| |
|

This overlay will guide you through the buttons:

कृत-महा-मात्र-अपसर्पः पौर-जानपदानपसर्पयेत् ॥ ०१.१३.०१ ॥
कृत-महा-मात्र-अपसर्पः पौर-जानपदान् अपसर्पयेत् ॥ ०१।१३।०१ ॥
kṛta-mahā-mātra-apasarpaḥ paura-jānapadān apasarpayet .. 01.13.01 ..
सत्त्रिणो द्वन्द्विनस्तीर्थ-सभा-पूग-जन-समवायेषु विवादं कुर्युः ॥ ०१.१३.०२ ॥
सत्त्रिणः द्वन्द्विनः तीर्थ-सभा-पूग-जन-समवायेषु विवादम् कुर्युः ॥ ०१।१३।०२ ॥
sattriṇaḥ dvandvinaḥ tīrtha-sabhā-pūga-jana-samavāyeṣu vivādam kuryuḥ .. 01.13.02 ..
सर्व-गुण-सम्पन्नश्चायं राजा श्रूयते । न चास्य कश्चिद्गुणो दृश्यते यः पौर-जानपदान्दण्ड-कराभ्यां पीडयति इति ॥ ०१.१३.०३ ॥
सर्व-गुण-सम्पन्नः च अयम् राजा श्रूयते । न च अस्य कश्चिद् गुणः दृश्यते यः पौर-जानपदान् दण्ड-कराभ्याम् पीडयति इति ॥ ०१।१३।०३ ॥
sarva-guṇa-sampannaḥ ca ayam rājā śrūyate . na ca asya kaścid guṇaḥ dṛśyate yaḥ paura-jānapadān daṇḍa-karābhyām pīḍayati iti .. 01.13.03 ..
तत्र येअनुप्रशंसेयुस्तानितरस्तं च प्रतिषेधयेत् ॥ ०१.१३.०४ ॥
तत्र ये अनुप्रशंसेयुः तान् इतरः तम् च प्रतिषेधयेत् ॥ ०१।१३।०४ ॥
tatra ye anupraśaṃseyuḥ tān itaraḥ tam ca pratiṣedhayet .. 01.13.04 ..
मात्स्य-न्याय-अभिभूताः प्रजा मनुं वैवस्वतं राजानं चक्रिरे ॥ ०१.१३.०५ ॥ धान्य-षड्-भागं पण्य-दश-भागं हिरण्यं चास्य भाग-धेयं प्रकल्पयामासुः ॥ ०१.१३.०६ ॥ तेन भृता राजानः प्रजानां योग-क्षेम-आवहाः ॥ ०१.१३.०७ ॥ तेषां किल्बिषं अदण्ड-करा हरन्त्ययोग-क्षेम-आवहाश्च प्रजानां ॥ ०१.१३.०८ ॥ तस्मादुञ्छ-षड्-भागं आरण्यकाअपि निर्वपन्ति तस्यएतद्भाग-धेयं योअस्मान्गोपायति" इति ॥ ०१.१३.०९ ॥
मात्स्य-न्याय-अभिभूताः प्रजाः मनुम् वैवस्वतम् राजानम् चक्रिरे ॥ ०१।१३।०५ ॥ धान्य-षष्-भागम् पण्य-दश-भागम् हिरण्यम् च अस्य भाग-धेयम् प्रकल्पयामासुः ॥ ०१।१३।०६ ॥ तेन भृताः राजानः प्रजानाम् योग-क्षेम-आवहाः ॥ ०१।१३।०७ ॥ तेषाम् किल्बिषम् अ दण्ड-कराः हरन्ति अयोग-क्षेम-आवहाः च प्रजानाम् ॥ ०१।१३।०८ ॥ तस्मात् उञ्छ-षष्-भागम् आरण्यकाः अपि निर्वपन्ति तस्य एतत् भाग-धेयम् यः अस्मान् गोपायति" इति ॥ ०१।१३।०९ ॥
mātsya-nyāya-abhibhūtāḥ prajāḥ manum vaivasvatam rājānam cakrire .. 01.13.05 .. dhānya-ṣaṣ-bhāgam paṇya-daśa-bhāgam hiraṇyam ca asya bhāga-dheyam prakalpayāmāsuḥ .. 01.13.06 .. tena bhṛtāḥ rājānaḥ prajānām yoga-kṣema-āvahāḥ .. 01.13.07 .. teṣām kilbiṣam a daṇḍa-karāḥ haranti ayoga-kṣema-āvahāḥ ca prajānām .. 01.13.08 .. tasmāt uñcha-ṣaṣ-bhāgam āraṇyakāḥ api nirvapanti tasya etat bhāga-dheyam yaḥ asmān gopāyati" iti .. 01.13.09 ..
इन्द्र-यम-स्थानं एतद्राजानः प्रत्यक्ष-हेड-प्रसादाः ॥ ०१.१३.१० ॥
इन्द्र-यम-स्थानम् एतद्-राजानः प्रत्यक्ष-हेड-प्रसादाः ॥ ०१।१३।१० ॥
indra-yama-sthānam etad-rājānaḥ pratyakṣa-heḍa-prasādāḥ .. 01.13.10 ..
तानवमन्यमानान्दैवोअपि दण्डः स्पृशति ॥ ०१.१३.११ ॥
तान् अवमन्यमानान् दैवः अपि दण्डः स्पृशति ॥ ०१।१३।११ ॥
tān avamanyamānān daivaḥ api daṇḍaḥ spṛśati .. 01.13.11 ..
तस्माद्राजानो नावमन्तव्याः ॥ ०१.१३.१२ ॥
तस्मात् राजानः न अवमन्तव्याः ॥ ०१।१३।१२ ॥
tasmāt rājānaḥ na avamantavyāḥ .. 01.13.12 ..
इत्येवं क्षुद्रकान्प्रतिषेधयेत् ॥ ०१.१३.१३ ॥
इति एवम् क्षुद्रकान् प्रतिषेधयेत् ॥ ०१।१३।१३ ॥
iti evam kṣudrakān pratiṣedhayet .. 01.13.13 ..
किं-वदन्तीं च विद्युः ॥ ०१.१३.१४ ॥
किम् वदन्तीम् च विद्युः ॥ ०१।१३।१४ ॥
kim vadantīm ca vidyuḥ .. 01.13.14 ..
ये चास्य धान्य-पशु-हिरण्यान्याजीवन्ति । तैरुपकुर्वन्ति व्यसनेअभ्युदये वा । कुपितं बन्धुं राष्ट्रं वा व्यावर्तयन्ति । अमित्रं आटविकं वा प्रतिषेधयन्ति । तेषां मुण्ड-जटिल-व्यञ्जनास्तुष्ट-अतुष्टत्वं विद्युः ॥ ०१.१३.१५ ॥
ये च अस्य धान्य-पशु-हिरण्यानि आजीवन्ति । तैः उपकुर्वन्ति व्यसने अभ्युदये वा । कुपितम् बन्धुम् राष्ट्रम् वा व्यावर्तयन्ति । अमित्रम् आटविकम् वा प्रतिषेधयन्ति । तेषाम् मुण्ड-जटिल-व्यञ्जनाः तुष्ट-अतुष्ट-त्वम् विद्युः ॥ ०१।१३।१५ ॥
ye ca asya dhānya-paśu-hiraṇyāni ājīvanti . taiḥ upakurvanti vyasane abhyudaye vā . kupitam bandhum rāṣṭram vā vyāvartayanti . amitram āṭavikam vā pratiṣedhayanti . teṣām muṇḍa-jaṭila-vyañjanāḥ tuṣṭa-atuṣṭa-tvam vidyuḥ .. 01.13.15 ..
तुष्टान्भूयोअर्थ-मानाभ्यां पूजयेत् ॥ ०१.१३.१६ ॥
तुष्टान् भूयोअर्थ-मानाभ्याम् पूजयेत् ॥ ०१।१३।१६ ॥
tuṣṭān bhūyoartha-mānābhyām pūjayet .. 01.13.16 ..
अतुष्टांस्तुष्टि-हेतोस्त्यागेन साम्ना च प्रसादयेत् ॥ ०१.१३.१७ ॥
अतुष्टान् तुष्टि-हेतोः त्यागेन साम्ना च प्रसादयेत् ॥ ०१।१३।१७ ॥
atuṣṭān tuṣṭi-hetoḥ tyāgena sāmnā ca prasādayet .. 01.13.17 ..
परस्पराद्वा भेदयेदेनान् । सामन्त-आटविक-तत्-कुलीन-अपरुद्धेभ्यश्च ॥ ०१.१३.१८ ॥
परस्परात् वा भेदयेत् एनान् । सामन्त-आटविक-तद्-कुलीन-अपरुद्धेभ्यः च ॥ ०१।१३।१८ ॥
parasparāt vā bhedayet enān . sāmanta-āṭavika-tad-kulīna-aparuddhebhyaḥ ca .. 01.13.18 ..
तथाअप्यतुष्यतो दण्ड-कर-साधन-अधिकारेण जनपद-विद्वेषं ग्राहयेत् ॥ ०१.१३.१९ ॥
तथा अपि अतुष्यतः दण्ड-कर-साधन-अधिकारेण जनपद-विद्वेषम् ग्राहयेत् ॥ ०१।१३।१९ ॥
tathā api atuṣyataḥ daṇḍa-kara-sādhana-adhikāreṇa janapada-vidveṣam grāhayet .. 01.13.19 ..
विविष्टानुपांशु-दण्डेन जनपद-कोपेन वा साधयेत् ॥ ०१.१३.२० ॥
विविष्टान् उपांशु दण्डेन जनपद-कोपेन वा साधयेत् ॥ ०१।१३।२० ॥
viviṣṭān upāṃśu daṇḍena janapada-kopena vā sādhayet .. 01.13.20 ..
गुप्त-पुत्र-दारानाकर-कर्म-अन्तेषु वा वासयेत्परेषां आस्पद-भयात् ॥ ०१.१३.२१ ॥
गुप्त-पुत्र-दारान् आकर-कर्म-अन्तेषु वा वासयेत् परेषाम् आस्पद-भयात् ॥ ०१।१३।२१ ॥
gupta-putra-dārān ākara-karma-anteṣu vā vāsayet pareṣām āspada-bhayāt .. 01.13.21 ..
क्रुद्ध-लुब्ध-भीत-मानिनस्तु परेषां कृत्याः ॥ ०१.१३.२२ ॥
क्रुद्ध-लुब्ध-भीत-मानिनः तु परेषाम् कृत्याः ॥ ०१।१३।२२ ॥
kruddha-lubdha-bhīta-māninaḥ tu pareṣām kṛtyāḥ .. 01.13.22 ..
तेषां कार्तान्तिक-नैमित्तिक-मौहूर्तिक-व्यञ्जनाः परस्पर-अभिसम्बन्धं अमित्र-आटविक-सम्बन्धं वा विद्युः ॥ ०१.१३.२३ ॥
तेषाम् कार्तान्तिक-नैमित्तिक-मौहूर्तिक-व्यञ्जनाः परस्पर-अभिसम्बन्धम् अमित्र-आटविक-सम्बन्धम् वा विद्युः ॥ ०१।१३।२३ ॥
teṣām kārtāntika-naimittika-mauhūrtika-vyañjanāḥ paraspara-abhisambandham amitra-āṭavika-sambandham vā vidyuḥ .. 01.13.23 ..
तुष्टानर्थ-मानाभ्यां पूजयेत् ॥ ०१.१३.२४ ॥
तुष्ट-अनर्थ-मानाभ्याम् पूजयेत् ॥ ०१।१३।२४ ॥
tuṣṭa-anartha-mānābhyām pūjayet .. 01.13.24 ..
अतुष्टान्साम-दान-भेद-दण्डैः साधयेत् ॥ ०१.१३.२५ ॥
अतुष्टान् साम-दान-भेद-दण्डैः साधयेत् ॥ ०१।१३।२५ ॥
atuṣṭān sāma-dāna-bheda-daṇḍaiḥ sādhayet .. 01.13.25 ..
एवं स्व-विषये कृत्यानकृत्यांश्च विचक्षणः ॥ ०१.१३.२६अ ब ॥
एवम् स्व-विषये कृत्यान् अकृत्यान् च विचक्षणः ॥ ०१।१३।२६अ ब ॥
evam sva-viṣaye kṛtyān akṛtyān ca vicakṣaṇaḥ .. 01.13.26a ba ..
पर-उपजापात्सम्रक्षेत्प्रधानान्क्षुद्रकानपि ॥ ०१.१३.२६च्द् ॥
पर-उपजापात् सम्रक्षेत् प्रधानान् क्षुद्रकान् अपि ॥ ०१।१३।२६च् ॥
para-upajāpāt samrakṣet pradhānān kṣudrakān api .. 01.13.26c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In