| |
|

This overlay will guide you through the buttons:

उपधाभिः शुद्ध-अमात्य-वर्गो गूढ-पुरुषानुत्पादयेत्कापटिक-उदास्थित-गृह-पतिक-वैदेहक-तापस-व्यञ्जनान्सत्त्रि-तीष्क्ण-रसद-भिक्षुकीश्च ॥ ०१.११.०१ ॥
upadhābhiḥ śuddha-amātya-vargo gūḍha-puruṣānutpādayetkāpaṭika-udāsthita-gṛha-patika-vaidehaka-tāpasa-vyañjanānsattri-tīṣkṇa-rasada-bhikṣukīśca .. 01.11.01 ..
पर-मर्मज्ञः प्रगल्भश्छात्रः कापटिकः ॥ ०१.११.०२ ॥
para-marmajñaḥ pragalbhaśchātraḥ kāpaṭikaḥ .. 01.11.02 ..
तं अर्थ-मानाभ्यां प्रोत्साह्य मन्त्री ब्रूयात् "राजानं मां च प्रमाणं कृत्वा यस्य यदकुशलं पश्यसि तत्तदानीं एव प्रत्यादिश" इति ॥ ०१.११.०३ ॥
taṃ artha-mānābhyāṃ protsāhya mantrī brūyāt "rājānaṃ māṃ ca pramāṇaṃ kṛtvā yasya yadakuśalaṃ paśyasi tattadānīṃ eva pratyādiśa" iti .. 01.11.03 ..
प्रव्रज्या प्रत्यवसितः प्रज्ञा-शौच-युक्त उदास्थितः ॥ ०१.११.०४ ॥
pravrajyā pratyavasitaḥ prajñā-śauca-yukta udāsthitaḥ .. 01.11.04 ..
स वार्त्ता-कर्म-प्रदिष्टायां भूमौ प्रभूत-हिरण्य-अन्तेवासी कर्म कारयेत् ॥ ०१.११.०५ ॥
sa vārttā-karma-pradiṣṭāyāṃ bhūmau prabhūta-hiraṇya-antevāsī karma kārayet .. 01.11.05 ..
कर्म-फलाच्च सर्व-प्रव्रजितानां ग्रास-आच्छादन-आवसथान्प्रतिविदध्यात् ॥ ०१.११.०६ ॥
karma-phalācca sarva-pravrajitānāṃ grāsa-ācchādana-āvasathānpratividadhyāt .. 01.11.06 ..
वृत्ति-कामांश्चौपजपेत् "एतेनएव वेषेण राज-अर्थश्चरितव्यो भक्त-वेतन-काले चौपस्थातव्यम्" इति ॥ ०१.११.०७ ॥
vṛtti-kāmāṃścaupajapet "etenaeva veṣeṇa rāja-arthaścaritavyo bhakta-vetana-kāle caupasthātavyam" iti .. 01.11.07 ..
सर्व-प्रव्रजिताश्च स्वं स्वं वर्गं एवं उपजपेयुः ॥ ०१.११.०८ ॥
sarva-pravrajitāśca svaṃ svaṃ vargaṃ evaṃ upajapeyuḥ .. 01.11.08 ..
कर्षको वृत्ति-क्षीणः प्रज्ञा-शौच-युक्तो गृह-पतिक-व्यञ्जनः ॥ ०१.११.०९ ॥
karṣako vṛtti-kṣīṇaḥ prajñā-śauca-yukto gṛha-patika-vyañjanaḥ .. 01.11.09 ..
स कृषि-कर्म-प्रदिष्टायां भूमौ इति समानं पूर्वेण ॥ ०१.११.१० ॥
sa kṛṣi-karma-pradiṣṭāyāṃ bhūmau iti samānaṃ pūrveṇa .. 01.11.10 ..
वाणिजको वृत्ति-क्षीणः प्रज्ञा-शौच-युक्तो वैदेहक-व्यञ्जनः ॥ ०१.११.११ ॥
vāṇijako vṛtti-kṣīṇaḥ prajñā-śauca-yukto vaidehaka-vyañjanaḥ .. 01.11.11 ..
स वणिक्-कर्म-प्रदिष्टायां भूमौ इति समानं पूर्वेण ॥ ०१.११.१२ ॥
sa vaṇik-karma-pradiṣṭāyāṃ bhūmau iti samānaṃ pūrveṇa .. 01.11.12 ..
मुण्डो जटिलो वा वृत्ति-कामस्तापस-व्यञ्जनः ॥ ०१.११.१३ ॥
muṇḍo jaṭilo vā vṛtti-kāmastāpasa-vyañjanaḥ .. 01.11.13 ..
स नगर-अभ्याशे प्रभूत-मुण्ड-जटिल-अन्तेवासी शाकं यव-मुष्टिं वा मास-द्विमास-अन्तरं प्रकाशं अश्नीयात् । गूढं इष्टं आहारं ॥ ०१.११.१४ ॥
sa nagara-abhyāśe prabhūta-muṇḍa-jaṭila-antevāsī śākaṃ yava-muṣṭiṃ vā māsa-dvimāsa-antaraṃ prakāśaṃ aśnīyāt . gūḍhaṃ iṣṭaṃ āhāraṃ .. 01.11.14 ..
वैदेहक-अन्तेवासिनश्चएनं समिद्ध-योगैरर्चयेयुः ॥ ०१.११.१५ ॥
vaidehaka-antevāsinaścaenaṃ samiddha-yogairarcayeyuḥ .. 01.11.15 ..
शिष्याश्चास्यऽवेदयेयुः "असौ सिद्धः सामेधिकः" इति ॥ ०१.११.१६ ॥
śiṣyāścāsya'vedayeyuḥ "asau siddhaḥ sāmedhikaḥ" iti .. 01.11.16 ..
समेध-आशास्तिभिश्चाभिगतानां अङ्ग-विद्यया शिष्य-संज्ञाभिश्च कर्माण्यभिजने अवसितान्यादिशेत् अल्प-लाभं अग्नि-दाहं चोर-भयं दूष्य-वधं तुष्टि-दानं विदेश-प्रवृत्ति-ज्ञानम् । "इदं अद्य श्वो वा भविष्यति । इदं वा राजा करिष्यति" इति ॥ ०१.११.१७ ॥
samedha-āśāstibhiścābhigatānāṃ aṅga-vidyayā śiṣya-saṃjñābhiśca karmāṇyabhijane avasitānyādiśet alpa-lābhaṃ agni-dāhaṃ cora-bhayaṃ dūṣya-vadhaṃ tuṣṭi-dānaṃ videśa-pravṛtti-jñānam . "idaṃ adya śvo vā bhaviṣyati . idaṃ vā rājā kariṣyati" iti .. 01.11.17 ..
तदस्य गूढाः सत्त्रिणश्च सम्पादयेयुः ॥ ०१.११.१८ ॥
tadasya gūḍhāḥ sattriṇaśca sampādayeyuḥ .. 01.11.18 ..
सत्त्व-प्रज्ञा-वाक्य-शक्ति-सम्पन्नानां राज-भाग्यं अनुव्याहरेत् । मन्त्रि-सम्योगं च ब्रूयात् ॥ ०१.११.१९ ॥
sattva-prajñā-vākya-śakti-sampannānāṃ rāja-bhāgyaṃ anuvyāharet . mantri-samyogaṃ ca brūyāt .. 01.11.19 ..
मन्त्री चएषां वृत्ति-कर्मभ्यां वियतेत ॥ ०१.११.२० ॥
mantrī caeṣāṃ vṛtti-karmabhyāṃ viyateta .. 01.11.20 ..
ये च कारणादभिक्रुद्धास्तानर्थ-मानाभ्यां शमयेत् । अकारण-क्रुद्धांस्तूष्णीं दण्डेन । राज-द्विष्ट-कारिणश्च ॥ ०१.११.२१ ॥
ye ca kāraṇādabhikruddhāstānartha-mānābhyāṃ śamayet . akāraṇa-kruddhāṃstūṣṇīṃ daṇḍena . rāja-dviṣṭa-kāriṇaśca .. 01.11.21 ..
पूजिताश्चार्थ-मानाभ्यां राज्ञा राज-उपजीविनां ॥ ०१.११.२२अ ब ॥
pūjitāścārtha-mānābhyāṃ rājñā rāja-upajīvināṃ .. 01.11.22a ba ..
जानीयुः शौचं इत्येताः पञ्च-संस्थाः प्रकीर्तिताः ॥ ०१.११.२२च्द् ॥
jānīyuḥ śaucaṃ ityetāḥ pañca-saṃsthāḥ prakīrtitāḥ .. 01.11.22cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In