| |
|

This overlay will guide you through the buttons:

विनीतो राज-पुत्रः कृच्छ्र-वृत्तिरसदृशे कर्मणि नियुक्तः पितरं अनुवर्तेत । अन्यत्र प्राण-आबाधक-प्रकृति-कोपक-पातकेभ्यः ॥ ०१.१८.०१ ॥
विनीतः राज-पुत्रः कृच्छ्र-वृत्तिः अ सदृशे कर्मणि नियुक्तः पितरम् अनुवर्तेत । अन्यत्र प्राण-आबाधक-प्रकृति-कोपक-पातकेभ्यः ॥ ०१।१८।०१ ॥
vinītaḥ rāja-putraḥ kṛcchra-vṛttiḥ a sadṛśe karmaṇi niyuktaḥ pitaram anuvarteta . anyatra prāṇa-ābādhaka-prakṛti-kopaka-pātakebhyaḥ .. 01.18.01 ..
पुण्ये कर्मणि नियुक्तः पुरुषं अधिष्ठातारं याचेत् ॥ ०१.१८.०२ ॥
पुण्ये कर्मणि नियुक्तः पुरुषम् अधिष्ठातारम् याचेत् ॥ ०१।१८।०२ ॥
puṇye karmaṇi niyuktaḥ puruṣam adhiṣṭhātāram yācet .. 01.18.02 ..
पुरुष-अधिष्ठितश्च सविशेषं आदेशं अनुतिष्ठेत् ॥ ०१.१८.०३ ॥
पुरुष-अधिष्ठितः च स विशेषम् आदेशम् अनुतिष्ठेत् ॥ ०१।१८।०३ ॥
puruṣa-adhiṣṭhitaḥ ca sa viśeṣam ādeśam anutiṣṭhet .. 01.18.03 ..
अभिरूपं च कर्म-फलं औपायनिकं च लाभं पितुरुपनाययेत् ॥ ०१.१८.०४ ॥
अभिरूपम् च कर्म-फलम् औपायनिकम् च लाभम् पितुः उपनाययेत् ॥ ०१।१८।०४ ॥
abhirūpam ca karma-phalam aupāyanikam ca lābham pituḥ upanāyayet .. 01.18.04 ..
तथाअप्यतुष्यन्तं अन्यस्मिन्पुत्रे दारेषु वा स्निह्यन्तं अरण्यायऽपृच्छेत ॥ ०१.१८.०५ ॥
तथा अपि अ तुष्यन्तम् अन्यस्मिन् पुत्रे दारेषु वा स्निह्यन्तम् अरण्याय अ पृच्छेत ॥ ०१।१८।०५ ॥
tathā api a tuṣyantam anyasmin putre dāreṣu vā snihyantam araṇyāya a pṛccheta .. 01.18.05 ..
बन्ध-वध-भयाद्वा यः सामन्तो न्याय-वृत्तिर्धार्मिकः सत्य-वाग्-अविसंवादकः प्रतिग्रहीता मानयिता चाभिपन्नानां तं आश्रयेत ॥ ०१.१८.०६ ॥
बन्ध-वध-भयात् वा यः सामन्तः न्याय-वृत्तिः धार्मिकः सत्य-वाच्-अविसंवादकः प्रतिग्रहीता मानयिता च अभिपन्नानाम् तम् आश्रयेत ॥ ०१।१८।०६ ॥
bandha-vadha-bhayāt vā yaḥ sāmantaḥ nyāya-vṛttiḥ dhārmikaḥ satya-vāc-avisaṃvādakaḥ pratigrahītā mānayitā ca abhipannānām tam āśrayeta .. 01.18.06 ..
तत्रस्थः कोश-दण्ड-सम्पन्नः प्रवीर-पुरुष-कन्या-सम्बन्धं अटवी-सम्बन्धं कृत्य-पक्ष-उपग्रहं च कुर्यात् ॥ ०१.१८.०७ ॥
तत्रस्थः कोश-दण्ड-सम्पन्नः प्रवीर-पुरुष-कन्या-सम्बन्धम् अटवी-सम्बन्धम् कृत्य-पक्ष-उपग्रहम् च कुर्यात् ॥ ०१।१८।०७ ॥
tatrasthaḥ kośa-daṇḍa-sampannaḥ pravīra-puruṣa-kanyā-sambandham aṭavī-sambandham kṛtya-pakṣa-upagraham ca kuryāt .. 01.18.07 ..
एक-चरः सुवर्ण-पाक-मणि-राग-हेम-रूप्य-पण्य-आकर-कर्म-अन्तानाजीवेत् ॥ ०१.१८.०८ ॥
एक-चरः सुवर्ण-पाक-मणि-राग-हेम-रूप्य-पण्य-आकर-कर्म-अन्तान् आजीवेत् ॥ ०१।१८।०८ ॥
eka-caraḥ suvarṇa-pāka-maṇi-rāga-hema-rūpya-paṇya-ākara-karma-antān ājīvet .. 01.18.08 ..
पाषण्ड-संघ-द्रव्यं अश्रोत्रिय-उपभोग्यं वा देव-द्रव्यं आढ्य-विधवा-द्रव्यं वा गूढं अनुप्रविश्य सार्थ-यान-पात्राणि च मदन-रस-योगेनातिसंधायापहरेत् ॥ ०१.१८.०९ ॥
पाषण्ड-संघ-द्रव्यम् अश्रोत्रिय-उपभोग्यम् वा देव-द्रव्यम् आढ्य-विधवा-द्रव्यम् वा गूढम् अनुप्रविश्य सार्थ-यान-पात्राणि च मदन-रस-योगेन अतिसंधाय अपहरेत् ॥ ०१।१८।०९ ॥
pāṣaṇḍa-saṃgha-dravyam aśrotriya-upabhogyam vā deva-dravyam āḍhya-vidhavā-dravyam vā gūḍham anupraviśya sārtha-yāna-pātrāṇi ca madana-rasa-yogena atisaṃdhāya apaharet .. 01.18.09 ..
पारग्रामिकं वा योगं आतिष्ठेत् ॥ ०१.१८.१० ॥
पारग्रामिकम् वा योगम् आतिष्ठेत् ॥ ०१।१८।१० ॥
pāragrāmikam vā yogam ātiṣṭhet .. 01.18.10 ..
मातुः परिजन-उपग्रहेण वा चेष्टेत ॥ ०१.१८.११ ॥
मातुः परिजन-उपग्रहेण वा चेष्टेत ॥ ०१।१८।११ ॥
mātuḥ parijana-upagraheṇa vā ceṣṭeta .. 01.18.11 ..
कारु-शिल्पि-कुशीलव-चिकित्सक-वाग्-जीवन-पाषण्डच्-छद्मभिर्वा नष्ट-रूपस्तद्-व्यञ्जन-सखश्-छिद्रेषु प्रविश्य राज्ञः शस्त्र-रसाभ्यां प्रहृत्य ब्रूयात् "अहं असौ कुमारः । सह-भोग्यं इदं राज्यम् । एको नार्हति भोक्तुम् । ये कामयन्ते मां भर्तुं तानहं द्विगुणेन भक्त-वेतनेनौपस्थास्यामि" इति इत्यपरुद्ध-वृत्तं ॥ ०१.१८.१२ ॥
कारु-शिल्पि-कुशीलव-चिकित्सक-वाच्-जीवन-पाषण्ड-छद्मभिः वा नष्ट-रूपः तद्-व्यञ्जन-सखः-छिद्रेषु प्रविश्य राज्ञः शस्त्र-रसाभ्याम् प्रहृत्य ब्रूयात् "अहम् असौ कुमारः । सह भोग्यम् इदम् राज्यम् । एकः न अर्हति भोक्तुम् । ये कामयन्ते माम् भर्तुम् तान् अहम् द्विगुणेन भक्त-वेतनेन उपस्थास्यामि" इति इति अपरुद्ध-वृत्तम् ॥ ०१।१८।१२ ॥
kāru-śilpi-kuśīlava-cikitsaka-vāc-jīvana-pāṣaṇḍa-chadmabhiḥ vā naṣṭa-rūpaḥ tad-vyañjana-sakhaḥ-chidreṣu praviśya rājñaḥ śastra-rasābhyām prahṛtya brūyāt "aham asau kumāraḥ . saha bhogyam idam rājyam . ekaḥ na arhati bhoktum . ye kāmayante mām bhartum tān aham dviguṇena bhakta-vetanena upasthāsyāmi" iti iti aparuddha-vṛttam .. 01.18.12 ..
अपरुद्धं तु मुख्य-पुत्र-अपसर्पाः प्रतिपाद्यऽनयेयुः । माता वा प्रतिगृहीता ॥ ०१.१८.१३ ॥
अपरुद्धम् तु मुख्य-पुत्र-अपसर्पाः प्रतिपाद्य अनयेयुः । माता वा प्रतिगृहीता ॥ ०१।१८।१३ ॥
aparuddham tu mukhya-putra-apasarpāḥ pratipādya anayeyuḥ . mātā vā pratigṛhītā .. 01.18.13 ..
त्यक्तं गूढ-पुरुषाः शस्त्र-रसाभ्यां हन्युः ॥ ०१.१८.१४ ॥
त्यक्तम् गूढ-पुरुषाः शस्त्र-रसाभ्याम् हन्युः ॥ ०१।१८।१४ ॥
tyaktam gūḍha-puruṣāḥ śastra-rasābhyām hanyuḥ .. 01.18.14 ..
अत्यक्तं तुल्य-शीलाभिः स्त्रीभिः पानेन मृगयया वा प्रसञ्जयित्वा रात्रावुपगृह्यऽनयेयुः ॥ ०१.१८.१५ ॥
अ त्यक्तम् तुल्य-शीलाभिः स्त्रीभिः पानेन मृगयया वा प्रसञ्जयित्वा रात्रौ उपगृह्य अनयेयुः ॥ ०१।१८।१५ ॥
a tyaktam tulya-śīlābhiḥ strībhiḥ pānena mṛgayayā vā prasañjayitvā rātrau upagṛhya anayeyuḥ .. 01.18.15 ..
उपस्थितं च राज्येन मद्-ऊर्ध्वं इति सान्त्वयेत् ॥ ०१.१८.१६अ ब ॥
उपस्थितम् च राज्येन मद्-ऊर्ध्वम् इति सान्त्वयेत् ॥ ०१।१८।१६अ ब ॥
upasthitam ca rājyena mad-ūrdhvam iti sāntvayet .. 01.18.16a ba ..
एकस्थं अथ सम्रुन्ध्यात्पुत्रवांस्तु प्रवासयेत् ॥ ०१.१८.१६च्द् ॥
एकस्थम् अथ सम्रुन्ध्यात् पुत्रवान् तु प्रवासयेत् ॥ ०१।१८।१६च् ॥
ekastham atha samrundhyāt putravān tu pravāsayet .. 01.18.16c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In