| |
|

This overlay will guide you through the buttons:

उद्वृत्त-मन्त्रो दूत-प्रणिधिः ॥ ०१.१६.०१ ॥
udvṛtta-mantro dūta-praṇidhiḥ .. 01.16.01 ..
अमात्य-सम्पदाउपेतो निसृष्ट-अर्थः ॥ ०१.१६.०२ ॥
amātya-sampadāupeto nisṛṣṭa-arthaḥ .. 01.16.02 ..
पाद-गुण-हीनः परिमित-अर्थः ॥ ०१.१६.०३ ॥
pāda-guṇa-hīnaḥ parimita-arthaḥ .. 01.16.03 ..
अर्ध-गुण-हीनः शासन-हरः ॥ ०१.१६.०४ ॥
ardha-guṇa-hīnaḥ śāsana-haraḥ .. 01.16.04 ..
सुप्रतिविहित-यान-वाहन-पुरुष-परिवापः प्रतिष्ठेत ॥ ०१.१६.०५ ॥
suprativihita-yāna-vāhana-puruṣa-parivāpaḥ pratiṣṭheta .. 01.16.05 ..
शासनं एवं वाच्यः परः । स वक्ष्यत्येवम् । तस्यैदं प्रतिवाक्यम् । एवं अतिसंधातव्यम् । इत्यधीयानो गच्छेत् ॥ ०१.१६.०६ ॥
śāsanaṃ evaṃ vācyaḥ paraḥ . sa vakṣyatyevam . tasyaidaṃ prativākyam . evaṃ atisaṃdhātavyam . ityadhīyāno gacchet .. 01.16.06 ..
अटव्य्-अन्त-पाल-पुर-राष्ट्र-मुख्यैश्च प्रतिसंसर्गं गच्छेत् ॥ ०१.१६.०७ ॥
aṭavy-anta-pāla-pura-rāṣṭra-mukhyaiśca pratisaṃsargaṃ gacchet .. 01.16.07 ..
अनीक-स्थान-युद्ध-प्रतिग्रह-अपसार-भूमीरात्मनः परस्य चावेक्षेत ॥ ०१.१६.०८ ॥
anīka-sthāna-yuddha-pratigraha-apasāra-bhūmīrātmanaḥ parasya cāvekṣeta .. 01.16.08 ..
दुर्ग-राष्ट्र-प्रमाणं सार-वृत्ति-गुप्तिच्-छिद्राणि चौपलभेत ॥ ०१.१६.०९ ॥
durga-rāṣṭra-pramāṇaṃ sāra-vṛtti-guptic-chidrāṇi caupalabheta .. 01.16.09 ..
पर-अधिष्ठानं अनुज्ञातः प्रविशेत् ॥ ०१.१६.१० ॥
para-adhiṣṭhānaṃ anujñātaḥ praviśet .. 01.16.10 ..
शासनं च यथा-उक्तं ब्रूयात् । प्राण-आबाधेअपि दृष्टे ॥ ०१.१६.११ ॥
śāsanaṃ ca yathā-uktaṃ brūyāt . prāṇa-ābādheapi dṛṣṭe .. 01.16.11 ..
परस्य वाचि वक्त्रे दृष्ट्यां च प्रसादं वाक्य-पूजनं इष्ट-परिप्रश्नं गुण-कथा-सङ्गं आसन्नं आसनं सत्कारं इष्टेषु स्मरणं विश्वास-गमनं च लक्षयेत्तुष्टस्य । विपरीतं अतुष्टस्य ॥ ०१.१६.१२ ॥
parasya vāci vaktre dṛṣṭyāṃ ca prasādaṃ vākya-pūjanaṃ iṣṭa-paripraśnaṃ guṇa-kathā-saṅgaṃ āsannaṃ āsanaṃ satkāraṃ iṣṭeṣu smaraṇaṃ viśvāsa-gamanaṃ ca lakṣayettuṣṭasya . viparītaṃ atuṣṭasya .. 01.16.12 ..
तं ब्रूयात् "दूत-मुखा हि राजानः । त्वं चान्ये च ॥ ०१.१६.१३ ॥
taṃ brūyāt "dūta-mukhā hi rājānaḥ . tvaṃ cānye ca .. 01.16.13 ..
तस्मादुद्यतेष्वपि शस्त्रेषु यथा-उक्तं वक्तारो दूताः ॥ ०१.१६.१४ ॥
tasmādudyateṣvapi śastreṣu yathā-uktaṃ vaktāro dūtāḥ .. 01.16.14 ..
तेषां अन्त-अवसायिनोअप्यवध्याः । किं अङ्ग पुनर्ब्राह्मणाः ॥ ०१.१६.१५ ॥
teṣāṃ anta-avasāyinoapyavadhyāḥ . kiṃ aṅga punarbrāhmaṇāḥ .. 01.16.15 ..
परस्यएतद्वाक्यं ॥ ०१.१६.१६ ॥
parasyaetadvākyaṃ .. 01.16.16 ..
एष दूत-धर्मः" इति ॥ ०१.१६.१७ ॥
eṣa dūta-dharmaḥ" iti .. 01.16.17 ..
वसेदविसृष्टः पूजया नौत्सिक्तः ॥ ०१.१६.१८ ॥
vasedavisṛṣṭaḥ pūjayā nautsiktaḥ .. 01.16.18 ..
परेषु बलित्वं न मन्येत ॥ ०१.१६.१९ ॥
pareṣu balitvaṃ na manyeta .. 01.16.19 ..
वाक्यं अनिष्टं सहेत ॥ ०१.१६.२० ॥
vākyaṃ aniṣṭaṃ saheta .. 01.16.20 ..
स्त्रियः पानं च वर्जयेत् ॥ ०१.१६.२१ ॥
striyaḥ pānaṃ ca varjayet .. 01.16.21 ..
एकः शयीत ॥ ०१.१६.२२ ॥
ekaḥ śayīta .. 01.16.22 ..
सुप्त-मत्तयोर्हि भाव-ज्ञानं दृष्टं ॥ ०१.१६.२३ ॥
supta-mattayorhi bhāva-jñānaṃ dṛṣṭaṃ .. 01.16.23 ..
कृत्य-पक्ष-उपजापं अकृत्य-पक्षे गूढ-प्रणिधानं राग-अपरागौ भर्तरि रन्ध्रं च प्रकृतीनां तापस-वैदेहक-व्यञ्जनाभ्यां उपलभेत । तयोरन्तेवासिभिश्चिकित्सक-पाषण्ड-व्यञ्जन-उभय-वेतनैर्वा ॥ ०१.१६.२४ ॥
kṛtya-pakṣa-upajāpaṃ akṛtya-pakṣe gūḍha-praṇidhānaṃ rāga-aparāgau bhartari randhraṃ ca prakṛtīnāṃ tāpasa-vaidehaka-vyañjanābhyāṃ upalabheta . tayorantevāsibhiścikitsaka-pāṣaṇḍa-vyañjana-ubhaya-vetanairvā .. 01.16.24 ..
तेषां असम्भाषायां याचक-मत्त-उन्मत्त-सुप्त-प्रलापैः पुण्य-स्थान-देव-गृह-चित्र-लेख्य-संज्ञाभिर्वा चारं उपलभेत ॥ ०१.१६.२५ ॥
teṣāṃ asambhāṣāyāṃ yācaka-matta-unmatta-supta-pralāpaiḥ puṇya-sthāna-deva-gṛha-citra-lekhya-saṃjñābhirvā cāraṃ upalabheta .. 01.16.25 ..
उपलब्धस्यौपजापं उपेयात् ॥ ०१.१६.२६ ॥
upalabdhasyaupajāpaṃ upeyāt .. 01.16.26 ..
परेण चौक्तः स्वासां प्रकृतीनां प्रमाणं नऽचक्षीत ॥ ०१.१६.२७ ॥
pareṇa cauktaḥ svāsāṃ prakṛtīnāṃ pramāṇaṃ na'cakṣīta .. 01.16.27 ..
सर्वं वेद भवान् इति ब्रूयात् । कार्य-सिद्धि-करं वा ॥ ०१.१६.२८ ॥
sarvaṃ veda bhavān iti brūyāt . kārya-siddhi-karaṃ vā .. 01.16.28 ..
कार्यस्यासिद्धावुपरुध्यमानस्तर्कयेत् "किं भर्तुर्मे व्यसनं आसन्नं पश्यन् । स्वं वा व्यसनं प्रतिकर्तु-कामः । पार्ष्णि-ग्राहं आसारं अन्तः-कोपं आटविकं वा समुत्थापयितु-कामः । मित्रं आक्रन्दं वा व्याघातयितु-कामः । स्वं वा परतो विग्रहं अन्तः-कोपं आटविकं वा प्रतिकर्तु-कामः । संसिद्धं वा मे भर्तुर्यात्रा-कालं अभिहन्तु-कामः । ॥ ०१.१६.२९ ॥
kāryasyāsiddhāvuparudhyamānastarkayet "kiṃ bharturme vyasanaṃ āsannaṃ paśyan . svaṃ vā vyasanaṃ pratikartu-kāmaḥ . pārṣṇi-grāhaṃ āsāraṃ antaḥ-kopaṃ āṭavikaṃ vā samutthāpayitu-kāmaḥ . mitraṃ ākrandaṃ vā vyāghātayitu-kāmaḥ . svaṃ vā parato vigrahaṃ antaḥ-kopaṃ āṭavikaṃ vā pratikartu-kāmaḥ . saṃsiddhaṃ vā me bharturyātrā-kālaṃ abhihantu-kāmaḥ . .. 01.16.29 ..
॥ सस्य-पण्य-कुप्य-संग्रहं दुर्ग-कर्म बल-समुद्दानं वा कर्तु-कामः । स्व-सैन्यानां वा व्यायामस्य देश-कालावाकाङ्क्षमाणः । परिभव-प्रमादाभ्यां वा । संसर्ग-अनुबन्ध-अर्थी वा । मां उपरुणद्धि" इति ॥
.. sasya-paṇya-kupya-saṃgrahaṃ durga-karma bala-samuddānaṃ vā kartu-kāmaḥ . sva-sainyānāṃ vā vyāyāmasya deśa-kālāvākāṅkṣamāṇaḥ . paribhava-pramādābhyāṃ vā . saṃsarga-anubandha-arthī vā . māṃ uparuṇaddhi" iti ..
ज्ञात्वा वसेदपसरेद्वा ॥ ०१.१६.३० ॥
jñātvā vasedapasaredvā .. 01.16.30 ..
प्रयोजनं इष्टं अवेक्षेत वा ॥ ०१.१६.३१ ॥
prayojanaṃ iṣṭaṃ avekṣeta vā .. 01.16.31 ..
शासनं अनिष्टं उक्त्वा बन्ध-वध-भयादविसृष्टोअप्यपगच्छेत् । अन्यथा नियम्येत ॥ ०१.१६.३२ ॥
śāsanaṃ aniṣṭaṃ uktvā bandha-vadha-bhayādavisṛṣṭoapyapagacchet . anyathā niyamyeta .. 01.16.32 ..
प्रेषणं संधि-पालत्वं प्रतापो मित्र-संग्रहः ॥ ०१.१६.३३अ ब ॥
preṣaṇaṃ saṃdhi-pālatvaṃ pratāpo mitra-saṃgrahaḥ .. 01.16.33a ba ..
उपजापः सुहृद्-भेदो गूढ-दण्ड-अतिसारणं ॥ ०१.१६.३३च्द् ॥
upajāpaḥ suhṛd-bhedo gūḍha-daṇḍa-atisāraṇaṃ .. 01.16.33cd ..
बन्धु-रत्न-अपहरणं चार-ज्ञानं पराक्रमः ॥ ०१.१६.३४अ ब ॥
bandhu-ratna-apaharaṇaṃ cāra-jñānaṃ parākramaḥ .. 01.16.34a ba ..
समाधि-मोक्षो दूतस्य कर्म योगस्य चऽश्रयः ॥ ०१.१६.३४च्द् ॥
samādhi-mokṣo dūtasya karma yogasya ca'śrayaḥ .. 01.16.34cd ..
स्व-दूतैः कारयेदेतत्पर-दूतांश्च रक्षयेत् ॥ ०१.१६.३५अ ब ॥
sva-dūtaiḥ kārayedetatpara-dūtāṃśca rakṣayet .. 01.16.35a ba ..
प्रतिदूत-अपसर्पाभ्यां दृश्य-अदृश्यैश्च रक्षिभिः ॥ ०१.१६.३५च्द् ॥
pratidūta-apasarpābhyāṃ dṛśya-adṛśyaiśca rakṣibhiḥ .. 01.16.35cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In