| |
|

This overlay will guide you through the buttons:

कृत-स्व-पक्ष-पर-पक्ष-उपग्रहः कार्य-आरम्भांश्चिन्तयेत् ॥ ०१.१५.०१ ॥
kṛta-sva-pakṣa-para-pakṣa-upagrahaḥ kārya-ārambhāṃścintayet .. 01.15.01 ..
मन्त्र-पूर्वाः सर्व-आरम्भाः ॥ ०१.१५.०२ ॥
mantra-pūrvāḥ sarva-ārambhāḥ .. 01.15.02 ..
तद्-उद्देशः संवृतः कथानां अनिह्श्रावी पक्षिभिरप्यनालोक्यः स्यात् ॥ ०१.१५.०३ ॥
tad-uddeśaḥ saṃvṛtaḥ kathānāṃ anihśrāvī pakṣibhirapyanālokyaḥ syāt .. 01.15.03 ..
श्रूयते हि शुक-सारिकाभिर्मन्त्रो भिन्नः । श्वभिरप्यन्यैश्च तिर्यग्-योनिभिरिति ॥ ०१.१५.०४ ॥
śrūyate hi śuka-sārikābhirmantro bhinnaḥ . śvabhirapyanyaiśca tiryag-yonibhiriti .. 01.15.04 ..
तस्मान्मन्त्र-उद्देशं अनायुक्तो नौपगच्छेत् ॥ ०१.१५.०५ ॥
tasmānmantra-uddeśaṃ anāyukto naupagacchet .. 01.15.05 ..
उच्छिद्येत मन्त्र-भेदी ॥ ०१.१५.०६ ॥
ucchidyeta mantra-bhedī .. 01.15.06 ..
मन्त्र-भेदो हि दूत-अमात्य-स्वामिनां इङ्गित-आकाराभ्यां ॥ ०१.१५.०७ ॥
mantra-bhedo hi dūta-amātya-svāmināṃ iṅgita-ākārābhyāṃ .. 01.15.07 ..
इङ्गितं अन्यथा-वृत्तिः ॥ ०१.१५.०८ ॥
iṅgitaṃ anyathā-vṛttiḥ .. 01.15.08 ..
आकृति-ग्रहणं आकारः ॥ ०१.१५.०९ ॥
ākṛti-grahaṇaṃ ākāraḥ .. 01.15.09 ..
तस्य संवरणं आयुक्त-पुरुष-रक्षणं आ-कार्य-कालादिति ॥ ०१.१५.१० ॥
tasya saṃvaraṇaṃ āyukta-puruṣa-rakṣaṇaṃ ā-kārya-kālāditi .. 01.15.10 ..
तेषां हि प्रमाद-मद-सुप्त-प्रलापाः । काम-आदिरुत्सेकः । प्रच्छन्नोअवमतो वा मन्त्रं भिनत्ति ॥ ०१.१५.११ ॥
teṣāṃ hi pramāda-mada-supta-pralāpāḥ . kāma-ādirutsekaḥ . pracchannoavamato vā mantraṃ bhinatti .. 01.15.11 ..
तस्मादाद्रक्षेन्मन्त्रं ॥ ०१.१५.१२ ॥
tasmādādrakṣenmantraṃ .. 01.15.12 ..
मन्त्र-भेदो ह्ययोग-क्षेम-करो राज्ञस्तद्-आयुक्त-पुरुषाणां च ॥ ०१.१५.१३ ॥ तस्माद्गुह्यं एको मन्त्रयेत इति भारद्वाजः ॥ ०१.१५.१४ ॥
mantra-bhedo hyayoga-kṣema-karo rājñastad-āyukta-puruṣāṇāṃ ca .. 01.15.13 .. tasmādguhyaṃ eko mantrayeta iti bhāradvājaḥ .. 01.15.14 ..
मन्त्रिणां अपि हि मन्त्रिणो भवन्ति । तेषां अप्यन्ये ॥ ०१.१५.१५ ॥ साएषा मन्त्रि-परम्परा मन्त्रं भिनत्ति ॥ ०१.१५.१६ ॥ तस्मान्नास्य परे विद्युः कर्म किंचिच्चिकीर्षितं ॥ ०१.१५.१७अ ब ॥
mantriṇāṃ api hi mantriṇo bhavanti . teṣāṃ apyanye .. 01.15.15 .. sāeṣā mantri-paramparā mantraṃ bhinatti .. 01.15.16 .. tasmānnāsya pare vidyuḥ karma kiṃciccikīrṣitaṃ .. 01.15.17a ba ..
आरब्धारस्तु जानीयुरारब्धं कृतं एव वा ॥ ०१.१५.१७च्द् ॥
ārabdhārastu jānīyurārabdhaṃ kṛtaṃ eva vā .. 01.15.17cd ..
नएकस्य मन्त्र-सिद्धिरस्ति इति विशाल-अक्षः ॥ ०१.१५.१८ ॥
naekasya mantra-siddhirasti iti viśāla-akṣaḥ .. 01.15.18 ..
प्रत्यक्ष-परोक्ष-अनुमेया हि राज-वृत्तिः ॥ ०१.१५.१९ ॥ अनुपलब्धस्य ज्ञानं उपलब्धस्य निश्चित-बल-आधानं अर्थ-द्वैधस्य संशयच्-छेदनं एक-देश-दृष्टस्य शेष-उपलब्धिरिति मन्त्रि-साध्यं एतत् ॥ ०१.१५.२० ॥ तस्माद्बुद्धि-वृद्धैः सार्धं अध्यासीत मन्त्रं ॥ ०१.१५.२१ ॥ न कंचिदवमन्येत सर्वस्य शृणुयान्मतं ॥ ०१.१५.२२अ ब ॥
pratyakṣa-parokṣa-anumeyā hi rāja-vṛttiḥ .. 01.15.19 .. anupalabdhasya jñānaṃ upalabdhasya niścita-bala-ādhānaṃ artha-dvaidhasya saṃśayac-chedanaṃ eka-deśa-dṛṣṭasya śeṣa-upalabdhiriti mantri-sādhyaṃ etat .. 01.15.20 .. tasmādbuddhi-vṛddhaiḥ sārdhaṃ adhyāsīta mantraṃ .. 01.15.21 .. na kaṃcidavamanyeta sarvasya śṛṇuyānmataṃ .. 01.15.22a ba ..
बालस्याप्यर्थवद्-वाक्यं उपयुञ्जीत पण्डितः ॥ ०१.१५.२२च्द् ॥
bālasyāpyarthavad-vākyaṃ upayuñjīta paṇḍitaḥ .. 01.15.22cd ..
एतन्मन्त्र-ज्ञानम् । नएतन्मन्त्र-रक्षणम् इति पाराशराः ॥ ०१.१५.२३ ॥
etanmantra-jñānam . naetanmantra-rakṣaṇam iti pārāśarāḥ .. 01.15.23 ..
यदस्य कार्यं अभिप्रेतं तत्-प्रतिरूपकं मन्त्रिणः पृच्छेत् कार्यं इदं एवं आसीत् । एवं वा यदि भवेत् । तत्कथं कर्तव्यम्" इति ॥ ०१.१५.२४ ॥
yadasya kāryaṃ abhipretaṃ tat-pratirūpakaṃ mantriṇaḥ pṛcchet kāryaṃ idaṃ evaṃ āsīt . evaṃ vā yadi bhavet . tatkathaṃ kartavyam" iti .. 01.15.24 ..
ते यथा ब्रूयुस्तत्कुर्यात् ॥ ०१.१५.२५ ॥
te yathā brūyustatkuryāt .. 01.15.25 ..
एवं मन्त्र-उपलब्धिः संवृतिश्च भवति" इति ॥ ०१.१५.२६ ॥
evaṃ mantra-upalabdhiḥ saṃvṛtiśca bhavati" iti .. 01.15.26 ..
नैति पिशुनः ॥ ०१.१५.२७ ॥
naiti piśunaḥ .. 01.15.27 ..
मन्त्रिणो हि व्यवहितं अर्थं वृत्तं अवृत्तं वा पृष्टा अनादरेण ब्रुवन्ति प्रकाशयन्ति वा ॥ ०१.१५.२८ ॥ स दोषः ॥ ०१.१५.२९ ॥ तस्मात्कर्मसु ये येष्वभिप्रेतास्तैः सह मन्त्रयेत ॥ ०१.१५.३० ॥ तैर्मन्त्रयमाणो हि मन्त्र-सिद्धिं गुप्तिं च लभते इति ॥ ०१.१५.३१ ॥
mantriṇo hi vyavahitaṃ arthaṃ vṛttaṃ avṛttaṃ vā pṛṣṭā anādareṇa bruvanti prakāśayanti vā .. 01.15.28 .. sa doṣaḥ .. 01.15.29 .. tasmātkarmasu ye yeṣvabhipretāstaiḥ saha mantrayeta .. 01.15.30 .. tairmantrayamāṇo hi mantra-siddhiṃ guptiṃ ca labhate iti .. 01.15.31 ..
नैति कौटिल्यः ॥ ०१.१५.३२ ॥
naiti kauṭilyaḥ .. 01.15.32 ..
अनवस्था ह्येषा ॥ ०१.१५.३३ ॥
anavasthā hyeṣā .. 01.15.33 ..
मन्त्रिभिस्त्रिभिश्चतुर्भिर्वा सह मन्त्रयेत ॥ ०१.१५.३४ ॥
mantribhistribhiścaturbhirvā saha mantrayeta .. 01.15.34 ..
मन्त्रयमाणो ह्येकेनार्थ-कृच्छ्रेषु निश्चयं नाधिगच्छेत् ॥ ०१.१५.३५ ॥
mantrayamāṇo hyekenārtha-kṛcchreṣu niścayaṃ nādhigacchet .. 01.15.35 ..
एकश्च मन्त्री यथा-इष्टं अनवग्रहश्चरति ॥ ०१.१५.३६ ॥
ekaśca mantrī yathā-iṣṭaṃ anavagrahaścarati .. 01.15.36 ..
द्वाभ्यां मन्त्रयमाणो द्वाभ्यां संहताभ्यां अवगृह्यते । विगृहीताभ्यां विनाश्यते ॥ ०१.१५.३७ ॥
dvābhyāṃ mantrayamāṇo dvābhyāṃ saṃhatābhyāṃ avagṛhyate . vigṛhītābhyāṃ vināśyate .. 01.15.37 ..
तत्त्रिषु चतुषु वा कृच्छ्रेणौपपद्यते ॥ ०१.१५.३८ ॥
tattriṣu catuṣu vā kṛcchreṇaupapadyate .. 01.15.38 ..
महा-दोषं उपपन्नं तु भवति ॥ ०१.१५.३९ ॥
mahā-doṣaṃ upapannaṃ tu bhavati .. 01.15.39 ..
ततः परेषु कृच्छ्रेणार्थ-निश्चयो गम्यते । मन्त्रो वा रक्ष्यते ॥ ०१.१५.४० ॥
tataḥ pareṣu kṛcchreṇārtha-niścayo gamyate . mantro vā rakṣyate .. 01.15.40 ..
देश-काल-कार्य-वशेन त्वेकेन सह द्वाभ्यां एको वा यथा-सामर्थ्यं मन्त्रयेत (अल्तेर्णतिवे विएwसप्प्रोवेद्) ॥ ०१.१५.४१ ॥
deśa-kāla-kārya-vaśena tvekena saha dvābhyāṃ eko vā yathā-sāmarthyaṃ mantrayeta (alterṇative viewsapproved) .. 01.15.41 ..
कर्मणां आरम्भ-उपायः पुरुष-द्रव्य-सम्पद्देश-काल-विभागो विनिपात-प्रतीकारः कार्य-सिद्धिरिति पञ्च-अङ्गो मन्त्रः ॥ ०१.१५.४२ ॥
karmaṇāṃ ārambha-upāyaḥ puruṣa-dravya-sampaddeśa-kāla-vibhāgo vinipāta-pratīkāraḥ kārya-siddhiriti pañca-aṅgo mantraḥ .. 01.15.42 ..
तानेकैकशः पृच्छेत्समस्तांश्च ॥ ०१.१५.४३ ॥
tānekaikaśaḥ pṛcchetsamastāṃśca .. 01.15.43 ..
हेतुभिश्चएषां मति-प्रविवेकान्विद्यात् ॥ ०१.१५.४४ ॥
hetubhiścaeṣāṃ mati-pravivekānvidyāt .. 01.15.44 ..
अवाप्त-अर्थः कालं नातिक्रामयेत् ॥ ०१.१५.४५ ॥
avāpta-arthaḥ kālaṃ nātikrāmayet .. 01.15.45 ..
न दीर्घ-कालं मन्त्रयेत । न तेषां पक्षीयैर्येषां अपकुर्यात् ॥ ०१.१५.४६ ॥
na dīrgha-kālaṃ mantrayeta . na teṣāṃ pakṣīyairyeṣāṃ apakuryāt .. 01.15.46 ..
मन्त्रि-परिषदं द्वादश-अमात्यान्कुर्वीत इति मानवाः ॥ ०१.१५.४७ ॥
mantri-pariṣadaṃ dvādaśa-amātyānkurvīta iti mānavāḥ .. 01.15.47 ..
षोडश इति बार्हस्पत्याः ॥ ०१.१५.४८ ॥
ṣoḍaśa iti bārhaspatyāḥ .. 01.15.48 ..
विंशतिम् इत्यौशनसाः ॥ ०१.१५.४९ ॥
viṃśatim ityauśanasāḥ .. 01.15.49 ..
यथा-सामर्थ्यं इति कौटिल्यः ॥ ०१.१५.५० ॥
yathā-sāmarthyaṃ iti kauṭilyaḥ .. 01.15.50 ..
ते ह्यस्य स्व-पक्षं पर-पक्षं च चिन्तयेयुः ॥ ०१.१५.५१ ॥
te hyasya sva-pakṣaṃ para-pakṣaṃ ca cintayeyuḥ .. 01.15.51 ..
अकृत-आरम्भं आरब्ध-अनुष्ठानं अनुष्ठित-विशेषं नियोग-सम्पदं च कर्मणां कुर्युः ॥ ०१.१५.५२ ॥
akṛta-ārambhaṃ ārabdha-anuṣṭhānaṃ anuṣṭhita-viśeṣaṃ niyoga-sampadaṃ ca karmaṇāṃ kuryuḥ .. 01.15.52 ..
आसन्नैः सह कर्माणि पश्येत् ॥ ०१.१५.५३ ॥
āsannaiḥ saha karmāṇi paśyet .. 01.15.53 ..
अनासन्नैः सह पत्त्र-सम्प्रेषणेन मन्त्रयेत ॥ ०१.१५.५४ ॥
anāsannaiḥ saha pattra-sampreṣaṇena mantrayeta .. 01.15.54 ..
इन्द्रस्य हि मन्त्रि-परिषद्-ऋषीणां सहस्रं ॥ ०१.१५.५५ ॥
indrasya hi mantri-pariṣad-ṛṣīṇāṃ sahasraṃ .. 01.15.55 ..
स तच्चक्षुः ॥ ०१.१५.५६ ॥
sa taccakṣuḥ .. 01.15.56 ..
तस्मादिमं द्व्य्-अक्षं सहस्र-अक्षं आहुः ॥ ०१.१५.५७ ॥
tasmādimaṃ dvy-akṣaṃ sahasra-akṣaṃ āhuḥ .. 01.15.57 ..
आत्ययिके कार्ये मन्त्रिणो मन्त्रि-परिषदं चऽहूय ब्रूयात् ॥ ०१.१५.५८ ॥
ātyayike kārye mantriṇo mantri-pariṣadaṃ ca'hūya brūyāt .. 01.15.58 ..
तत्र यद्-भूयिष्ठा ब्रूयुः कार्य-सिद्धि-करं वा तत्कुर्यात् ॥ ०१.१५.५९ ॥
tatra yad-bhūyiṣṭhā brūyuḥ kārya-siddhi-karaṃ vā tatkuryāt .. 01.15.59 ..
कुर्वतश्च ॥ ०१.१५.६० ॥
kurvataśca .. 01.15.60 ..
नास्य गुह्यं परे विद्युश्छिद्रं विद्यात्परस्य च ॥ ०१.१५.६०अ ब ॥
nāsya guhyaṃ pare vidyuśchidraṃ vidyātparasya ca .. 01.15.60a ba ..
गूहेत्कूर्मैवाङ्गानि यत्स्याद्विवृतं आत्मनः ॥ ०१.१५.६०च्द् ॥
gūhetkūrmaivāṅgāni yatsyādvivṛtaṃ ātmanaḥ .. 01.15.60cd ..
यथा ह्यश्रोत्रियः श्राद्धं न सतां भोक्तुं अर्हति ॥ ०१.१५.६१अ ब ॥
yathā hyaśrotriyaḥ śrāddhaṃ na satāṃ bhoktuṃ arhati .. 01.15.61a ba ..
एवं अश्रुत-शास्त्र-अर्थो न मन्त्रं श्रोतुं अर्हति ॥ ०१.१५.६१च्द् ॥
evaṃ aśruta-śāstra-artho na mantraṃ śrotuṃ arhati .. 01.15.61cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In