| |
|

This overlay will guide you through the buttons:

उपधाभिः शुद्ध-अमात्य-वर्गो गूढ-पुरुषानुत्पादयेत्कापटिक-उदास्थित-गृह-पतिक-वैदेहक-तापस-व्यञ्जनान्सत्त्रि-तीष्क्ण-रसद-भिक्षुकीश्च ॥ ०१.११.०१ ॥
उपधाभिः शुद्ध-अमात्य-वर्गः गूढ-पुरुषान् उत्पादयेत् कापटिक-उदास्थित-गृह-पतिक-वैदेहक-तापस-व्यञ्जनान् सत्त्रि-तीष्क्ण-रसद-भिक्षुकीः च ॥ ०१।११।०१ ॥
upadhābhiḥ śuddha-amātya-vargaḥ gūḍha-puruṣān utpādayet kāpaṭika-udāsthita-gṛha-patika-vaidehaka-tāpasa-vyañjanān sattri-tīṣkṇa-rasada-bhikṣukīḥ ca .. 01.11.01 ..
पर-मर्मज्ञः प्रगल्भश्छात्रः कापटिकः ॥ ०१.११.०२ ॥
पर-मर्म-ज्ञः प्रगल्भः छात्रः कापटिकः ॥ ०१।११।०२ ॥
para-marma-jñaḥ pragalbhaḥ chātraḥ kāpaṭikaḥ .. 01.11.02 ..
तं अर्थ-मानाभ्यां प्रोत्साह्य मन्त्री ब्रूयात् "राजानं मां च प्रमाणं कृत्वा यस्य यदकुशलं पश्यसि तत्तदानीं एव प्रत्यादिश" इति ॥ ०१.११.०३ ॥
तम् अर्थ-मानाभ्याम् प्रोत्साह्य मन्त्री ब्रूयात् "राजानम् माम् च प्रमाणम् कृत्वा यस्य यत् अकुशलम् पश्यसि तत् तदानीम् एव प्रत्यादिश" इति ॥ ०१।११।०३ ॥
tam artha-mānābhyām protsāhya mantrī brūyāt "rājānam mām ca pramāṇam kṛtvā yasya yat akuśalam paśyasi tat tadānīm eva pratyādiśa" iti .. 01.11.03 ..
प्रव्रज्या प्रत्यवसितः प्रज्ञा-शौच-युक्त उदास्थितः ॥ ०१.११.०४ ॥
प्रव्रज्या-प्रत्यवसितः प्रज्ञा-शौच-युक्तः उदास्थितः ॥ ०१।११।०४ ॥
pravrajyā-pratyavasitaḥ prajñā-śauca-yuktaḥ udāsthitaḥ .. 01.11.04 ..
स वार्त्ता-कर्म-प्रदिष्टायां भूमौ प्रभूत-हिरण्य-अन्तेवासी कर्म कारयेत् ॥ ०१.११.०५ ॥
स वार्त्ता-कर्म-प्रदिष्टायाम् भूमौ प्रभूत-हिरण्य-अन्तेवासी कर्म कारयेत् ॥ ०१।११।०५ ॥
sa vārttā-karma-pradiṣṭāyām bhūmau prabhūta-hiraṇya-antevāsī karma kārayet .. 01.11.05 ..
कर्म-फलाच्च सर्व-प्रव्रजितानां ग्रास-आच्छादन-आवसथान्प्रतिविदध्यात् ॥ ०१.११.०६ ॥
कर्म-फलात् च सर्व-प्रव्रजितानाम् ग्रास-आच्छादन-आवसथान् प्रतिविदध्यात् ॥ ०१।११।०६ ॥
karma-phalāt ca sarva-pravrajitānām grāsa-ācchādana-āvasathān pratividadhyāt .. 01.11.06 ..
वृत्ति-कामांश्चौपजपेत् "एतेनएव वेषेण राज-अर्थश्चरितव्यो भक्त-वेतन-काले चौपस्थातव्यम्" इति ॥ ०१.११.०७ ॥
वृत्ति-कामान् च उपजपेत् "एतेन एव वेषेण राज-अर्थः चरितव्यः भक्त-वेतन-काले च औपस्थातव्यम्" इति ॥ ०१।११।०७ ॥
vṛtti-kāmān ca upajapet "etena eva veṣeṇa rāja-arthaḥ caritavyaḥ bhakta-vetana-kāle ca aupasthātavyam" iti .. 01.11.07 ..
सर्व-प्रव्रजिताश्च स्वं स्वं वर्गं एवं उपजपेयुः ॥ ०१.११.०८ ॥
सर्व-प्रव्रजिताः च स्वम् स्वम् वर्गम् एवम् उपजपेयुः ॥ ०१।११।०८ ॥
sarva-pravrajitāḥ ca svam svam vargam evam upajapeyuḥ .. 01.11.08 ..
कर्षको वृत्ति-क्षीणः प्रज्ञा-शौच-युक्तो गृह-पतिक-व्यञ्जनः ॥ ०१.११.०९ ॥
कर्षकः वृत्ति-क्षीणः प्रज्ञा-शौच-युक्तः गृह-पतिक-व्यञ्जनः ॥ ०१।११।०९ ॥
karṣakaḥ vṛtti-kṣīṇaḥ prajñā-śauca-yuktaḥ gṛha-patika-vyañjanaḥ .. 01.11.09 ..
स कृषि-कर्म-प्रदिष्टायां भूमौ इति समानं पूर्वेण ॥ ०१.११.१० ॥
स कृषि-कर्म-प्रदिष्टायाम् भूमौ इति समानम् पूर्वेण ॥ ०१।११।१० ॥
sa kṛṣi-karma-pradiṣṭāyām bhūmau iti samānam pūrveṇa .. 01.11.10 ..
वाणिजको वृत्ति-क्षीणः प्रज्ञा-शौच-युक्तो वैदेहक-व्यञ्जनः ॥ ०१.११.११ ॥
वाणिजकः वृत्ति-क्षीणः प्रज्ञा-शौच-युक्तः वैदेहक-व्यञ्जनः ॥ ०१।११।११ ॥
vāṇijakaḥ vṛtti-kṣīṇaḥ prajñā-śauca-yuktaḥ vaidehaka-vyañjanaḥ .. 01.11.11 ..
स वणिक्-कर्म-प्रदिष्टायां भूमौ इति समानं पूर्वेण ॥ ०१.११.१२ ॥
स वणिज्-कर्म-प्रदिष्टायाम् भूमौ इति समानम् पूर्वेण ॥ ०१।११।१२ ॥
sa vaṇij-karma-pradiṣṭāyām bhūmau iti samānam pūrveṇa .. 01.11.12 ..
मुण्डो जटिलो वा वृत्ति-कामस्तापस-व्यञ्जनः ॥ ०१.११.१३ ॥
मुण्डः जटिलः वा वृत्ति-कामः तापस-व्यञ्जनः ॥ ०१।११।१३ ॥
muṇḍaḥ jaṭilaḥ vā vṛtti-kāmaḥ tāpasa-vyañjanaḥ .. 01.11.13 ..
स नगर-अभ्याशे प्रभूत-मुण्ड-जटिल-अन्तेवासी शाकं यव-मुष्टिं वा मास-द्विमास-अन्तरं प्रकाशं अश्नीयात् । गूढं इष्टं आहारं ॥ ०१.११.१४ ॥
स नगर-अभ्याशे प्रभूत-मुण्ड-जटिल-अन्तेवासी शाकम् यव-मुष्टिम् वा मास-द्वि-मास-अन्तरम् प्रकाशम् अश्नीयात् । गूढम् इष्टम् आहारम् ॥ ०१।११।१४ ॥
sa nagara-abhyāśe prabhūta-muṇḍa-jaṭila-antevāsī śākam yava-muṣṭim vā māsa-dvi-māsa-antaram prakāśam aśnīyāt . gūḍham iṣṭam āhāram .. 01.11.14 ..
वैदेहक-अन्तेवासिनश्चएनं समिद्ध-योगैरर्चयेयुः ॥ ०१.११.१५ ॥
वैदेहक-अन्तेवासिनः च एनम् समिद्ध-योगैः अर्चयेयुः ॥ ०१।११।१५ ॥
vaidehaka-antevāsinaḥ ca enam samiddha-yogaiḥ arcayeyuḥ .. 01.11.15 ..
शिष्याश्चास्यऽवेदयेयुः "असौ सिद्धः सामेधिकः" इति ॥ ०१.११.१६ ॥
शिष्याः च अस्य अवेदयेयुः "असौ सिद्धः सामेधिकः" इति ॥ ०१।११।१६ ॥
śiṣyāḥ ca asya avedayeyuḥ "asau siddhaḥ sāmedhikaḥ" iti .. 01.11.16 ..
समेध-आशास्तिभिश्चाभिगतानां अङ्ग-विद्यया शिष्य-संज्ञाभिश्च कर्माण्यभिजने अवसितान्यादिशेत् अल्प-लाभं अग्नि-दाहं चोर-भयं दूष्य-वधं तुष्टि-दानं विदेश-प्रवृत्ति-ज्ञानम् । "इदं अद्य श्वो वा भविष्यति । इदं वा राजा करिष्यति" इति ॥ ०१.११.१७ ॥
स मेध-आशास्तिभिः च अभिगतानाम् अङ्ग-विद्यया शिष्य-संज्ञाभिः च कर्माणि अभिजने अवसितानि आदिशेत् अल्प-लाभम् अग्नि-दाहम् चोर-भयम् दूष्य-वधम् तुष्टि-दानम् विदेश-प्रवृत्ति-ज्ञानम् । "इदम् अद्य श्वस् वा भविष्यति । इदम् वा राजा करिष्यति" इति ॥ ०१।११।१७ ॥
sa medha-āśāstibhiḥ ca abhigatānām aṅga-vidyayā śiṣya-saṃjñābhiḥ ca karmāṇi abhijane avasitāni ādiśet alpa-lābham agni-dāham cora-bhayam dūṣya-vadham tuṣṭi-dānam videśa-pravṛtti-jñānam . "idam adya śvas vā bhaviṣyati . idam vā rājā kariṣyati" iti .. 01.11.17 ..
तदस्य गूढाः सत्त्रिणश्च सम्पादयेयुः ॥ ०१.११.१८ ॥
तत् अस्य गूढाः सत्त्रिणः च सम्पादयेयुः ॥ ०१।११।१८ ॥
tat asya gūḍhāḥ sattriṇaḥ ca sampādayeyuḥ .. 01.11.18 ..
सत्त्व-प्रज्ञा-वाक्य-शक्ति-सम्पन्नानां राज-भाग्यं अनुव्याहरेत् । मन्त्रि-सम्योगं च ब्रूयात् ॥ ०१.११.१९ ॥
सत्त्व-प्रज्ञा-वाक्य-शक्ति-सम्पन्नानाम् राज-भाग्यम् अनुव्याहरेत् । मन्त्रि-सम्योगम् च ब्रूयात् ॥ ०१।११।१९ ॥
sattva-prajñā-vākya-śakti-sampannānām rāja-bhāgyam anuvyāharet . mantri-samyogam ca brūyāt .. 01.11.19 ..
मन्त्री चएषां वृत्ति-कर्मभ्यां वियतेत ॥ ०१.११.२० ॥
मन्त्री च एषाम् वृत्ति-कर्मभ्याम् वियतेत ॥ ०१।११।२० ॥
mantrī ca eṣām vṛtti-karmabhyām viyateta .. 01.11.20 ..
ये च कारणादभिक्रुद्धास्तानर्थ-मानाभ्यां शमयेत् । अकारण-क्रुद्धांस्तूष्णीं दण्डेन । राज-द्विष्ट-कारिणश्च ॥ ०१.११.२१ ॥
ये च कारणात् अभिक्रुद्धाः तान् अर्थ-मानाभ्याम् शमयेत् । अकारण-क्रुद्धान् तूष्णीम् दण्डेन । राज-द्विष्ट-कारिणः च ॥ ०१।११।२१ ॥
ye ca kāraṇāt abhikruddhāḥ tān artha-mānābhyām śamayet . akāraṇa-kruddhān tūṣṇīm daṇḍena . rāja-dviṣṭa-kāriṇaḥ ca .. 01.11.21 ..
पूजिताश्चार्थ-मानाभ्यां राज्ञा राज-उपजीविनां ॥ ०१.११.२२अ ब ॥
पूजिताः च अर्थ-मानाभ्याम् राज्ञा राज-उपजीविनाम् ॥ ०१।११।२२अ ब ॥
pūjitāḥ ca artha-mānābhyām rājñā rāja-upajīvinām .. 01.11.22a ba ..
जानीयुः शौचं इत्येताः पञ्च-संस्थाः प्रकीर्तिताः ॥ ०१.११.२२च्द् ॥
जानीयुः शौचम् इति एताः पञ्च-संस्थाः प्रकीर्तिताः ॥ ०१।११।२२च् ॥
jānīyuḥ śaucam iti etāḥ pañca-saṃsthāḥ prakīrtitāḥ .. 01.11.22c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In