| |
|

This overlay will guide you through the buttons:

कृत्य-अकृत्य-पक्ष-उपग्रहः स्व-विषये व्याख्यातः । पर-विषये वाच्यः ॥ ०१.१४.०१ ॥
कृत्य-अकृत्य-पक्ष-उपग्रहः स्व-विषये व्याख्यातः । पर-विषये वाच्यः ॥ ०१।१४।०१ ॥
kṛtya-akṛtya-pakṣa-upagrahaḥ sva-viṣaye vyākhyātaḥ . para-viṣaye vācyaḥ .. 01.14.01 ..
संश्रुत्यार्थान्विप्रलब्धः । तुल्य-कारिणोः शिल्पे वाउपकारे वा विमानितः । वल्लभ-अवरुद्धः । समाहूय पराजितः । प्रवास-उपतप्तः । कृत्वा व्ययं अलब्ध-कार्यः । स्वधर्माद्दायाद्याद्वाउपरुद्धः । मान-अधिकाराभ्यां भ्रष्टः । कुल्यैरन्तर्हितः । प्रसभ-अभिमृष्ट-स्त्रीकः । कार-अभिन्यस्तः । पर-उक्त-दण्डितः । मिथ्या-आचार-वारितः । सर्व-स्वम् आहारितः । बन्धन-परिक्लिष्टः । प्रवासित-बन्धुः इति क्रुद्ध-वर्गः ॥ ०१.१४.०२ ॥
संश्रुत्य अर्थान् विप्रलब्धः । तुल्य-कारिणोः शिल्पे वा औपकारे वा विमानितः । वल्लभ-अवरुद्धः । समाहूय पराजितः । प्रवास-उपतप्तः । कृत्वा व्ययम् अलब्ध-कार्यः । स्वधर्मात् दायाद्यात् वा अ उपरुद्धः । मान-अधिकाराभ्याम् भ्रष्टः । कुल्यैः अन्तर्हितः । प्रसभ-अभिमृष्ट-स्त्रीकः । कार-अभिन्यस्तः । पर-उक्त-दण्डितः । मिथ्या आचार-वारितः । सर्व-स्वम् आहारितः । बन्धन-परिक्लिष्टः । प्रवासित-बन्धुः इति क्रुद्ध-वर्गः ॥ ०१।१४।०२ ॥
saṃśrutya arthān vipralabdhaḥ . tulya-kāriṇoḥ śilpe vā aupakāre vā vimānitaḥ . vallabha-avaruddhaḥ . samāhūya parājitaḥ . pravāsa-upataptaḥ . kṛtvā vyayam alabdha-kāryaḥ . svadharmāt dāyādyāt vā a uparuddhaḥ . māna-adhikārābhyām bhraṣṭaḥ . kulyaiḥ antarhitaḥ . prasabha-abhimṛṣṭa-strīkaḥ . kāra-abhinyastaḥ . para-ukta-daṇḍitaḥ . mithyā ācāra-vāritaḥ . sarva-svam āhāritaḥ . bandhana-parikliṣṭaḥ . pravāsita-bandhuḥ iti kruddha-vargaḥ .. 01.14.02 ..
स्वयं उपहतः । विप्रकृतः । पाप-कर्म-अभिख्यातः । तुल्य-दोष-दण्डेनौद्विग्नः । पर्यात्त-भूमिः । दण्डेनौपनतः । सर्व-अधिकरणस्थः । सहसा-उपचित-अर्थः । तत्-कुलीन-उपाशंसुः । प्रद्विष्टो राज्ञा । राज-द्वेषी च इति भीत-वर्गः ॥ ०१.१४.०३ ॥
स्वयम् उपहतः । विप्रकृतः । पाप-कर्म-अभिख्यातः । तुल्य-दोष-दण्डेन औद्विग्नः । पर्यात्त-भूमिः । दण्डेन औपनतः । सर्व-अधिकरण-स्थः । सहसा उपचित-अर्थः । तद्-कुलीन-उपाशंसुः । प्रद्विष्टः राज्ञा । राज-द्वेषी च इति भीत-वर्गः ॥ ०१।१४।०३ ॥
svayam upahataḥ . viprakṛtaḥ . pāpa-karma-abhikhyātaḥ . tulya-doṣa-daṇḍena audvignaḥ . paryātta-bhūmiḥ . daṇḍena aupanataḥ . sarva-adhikaraṇa-sthaḥ . sahasā upacita-arthaḥ . tad-kulīna-upāśaṃsuḥ . pradviṣṭaḥ rājñā . rāja-dveṣī ca iti bhīta-vargaḥ .. 01.14.03 ..
परिक्षीणः । अन्य-आत्त-स्वः । कदर्यः । व्यसनी । अत्याहित-व्यवहारश्च इति लुब्ध-वर्गः ॥ ०१.१४.०४ ॥
परिक्षीणः । अन्य-आत्त-स्वः । कदर्यः । व्यसनी । अत्याहित-व्यवहारः च इति लुब्ध-वर्गः ॥ ०१।१४।०४ ॥
parikṣīṇaḥ . anya-ātta-svaḥ . kadaryaḥ . vyasanī . atyāhita-vyavahāraḥ ca iti lubdha-vargaḥ .. 01.14.04 ..
आत्म-सम्भावितः । मान-कामः । शत्रु-पूजा-अमर्षितः । नीचैरुपहितः । तीक्ष्णः । साहसिकः । भोगेनासंतुष्टः इति मानि-वर्गः ॥ ०१.१४.०५ ॥
आत्म-सम्भावितः । मान-कामः । शत्रु-पूजा-अमर्षितः । नीचैः उपहितः । तीक्ष्णः । साहसिकः । भोगेन असंतुष्टः इति मानि-वर्गः ॥ ०१।१४।०५ ॥
ātma-sambhāvitaḥ . māna-kāmaḥ . śatru-pūjā-amarṣitaḥ . nīcaiḥ upahitaḥ . tīkṣṇaḥ . sāhasikaḥ . bhogena asaṃtuṣṭaḥ iti māni-vargaḥ .. 01.14.05 ..
तेषां मुण्ड-जटिल-व्यञ्जनैर्यो यद्-भक्तिः कृत्य-पक्षीयस्तं तेनौपजापयेत् ॥ ०१.१४.०६ ॥
तेषाम् मुण्ड-जटिल-व्यञ्जनैः यः यद्-भक्तिः कृत्य-पक्षीयः तम् तेन उपजापयेत् ॥ ०१।१४।०६ ॥
teṣām muṇḍa-jaṭila-vyañjanaiḥ yaḥ yad-bhaktiḥ kṛtya-pakṣīyaḥ tam tena upajāpayet .. 01.14.06 ..
यथा मद-अन्धो हस्ती मत्तेनाधिष्ठितो यद्यदासादयति तत्सर्वं प्रमृद्नाति । एवं अयं अशास्त्र-चक्षुरन्धो राजा पौर-जानपद-वधायाभ्युत्थितः । शक्यं अस्य प्रतिहस्ति-प्रोत्साहनेनापकर्तुम् । अमर्षः क्रियताम् इति क्रुद्ध-वर्गं उपजापयेत् ॥ ०१.१४.०७ ॥
यथा मद-अन्धः हस्ती मत्तेन अधिष्ठितः यत् यत् आसादयति तत् सर्वम् प्रमृद्नाति । एवम् अयम् अ शास्त्र-चक्षुः-अन्धः राजा पौर-जानपद-वधाय अभ्युत्थितः । शक्यम् अस्य प्रति हस्ति-प्रोत्साहनेन अपकर्तुम् । अमर्षः क्रियताम् इति क्रुद्ध-वर्गम् उपजापयेत् ॥ ०१।१४।०७ ॥
yathā mada-andhaḥ hastī mattena adhiṣṭhitaḥ yat yat āsādayati tat sarvam pramṛdnāti . evam ayam a śāstra-cakṣuḥ-andhaḥ rājā paura-jānapada-vadhāya abhyutthitaḥ . śakyam asya prati hasti-protsāhanena apakartum . amarṣaḥ kriyatām iti kruddha-vargam upajāpayet .. 01.14.07 ..
यथा लीनः सर्पो यस्माद्भयं पश्यति तत्र विषं उत्सृजति । एवं अयं राजा जात-दोष-आशङ्कस्त्वयि पुरा क्रोध-विषं उत्सृजति । अन्यत्र गम्यताम् इति भीत-वर्गं-उपजापयेत् ॥ ०१.१४.०८ ॥
यथा लीनः सर्पः यस्मात् भयम् पश्यति तत्र विषम् उत्सृजति । एवम् अयम् राजा जात-दोष-आशङ्कः त्वयि पुरा क्रोध-विषम् उत्सृजति । अन्यत्र गम्यताम् इति भीत-वर्गम् उपजापयेत् ॥ ०१।१४।०८ ॥
yathā līnaḥ sarpaḥ yasmāt bhayam paśyati tatra viṣam utsṛjati . evam ayam rājā jāta-doṣa-āśaṅkaḥ tvayi purā krodha-viṣam utsṛjati . anyatra gamyatām iti bhīta-vargam upajāpayet .. 01.14.08 ..
यथा श्व-गणिनां धेनुः श्वभ्यो दुह्यते न ब्राह्मणेभ्यः । एवं अयं राजा सत्त्व-प्रज्ञा-वाक्य-शक्ति-हीनेभ्यो दुह्यते नऽत्म-गुण-सम्पन्नेभ्यः । असौ राजा पुरुष-विशेषज्ञः । तत्र गम्यताम् इति लुब्ध-वर्गं-उपजापयेत् ॥ ०१.१४.०९ ॥
यथा श्व-गणिनाम् धेनुः श्वभ्यः दुह्यते न ब्राह्मणेभ्यः । एवम् अयम् राजा सत्त्व-प्रज्ञा-वाक्य-शक्ति-हीनेभ्यः दुह्यते न आत्म-गुण-सम्पन्नेभ्यः । असौ राजा पुरुष-विशेष-ज्ञः । तत्र गम्यताम् इति लुब्ध-वर्गम् उपजापयेत् ॥ ०१।१४।०९ ॥
yathā śva-gaṇinām dhenuḥ śvabhyaḥ duhyate na brāhmaṇebhyaḥ . evam ayam rājā sattva-prajñā-vākya-śakti-hīnebhyaḥ duhyate na ātma-guṇa-sampannebhyaḥ . asau rājā puruṣa-viśeṣa-jñaḥ . tatra gamyatām iti lubdha-vargam upajāpayet .. 01.14.09 ..
यथा चण्डाल-उद-पानश्चण्डालानां एवौपभोग्यो नान्येषाम् । एवं अयं राजा नीचो नीचानां एवौपभोग्यो न त्वद्विधानां आर्याणाम् । असौ राजा पुरुष-विशेषज्ञः । तत्र गम्यताम् इति मानि-वर्गं उपजापयेत् ॥ ०१.१४.१० ॥
यथा चण्डाल-उद-पानः चण्डालानाम् एव औपभोग्यः न अन्येषाम् । एवम् अयम् राजा नीचः नीचानाम् एव औपभोग्यः न त्वद्विधानाम् आर्याणाम् । असौ राजा पुरुष-विशेष-ज्ञः । तत्र गम्यताम् इति मानि-वर्गम् उपजापयेत् ॥ ०१।१४।१० ॥
yathā caṇḍāla-uda-pānaḥ caṇḍālānām eva aupabhogyaḥ na anyeṣām . evam ayam rājā nīcaḥ nīcānām eva aupabhogyaḥ na tvadvidhānām āryāṇām . asau rājā puruṣa-viśeṣa-jñaḥ . tatra gamyatām iti māni-vargam upajāpayet .. 01.14.10 ..
तथाइति प्रतिपन्नांस्तान्संहितान्पण-कर्मणा ॥ ०१.१४.११अ ब ॥
तथा इति प्रतिपन्नान् तान् संहितान् पण-कर्मणा ॥ ०१।१४।११अ ब ॥
tathā iti pratipannān tān saṃhitān paṇa-karmaṇā .. 01.14.11a ba ..
योजयेत यथा-शक्ति सापसर्पान्स्व-कर्मसु ॥ ०१.१४.११च्द् ॥
योजयेत यथा शक्ति स अपसर्पान् स्व-कर्मसु ॥ ०१।१४।११च् ॥
yojayeta yathā śakti sa apasarpān sva-karmasu .. 01.14.11c ..
लभेत साम-दानाभ्यां कृत्यांश्च पर-भूमिषु ॥ ०१.१४.१२अ ब ॥
लभेत साम-दानाभ्याम् कृत्यान् च पर-भूमिषु ॥ ०१।१४।१२अ ब ॥
labheta sāma-dānābhyām kṛtyān ca para-bhūmiṣu .. 01.14.12a ba ..
अकृत्यान्भेद-दण्डाभ्यां पर-दोषांश्च दर्शयन् ॥ ०१.१४.१२च्द् ॥
अकृत्यान् भेद-दण्डाभ्याम् पर-दोषान् च दर्शयन् ॥ ०१।१४।१२च् ॥
akṛtyān bheda-daṇḍābhyām para-doṣān ca darśayan .. 01.14.12c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In