| |
|

This overlay will guide you through the buttons:

राज-व्यसनं एवं अमात्यः प्रतिकुर्वीत ॥ ०५.६.०१ ॥
राज-व्यसनम् एवम् अमात्यः प्रतिकुर्वीत ॥ ०५।६।०१ ॥
rāja-vyasanam evam amātyaḥ pratikurvīta .. 05.6.01 ..
प्रागेव मरण-आबाध-भयाद्राज्ञः प्रिय-हित-उपग्रहेण मास-द्वि-मास-अन्तरं दर्शनं स्थापयेद्"देश-पीडा-अपहं अमित्र-अपहं आयुष्यं पुत्रीयं वा कर्म राजा साधयति" इत्यपदेशेन ॥ ०५.६.०२ ॥
प्राक् एव मरण-आबाध-भयात् राज्ञः प्रिय-हित-उपग्रहेण मास-द्वि-मास-अन्तरम् दर्शनम् स्थापयेत्"देश-पीडा-अपहम् अमित्र-अपहम् आयुष्यम् पुत्रीयम् वा कर्म राजा साधयति" इति अपदेशेन ॥ ०५।६।०२ ॥
prāk eva maraṇa-ābādha-bhayāt rājñaḥ priya-hita-upagraheṇa māsa-dvi-māsa-antaram darśanam sthāpayet"deśa-pīḍā-apaham amitra-apaham āyuṣyam putrīyam vā karma rājā sādhayati" iti apadeśena .. 05.6.02 ..
राज-व्यञ्जनं अरूप-वेलायां प्रकृतीनां दर्शयेत् । मित्र-अमित्र-दूतानां च ॥ ०५.६.०३ ॥
राज-व्यञ्जनम् अरूप-वेलायाम् प्रकृतीनाम् दर्शयेत् । मित्र-अमित्र-दूतानाम् च ॥ ०५।६।०३ ॥
rāja-vyañjanam arūpa-velāyām prakṛtīnām darśayet . mitra-amitra-dūtānām ca .. 05.6.03 ..
तैश्च यथा-उचितां संभाषां अमात्य-मुखो गच्छेत् ॥ ०५.६.०४ ॥
तैः च यथा उचिताम् संभाषाम् अमात्य-मुखः गच्छेत् ॥ ०५।६।०४ ॥
taiḥ ca yathā ucitām saṃbhāṣām amātya-mukhaḥ gacchet .. 05.6.04 ..
दौवारिक-अन्तर्-वंशिक-मुखश्च यथा-उक्तं राज-प्रणिधिं अनुवर्तयेत् ॥ ०५.६.०५ ॥
दौवारिक-अन्तर् वंशिक-मुखः च यथा उक्तम् राज-प्रणिधिम् अनुवर्तयेत् ॥ ०५।६।०५ ॥
dauvārika-antar vaṃśika-mukhaḥ ca yathā uktam rāja-praṇidhim anuvartayet .. 05.6.05 ..
अपकारिषु च हेडं प्रसादं वा प्रकृति-कान्तं दर्शयेत् । प्रसादं एवौपकारिषु ॥ ०५.६.०६ ॥
अपकारिषु च हेडम् प्रसादम् वा प्रकृति-कान्तम् दर्शयेत् । प्रसादम् एव औपकारिषु ॥ ०५।६।०६ ॥
apakāriṣu ca heḍam prasādam vā prakṛti-kāntam darśayet . prasādam eva aupakāriṣu .. 05.6.06 ..
आप्त-पुरुष-अधिष्ठितौ दुर्ग-प्रत्यन्तस्थौ वा कोश-दण्डावेकस्थौ कारयेत् । कुल्य-कुमार-मुख्यांश्चान्य-अपदेशेन ॥ ०५.६.०७ ॥
आप्त-पुरुष-अधिष्ठितौ दुर्ग-प्रत्यन्त-स्थौ वा कोश-दण्डौ एकस्थौ कारयेत् । कुल्य-कुमार-मुख्यान् च अन्य-अपदेशेन ॥ ०५।६।०७ ॥
āpta-puruṣa-adhiṣṭhitau durga-pratyanta-sthau vā kośa-daṇḍau ekasthau kārayet . kulya-kumāra-mukhyān ca anya-apadeśena .. 05.6.07 ..
यश्च मुख्यः पक्षवान्दुर्ग-अटवीस्थो वा वैगुण्यं भजेत तं उपग्राहयेत् ॥ ०५.६.०८ ॥
यः च मुख्यः पक्षवान् दुर्ग-अटवी-स्थः वा वैगुण्यम् भजेत तम् उपग्राहयेत् ॥ ०५।६।०८ ॥
yaḥ ca mukhyaḥ pakṣavān durga-aṭavī-sthaḥ vā vaiguṇyam bhajeta tam upagrāhayet .. 05.6.08 ..
बह्व्-आबाधं वा यात्रां प्रेषयेत् । मित्र-कुलं वा ॥ ०५.६.०९ ॥
बहु-आबाधम् वा यात्राम् प्रेषयेत् । मित्र-कुलम् वा ॥ ०५।६।०९ ॥
bahu-ābādham vā yātrām preṣayet . mitra-kulam vā .. 05.6.09 ..
यस्माच्च सामन्तादाबाधं पश्येत्तं उत्सव-विवाह-हस्ति-बन्धन-अश्व-पण्य-भूमि-प्रदान-अपदेशेनावग्राहयेत् । स्व-मित्रेण वा ॥ ०५.६.१० ॥
यस्मात् च सामन्तात् आबाधम् पश्येत् तम् उत्सव-विवाह-हस्ति-बन्धन-अश्व-पण्य-भूमि-प्रदान-अपदेशेन अवग्राहयेत् । स्व-मित्रेण वा ॥ ०५।६।१० ॥
yasmāt ca sāmantāt ābādham paśyet tam utsava-vivāha-hasti-bandhana-aśva-paṇya-bhūmi-pradāna-apadeśena avagrāhayet . sva-mitreṇa vā .. 05.6.10 ..
ततः संधिं अदूष्यं कारयेत् ॥ ०५.६.११ ॥
ततस् संधिम् अ दूष्यम् कारयेत् ॥ ०५।६।११ ॥
tatas saṃdhim a dūṣyam kārayet .. 05.6.11 ..
आटविक-अमित्रैर्वा वैरं ग्राहयेत् ॥ ०५.६.१२ ॥
आटविक-अमित्रैः वा वैरम् ग्राहयेत् ॥ ०५।६।१२ ॥
āṭavika-amitraiḥ vā vairam grāhayet .. 05.6.12 ..
तत्-कुलीनं अपरुद्धं वा भूंय्-एक-देशेनौपग्राहयेत् ॥ ०५.६.१३ ॥
तद्-कुलीनम् अपरुद्धम् वा भूंइ एक-देशेन औपग्राहयेत् ॥ ०५।६।१३ ॥
tad-kulīnam aparuddham vā bhūṃi eka-deśena aupagrāhayet .. 05.6.13 ..
कुल्य-कुमार-मुख्य-उपग्रहं कृत्वा वा कुमारं अभिषिक्तं एव दर्शयेत् ॥ ०५.६.१४ ॥
कुल्य-कुमार-मुख्य-उपग्रहम् कृत्वा वा कुमारम् अभिषिक्तम् एव दर्शयेत् ॥ ०५।६।१४ ॥
kulya-kumāra-mukhya-upagraham kṛtvā vā kumāram abhiṣiktam eva darśayet .. 05.6.14 ..
दाण्ड-कर्मिकवद्वा राज्य-कण्टकानुद्धृत्य राज्यं कारयेत् ॥ ०५.६.१५ ॥
दाण्ड-कर्मिक-वत् वा राज्य-कण्टकान् उद्धृत्य राज्यम् कारयेत् ॥ ०५।६।१५ ॥
dāṇḍa-karmika-vat vā rājya-kaṇṭakān uddhṛtya rājyam kārayet .. 05.6.15 ..
यदि वा कश्चिन्मुख्यः सामन्त-आदीनां अन्यतमः कोपं भजेत तं "एहि । राजानं त्वा करिष्यामि" इत्यावाहयित्वा घातयेत् ॥ ०५.६.१६ ॥
यदि वा कश्चिद् मुख्यः सामन्त-आदीनाम् अन्यतमः कोपम् भजेत तम् "एहि । राजानम् त्वा करिष्यामि" इति आवाहयित्वा घातयेत् ॥ ०५।६।१६ ॥
yadi vā kaścid mukhyaḥ sāmanta-ādīnām anyatamaḥ kopam bhajeta tam "ehi . rājānam tvā kariṣyāmi" iti āvāhayitvā ghātayet .. 05.6.16 ..
आपत्-प्रतीकारेण वा साधयेत् ॥ ०५.६.१७ ॥
आपद्-प्रतीकारेण वा साधयेत् ॥ ०५।६।१७ ॥
āpad-pratīkāreṇa vā sādhayet .. 05.6.17 ..
युव-राजे वा क्रमेण राज्य-भारं आरोप्य राज-व्यसनं ख्यापयेत् ॥ ०५.६.१८ ॥
युव-राजे वा क्रमेण राज्य-भारम् आरोप्य राज-व्यसनम् ख्यापयेत् ॥ ०५।६।१८ ॥
yuva-rāje vā krameṇa rājya-bhāram āropya rāja-vyasanam khyāpayet .. 05.6.18 ..
पर-भूमौ राज-व्यसने मित्रेणामित्र-व्यञ्जनेन शत्रोः संधिं अवस्थाप्यापगच्छेत् ॥ ०५.६.१९ ॥
पर-भूमौ राज-व्यसने मित्रेण अमित्र-व्यञ्जनेन शत्रोः संधिम् अवस्थाप्य अपगच्छेत् ॥ ०५।६।१९ ॥
para-bhūmau rāja-vyasane mitreṇa amitra-vyañjanena śatroḥ saṃdhim avasthāpya apagacchet .. 05.6.19 ..
सामन्त-आदीनां अन्यतमं वाअस्य दुर्गे स्थापयित्वाअपगच्छेत् ॥ ०५.६.२० ॥
सामन्त-आदीनाम् अन्यतमम् वा अस्य दुर्गे स्थापयित्वा अपगच्छेत् ॥ ०५।६।२० ॥
sāmanta-ādīnām anyatamam vā asya durge sthāpayitvā apagacchet .. 05.6.20 ..
कुमारं अभिषिच्य वा प्रतिव्यूहेत ॥ ०५.६.२१ ॥
कुमारम् अभिषिच्य वा प्रतिव्यूहेत ॥ ०५।६।२१ ॥
kumāram abhiṣicya vā prativyūheta .. 05.6.21 ..
परेणाभियुक्तो वा यथा-उक्तं आपत्-प्रतीकारं कुर्यात् ॥ ०५.६.२२ ॥
परेण अभियुक्तः वा यथा उक्तम् आपद्-प्रतीकारम् कुर्यात् ॥ ०५।६।२२ ॥
pareṇa abhiyuktaḥ vā yathā uktam āpad-pratīkāram kuryāt .. 05.6.22 ..
एवं एक-ऐश्वर्यं अमात्यः कारयेदिति कौटिल्यः ॥ ०५.६.२३ ॥
एवम् एक-ऐश्वर्यम् अमात्यः कारयेत् इति कौटिल्यः ॥ ०५।६।२३ ॥
evam eka-aiśvaryam amātyaḥ kārayet iti kauṭilyaḥ .. 05.6.23 ..
नएवम् इति भारद्वाजः ॥ ०५.६.२४ ॥
न एवम् इति भारद्वाजः ॥ ०५।६।२४ ॥
na evam iti bhāradvājaḥ .. 05.6.24 ..
प्रम्रियमाणे वा राजन्यमात्यः कुल्य-कुमार-मुख्यान्परस्परं मुख्येषु वा विक्रमयेत् ॥ ०५.६.२५ ॥
प्रम्रियमाणे वा राजनि अमात्यः कुल्य-कुमार-मुख्यान् परस्परम् मुख्येषु वा विक्रमयेत् ॥ ०५।६।२५ ॥
pramriyamāṇe vā rājani amātyaḥ kulya-kumāra-mukhyān parasparam mukhyeṣu vā vikramayet .. 05.6.25 ..
विक्रान्तं प्रकृति-कोपेन घातयेत् ॥ ०५.६.२६ ॥
विक्रान्तम् प्रकृति-कोपेन घातयेत् ॥ ०५।६।२६ ॥
vikrāntam prakṛti-kopena ghātayet .. 05.6.26 ..
कुल्य-कुमार-मुख्यानुपांशु-दण्डेन वा साधयित्वा स्वयं राज्यं गृह्णीयात् ॥ ०५.६.२७ ॥
कुल्य-कुमार-मुख्यान् उपांशु-दण्डेन वा साधयित्वा स्वयम् राज्यम् गृह्णीयात् ॥ ०५।६।२७ ॥
kulya-kumāra-mukhyān upāṃśu-daṇḍena vā sādhayitvā svayam rājyam gṛhṇīyāt .. 05.6.27 ..
राज्य-कारणाद्द्हि पिता पुत्रान्पुत्राश्च पितरं अभिद्रुह्यन्ति । किं अङ्ग पुनरमात्य-प्रकृतिर्ह्येक-प्रग्रहो राज्यस्य ॥ ०५.६.२८ ॥
राज्य-कारणात् हि पिता पुत्रान् पुत्राः च पितरम् अभिद्रुह्यन्ति । किम् अङ्ग पुनर् अमात्य-प्रकृतिः हि एक-प्रग्रहः राज्यस्य ॥ ०५।६।२८ ॥
rājya-kāraṇāt hi pitā putrān putrāḥ ca pitaram abhidruhyanti . kim aṅga punar amātya-prakṛtiḥ hi eka-pragrahaḥ rājyasya .. 05.6.28 ..
तत्स्वयं उपस्थितं नावमन्येत ॥ ०५.६.२९ ॥
तत् स्वयम् उपस्थितम् न अवमन्येत ॥ ०५।६।२९ ॥
tat svayam upasthitam na avamanyeta .. 05.6.29 ..
स्वयं आरूढा हि स्त्री त्यज्यमानाअभिशपति" इति लोक-प्रवादः ॥ ०५.६.३० ॥
स्वयम् आरूढा हि स्त्री त्यज्यमाना अभिशपति" इति लोक-प्रवादः ॥ ०५।६।३० ॥
svayam ārūḍhā hi strī tyajyamānā abhiśapati" iti loka-pravādaḥ .. 05.6.30 ..
कालश्च सकृदभ्येति यं नरं काल-काङ्क्षिणं । ॥ ०५.६.३१अ ब ॥
कालः च सकृत् अभ्येति यम् नरम् काल-काङ्क्षिणम् । ॥ ०५।६।३१अ ब ॥
kālaḥ ca sakṛt abhyeti yam naram kāla-kāṅkṣiṇam . .. 05.6.31a ba ..
दुर्लभः स पुनस्तस्य कालः कर्म चिकीर्षतः ॥ ०५.६.३१च्द् ॥
दुर्लभः स पुनर् तस्य कालः कर्म चिकीर्षतः ॥ ०५।६।३१च् ॥
durlabhaḥ sa punar tasya kālaḥ karma cikīrṣataḥ .. 05.6.31c ..
प्रकृति-कोपकं अधर्मिष्ठं अनैकान्तिकं चएतदिति कौटिल्यः ॥ ०५.६.३२ ॥
प्रकृति-कोपकम् अधर्मिष्ठम् अनैकान्तिकम् च एतत् इति कौटिल्यः ॥ ०५।६।३२ ॥
prakṛti-kopakam adharmiṣṭham anaikāntikam ca etat iti kauṭilyaḥ .. 05.6.32 ..
राज-पुत्रं आत्म-संपन्नं राज्ये स्थापयेत् ॥ ०५.६.३३ ॥
राज-पुत्रम् आत्म-संपन्नम् राज्ये स्थापयेत् ॥ ०५।६।३३ ॥
rāja-putram ātma-saṃpannam rājye sthāpayet .. 05.6.33 ..
संपन्न-अभावेअव्यसनिनं कुमारं राज-कन्यां गर्भिणीं देवीं वा पुरस्-कृत्य महा-मात्रान्संनिपात्य ब्रूयात्"अयं वो निक्षेपः । पितरं अस्यावेक्षध्वं सत्त्व-अभिजनं आत्मनश्च । ध्वज-मात्रोअयं भवन्त एव स्वामिनः । कथं वा क्रियताम्" इति ॥ ०५.६.३४ ॥
संपन्न-अभावे अव्यसनिनम् कुमारम् राज-कन्याम् गर्भिणीम् देवीम् वा पुरस् कृत्य महा-मात्रान् संनिपात्य ब्रूयात्"अयम् वः निक्षेपः । पितरम् अस्य अवेक्षध्वम् सत्त्व-अभिजनम् आत्मनः च । ध्वज-मात्रः अयम् भवन्तः एव स्वामिनः । कथम् वा क्रियताम्" इति ॥ ०५।६।३४ ॥
saṃpanna-abhāve avyasaninam kumāram rāja-kanyām garbhiṇīm devīm vā puras kṛtya mahā-mātrān saṃnipātya brūyāt"ayam vaḥ nikṣepaḥ . pitaram asya avekṣadhvam sattva-abhijanam ātmanaḥ ca . dhvaja-mātraḥ ayam bhavantaḥ eva svāminaḥ . katham vā kriyatām" iti .. 05.6.34 ..
तथा ब्रुवाणं योग-पुरुषा ब्रूयुः "कोअन्यो भवत्-पुरोगादस्माद्राज्ञश्चातुर्वर्ण्यं अर्हति पालयितुम्" इति ॥ ०५.६.३५ ॥
तथा ब्रुवाणम् योग-पुरुषाः ब्रूयुः "कः अन्यः भवत्-पुरोगात् अस्मात् राज्ञः चातुर्वर्ण्यम् अर्हति पालयितुम्" इति ॥ ०५।६।३५ ॥
tathā bruvāṇam yoga-puruṣāḥ brūyuḥ "kaḥ anyaḥ bhavat-purogāt asmāt rājñaḥ cāturvarṇyam arhati pālayitum" iti .. 05.6.35 ..
तथा इत्यमात्यः कुमारं राज-कन्यां गर्भिणीं देवीं वाअधिकुर्वीत । बन्धु-संबन्धिनां मित्र-अमित्र-दूतानां च दर्शयेत् ॥ ०५.६.३६ ॥
तथा इति अमात्यः कुमारम् राज-कन्याम् गर्भिणीम् देवीम् वा अधिकुर्वीत । बन्धु-संबन्धिनाम् मित्र-अमित्र-दूतानाम् च दर्शयेत् ॥ ०५।६।३६ ॥
tathā iti amātyaḥ kumāram rāja-kanyām garbhiṇīm devīm vā adhikurvīta . bandhu-saṃbandhinām mitra-amitra-dūtānām ca darśayet .. 05.6.36 ..
भक्त-वेतन-विशेषं अमात्यानां आयुधीयानां च कारयेत् । "भूयश्चायं वृद्धः करिष्यति" इति ब्रूयात् ॥ ०५.६.३७ ॥
भक्त-वेतन-विशेषम् अमात्यानाम् आयुधीयानाम् च कारयेत् । "भूयः च अयम् वृद्धः करिष्यति" इति ब्रूयात् ॥ ०५।६।३७ ॥
bhakta-vetana-viśeṣam amātyānām āyudhīyānām ca kārayet . "bhūyaḥ ca ayam vṛddhaḥ kariṣyati" iti brūyāt .. 05.6.37 ..
एवं दुर्ग-राष्ट्र-मुख्यानाभाषेत । यथा-अर्हं च मित्र-अमित्र-पक्षं ॥ ०५.६.३८ ॥
एवम् दुर्ग-राष्ट्र-मुख्यान् आभाषेत । यथा अर्हम् च मित्र-अमित्र-पक्षम् ॥ ०५।६।३८ ॥
evam durga-rāṣṭra-mukhyān ābhāṣeta . yathā arham ca mitra-amitra-pakṣam .. 05.6.38 ..
विनय-कर्मणि च कुमारस्य प्रयतेत ॥ ०५.६.३९ ॥
विनय-कर्मणि च कुमारस्य प्रयतेत ॥ ०५।६।३९ ॥
vinaya-karmaṇi ca kumārasya prayateta .. 05.6.39 ..
कन्यायां समान-जातीयादपत्यं उत्पाद्य वाअभिषिञ्चेत् ॥ ०५.६.४० ॥
कन्यायाम् समान-जातीयात् अपत्यम् उत्पाद्य वा अभिषिञ्चेत् ॥ ०५।६।४० ॥
kanyāyām samāna-jātīyāt apatyam utpādya vā abhiṣiñcet .. 05.6.40 ..
मातुश्चित्त-क्षोभ-भयात्कुल्यं अल्प-सत्त्वं छात्रं च लक्षण्यं उपनिदध्यात् ॥ ०५.६.४१ ॥
मातुः चित्त-क्षोभ-भयात् कुल्यम् अल्प-सत्त्वम् छात्रम् च लक्षण्यम् उपनिदध्यात् ॥ ०५।६।४१ ॥
mātuḥ citta-kṣobha-bhayāt kulyam alpa-sattvam chātram ca lakṣaṇyam upanidadhyāt .. 05.6.41 ..
ऋतौ चएनां रक्षेत् ॥ ०५.६.४२ ॥
ऋतौ च एनाम् रक्षेत् ॥ ०५।६।४२ ॥
ṛtau ca enām rakṣet .. 05.6.42 ..
न चऽत्म-अर्थं कंचिदुत्कृष्टं उपभोगं कारयेत् ॥ ०५.६.४३ ॥
न च अत्म-अर्थम् कंचिद् उत्कृष्टम् उपभोगम् कारयेत् ॥ ०५।६।४३ ॥
na ca atma-artham kaṃcid utkṛṣṭam upabhogam kārayet .. 05.6.43 ..
राज-अर्थं तु यान-वाहन-आभरण-वस्त्र-स्त्री-वेश्म-परिवापान्कारयेत् ॥ ०५.६.४४ ॥
राज-अर्थम् तु यान-वाहन-आभरण-वस्त्र-स्त्री-वेश्म-परिवापान् कारयेत् ॥ ०५।६।४४ ॥
rāja-artham tu yāna-vāhana-ābharaṇa-vastra-strī-veśma-parivāpān kārayet .. 05.6.44 ..
यौवनस्थं च याचेत विश्रमं चित्त-कारणात् । ॥ ०५.६.४५अ ब ॥
यौवन-स्थम् च याचेत विश्रमम् चित्त-कारणात् । ॥ ०५।६।४५अ ब ॥
yauvana-stham ca yāceta viśramam citta-kāraṇāt . .. 05.6.45a ba ..
परित्यजेदतुष्यन्तं तुष्यन्तं चानुपालयेत् ॥ ०५.६.४५च्द् ॥
परित्यजेत् अतुष्यन्तम् तुष्यन्तम् च अनुपालयेत् ॥ ०५।६।४५च् ॥
parityajet atuṣyantam tuṣyantam ca anupālayet .. 05.6.45c ..
निवेद्य पुत्र-रक्षा-अर्थं गूढ-सार-परिग्रहान् । ॥ ०५.६.४६अ ब ॥
निवेद्य पुत्र-रक्षा-अर्थम् गूढ-सार-परिग्रहान् । ॥ ०५।६।४६अ ब ॥
nivedya putra-rakṣā-artham gūḍha-sāra-parigrahān . .. 05.6.46a ba ..
अरण्यं दीर्घ-सत्त्रं वा सेवेतऽरुच्यतां गतः ॥ ०५.६.४६च्द् ॥
अरण्यम् दीर्घ-सत्त्रम् वा सेवेत अरुच्य-ताम् गतः ॥ ०५।६।४६च् ॥
araṇyam dīrgha-sattram vā seveta arucya-tām gataḥ .. 05.6.46c ..
मुख्यैरवगृहीतं वा राजानं तत्-प्रिय-आश्रितः । ॥ ०५.६.४७अ ब ॥
मुख्यैः अवगृहीतम् वा राजानम् तद्-प्रिय-आश्रितः । ॥ ०५।६।४७अ ब ॥
mukhyaiḥ avagṛhītam vā rājānam tad-priya-āśritaḥ . .. 05.6.47a ba ..
इतिहास-पुराणाभ्यां बोधयेदर्थ-शास्त्रवित् ॥ ०५.६.४७च्द् ॥
इतिहास-पुराणाभ्याम् बोधयेत् अर्थ-शास्त्र-विद् ॥ ०५।६।४७च् ॥
itihāsa-purāṇābhyām bodhayet artha-śāstra-vid .. 05.6.47c ..
सिद्ध-व्यञ्जन-रूपो वा योगं आस्थाय पार्थिवं । ॥ ०५.६.४८अ ब ॥
सिद्ध-व्यञ्जन-रूपः वा योगम् आस्थाय पार्थिवम् । ॥ ०५।६।४८अ ब ॥
siddha-vyañjana-rūpaḥ vā yogam āsthāya pārthivam . .. 05.6.48a ba ..
लभेत लब्ध्वा दूष्येषु दाण्डकर्मिकं आचरेत् ॥ ०५.६.४८च्द् ॥
लभेत लब्ध्वा दूष्येषु दाण्डकर्मिकम् आचरेत् ॥ ०५।६।४८च् ॥
labheta labdhvā dūṣyeṣu dāṇḍakarmikam ācaret .. 05.6.48c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In