| |
|

This overlay will guide you through the buttons:

राज-व्यसनं एवं अमात्यः प्रतिकुर्वीत ॥ ०५.६.०१ ॥
rāja-vyasanaṃ evaṃ amātyaḥ pratikurvīta .. 05.6.01 ..
प्रागेव मरण-आबाध-भयाद्राज्ञः प्रिय-हित-उपग्रहेण मास-द्वि-मास-अन्तरं दर्शनं स्थापयेद्"देश-पीडा-अपहं अमित्र-अपहं आयुष्यं पुत्रीयं वा कर्म राजा साधयति" इत्यपदेशेन ॥ ०५.६.०२ ॥
prāgeva maraṇa-ābādha-bhayādrājñaḥ priya-hita-upagraheṇa māsa-dvi-māsa-antaraṃ darśanaṃ sthāpayed"deśa-pīḍā-apahaṃ amitra-apahaṃ āyuṣyaṃ putrīyaṃ vā karma rājā sādhayati" ityapadeśena .. 05.6.02 ..
राज-व्यञ्जनं अरूप-वेलायां प्रकृतीनां दर्शयेत् । मित्र-अमित्र-दूतानां च ॥ ०५.६.०३ ॥
rāja-vyañjanaṃ arūpa-velāyāṃ prakṛtīnāṃ darśayet . mitra-amitra-dūtānāṃ ca .. 05.6.03 ..
तैश्च यथा-उचितां संभाषां अमात्य-मुखो गच्छेत् ॥ ०५.६.०४ ॥
taiśca yathā-ucitāṃ saṃbhāṣāṃ amātya-mukho gacchet .. 05.6.04 ..
दौवारिक-अन्तर्-वंशिक-मुखश्च यथा-उक्तं राज-प्रणिधिं अनुवर्तयेत् ॥ ०५.६.०५ ॥
dauvārika-antar-vaṃśika-mukhaśca yathā-uktaṃ rāja-praṇidhiṃ anuvartayet .. 05.6.05 ..
अपकारिषु च हेडं प्रसादं वा प्रकृति-कान्तं दर्शयेत् । प्रसादं एवौपकारिषु ॥ ०५.६.०६ ॥
apakāriṣu ca heḍaṃ prasādaṃ vā prakṛti-kāntaṃ darśayet . prasādaṃ evaupakāriṣu .. 05.6.06 ..
आप्त-पुरुष-अधिष्ठितौ दुर्ग-प्रत्यन्तस्थौ वा कोश-दण्डावेकस्थौ कारयेत् । कुल्य-कुमार-मुख्यांश्चान्य-अपदेशेन ॥ ०५.६.०७ ॥
āpta-puruṣa-adhiṣṭhitau durga-pratyantasthau vā kośa-daṇḍāvekasthau kārayet . kulya-kumāra-mukhyāṃścānya-apadeśena .. 05.6.07 ..
यश्च मुख्यः पक्षवान्दुर्ग-अटवीस्थो वा वैगुण्यं भजेत तं उपग्राहयेत् ॥ ०५.६.०८ ॥
yaśca mukhyaḥ pakṣavāndurga-aṭavīstho vā vaiguṇyaṃ bhajeta taṃ upagrāhayet .. 05.6.08 ..
बह्व्-आबाधं वा यात्रां प्रेषयेत् । मित्र-कुलं वा ॥ ०५.६.०९ ॥
bahv-ābādhaṃ vā yātrāṃ preṣayet . mitra-kulaṃ vā .. 05.6.09 ..
यस्माच्च सामन्तादाबाधं पश्येत्तं उत्सव-विवाह-हस्ति-बन्धन-अश्व-पण्य-भूमि-प्रदान-अपदेशेनावग्राहयेत् । स्व-मित्रेण वा ॥ ०५.६.१० ॥
yasmācca sāmantādābādhaṃ paśyettaṃ utsava-vivāha-hasti-bandhana-aśva-paṇya-bhūmi-pradāna-apadeśenāvagrāhayet . sva-mitreṇa vā .. 05.6.10 ..
ततः संधिं अदूष्यं कारयेत् ॥ ०५.६.११ ॥
tataḥ saṃdhiṃ adūṣyaṃ kārayet .. 05.6.11 ..
आटविक-अमित्रैर्वा वैरं ग्राहयेत् ॥ ०५.६.१२ ॥
āṭavika-amitrairvā vairaṃ grāhayet .. 05.6.12 ..
तत्-कुलीनं अपरुद्धं वा भूंय्-एक-देशेनौपग्राहयेत् ॥ ०५.६.१३ ॥
tat-kulīnaṃ aparuddhaṃ vā bhūṃy-eka-deśenaupagrāhayet .. 05.6.13 ..
कुल्य-कुमार-मुख्य-उपग्रहं कृत्वा वा कुमारं अभिषिक्तं एव दर्शयेत् ॥ ०५.६.१४ ॥
kulya-kumāra-mukhya-upagrahaṃ kṛtvā vā kumāraṃ abhiṣiktaṃ eva darśayet .. 05.6.14 ..
दाण्ड-कर्मिकवद्वा राज्य-कण्टकानुद्धृत्य राज्यं कारयेत् ॥ ०५.६.१५ ॥
dāṇḍa-karmikavadvā rājya-kaṇṭakānuddhṛtya rājyaṃ kārayet .. 05.6.15 ..
यदि वा कश्चिन्मुख्यः सामन्त-आदीनां अन्यतमः कोपं भजेत तं "एहि । राजानं त्वा करिष्यामि" इत्यावाहयित्वा घातयेत् ॥ ०५.६.१६ ॥
yadi vā kaścinmukhyaḥ sāmanta-ādīnāṃ anyatamaḥ kopaṃ bhajeta taṃ "ehi . rājānaṃ tvā kariṣyāmi" ityāvāhayitvā ghātayet .. 05.6.16 ..
आपत्-प्रतीकारेण वा साधयेत् ॥ ०५.६.१७ ॥
āpat-pratīkāreṇa vā sādhayet .. 05.6.17 ..
युव-राजे वा क्रमेण राज्य-भारं आरोप्य राज-व्यसनं ख्यापयेत् ॥ ०५.६.१८ ॥
yuva-rāje vā krameṇa rājya-bhāraṃ āropya rāja-vyasanaṃ khyāpayet .. 05.6.18 ..
पर-भूमौ राज-व्यसने मित्रेणामित्र-व्यञ्जनेन शत्रोः संधिं अवस्थाप्यापगच्छेत् ॥ ०५.६.१९ ॥
para-bhūmau rāja-vyasane mitreṇāmitra-vyañjanena śatroḥ saṃdhiṃ avasthāpyāpagacchet .. 05.6.19 ..
सामन्त-आदीनां अन्यतमं वाअस्य दुर्गे स्थापयित्वाअपगच्छेत् ॥ ०५.६.२० ॥
sāmanta-ādīnāṃ anyatamaṃ vāasya durge sthāpayitvāapagacchet .. 05.6.20 ..
कुमारं अभिषिच्य वा प्रतिव्यूहेत ॥ ०५.६.२१ ॥
kumāraṃ abhiṣicya vā prativyūheta .. 05.6.21 ..
परेणाभियुक्तो वा यथा-उक्तं आपत्-प्रतीकारं कुर्यात् ॥ ०५.६.२२ ॥
pareṇābhiyukto vā yathā-uktaṃ āpat-pratīkāraṃ kuryāt .. 05.6.22 ..
एवं एक-ऐश्वर्यं अमात्यः कारयेदिति कौटिल्यः ॥ ०५.६.२३ ॥
evaṃ eka-aiśvaryaṃ amātyaḥ kārayediti kauṭilyaḥ .. 05.6.23 ..
नएवम् इति भारद्वाजः ॥ ०५.६.२४ ॥
naevam iti bhāradvājaḥ .. 05.6.24 ..
प्रम्रियमाणे वा राजन्यमात्यः कुल्य-कुमार-मुख्यान्परस्परं मुख्येषु वा विक्रमयेत् ॥ ०५.६.२५ ॥
pramriyamāṇe vā rājanyamātyaḥ kulya-kumāra-mukhyānparasparaṃ mukhyeṣu vā vikramayet .. 05.6.25 ..
विक्रान्तं प्रकृति-कोपेन घातयेत् ॥ ०५.६.२६ ॥
vikrāntaṃ prakṛti-kopena ghātayet .. 05.6.26 ..
कुल्य-कुमार-मुख्यानुपांशु-दण्डेन वा साधयित्वा स्वयं राज्यं गृह्णीयात् ॥ ०५.६.२७ ॥
kulya-kumāra-mukhyānupāṃśu-daṇḍena vā sādhayitvā svayaṃ rājyaṃ gṛhṇīyāt .. 05.6.27 ..
राज्य-कारणाद्द्हि पिता पुत्रान्पुत्राश्च पितरं अभिद्रुह्यन्ति । किं अङ्ग पुनरमात्य-प्रकृतिर्ह्येक-प्रग्रहो राज्यस्य ॥ ०५.६.२८ ॥
rājya-kāraṇādd_hi pitā putrānputrāśca pitaraṃ abhidruhyanti . kiṃ aṅga punaramātya-prakṛtirhyeka-pragraho rājyasya .. 05.6.28 ..
तत्स्वयं उपस्थितं नावमन्येत ॥ ०५.६.२९ ॥
tatsvayaṃ upasthitaṃ nāvamanyeta .. 05.6.29 ..
स्वयं आरूढा हि स्त्री त्यज्यमानाअभिशपति" इति लोक-प्रवादः ॥ ०५.६.३० ॥
svayaṃ ārūḍhā hi strī tyajyamānāabhiśapati" iti loka-pravādaḥ .. 05.6.30 ..
कालश्च सकृदभ्येति यं नरं काल-काङ्क्षिणं । ॥ ०५.६.३१अ ब ॥
kālaśca sakṛdabhyeti yaṃ naraṃ kāla-kāṅkṣiṇaṃ . .. 05.6.31a ba ..
दुर्लभः स पुनस्तस्य कालः कर्म चिकीर्षतः ॥ ०५.६.३१च्द् ॥
durlabhaḥ sa punastasya kālaḥ karma cikīrṣataḥ .. 05.6.31cd ..
प्रकृति-कोपकं अधर्मिष्ठं अनैकान्तिकं चएतदिति कौटिल्यः ॥ ०५.६.३२ ॥
prakṛti-kopakaṃ adharmiṣṭhaṃ anaikāntikaṃ caetaditi kauṭilyaḥ .. 05.6.32 ..
राज-पुत्रं आत्म-संपन्नं राज्ये स्थापयेत् ॥ ०५.६.३३ ॥
rāja-putraṃ ātma-saṃpannaṃ rājye sthāpayet .. 05.6.33 ..
संपन्न-अभावेअव्यसनिनं कुमारं राज-कन्यां गर्भिणीं देवीं वा पुरस्-कृत्य महा-मात्रान्संनिपात्य ब्रूयात्"अयं वो निक्षेपः । पितरं अस्यावेक्षध्वं सत्त्व-अभिजनं आत्मनश्च । ध्वज-मात्रोअयं भवन्त एव स्वामिनः । कथं वा क्रियताम्" इति ॥ ०५.६.३४ ॥
saṃpanna-abhāveavyasaninaṃ kumāraṃ rāja-kanyāṃ garbhiṇīṃ devīṃ vā puras-kṛtya mahā-mātrānsaṃnipātya brūyāt"ayaṃ vo nikṣepaḥ . pitaraṃ asyāvekṣadhvaṃ sattva-abhijanaṃ ātmanaśca . dhvaja-mātroayaṃ bhavanta eva svāminaḥ . kathaṃ vā kriyatām" iti .. 05.6.34 ..
तथा ब्रुवाणं योग-पुरुषा ब्रूयुः "कोअन्यो भवत्-पुरोगादस्माद्राज्ञश्चातुर्वर्ण्यं अर्हति पालयितुम्" इति ॥ ०५.६.३५ ॥
tathā bruvāṇaṃ yoga-puruṣā brūyuḥ "koanyo bhavat-purogādasmādrājñaścāturvarṇyaṃ arhati pālayitum" iti .. 05.6.35 ..
तथा इत्यमात्यः कुमारं राज-कन्यां गर्भिणीं देवीं वाअधिकुर्वीत । बन्धु-संबन्धिनां मित्र-अमित्र-दूतानां च दर्शयेत् ॥ ०५.६.३६ ॥
tathā ityamātyaḥ kumāraṃ rāja-kanyāṃ garbhiṇīṃ devīṃ vāadhikurvīta . bandhu-saṃbandhināṃ mitra-amitra-dūtānāṃ ca darśayet .. 05.6.36 ..
भक्त-वेतन-विशेषं अमात्यानां आयुधीयानां च कारयेत् । "भूयश्चायं वृद्धः करिष्यति" इति ब्रूयात् ॥ ०५.६.३७ ॥
bhakta-vetana-viśeṣaṃ amātyānāṃ āyudhīyānāṃ ca kārayet . "bhūyaścāyaṃ vṛddhaḥ kariṣyati" iti brūyāt .. 05.6.37 ..
एवं दुर्ग-राष्ट्र-मुख्यानाभाषेत । यथा-अर्हं च मित्र-अमित्र-पक्षं ॥ ०५.६.३८ ॥
evaṃ durga-rāṣṭra-mukhyānābhāṣeta . yathā-arhaṃ ca mitra-amitra-pakṣaṃ .. 05.6.38 ..
विनय-कर्मणि च कुमारस्य प्रयतेत ॥ ०५.६.३९ ॥
vinaya-karmaṇi ca kumārasya prayateta .. 05.6.39 ..
कन्यायां समान-जातीयादपत्यं उत्पाद्य वाअभिषिञ्चेत् ॥ ०५.६.४० ॥
kanyāyāṃ samāna-jātīyādapatyaṃ utpādya vāabhiṣiñcet .. 05.6.40 ..
मातुश्चित्त-क्षोभ-भयात्कुल्यं अल्प-सत्त्वं छात्रं च लक्षण्यं उपनिदध्यात् ॥ ०५.६.४१ ॥
mātuścitta-kṣobha-bhayātkulyaṃ alpa-sattvaṃ chātraṃ ca lakṣaṇyaṃ upanidadhyāt .. 05.6.41 ..
ऋतौ चएनां रक्षेत् ॥ ०५.६.४२ ॥
ṛtau caenāṃ rakṣet .. 05.6.42 ..
न चऽत्म-अर्थं कंचिदुत्कृष्टं उपभोगं कारयेत् ॥ ०५.६.४३ ॥
na ca'tma-arthaṃ kaṃcidutkṛṣṭaṃ upabhogaṃ kārayet .. 05.6.43 ..
राज-अर्थं तु यान-वाहन-आभरण-वस्त्र-स्त्री-वेश्म-परिवापान्कारयेत् ॥ ०५.६.४४ ॥
rāja-arthaṃ tu yāna-vāhana-ābharaṇa-vastra-strī-veśma-parivāpānkārayet .. 05.6.44 ..
यौवनस्थं च याचेत विश्रमं चित्त-कारणात् । ॥ ०५.६.४५अ ब ॥
yauvanasthaṃ ca yāceta viśramaṃ citta-kāraṇāt . .. 05.6.45a ba ..
परित्यजेदतुष्यन्तं तुष्यन्तं चानुपालयेत् ॥ ०५.६.४५च्द् ॥
parityajedatuṣyantaṃ tuṣyantaṃ cānupālayet .. 05.6.45cd ..
निवेद्य पुत्र-रक्षा-अर्थं गूढ-सार-परिग्रहान् । ॥ ०५.६.४६अ ब ॥
nivedya putra-rakṣā-arthaṃ gūḍha-sāra-parigrahān . .. 05.6.46a ba ..
अरण्यं दीर्घ-सत्त्रं वा सेवेतऽरुच्यतां गतः ॥ ०५.६.४६च्द् ॥
araṇyaṃ dīrgha-sattraṃ vā seveta'rucyatāṃ gataḥ .. 05.6.46cd ..
मुख्यैरवगृहीतं वा राजानं तत्-प्रिय-आश्रितः । ॥ ०५.६.४७अ ब ॥
mukhyairavagṛhītaṃ vā rājānaṃ tat-priya-āśritaḥ . .. 05.6.47a ba ..
इतिहास-पुराणाभ्यां बोधयेदर्थ-शास्त्रवित् ॥ ०५.६.४७च्द् ॥
itihāsa-purāṇābhyāṃ bodhayedartha-śāstravit .. 05.6.47cd ..
सिद्ध-व्यञ्जन-रूपो वा योगं आस्थाय पार्थिवं । ॥ ०५.६.४८अ ब ॥
siddha-vyañjana-rūpo vā yogaṃ āsthāya pārthivaṃ . .. 05.6.48a ba ..
लभेत लब्ध्वा दूष्येषु दाण्डकर्मिकं आचरेत् ॥ ०५.६.४८च्द् ॥
labheta labdhvā dūṣyeṣu dāṇḍakarmikaṃ ācaret .. 05.6.48cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In