| |
|

This overlay will guide you through the buttons:

कृत-महा-मात्र-अपसर्पः पौर-जानपदानपसर्पयेत् ॥ ०१.१३.०१ ॥
kṛta-mahā-mātra-apasarpaḥ paura-jānapadānapasarpayet .. 01.13.01 ..
सत्त्रिणो द्वन्द्विनस्तीर्थ-सभा-पूग-जन-समवायेषु विवादं कुर्युः ॥ ०१.१३.०२ ॥
sattriṇo dvandvinastīrtha-sabhā-pūga-jana-samavāyeṣu vivādaṃ kuryuḥ .. 01.13.02 ..
सर्व-गुण-सम्पन्नश्चायं राजा श्रूयते । न चास्य कश्चिद्गुणो दृश्यते यः पौर-जानपदान्दण्ड-कराभ्यां पीडयति इति ॥ ०१.१३.०३ ॥
sarva-guṇa-sampannaścāyaṃ rājā śrūyate . na cāsya kaścidguṇo dṛśyate yaḥ paura-jānapadāndaṇḍa-karābhyāṃ pīḍayati iti .. 01.13.03 ..
तत्र येअनुप्रशंसेयुस्तानितरस्तं च प्रतिषेधयेत् ॥ ०१.१३.०४ ॥
tatra yeanupraśaṃseyustānitarastaṃ ca pratiṣedhayet .. 01.13.04 ..
मात्स्य-न्याय-अभिभूताः प्रजा मनुं वैवस्वतं राजानं चक्रिरे ॥ ०१.१३.०५ ॥ धान्य-षड्-भागं पण्य-दश-भागं हिरण्यं चास्य भाग-धेयं प्रकल्पयामासुः ॥ ०१.१३.०६ ॥ तेन भृता राजानः प्रजानां योग-क्षेम-आवहाः ॥ ०१.१३.०७ ॥ तेषां किल्बिषं अदण्ड-करा हरन्त्ययोग-क्षेम-आवहाश्च प्रजानां ॥ ०१.१३.०८ ॥ तस्मादुञ्छ-षड्-भागं आरण्यकाअपि निर्वपन्ति तस्यएतद्भाग-धेयं योअस्मान्गोपायति" इति ॥ ०१.१३.०९ ॥
mātsya-nyāya-abhibhūtāḥ prajā manuṃ vaivasvataṃ rājānaṃ cakrire .. 01.13.05 .. dhānya-ṣaḍ-bhāgaṃ paṇya-daśa-bhāgaṃ hiraṇyaṃ cāsya bhāga-dheyaṃ prakalpayāmāsuḥ .. 01.13.06 .. tena bhṛtā rājānaḥ prajānāṃ yoga-kṣema-āvahāḥ .. 01.13.07 .. teṣāṃ kilbiṣaṃ adaṇḍa-karā harantyayoga-kṣema-āvahāśca prajānāṃ .. 01.13.08 .. tasmāduñcha-ṣaḍ-bhāgaṃ āraṇyakāapi nirvapanti tasyaetadbhāga-dheyaṃ yoasmāngopāyati" iti .. 01.13.09 ..
इन्द्र-यम-स्थानं एतद्राजानः प्रत्यक्ष-हेड-प्रसादाः ॥ ०१.१३.१० ॥
indra-yama-sthānaṃ etadrājānaḥ pratyakṣa-heḍa-prasādāḥ .. 01.13.10 ..
तानवमन्यमानान्दैवोअपि दण्डः स्पृशति ॥ ०१.१३.११ ॥
tānavamanyamānāndaivoapi daṇḍaḥ spṛśati .. 01.13.11 ..
तस्माद्राजानो नावमन्तव्याः ॥ ०१.१३.१२ ॥
tasmādrājāno nāvamantavyāḥ .. 01.13.12 ..
इत्येवं क्षुद्रकान्प्रतिषेधयेत् ॥ ०१.१३.१३ ॥
ityevaṃ kṣudrakānpratiṣedhayet .. 01.13.13 ..
किं-वदन्तीं च विद्युः ॥ ०१.१३.१४ ॥
kiṃ-vadantīṃ ca vidyuḥ .. 01.13.14 ..
ये चास्य धान्य-पशु-हिरण्यान्याजीवन्ति । तैरुपकुर्वन्ति व्यसनेअभ्युदये वा । कुपितं बन्धुं राष्ट्रं वा व्यावर्तयन्ति । अमित्रं आटविकं वा प्रतिषेधयन्ति । तेषां मुण्ड-जटिल-व्यञ्जनास्तुष्ट-अतुष्टत्वं विद्युः ॥ ०१.१३.१५ ॥
ye cāsya dhānya-paśu-hiraṇyānyājīvanti . tairupakurvanti vyasaneabhyudaye vā . kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti . amitraṃ āṭavikaṃ vā pratiṣedhayanti . teṣāṃ muṇḍa-jaṭila-vyañjanāstuṣṭa-atuṣṭatvaṃ vidyuḥ .. 01.13.15 ..
तुष्टान्भूयोअर्थ-मानाभ्यां पूजयेत् ॥ ०१.१३.१६ ॥
tuṣṭānbhūyoartha-mānābhyāṃ pūjayet .. 01.13.16 ..
अतुष्टांस्तुष्टि-हेतोस्त्यागेन साम्ना च प्रसादयेत् ॥ ०१.१३.१७ ॥
atuṣṭāṃstuṣṭi-hetostyāgena sāmnā ca prasādayet .. 01.13.17 ..
परस्पराद्वा भेदयेदेनान् । सामन्त-आटविक-तत्-कुलीन-अपरुद्धेभ्यश्च ॥ ०१.१३.१८ ॥
parasparādvā bhedayedenān . sāmanta-āṭavika-tat-kulīna-aparuddhebhyaśca .. 01.13.18 ..
तथाअप्यतुष्यतो दण्ड-कर-साधन-अधिकारेण जनपद-विद्वेषं ग्राहयेत् ॥ ०१.१३.१९ ॥
tathāapyatuṣyato daṇḍa-kara-sādhana-adhikāreṇa janapada-vidveṣaṃ grāhayet .. 01.13.19 ..
विविष्टानुपांशु-दण्डेन जनपद-कोपेन वा साधयेत् ॥ ०१.१३.२० ॥
viviṣṭānupāṃśu-daṇḍena janapada-kopena vā sādhayet .. 01.13.20 ..
गुप्त-पुत्र-दारानाकर-कर्म-अन्तेषु वा वासयेत्परेषां आस्पद-भयात् ॥ ०१.१३.२१ ॥
gupta-putra-dārānākara-karma-anteṣu vā vāsayetpareṣāṃ āspada-bhayāt .. 01.13.21 ..
क्रुद्ध-लुब्ध-भीत-मानिनस्तु परेषां कृत्याः ॥ ०१.१३.२२ ॥
kruddha-lubdha-bhīta-māninastu pareṣāṃ kṛtyāḥ .. 01.13.22 ..
तेषां कार्तान्तिक-नैमित्तिक-मौहूर्तिक-व्यञ्जनाः परस्पर-अभिसम्बन्धं अमित्र-आटविक-सम्बन्धं वा विद्युः ॥ ०१.१३.२३ ॥
teṣāṃ kārtāntika-naimittika-mauhūrtika-vyañjanāḥ paraspara-abhisambandhaṃ amitra-āṭavika-sambandhaṃ vā vidyuḥ .. 01.13.23 ..
तुष्टानर्थ-मानाभ्यां पूजयेत् ॥ ०१.१३.२४ ॥
tuṣṭānartha-mānābhyāṃ pūjayet .. 01.13.24 ..
अतुष्टान्साम-दान-भेद-दण्डैः साधयेत् ॥ ०१.१३.२५ ॥
atuṣṭānsāma-dāna-bheda-daṇḍaiḥ sādhayet .. 01.13.25 ..
एवं स्व-विषये कृत्यानकृत्यांश्च विचक्षणः ॥ ०१.१३.२६अ ब ॥
evaṃ sva-viṣaye kṛtyānakṛtyāṃśca vicakṣaṇaḥ .. 01.13.26a ba ..
पर-उपजापात्सम्रक्षेत्प्रधानान्क्षुद्रकानपि ॥ ०१.१३.२६च्द् ॥
para-upajāpātsamrakṣetpradhānānkṣudrakānapi .. 01.13.26cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In