| |
|

This overlay will guide you through the buttons:

कृत-स्व-पक्ष-पर-पक्ष-उपग्रहः कार्य-आरम्भांश्चिन्तयेत् ॥ ०१.१५.०१ ॥
कृत-स्व-पक्ष-पर-पक्ष-उपग्रहः कार्य-आरम्भान् चिन्तयेत् ॥ ०१।१५।०१ ॥
kṛta-sva-pakṣa-para-pakṣa-upagrahaḥ kārya-ārambhān cintayet .. 01.15.01 ..
मन्त्र-पूर्वाः सर्व-आरम्भाः ॥ ०१.१५.०२ ॥
मन्त्र-पूर्वाः सर्व-आरम्भाः ॥ ०१।१५।०२ ॥
mantra-pūrvāḥ sarva-ārambhāḥ .. 01.15.02 ..
तद्-उद्देशः संवृतः कथानां अनिह्श्रावी पक्षिभिरप्यनालोक्यः स्यात् ॥ ०१.१५.०३ ॥
तद्-उद्देशः संवृतः कथानाम् अ निह्श्रावी पक्षिभिः अपि अनालोक्यः स्यात् ॥ ०१।१५।०३ ॥
tad-uddeśaḥ saṃvṛtaḥ kathānām a nihśrāvī pakṣibhiḥ api anālokyaḥ syāt .. 01.15.03 ..
श्रूयते हि शुक-सारिकाभिर्मन्त्रो भिन्नः । श्वभिरप्यन्यैश्च तिर्यग्-योनिभिरिति ॥ ०१.१५.०४ ॥
श्रूयते हि शुक-सारिकाभिः मन्त्रः भिन्नः । श्वभिः अपि अन्यैः च तिर्यक्-योनिभिः इति ॥ ०१।१५।०४ ॥
śrūyate hi śuka-sārikābhiḥ mantraḥ bhinnaḥ . śvabhiḥ api anyaiḥ ca tiryak-yonibhiḥ iti .. 01.15.04 ..
तस्मान्मन्त्र-उद्देशं अनायुक्तो नौपगच्छेत् ॥ ०१.१५.०५ ॥
तस्मात् मन्त्र-उद्देशम् अनायुक्तः न उपगच्छेत् ॥ ०१।१५।०५ ॥
tasmāt mantra-uddeśam anāyuktaḥ na upagacchet .. 01.15.05 ..
उच्छिद्येत मन्त्र-भेदी ॥ ०१.१५.०६ ॥
उच्छिद्येत मन्त्र-भेदी ॥ ०१।१५।०६ ॥
ucchidyeta mantra-bhedī .. 01.15.06 ..
मन्त्र-भेदो हि दूत-अमात्य-स्वामिनां इङ्गित-आकाराभ्यां ॥ ०१.१५.०७ ॥
मन्त्र-भेदः हि दूत-अमात्य-स्वामिनाम् इङ्गित-आकाराभ्याम् ॥ ०१।१५।०७ ॥
mantra-bhedaḥ hi dūta-amātya-svāminām iṅgita-ākārābhyām .. 01.15.07 ..
इङ्गितं अन्यथा-वृत्तिः ॥ ०१.१५.०८ ॥
इङ्गितम् अन्यथा वृत्तिः ॥ ०१।१५।०८ ॥
iṅgitam anyathā vṛttiḥ .. 01.15.08 ..
आकृति-ग्रहणं आकारः ॥ ०१.१५.०९ ॥
आकृति-ग्रहणम् आकारः ॥ ०१।१५।०९ ॥
ākṛti-grahaṇam ākāraḥ .. 01.15.09 ..
तस्य संवरणं आयुक्त-पुरुष-रक्षणं आ-कार्य-कालादिति ॥ ०१.१५.१० ॥
तस्य संवरणम् आयुक्त-पुरुष-रक्षणम् आ कार्य-कालात् इति ॥ ०१।१५।१० ॥
tasya saṃvaraṇam āyukta-puruṣa-rakṣaṇam ā kārya-kālāt iti .. 01.15.10 ..
तेषां हि प्रमाद-मद-सुप्त-प्रलापाः । काम-आदिरुत्सेकः । प्रच्छन्नोअवमतो वा मन्त्रं भिनत्ति ॥ ०१.१५.११ ॥
तेषाम् हि प्रमाद-मद-सुप्त-प्रलापाः । काम-आदिः उत्सेकः । प्रच्छन्न-उअवमतः वा मन्त्रम् भिनत्ति ॥ ०१।१५।११ ॥
teṣām hi pramāda-mada-supta-pralāpāḥ . kāma-ādiḥ utsekaḥ . pracchanna-uavamataḥ vā mantram bhinatti .. 01.15.11 ..
तस्मादाद्रक्षेन्मन्त्रं ॥ ०१.१५.१२ ॥
तस्मात् आद्रक्षेत् मन्त्रम् ॥ ०१।१५।१२ ॥
tasmāt ādrakṣet mantram .. 01.15.12 ..
मन्त्र-भेदो ह्ययोग-क्षेम-करो राज्ञस्तद्-आयुक्त-पुरुषाणां च ॥ ०१.१५.१३ ॥ तस्माद्गुह्यं एको मन्त्रयेत इति भारद्वाजः ॥ ०१.१५.१४ ॥
मन्त्र-भेदः हि अयोग-क्षेम-करः राज्ञः तद्-आयुक्त-पुरुषाणाम् च ॥ ०१।१५।१३ ॥ तस्मात् गुह्यम् एकः मन्त्रयेत इति भारद्वाजः ॥ ०१।१५।१४ ॥
mantra-bhedaḥ hi ayoga-kṣema-karaḥ rājñaḥ tad-āyukta-puruṣāṇām ca .. 01.15.13 .. tasmāt guhyam ekaḥ mantrayeta iti bhāradvājaḥ .. 01.15.14 ..
मन्त्रिणां अपि हि मन्त्रिणो भवन्ति । तेषां अप्यन्ये ॥ ०१.१५.१५ ॥ साएषा मन्त्रि-परम्परा मन्त्रं भिनत्ति ॥ ०१.१५.१६ ॥ तस्मान्नास्य परे विद्युः कर्म किंचिच्चिकीर्षितं ॥ ०१.१५.१७अ ब ॥
मन्त्रिणाम् अपि हि मन्त्रिणः भवन्ति । तेषाम् अपि अन्ये ॥ ०१।१५।१५ ॥ सा एषा मन्त्रि-परम्परा मन्त्रम् भिनत्ति ॥ ०१।१५।१६ ॥ तस्मात् न अस्य परे विद्युः कर्म किंचिद् चिकीर्षितम् ॥ ०१।१५।१७अ ब ॥
mantriṇām api hi mantriṇaḥ bhavanti . teṣām api anye .. 01.15.15 .. sā eṣā mantri-paramparā mantram bhinatti .. 01.15.16 .. tasmāt na asya pare vidyuḥ karma kiṃcid cikīrṣitam .. 01.15.17a ba ..
आरब्धारस्तु जानीयुरारब्धं कृतं एव वा ॥ ०१.१५.१७च्द् ॥
आरब्धारः तु जानीयुः आरब्धम् कृतम् एव वा ॥ ०१।१५।१७च् ॥
ārabdhāraḥ tu jānīyuḥ ārabdham kṛtam eva vā .. 01.15.17c ..
नएकस्य मन्त्र-सिद्धिरस्ति इति विशाल-अक्षः ॥ ०१.१५.१८ ॥
न एकस्य मन्त्र-सिद्धिः अस्ति इति विशाल-अक्षः ॥ ०१।१५।१८ ॥
na ekasya mantra-siddhiḥ asti iti viśāla-akṣaḥ .. 01.15.18 ..
प्रत्यक्ष-परोक्ष-अनुमेया हि राज-वृत्तिः ॥ ०१.१५.१९ ॥ अनुपलब्धस्य ज्ञानं उपलब्धस्य निश्चित-बल-आधानं अर्थ-द्वैधस्य संशयच्-छेदनं एक-देश-दृष्टस्य शेष-उपलब्धिरिति मन्त्रि-साध्यं एतत् ॥ ०१.१५.२० ॥ तस्माद्बुद्धि-वृद्धैः सार्धं अध्यासीत मन्त्रं ॥ ०१.१५.२१ ॥ न कंचिदवमन्येत सर्वस्य शृणुयान्मतं ॥ ०१.१५.२२अ ब ॥
प्रत्यक्ष-परोक्ष-अनुमेया हि राज-वृत्तिः ॥ ०१।१५।१९ ॥ अनुपलब्धस्य ज्ञानम् उपलब्धस्य निश्चित-बल-आधानम् अर्थ-द्वैधस्य संशयत्-छेदनम् एक-देश-दृष्टस्य शेष-उपलब्धिः इति मन्त्रि-साध्यम् एतत् ॥ ०१।१५।२० ॥ तस्मात् बुद्धि-वृद्धैः सार्धम् अध्यासीत मन्त्रम् ॥ ०१।१५।२१ ॥ न कंचिद् अवमन्येत सर्वस्य शृणुयात् मतम् ॥ ०१।१५।२२अ ब ॥
pratyakṣa-parokṣa-anumeyā hi rāja-vṛttiḥ .. 01.15.19 .. anupalabdhasya jñānam upalabdhasya niścita-bala-ādhānam artha-dvaidhasya saṃśayat-chedanam eka-deśa-dṛṣṭasya śeṣa-upalabdhiḥ iti mantri-sādhyam etat .. 01.15.20 .. tasmāt buddhi-vṛddhaiḥ sārdham adhyāsīta mantram .. 01.15.21 .. na kaṃcid avamanyeta sarvasya śṛṇuyāt matam .. 01.15.22a ba ..
बालस्याप्यर्थवद्-वाक्यं उपयुञ्जीत पण्डितः ॥ ०१.१५.२२च्द् ॥
बालस्य अपि अर्थवत् वाक्यम् उपयुञ्जीत पण्डितः ॥ ०१।१५।२२च् ॥
bālasya api arthavat vākyam upayuñjīta paṇḍitaḥ .. 01.15.22c ..
एतन्मन्त्र-ज्ञानम् । नएतन्मन्त्र-रक्षणम् इति पाराशराः ॥ ०१.१५.२३ ॥
एतत् मन्त्र-ज्ञानम् । न एतत् मन्त्र-रक्षणम् इति पाराशराः ॥ ०१।१५।२३ ॥
etat mantra-jñānam . na etat mantra-rakṣaṇam iti pārāśarāḥ .. 01.15.23 ..
यदस्य कार्यं अभिप्रेतं तत्-प्रतिरूपकं मन्त्रिणः पृच्छेत् कार्यं इदं एवं आसीत् । एवं वा यदि भवेत् । तत्कथं कर्तव्यम्" इति ॥ ०१.१५.२४ ॥
यत् अस्य कार्यम् अभिप्रेतम् तद्-प्रतिरूपकम् मन्त्रिणः पृच्छेत् कार्यम् इदम् एवम् आसीत् । एवम् वा यदि भवेत् । तत् कथम् कर्तव्यम्" इति ॥ ०१।१५।२४ ॥
yat asya kāryam abhipretam tad-pratirūpakam mantriṇaḥ pṛcchet kāryam idam evam āsīt . evam vā yadi bhavet . tat katham kartavyam" iti .. 01.15.24 ..
ते यथा ब्रूयुस्तत्कुर्यात् ॥ ०१.१५.२५ ॥
ते यथा ब्रूयुः तत् कुर्यात् ॥ ०१।१५।२५ ॥
te yathā brūyuḥ tat kuryāt .. 01.15.25 ..
एवं मन्त्र-उपलब्धिः संवृतिश्च भवति" इति ॥ ०१.१५.२६ ॥
एवम् मन्त्र-उपलब्धिः संवृतिः च भवति" इति ॥ ०१।१५।२६ ॥
evam mantra-upalabdhiḥ saṃvṛtiḥ ca bhavati" iti .. 01.15.26 ..
नैति पिशुनः ॥ ०१.१५.२७ ॥
न एति पिशुनः ॥ ०१।१५।२७ ॥
na eti piśunaḥ .. 01.15.27 ..
मन्त्रिणो हि व्यवहितं अर्थं वृत्तं अवृत्तं वा पृष्टा अनादरेण ब्रुवन्ति प्रकाशयन्ति वा ॥ ०१.१५.२८ ॥ स दोषः ॥ ०१.१५.२९ ॥ तस्मात्कर्मसु ये येष्वभिप्रेतास्तैः सह मन्त्रयेत ॥ ०१.१५.३० ॥ तैर्मन्त्रयमाणो हि मन्त्र-सिद्धिं गुप्तिं च लभते इति ॥ ०१.१५.३१ ॥
मन्त्रिणः हि व्यवहितम् अर्थम् वृत्तम् अवृत्तम् वा पृष्टाः अनादरेण ब्रुवन्ति प्रकाशयन्ति वा ॥ ०१।१५।२८ ॥ स दोषः ॥ ०१।१५।२९ ॥ तस्मात् कर्मसु ये येषु अभिप्रेताः तैः सह मन्त्रयेत ॥ ०१।१५।३० ॥ तैः मन्त्रयमाणः हि मन्त्र-सिद्धिम् गुप्तिम् च लभते इति ॥ ०१।१५।३१ ॥
mantriṇaḥ hi vyavahitam artham vṛttam avṛttam vā pṛṣṭāḥ anādareṇa bruvanti prakāśayanti vā .. 01.15.28 .. sa doṣaḥ .. 01.15.29 .. tasmāt karmasu ye yeṣu abhipretāḥ taiḥ saha mantrayeta .. 01.15.30 .. taiḥ mantrayamāṇaḥ hi mantra-siddhim guptim ca labhate iti .. 01.15.31 ..
नैति कौटिल्यः ॥ ०१.१५.३२ ॥
न एति कौटिल्यः ॥ ०१।१५।३२ ॥
na eti kauṭilyaḥ .. 01.15.32 ..
अनवस्था ह्येषा ॥ ०१.१५.३३ ॥
अनवस्था हि एषा ॥ ०१।१५।३३ ॥
anavasthā hi eṣā .. 01.15.33 ..
मन्त्रिभिस्त्रिभिश्चतुर्भिर्वा सह मन्त्रयेत ॥ ०१.१५.३४ ॥
मन्त्रिभिः त्रिभिः चतुर्भिः वा सह मन्त्रयेत ॥ ०१।१५।३४ ॥
mantribhiḥ tribhiḥ caturbhiḥ vā saha mantrayeta .. 01.15.34 ..
मन्त्रयमाणो ह्येकेनार्थ-कृच्छ्रेषु निश्चयं नाधिगच्छेत् ॥ ०१.१५.३५ ॥
मन्त्रयमाणः हि एकेन अर्थ-कृच्छ्रेषु निश्चयम् न अधिगच्छेत् ॥ ०१।१५।३५ ॥
mantrayamāṇaḥ hi ekena artha-kṛcchreṣu niścayam na adhigacchet .. 01.15.35 ..
एकश्च मन्त्री यथा-इष्टं अनवग्रहश्चरति ॥ ०१.१५.३६ ॥
एकः च मन्त्री यथा इष्टम् अन् अवग्रहः चरति ॥ ०१।१५।३६ ॥
ekaḥ ca mantrī yathā iṣṭam an avagrahaḥ carati .. 01.15.36 ..
द्वाभ्यां मन्त्रयमाणो द्वाभ्यां संहताभ्यां अवगृह्यते । विगृहीताभ्यां विनाश्यते ॥ ०१.१५.३७ ॥
द्वाभ्याम् मन्त्रयमाणः द्वाभ्याम् संहताभ्याम् अवगृह्यते । विगृहीताभ्याम् विनाश्यते ॥ ०१।१५।३७ ॥
dvābhyām mantrayamāṇaḥ dvābhyām saṃhatābhyām avagṛhyate . vigṛhītābhyām vināśyate .. 01.15.37 ..
तत्त्रिषु चतुषु वा कृच्छ्रेणौपपद्यते ॥ ०१.१५.३८ ॥
तत् त्रिषु चतुषु वा कृच्छ्रेण आ उपपद्यते ॥ ०१।१५।३८ ॥
tat triṣu catuṣu vā kṛcchreṇa ā upapadyate .. 01.15.38 ..
महा-दोषं उपपन्नं तु भवति ॥ ०१.१५.३९ ॥
महा-दोषम् उपपन्नम् तु भवति ॥ ०१।१५।३९ ॥
mahā-doṣam upapannam tu bhavati .. 01.15.39 ..
ततः परेषु कृच्छ्रेणार्थ-निश्चयो गम्यते । मन्त्रो वा रक्ष्यते ॥ ०१.१५.४० ॥
ततस् परेषु कृच्छ्रेण अर्थ-निश्चयः गम्यते । मन्त्रः वा रक्ष्यते ॥ ०१।१५।४० ॥
tatas pareṣu kṛcchreṇa artha-niścayaḥ gamyate . mantraḥ vā rakṣyate .. 01.15.40 ..
देश-काल-कार्य-वशेन त्वेकेन सह द्वाभ्यां एको वा यथा-सामर्थ्यं मन्त्रयेत (अल्तेर्णतिवे विएwसप्प्रोवेद्) ॥ ०१.१५.४१ ॥
देश-काल-कार्य-वशेन तु एकेन सह द्वाभ्याम् एकः वा यथा सामर्थ्यम् मन्त्रयेत (अल्तेर्णतिवे ॥ ०१।१५।४१ ॥
deśa-kāla-kārya-vaśena tu ekena saha dvābhyām ekaḥ vā yathā sāmarthyam mantrayeta (alterṇative .. 01.15.41 ..
कर्मणां आरम्भ-उपायः पुरुष-द्रव्य-सम्पद्देश-काल-विभागो विनिपात-प्रतीकारः कार्य-सिद्धिरिति पञ्च-अङ्गो मन्त्रः ॥ ०१.१५.४२ ॥
कर्मणाम् आरम्भ-उपायः पुरुष-द्रव्य-सम्पद्-देश-काल-विभागः विनिपात-प्रतीकारः कार्य-सिद्धिः इति पञ्च-अङ्गः मन्त्रः ॥ ०१।१५।४२ ॥
karmaṇām ārambha-upāyaḥ puruṣa-dravya-sampad-deśa-kāla-vibhāgaḥ vinipāta-pratīkāraḥ kārya-siddhiḥ iti pañca-aṅgaḥ mantraḥ .. 01.15.42 ..
तानेकैकशः पृच्छेत्समस्तांश्च ॥ ०१.१५.४३ ॥
तान् एकैकशस् पृच्छेत् समस्तान् च ॥ ०१।१५।४३ ॥
tān ekaikaśas pṛcchet samastān ca .. 01.15.43 ..
हेतुभिश्चएषां मति-प्रविवेकान्विद्यात् ॥ ०१.१५.४४ ॥
हेतुभिः च एषाम् मति-प्रविवेकान् विद्यात् ॥ ०१।१५।४४ ॥
hetubhiḥ ca eṣām mati-pravivekān vidyāt .. 01.15.44 ..
अवाप्त-अर्थः कालं नातिक्रामयेत् ॥ ०१.१५.४५ ॥
अवाप्त-अर्थः कालम् न अतिक्रामयेत् ॥ ०१।१५।४५ ॥
avāpta-arthaḥ kālam na atikrāmayet .. 01.15.45 ..
न दीर्घ-कालं मन्त्रयेत । न तेषां पक्षीयैर्येषां अपकुर्यात् ॥ ०१.१५.४६ ॥
न दीर्घ-कालम् मन्त्रयेत । न तेषाम् पक्षीयैः येषाम् अपकुर्यात् ॥ ०१।१५।४६ ॥
na dīrgha-kālam mantrayeta . na teṣām pakṣīyaiḥ yeṣām apakuryāt .. 01.15.46 ..
मन्त्रि-परिषदं द्वादश-अमात्यान्कुर्वीत इति मानवाः ॥ ०१.१५.४७ ॥
मन्त्रि-परिषदम् द्वादश-अमात्यान् कुर्वीत इति मानवाः ॥ ०१।१५।४७ ॥
mantri-pariṣadam dvādaśa-amātyān kurvīta iti mānavāḥ .. 01.15.47 ..
षोडश इति बार्हस्पत्याः ॥ ०१.१५.४८ ॥
षोडश इति बार्हस्पत्याः ॥ ०१।१५।४८ ॥
ṣoḍaśa iti bārhaspatyāḥ .. 01.15.48 ..
विंशतिम् इत्यौशनसाः ॥ ०१.१५.४९ ॥
विंशतिम् इति औशनसाः ॥ ०१।१५।४९ ॥
viṃśatim iti auśanasāḥ .. 01.15.49 ..
यथा-सामर्थ्यं इति कौटिल्यः ॥ ०१.१५.५० ॥
यथा सामर्थ्यम् इति कौटिल्यः ॥ ०१।१५।५० ॥
yathā sāmarthyam iti kauṭilyaḥ .. 01.15.50 ..
ते ह्यस्य स्व-पक्षं पर-पक्षं च चिन्तयेयुः ॥ ०१.१५.५१ ॥
ते हि अस्य स्व-पक्षम् पर-पक्षम् च चिन्तयेयुः ॥ ०१।१५।५१ ॥
te hi asya sva-pakṣam para-pakṣam ca cintayeyuḥ .. 01.15.51 ..
अकृत-आरम्भं आरब्ध-अनुष्ठानं अनुष्ठित-विशेषं नियोग-सम्पदं च कर्मणां कुर्युः ॥ ०१.१५.५२ ॥
अकृत-आरम्भम् आरब्ध-अनुष्ठानम् अनुष्ठित-विशेषम् नियोग-सम्पदम् च कर्मणाम् कुर्युः ॥ ०१।१५।५२ ॥
akṛta-ārambham ārabdha-anuṣṭhānam anuṣṭhita-viśeṣam niyoga-sampadam ca karmaṇām kuryuḥ .. 01.15.52 ..
आसन्नैः सह कर्माणि पश्येत् ॥ ०१.१५.५३ ॥
आसन्नैः सह कर्माणि पश्येत् ॥ ०१।१५।५३ ॥
āsannaiḥ saha karmāṇi paśyet .. 01.15.53 ..
अनासन्नैः सह पत्त्र-सम्प्रेषणेन मन्त्रयेत ॥ ०१.१५.५४ ॥
अनासन्नैः सह पत्त्र-सम्प्रेषणेन मन्त्रयेत ॥ ०१।१५।५४ ॥
anāsannaiḥ saha pattra-sampreṣaṇena mantrayeta .. 01.15.54 ..
इन्द्रस्य हि मन्त्रि-परिषद्-ऋषीणां सहस्रं ॥ ०१.१५.५५ ॥
इन्द्रस्य हि मन्त्रि-परिषद्-ऋषीणाम् सहस्रम् ॥ ०१।१५।५५ ॥
indrasya hi mantri-pariṣad-ṛṣīṇām sahasram .. 01.15.55 ..
स तच्चक्षुः ॥ ०१.१५.५६ ॥
स तत् चक्षुः ॥ ०१।१५।५६ ॥
sa tat cakṣuḥ .. 01.15.56 ..
तस्मादिमं द्व्य्-अक्षं सहस्र-अक्षं आहुः ॥ ०१.१५.५७ ॥
तस्मात् इमम् द्वि-अक्षम् सहस्र-अक्षम् आहुः ॥ ०१।१५।५७ ॥
tasmāt imam dvi-akṣam sahasra-akṣam āhuḥ .. 01.15.57 ..
आत्ययिके कार्ये मन्त्रिणो मन्त्रि-परिषदं चऽहूय ब्रूयात् ॥ ०१.१५.५८ ॥
आत्ययिके कार्ये मन्त्रिणः मन्त्रि-परिषदम् च अ हूय ब्रूयात् ॥ ०१।१५।५८ ॥
ātyayike kārye mantriṇaḥ mantri-pariṣadam ca a hūya brūyāt .. 01.15.58 ..
तत्र यद्-भूयिष्ठा ब्रूयुः कार्य-सिद्धि-करं वा तत्कुर्यात् ॥ ०१.१५.५९ ॥
तत्र यत् भूयिष्ठाः ब्रूयुः कार्य-सिद्धि-करम् वा तत् कुर्यात् ॥ ०१।१५।५९ ॥
tatra yat bhūyiṣṭhāḥ brūyuḥ kārya-siddhi-karam vā tat kuryāt .. 01.15.59 ..
कुर्वतश्च ॥ ०१.१५.६० ॥
कुर्वतः च ॥ ०१।१५।६० ॥
kurvataḥ ca .. 01.15.60 ..
नास्य गुह्यं परे विद्युश्छिद्रं विद्यात्परस्य च ॥ ०१.१५.६०अ ब ॥
न अस्य गुह्यम् परे विद्युः छिद्रम् विद्यात् परस्य च ॥ ०१।१५।६०अ ब ॥
na asya guhyam pare vidyuḥ chidram vidyāt parasya ca .. 01.15.60a ba ..
गूहेत्कूर्मैवाङ्गानि यत्स्याद्विवृतं आत्मनः ॥ ०१.१५.६०च्द् ॥
गूहेत् कूर्म एव अङ्गानि यत् स्यात् विवृतम् आत्मनः ॥ ०१।१५।६०च् ॥
gūhet kūrma eva aṅgāni yat syāt vivṛtam ātmanaḥ .. 01.15.60c ..
यथा ह्यश्रोत्रियः श्राद्धं न सतां भोक्तुं अर्हति ॥ ०१.१५.६१अ ब ॥
यथा हि अश्रोत्रियः श्राद्धम् न सताम् भोक्तुम् अर्हति ॥ ०१।१५।६१अ ब ॥
yathā hi aśrotriyaḥ śrāddham na satām bhoktum arhati .. 01.15.61a ba ..
एवं अश्रुत-शास्त्र-अर्थो न मन्त्रं श्रोतुं अर्हति ॥ ०१.१५.६१च्द् ॥
एवम् अश्रुत-शास्त्र-अर्थः न मन्त्रम् श्रोतुम् अर्हति ॥ ०१।१५।६१च् ॥
evam aśruta-śāstra-arthaḥ na mantram śrotum arhati .. 01.15.61c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In