| |
|

This overlay will guide you through the buttons:

उद्वृत्त-मन्त्रो दूत-प्रणिधिः ॥ ०१.१६.०१ ॥
उद्वृत्त-मन्त्रः दूत-प्रणिधिः ॥ ०१।१६।०१ ॥
udvṛtta-mantraḥ dūta-praṇidhiḥ .. 01.16.01 ..
अमात्य-सम्पदाउपेतो निसृष्ट-अर्थः ॥ ०१.१६.०२ ॥
अमात्य-सम्पदा आउपेतः निसृष्ट-अर्थः ॥ ०१।१६।०२ ॥
amātya-sampadā āupetaḥ nisṛṣṭa-arthaḥ .. 01.16.02 ..
पाद-गुण-हीनः परिमित-अर्थः ॥ ०१.१६.०३ ॥
पाद-गुण-हीनः परिमित-अर्थः ॥ ०१।१६।०३ ॥
pāda-guṇa-hīnaḥ parimita-arthaḥ .. 01.16.03 ..
अर्ध-गुण-हीनः शासन-हरः ॥ ०१.१६.०४ ॥
अर्ध-गुण-हीनः शासन-हरः ॥ ०१।१६।०४ ॥
ardha-guṇa-hīnaḥ śāsana-haraḥ .. 01.16.04 ..
सुप्रतिविहित-यान-वाहन-पुरुष-परिवापः प्रतिष्ठेत ॥ ०१.१६.०५ ॥
सु प्रतिविहित-यान-वाहन-पुरुष-परिवापः प्रतिष्ठेत ॥ ०१।१६।०५ ॥
su prativihita-yāna-vāhana-puruṣa-parivāpaḥ pratiṣṭheta .. 01.16.05 ..
शासनं एवं वाच्यः परः । स वक्ष्यत्येवम् । तस्यैदं प्रतिवाक्यम् । एवं अतिसंधातव्यम् । इत्यधीयानो गच्छेत् ॥ ०१.१६.०६ ॥
शासनम् एवम् वाच्यः परः । स वक्ष्यति एवम् । तस्यै इदम् प्रतिवाक्यम् । एवम् अतिसंधातव्यम् । इति अधीयानः गच्छेत् ॥ ०१।१६।०६ ॥
śāsanam evam vācyaḥ paraḥ . sa vakṣyati evam . tasyai idam prativākyam . evam atisaṃdhātavyam . iti adhīyānaḥ gacchet .. 01.16.06 ..
अटव्य्-अन्त-पाल-पुर-राष्ट्र-मुख्यैश्च प्रतिसंसर्गं गच्छेत् ॥ ०१.१६.०७ ॥
अटवी-अन्त-पाल-पुर-राष्ट्र-मुख्यैः च प्रतिसंसर्गम् गच्छेत् ॥ ०१।१६।०७ ॥
aṭavī-anta-pāla-pura-rāṣṭra-mukhyaiḥ ca pratisaṃsargam gacchet .. 01.16.07 ..
अनीक-स्थान-युद्ध-प्रतिग्रह-अपसार-भूमीरात्मनः परस्य चावेक्षेत ॥ ०१.१६.०८ ॥
अनीक-स्थान-युद्ध-प्रतिग्रह-अपसार-भूमीः आत्मनः परस्य च अवेक्षेत ॥ ०१।१६।०८ ॥
anīka-sthāna-yuddha-pratigraha-apasāra-bhūmīḥ ātmanaḥ parasya ca avekṣeta .. 01.16.08 ..
दुर्ग-राष्ट्र-प्रमाणं सार-वृत्ति-गुप्तिच्-छिद्राणि चौपलभेत ॥ ०१.१६.०९ ॥
दुर्ग-राष्ट्र-प्रमाणम् सार-वृत्ति-गुप्ति-छिद्राणि च उपलभेत ॥ ०१।१६।०९ ॥
durga-rāṣṭra-pramāṇam sāra-vṛtti-gupti-chidrāṇi ca upalabheta .. 01.16.09 ..
पर-अधिष्ठानं अनुज्ञातः प्रविशेत् ॥ ०१.१६.१० ॥
पर-अधिष्ठानम् अनुज्ञातः प्रविशेत् ॥ ०१।१६।१० ॥
para-adhiṣṭhānam anujñātaḥ praviśet .. 01.16.10 ..
शासनं च यथा-उक्तं ब्रूयात् । प्राण-आबाधेअपि दृष्टे ॥ ०१.१६.११ ॥
शासनम् च यथा उक्तम् ब्रूयात् । प्राण-आबाधे अपि दृष्टे ॥ ०१।१६।११ ॥
śāsanam ca yathā uktam brūyāt . prāṇa-ābādhe api dṛṣṭe .. 01.16.11 ..
परस्य वाचि वक्त्रे दृष्ट्यां च प्रसादं वाक्य-पूजनं इष्ट-परिप्रश्नं गुण-कथा-सङ्गं आसन्नं आसनं सत्कारं इष्टेषु स्मरणं विश्वास-गमनं च लक्षयेत्तुष्टस्य । विपरीतं अतुष्टस्य ॥ ०१.१६.१२ ॥
परस्य वाचि वक्त्रे दृष्ट्याम् च प्रसादम् वाक्य-पूजनम् इष्ट-परिप्रश्नम् गुण-कथा-सङ्गम् आसन्नम् आसनम् सत्कारम् इष्टेषु स्मरणम् विश्वास-गमनम् च लक्षयेत् तुष्टस्य । विपरीतम् अतुष्टस्य ॥ ०१।१६।१२ ॥
parasya vāci vaktre dṛṣṭyām ca prasādam vākya-pūjanam iṣṭa-paripraśnam guṇa-kathā-saṅgam āsannam āsanam satkāram iṣṭeṣu smaraṇam viśvāsa-gamanam ca lakṣayet tuṣṭasya . viparītam atuṣṭasya .. 01.16.12 ..
तं ब्रूयात् "दूत-मुखा हि राजानः । त्वं चान्ये च ॥ ०१.१६.१३ ॥
तम् ब्रूयात् "दूत-मुखाः हि राजानः । त्वम् च अन्ये च ॥ ०१।१६।१३ ॥
tam brūyāt "dūta-mukhāḥ hi rājānaḥ . tvam ca anye ca .. 01.16.13 ..
तस्मादुद्यतेष्वपि शस्त्रेषु यथा-उक्तं वक्तारो दूताः ॥ ०१.१६.१४ ॥
तस्मात् उद्यतेषु अपि शस्त्रेषु यथा उक्तम् वक्तारः दूताः ॥ ०१।१६।१४ ॥
tasmāt udyateṣu api śastreṣu yathā uktam vaktāraḥ dūtāḥ .. 01.16.14 ..
तेषां अन्त-अवसायिनोअप्यवध्याः । किं अङ्ग पुनर्ब्राह्मणाः ॥ ०१.१६.१५ ॥
तेषाम् अन्त-अवसायिनः अपि अवध्याः । किम् अङ्ग पुनर्ब्राह्मणाः ॥ ०१।१६।१५ ॥
teṣām anta-avasāyinaḥ api avadhyāḥ . kim aṅga punarbrāhmaṇāḥ .. 01.16.15 ..
परस्यएतद्वाक्यं ॥ ०१.१६.१६ ॥
परस्य एतत् वाक्यम् ॥ ०१।१६।१६ ॥
parasya etat vākyam .. 01.16.16 ..
एष दूत-धर्मः" इति ॥ ०१.१६.१७ ॥
एष दूत-धर्मः" इति ॥ ०१।१६।१७ ॥
eṣa dūta-dharmaḥ" iti .. 01.16.17 ..
वसेदविसृष्टः पूजया नौत्सिक्तः ॥ ०१.१६.१८ ॥
वसेत् अविसृष्टः पूजया न औत्सिक्तः ॥ ०१।१६।१८ ॥
vaset avisṛṣṭaḥ pūjayā na autsiktaḥ .. 01.16.18 ..
परेषु बलित्वं न मन्येत ॥ ०१.१६.१९ ॥
परेषु बलि-त्वम् न मन्येत ॥ ०१।१६।१९ ॥
pareṣu bali-tvam na manyeta .. 01.16.19 ..
वाक्यं अनिष्टं सहेत ॥ ०१.१६.२० ॥
वाक्यम् अनिष्टम् सहेत ॥ ०१।१६।२० ॥
vākyam aniṣṭam saheta .. 01.16.20 ..
स्त्रियः पानं च वर्जयेत् ॥ ०१.१६.२१ ॥
स्त्रियः पानम् च वर्जयेत् ॥ ०१।१६।२१ ॥
striyaḥ pānam ca varjayet .. 01.16.21 ..
एकः शयीत ॥ ०१.१६.२२ ॥
एकः शयीत ॥ ०१।१६।२२ ॥
ekaḥ śayīta .. 01.16.22 ..
सुप्त-मत्तयोर्हि भाव-ज्ञानं दृष्टं ॥ ०१.१६.२३ ॥
सुप्त-मत्तयोः हि भाव-ज्ञानम् दृष्टम् ॥ ०१।१६।२३ ॥
supta-mattayoḥ hi bhāva-jñānam dṛṣṭam .. 01.16.23 ..
कृत्य-पक्ष-उपजापं अकृत्य-पक्षे गूढ-प्रणिधानं राग-अपरागौ भर्तरि रन्ध्रं च प्रकृतीनां तापस-वैदेहक-व्यञ्जनाभ्यां उपलभेत । तयोरन्तेवासिभिश्चिकित्सक-पाषण्ड-व्यञ्जन-उभय-वेतनैर्वा ॥ ०१.१६.२४ ॥
कृत्य-पक्ष-उपजापम् अकृत्य-पक्षे गूढ-प्रणिधानम् राग-अपरागौ भर्तरि रन्ध्रम् च प्रकृतीनाम् तापस-वैदेहक-व्यञ्जनाभ्याम् उपलभेत । तयोः अन्तेवासिभिः चिकित्सक-पाषण्ड-व्यञ्जन-उभय-वेतनैः वा ॥ ०१।१६।२४ ॥
kṛtya-pakṣa-upajāpam akṛtya-pakṣe gūḍha-praṇidhānam rāga-aparāgau bhartari randhram ca prakṛtīnām tāpasa-vaidehaka-vyañjanābhyām upalabheta . tayoḥ antevāsibhiḥ cikitsaka-pāṣaṇḍa-vyañjana-ubhaya-vetanaiḥ vā .. 01.16.24 ..
तेषां असम्भाषायां याचक-मत्त-उन्मत्त-सुप्त-प्रलापैः पुण्य-स्थान-देव-गृह-चित्र-लेख्य-संज्ञाभिर्वा चारं उपलभेत ॥ ०१.१६.२५ ॥
तेषाम् अ संभाषायाम् याचक-मत्त-उन्मत्त-सुप्त-प्रलापैः पुण्य-स्थान-देव-गृह-चित्र-लेख्य-संज्ञाभिः वा चारम् उपलभेत ॥ ०१।१६।२५ ॥
teṣām a saṃbhāṣāyām yācaka-matta-unmatta-supta-pralāpaiḥ puṇya-sthāna-deva-gṛha-citra-lekhya-saṃjñābhiḥ vā cāram upalabheta .. 01.16.25 ..
उपलब्धस्यौपजापं उपेयात् ॥ ०१.१६.२६ ॥
उपलब्धस्य औपजापम् उपेयात् ॥ ०१।१६।२६ ॥
upalabdhasya aupajāpam upeyāt .. 01.16.26 ..
परेण चौक्तः स्वासां प्रकृतीनां प्रमाणं नऽचक्षीत ॥ ०१.१६.२७ ॥
परेण चौक्तः स्वासाम् प्रकृतीनाम् प्रमाणम् न आचक्षीत ॥ ०१।१६।२७ ॥
pareṇa cauktaḥ svāsām prakṛtīnām pramāṇam na ācakṣīta .. 01.16.27 ..
सर्वं वेद भवान् इति ब्रूयात् । कार्य-सिद्धि-करं वा ॥ ०१.१६.२८ ॥
सर्वम् वेद भवान् इति ब्रूयात् । कार्य-सिद्धि-करम् वा ॥ ०१।१६।२८ ॥
sarvam veda bhavān iti brūyāt . kārya-siddhi-karam vā .. 01.16.28 ..
कार्यस्यासिद्धावुपरुध्यमानस्तर्कयेत् "किं भर्तुर्मे व्यसनं आसन्नं पश्यन् । स्वं वा व्यसनं प्रतिकर्तु-कामः । पार्ष्णि-ग्राहं आसारं अन्तः-कोपं आटविकं वा समुत्थापयितु-कामः । मित्रं आक्रन्दं वा व्याघातयितु-कामः । स्वं वा परतो विग्रहं अन्तः-कोपं आटविकं वा प्रतिकर्तु-कामः । संसिद्धं वा मे भर्तुर्यात्रा-कालं अभिहन्तु-कामः । ॥ ०१.१६.२९ ॥
कार्यस्य असिद्धौ उपरुध्यमानः तर्कयेत् "किम् भर्तुः मे व्यसनम् आसन्नम् पश्यन् । स्वम् वा व्यसनम् प्रतिकर्तु-कामः । पार्ष्णि-ग्राहम् आसारम् अन्तर् कोपम् आटविकम् वा समुत्थापयितु-कामः । मित्रम् आक्रन्दम् वा व्याघातयितु-कामः । स्वम् वा परतस् विग्रहम् अन्तर् कोपम् आटविकम् वा प्रतिकर्तु-कामः । संसिद्धम् वा मे भर्तुः यात्रा-कालम् अभिहन्तु-कामः । ॥ ०१।१६।२९ ॥
kāryasya asiddhau uparudhyamānaḥ tarkayet "kim bhartuḥ me vyasanam āsannam paśyan . svam vā vyasanam pratikartu-kāmaḥ . pārṣṇi-grāham āsāram antar kopam āṭavikam vā samutthāpayitu-kāmaḥ . mitram ākrandam vā vyāghātayitu-kāmaḥ . svam vā paratas vigraham antar kopam āṭavikam vā pratikartu-kāmaḥ . saṃsiddham vā me bhartuḥ yātrā-kālam abhihantu-kāmaḥ . .. 01.16.29 ..
॥ सस्य-पण्य-कुप्य-संग्रहं दुर्ग-कर्म बल-समुद्दानं वा कर्तु-कामः । स्व-सैन्यानां वा व्यायामस्य देश-कालावाकाङ्क्षमाणः । परिभव-प्रमादाभ्यां वा । संसर्ग-अनुबन्ध-अर्थी वा । मां उपरुणद्धि" इति ॥
॥ सस्य-पण्य-कुप्य-संग्रहम् दुर्ग-कर्म बल-समुद्दानम् वा कर्तु-कामः । स्व-सैन्यानाम् वा व्यायामस्य देश-कालौ आकाङ्क्षमाणः । परिभव-प्रमादाभ्याम् वा । संसर्ग-अनुबन्ध-अर्थी वा । माम् उपरुणद्धि" इति ॥
.. sasya-paṇya-kupya-saṃgraham durga-karma bala-samuddānam vā kartu-kāmaḥ . sva-sainyānām vā vyāyāmasya deśa-kālau ākāṅkṣamāṇaḥ . paribhava-pramādābhyām vā . saṃsarga-anubandha-arthī vā . mām uparuṇaddhi" iti ..
ज्ञात्वा वसेदपसरेद्वा ॥ ०१.१६.३० ॥
ज्ञात्वा वसेत् अपसरेत् वा ॥ ०१।१६।३० ॥
jñātvā vaset apasaret vā .. 01.16.30 ..
प्रयोजनं इष्टं अवेक्षेत वा ॥ ०१.१६.३१ ॥
प्रयोजनम् इष्टम् अवेक्षेत वा ॥ ०१।१६।३१ ॥
prayojanam iṣṭam avekṣeta vā .. 01.16.31 ..
शासनं अनिष्टं उक्त्वा बन्ध-वध-भयादविसृष्टोअप्यपगच्छेत् । अन्यथा नियम्येत ॥ ०१.१६.३२ ॥
शासनम् अनिष्टम् उक्त्वा बन्ध-वध-भयात् अविसृष्टः अपि अपगच्छेत् । अन्यथा नियम्येत ॥ ०१।१६।३२ ॥
śāsanam aniṣṭam uktvā bandha-vadha-bhayāt avisṛṣṭaḥ api apagacchet . anyathā niyamyeta .. 01.16.32 ..
प्रेषणं संधि-पालत्वं प्रतापो मित्र-संग्रहः ॥ ०१.१६.३३अ ब ॥
प्रेषणम् संधि-पाल-त्वम् प्रतापः मित्र-संग्रहः ॥ ०१।१६।३३अ ब ॥
preṣaṇam saṃdhi-pāla-tvam pratāpaḥ mitra-saṃgrahaḥ .. 01.16.33a ba ..
उपजापः सुहृद्-भेदो गूढ-दण्ड-अतिसारणं ॥ ०१.१६.३३च्द् ॥
उपजापः सुहृद्-भेदः गूढ-दण्ड-अतिसारणम् ॥ ०१।१६।३३च् ॥
upajāpaḥ suhṛd-bhedaḥ gūḍha-daṇḍa-atisāraṇam .. 01.16.33c ..
बन्धु-रत्न-अपहरणं चार-ज्ञानं पराक्रमः ॥ ०१.१६.३४अ ब ॥
बन्धु-रत्न-अपहरणम् चार-ज्ञानम् पराक्रमः ॥ ०१।१६।३४अ ब ॥
bandhu-ratna-apaharaṇam cāra-jñānam parākramaḥ .. 01.16.34a ba ..
समाधि-मोक्षो दूतस्य कर्म योगस्य चऽश्रयः ॥ ०१.१६.३४च्द् ॥
समाधि-मोक्षः दूतस्य कर्म योगस्य च आश्रयः ॥ ०१।१६।३४च् ॥
samādhi-mokṣaḥ dūtasya karma yogasya ca āśrayaḥ .. 01.16.34c ..
स्व-दूतैः कारयेदेतत्पर-दूतांश्च रक्षयेत् ॥ ०१.१६.३५अ ब ॥
स्व-दूतैः कारयेत् एतत् पर-दूतान् च रक्षयेत् ॥ ०१।१६।३५अ ब ॥
sva-dūtaiḥ kārayet etat para-dūtān ca rakṣayet .. 01.16.35a ba ..
प्रतिदूत-अपसर्पाभ्यां दृश्य-अदृश्यैश्च रक्षिभिः ॥ ०१.१६.३५च्द् ॥
प्रतिदूत-अपसर्पाभ्याम् दृश्य-अदृश्यैः च रक्षिभिः ॥ ०१।१६।३५च् ॥
pratidūta-apasarpābhyām dṛśya-adṛśyaiḥ ca rakṣibhiḥ .. 01.16.35c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In