर्शने प्रसीदति । वाक्यम् प्रतिगृह्णाति । आसनम् ददाति । विविक्तः दर्शयते । शङ्का-स्थाने न अतिशङ्कते । कथायाम् रमते । परिज्ञाप्येषु अवेक्षते । पथ्यम् उक्तम् सहते । स्मयमानः नियुङ्क्ते । हस्तेन स्पृशति । श्लाघ्ये न औपहसति । परोक्षम् गुणम् ब्रवीति । भक्ष्येषु स्मरति । सह विहारम् याति । व्यसने अभ्युपपद्यते । तद्-भक्तीन् पूजयति । गुह्यम् आचष्टे । मानम् वर्धयति । अर्थम् करोति । अनर्थम् प्रतिहन्ति इति तुष्ट-ज्ञानम् ॥ ०५।५।०७ ॥
darśane prasīdati . vākyam pratigṛhṇāti . āsanam dadāti . viviktaḥ darśayate . śaṅkā-sthāne na atiśaṅkate . kathāyām ramate . parijñāpyeṣu avekṣate . pathyam uktam sahate . smayamānaḥ niyuṅkte . hastena spṛśati . ślāghye na aupahasati . parokṣam guṇam bravīti . bhakṣyeṣu smarati . saha vihāram yāti . vyasane abhyupapadyate . tad-bhaktīn pūjayati . guhyam ācaṣṭe . mānam vardhayati . artham karoti . anartham pratihanti iti tuṣṭa-jñānam .. 05.5.07 ..
एतदेव विपरीतं अतुष्टस्य । भूयश्च वक्ष्यामः ॥ ०५.५.०८ ॥
एतत् एव विपरीतम् अतुष्टस्य । भूयस् च वक्ष्यामः ॥ ०५।५।०८ ॥
etat eva viparītam atuṣṭasya . bhūyas ca vakṣyāmaḥ .. 05.5.08 ..
संदर्शने कोपः । वाक्यस्याश्रवण-प्रतिषेधौ । आसन-चक्षुषोरदानम् । वर्ण-स्वर-भेदः । एक-अक्षि-भ्रुकुट्य्-ओष्ठ-निर्भोगः । स्वेद-श्वास-स्मितानां अस्थान-उत्पत्तिः । पर-मन्त्रणम् । अकस्माद्-व्रजनम् । वर्धनं अन्यस्य । भूमि-गात्र-विलेखनम् । अन्यस्यौपतोदनम् । विद्या-वर्ण-देश-कुत्सा । सम-दोष-निन्दा । प्रतिदोष-निन्दा । प्रतिलोम-स्तवः । सुकृत-अनवेक्षणम् । दुष्कृत-अनुकीर्तनम् । पृष्ठ-अवधानम् । अतित्यागः । मिथ्या-अभिभाषणम् । राज-दर्शिनां च तद्-वृत्त-अन्यत्वं ॥ ०५.५.०९ ॥
संदर्शने कोपः । वाक्यस्य अश्रवण-प्रतिषेधौ । आसन-चक्षुषोः अदानम् । वर्ण-स्वर-भेदः । । स्वेद-श्वास-स्मितानाम् अस्थान-उत्पत्तिः । पर-मन्त्रणम् । अकस्मात् व्रजनम् । वर्धनम् अन्यस्य । भूमि-गात्र-विलेखनम् । अन्यस्य औपतोदनम् । विद्या-वर्ण-देश-कुत्सा । सम-दोष-निन्दा । प्रतिदोष-निन्दा । प्रतिलोम-स्तवः । सुकृत-अनवेक्षणम् । दुष्कृत-अनुकीर्तनम् । पृष्ठ-अवधानम् । अतित्यागः । मिथ्या अभिभाषणम् । राज-दर्शिनाम् च तद्-वृत्त-अन्य-त्वम् ॥ ०५।५।०९ ॥
saṃdarśane kopaḥ . vākyasya aśravaṇa-pratiṣedhau . āsana-cakṣuṣoḥ adānam . varṇa-svara-bhedaḥ . . sveda-śvāsa-smitānām asthāna-utpattiḥ . para-mantraṇam . akasmāt vrajanam . vardhanam anyasya . bhūmi-gātra-vilekhanam . anyasya aupatodanam . vidyā-varṇa-deśa-kutsā . sama-doṣa-nindā . pratidoṣa-nindā . pratiloma-stavaḥ . sukṛta-anavekṣaṇam . duṣkṛta-anukīrtanam . pṛṣṭha-avadhānam . atityāgaḥ . mithyā abhibhāṣaṇam . rāja-darśinām ca tad-vṛtta-anya-tvam .. 05.5.09 ..
वृत्ति-विकारं चावेक्षेताप्यमानुषाणां ॥ ०५.५.१० ॥
वृत्ति-विकारम् च अवेक्षेत अपि अमानुषाणाम् ॥ ०५।५।१० ॥
vṛtti-vikāram ca avekṣeta api amānuṣāṇām .. 05.5.10 ..
अयं उच्चैः सिञ्चति इति कात्यायनः प्रवव्राज । "क्रौञ्चोअपसव्यम्" इति कणिङ्को भारद्वाजः । "तृणम्" इति दीर्घश्चारायणः । "शीता शाटी" इति घोट-मुखः । "हस्ती प्रत्यौक्षीत्" इति किञ्जल्कः । "रथ-अश्वं प्राशंसीत्" इति पिशुनः । प्रति-रवणे शुनः पिशुन-पुत्रः ॥ ०५.५.११ ॥
अयम् उच्चैस् सिञ्चति इति कात्यायनः प्रवव्राज । "क्रौञ्चः अपसव्यम्" इति कणिङ्कः भारद्वाजः । "तृणम्" इति दीर्घः चारायणः । "शीता शाटी" इति घोट-मुखः । "हस्ती प्रत्यौक्षीत्" इति किञ्जल्कः । "रथ-अश्वम् प्राशंसीत्" इति पिशुनः । प्रति रवणे शुनः पिशुन-पुत्रः ॥ ०५।५।११ ॥
ayam uccais siñcati iti kātyāyanaḥ pravavrāja . "krauñcaḥ apasavyam" iti kaṇiṅkaḥ bhāradvājaḥ . "tṛṇam" iti dīrghaḥ cārāyaṇaḥ . "śītā śāṭī" iti ghoṭa-mukhaḥ . "hastī pratyaukṣīt" iti kiñjalkaḥ . "ratha-aśvam prāśaṃsīt" iti piśunaḥ . prati ravaṇe śunaḥ piśuna-putraḥ .. 05.5.11 ..
अर्थ-मान-अवक्षेपे च परित्यागः ॥ ०५.५.१२ ॥
अर्थ-मान-अवक्षेपे च परित्यागः ॥ ०५।५।१२ ॥
artha-māna-avakṣepe ca parityāgaḥ .. 05.5.12 ..
स्वामि-शीलं आत्मनश्च किल्बिषं उपलभ्य वा प्रतिकुर्वीत ॥ ०५.५.१३ ॥
स्वामि-शीलम् आत्मनः च किल्बिषम् उपलभ्य वा प्रतिकुर्वीत ॥ ०५।५।१३ ॥
svāmi-śīlam ātmanaḥ ca kilbiṣam upalabhya vā pratikurvīta .. 05.5.13 ..
मित्रं उपकृष्टं वाअस्य गच्छेत् ॥ ०५.५.१४ ॥
मित्रम् उपकृष्टम् वा अस्य गच्छेत् ॥ ०५।५।१४ ॥
mitram upakṛṣṭam vā asya gacchet .. 05.5.14 ..
तत्रस्थो दोष-निर्घातं मित्रैर्भर्तरि चऽचरेत् । ॥ ०५.५.१५अ ब ॥
तत्रस्थः दोष-निर्घातम् मित्रैः भर्तरि । ॥ ०५।५।१५अ ब ॥
tatrasthaḥ doṣa-nirghātam mitraiḥ bhartari . .. 05.5.15a ba ..
ततो भर्तरि जीवे वा मृते वा पुनराव्रजेत् ॥ ०५.५.१५च्द् ॥
ततस् भर्तरि जीवे वा मृते वा पुनर् आव्रजेत् ॥ ०५।५।१५च् ॥
tatas bhartari jīve vā mṛte vā punar āvrajet .. 05.5.15c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In