| |
|

This overlay will guide you through the buttons:

राजानं उत्थितं अनूत्तिष्ठन्ते भृत्याः ॥ ०१.१९.०१ ॥
राजानम् उत्थितम् अनूत्तिष्ठन्ते भृत्याः ॥ ०१।१९।०१ ॥
rājānam utthitam anūttiṣṭhante bhṛtyāḥ .. 01.19.01 ..
प्रमाद्यन्तं अनुप्रमाद्यन्ति ॥ ०१.१९.०२ ॥
प्रमाद्यन्तम् अनुप्रमाद्यन्ति ॥ ०१।१९।०२ ॥
pramādyantam anupramādyanti .. 01.19.02 ..
कर्माणि चास्य भक्षयन्ति ॥ ०१.१९.०३ ॥
कर्माणि च अस्य भक्षयन्ति ॥ ०१।१९।०३ ॥
karmāṇi ca asya bhakṣayanti .. 01.19.03 ..
द्विषद्भिश्चातिसंधीयते ॥ ०१.१९.०४ ॥
द्विषद्भिः च अतिसंधीयते ॥ ०१।१९।०४ ॥
dviṣadbhiḥ ca atisaṃdhīyate .. 01.19.04 ..
तस्मादुत्थानं आत्मनः कुर्वीत ॥ ०१.१९.०५ ॥
तस्मात् उत्थानम् आत्मनः कुर्वीत ॥ ०१।१९।०५ ॥
tasmāt utthānam ātmanaḥ kurvīta .. 01.19.05 ..
नालिकाभिरहरष्टधा रात्रिं च विभजेत् । छाया-प्रमाणेन वा ॥ ०१.१९.०६ ॥
नालिकाभिः अहर् अष्टधा रात्रिम् च विभजेत् । छाया-प्रमाणेन वा ॥ ०१।१९।०६ ॥
nālikābhiḥ ahar aṣṭadhā rātrim ca vibhajet . chāyā-pramāṇena vā .. 01.19.06 ..
त्रिपौरुषी पौरुषी चतुर्-अङ्गुला नष्टच्-छायो मध्य-अह्नैति चत्वारः पूर्वे दिवसस्याष्ट-भागाः ॥ ०१.१९.०७ ॥
त्रि-पौरुषी पौरुषी चतुर्-अङ्गुला नष्ट-छायः मध्य-अह्ना एति चत्वारः पूर्वे दिवसस्य अष्ट-भागाः ॥ ०१।१९।०७ ॥
tri-pauruṣī pauruṣī catur-aṅgulā naṣṭa-chāyaḥ madhya-ahnā eti catvāraḥ pūrve divasasya aṣṭa-bhāgāḥ .. 01.19.07 ..
तैः पश्चिमा व्याख्याताः ॥ ०१.१९.०८ ॥
तैः पश्चिमाः व्याख्याताः ॥ ०१।१९।०८ ॥
taiḥ paścimāḥ vyākhyātāḥ .. 01.19.08 ..
तत्र पूर्वे दिवसस्याष्ट-भागे रक्षा-विधानं आय-व्ययौ च शृणुयात् ॥ ०१.१९.०९ ॥
तत्र पूर्वे दिवसस्य अष्ट-भागे रक्षा-विधानम् आय-व्ययौ च शृणुयात् ॥ ०१।१९।०९ ॥
tatra pūrve divasasya aṣṭa-bhāge rakṣā-vidhānam āya-vyayau ca śṛṇuyāt .. 01.19.09 ..
द्वितीये पौर-जानपदानां कार्याणि पश्येत् ॥ ०१.१९.१० ॥
द्वितीये पौर-जानपदानाम् कार्याणि पश्येत् ॥ ०१।१९।१० ॥
dvitīye paura-jānapadānām kāryāṇi paśyet .. 01.19.10 ..
तृतीये स्नान-भोजनं सेवेत । स्वाध्यायं च कुर्वीत ॥ ०१.१९.११ ॥
तृतीये स्नान-भोजनम् सेवेत । स्वाध्यायम् च कुर्वीत ॥ ०१।१९।११ ॥
tṛtīye snāna-bhojanam seveta . svādhyāyam ca kurvīta .. 01.19.11 ..
चतुर्थे हिरण्य-प्रतिग्रहं अध्यक्षांश्च कुर्वीत ॥ ०१.१९.१२ ॥
चतुर्थे हिरण्य-प्रतिग्रहम् अध्यक्षान् च कुर्वीत ॥ ०१।१९।१२ ॥
caturthe hiraṇya-pratigraham adhyakṣān ca kurvīta .. 01.19.12 ..
पञ्चमे मन्त्रि-परिषदा पत्त्र-सम्प्रेषणेन मन्त्रयेत । चार-गुह्य-बोधनीयानि च बुध्येत ॥ ०१.१९.१३ ॥
पञ्चमे मन्त्रि-परिषदा पत्त्र-सम्प्रेषणेन मन्त्रयेत । चार-गुह्य-बोधनीयानि च बुध्येत ॥ ०१।१९।१३ ॥
pañcame mantri-pariṣadā pattra-sampreṣaṇena mantrayeta . cāra-guhya-bodhanīyāni ca budhyeta .. 01.19.13 ..
षष्ठे स्वैर-विहारं मन्त्रं वा सेवेत ॥ ०१.१९.१४ ॥
षष्ठे स्वैर-विहारम् मन्त्रम् वा सेवेत ॥ ०१।१९।१४ ॥
ṣaṣṭhe svaira-vihāram mantram vā seveta .. 01.19.14 ..
सप्तमे हस्त्य्-अश्व-रथ-आयुधीयान्पश्येत् ॥ ०१.१९.१५ ॥
सप्तमे हस्ति-अश्व-रथ-आयुधीयान् पश्येत् ॥ ०१।१९।१५ ॥
saptame hasti-aśva-ratha-āyudhīyān paśyet .. 01.19.15 ..
अष्टमे सेना-पति-सखो विक्रमं चिन्तयेत् ॥ ०१.१९.१६ ॥
अष्टमे सेना-पति-सखः विक्रमम् चिन्तयेत् ॥ ०१।१९।१६ ॥
aṣṭame senā-pati-sakhaḥ vikramam cintayet .. 01.19.16 ..
प्रतिष्ठितेअहनि संध्यां उपासीत ॥ ०१.१९.१७ ॥
प्रतिष्ठिते अहनि संध्याम् उपासीत ॥ ०१।१९।१७ ॥
pratiṣṭhite ahani saṃdhyām upāsīta .. 01.19.17 ..
प्रथमे रात्रि-भागे गूढ-पुरुषान्पश्येत् ॥ ०१.१९.१८ ॥
प्रथमे रात्रि-भागे गूढ-पुरुषान् पश्येत् ॥ ०१।१९।१८ ॥
prathame rātri-bhāge gūḍha-puruṣān paśyet .. 01.19.18 ..
द्वितीये स्नान-भोजनं कुर्वीत । स्वाध्यायं च ॥ ०१.१९.१९ ॥
द्वितीये स्नान-भोजनम् कुर्वीत । स्वाध्यायम् च ॥ ०१।१९।१९ ॥
dvitīye snāna-bhojanam kurvīta . svādhyāyam ca .. 01.19.19 ..
तृतीये तूर्य-घोषेण संविष्टश्चतुर्थ-पञ्चमौ शयीत ॥ ०१.१९.२० ॥
तृतीये तूर्य-घोषेण संविष्टः चतुर्थ-पञ्चमौ शयीत ॥ ०१।१९।२० ॥
tṛtīye tūrya-ghoṣeṇa saṃviṣṭaḥ caturtha-pañcamau śayīta .. 01.19.20 ..
षष्ठे तूर्य-घोषेण प्रतिबुद्धः शास्त्रं इतिकर्तव्यतां च चिन्तयेत् ॥ ०१.१९.२१ ॥
षष्ठे तूर्य-घोषेण प्रतिबुद्धः शास्त्रम् इतिकर्तव्य-ताम् च चिन्तयेत् ॥ ०१।१९।२१ ॥
ṣaṣṭhe tūrya-ghoṣeṇa pratibuddhaḥ śāstram itikartavya-tām ca cintayet .. 01.19.21 ..
सप्तमे मन्त्रं अध्यासीत । गूढ-पुरुषांश्च प्रेषयेत् ॥ ०१.१९.२२ ॥
सप्तमे मन्त्रम् अध्यासीत । गूढ-पुरुषान् च प्रेषयेत् ॥ ०१।१९।२२ ॥
saptame mantram adhyāsīta . gūḍha-puruṣān ca preṣayet .. 01.19.22 ..
अष्टमे ऋत्विग्-आचार्य-पुरोहित-स्वस्त्ययनानि प्रतिगृह्णीयात् । चिकित्सक-माहानसिक-मौहूर्तिकांश्च पश्येत् ॥ ०१.१९.२३ ॥
अष्टमे ऋत्विज्-आचार्य-पुरोहित-स्वस्त्ययनानि प्रतिगृह्णीयात् । चिकित्सक-माहानसिक-मौहूर्तिकान् च पश्येत् ॥ ०१।१९।२३ ॥
aṣṭame ṛtvij-ācārya-purohita-svastyayanāni pratigṛhṇīyāt . cikitsaka-māhānasika-mauhūrtikān ca paśyet .. 01.19.23 ..
सवस्तां धेनुं वृषभं च प्रदक्षिणी-कृत्यौपस्थानं गच्छेत् ॥ ०१.१९.२४ ॥
सवस्ताम् धेनुम् वृषभम् च प्रदक्षिणीकृत्य औपस्थानम् गच्छेत् ॥ ०१।१९।२४ ॥
savastām dhenum vṛṣabham ca pradakṣiṇīkṛtya aupasthānam gacchet .. 01.19.24 ..
आत्म-बल-आनुकूल्येन वा निशा-अहर्-भागान्प्रविभज्य कार्याणि सेवेत ॥ ०१.१९.२५ ॥
आत्म-बल-आनुकूल्येन वा निशा-अहर्-भागान् प्रविभज्य कार्याणि सेवेत ॥ ०१।१९।२५ ॥
ātma-bala-ānukūlyena vā niśā-ahar-bhāgān pravibhajya kāryāṇi seveta .. 01.19.25 ..
उपस्थान-गतः कार्य-अर्थिनां अद्वार-आसङ्गं कारयेत् ॥ ०१.१९.२६ ॥
उपस्थान-गतः कार्य-अर्थिनाम् अद्वार-आसङ्गम् कारयेत् ॥ ०१।१९।२६ ॥
upasthāna-gataḥ kārya-arthinām advāra-āsaṅgam kārayet .. 01.19.26 ..
दुर्दर्शो हि राजा कार्य-अकार्य-विपर्यासं आसन्नैः कार्यते ॥ ०१.१९.२७ ॥
दुर्दर्शः हि राजा कार्य-अकार्य-विपर्यासम् आसन्नैः कार्यते ॥ ०१।१९।२७ ॥
durdarśaḥ hi rājā kārya-akārya-viparyāsam āsannaiḥ kāryate .. 01.19.27 ..
तेन प्रकृति-कोपं अरि-वशं वा गच्छेत् ॥ ०१.१९.२८ ॥
तेन प्रकृति-कोपम् अरि-वशम् वा गच्छेत् ॥ ०१।१९।२८ ॥
tena prakṛti-kopam ari-vaśam vā gacchet .. 01.19.28 ..
तस्माद्देवता-आश्रम-पाषण्ड-श्रोत्रिय-पशु-पुण्य-स्थानानां बाल-वृद्ध-व्याधित-व्यसन्य्-अनाथानां स्त्रीणां च क्रमेण कार्याणि पश्येत् । कार्य-गौरवादात्ययिक-वशेन वा ॥ ०१.१९.२९ ॥
तस्मात् देवता-आश्रम-पाषण्ड-श्रोत्रिय-पशु-पुण्य-स्थानानाम् बाल-वृद्ध-व्याधित-व्यसनि-अनाथानाम् स्त्रीणाम् च क्रमेण कार्याणि पश्येत् । कार्य-गौरवात् आत्ययिक-वशेन वा ॥ ०१।१९।२९ ॥
tasmāt devatā-āśrama-pāṣaṇḍa-śrotriya-paśu-puṇya-sthānānām bāla-vṛddha-vyādhita-vyasani-anāthānām strīṇām ca krameṇa kāryāṇi paśyet . kārya-gauravāt ātyayika-vaśena vā .. 01.19.29 ..
सर्वं आत्ययिकं कार्यं शृणुयान्नातिपातयेत् ॥ ०१.१९.३०अ ब ॥
सर्वम् आत्ययिकम् कार्यम् शृणुयात् न अतिपातयेत् ॥ ०१।१९।३०अ ब ॥
sarvam ātyayikam kāryam śṛṇuyāt na atipātayet .. 01.19.30a ba ..
कृच्छ्र-साध्यं अतिक्रान्तं असाध्यं वाअपि जायते ॥ ०१.१९.३०च्द् ॥
कृच्छ्र-साध्यम् अतिक्रान्तम् असाध्यम् वा अपि जायते ॥ ०१।१९।३०च् ॥
kṛcchra-sādhyam atikrāntam asādhyam vā api jāyate .. 01.19.30c ..
अग्न्य्-अगार-गतः कार्यं पश्येद्वैद्य-तपस्विनां ॥ ०१.१९.३१अ ब ॥
अग्नि-अगार-गतः कार्यम् पश्येत् वैद्य-तपस्विनाम् ॥ ०१।१९।३१अ ब ॥
agni-agāra-gataḥ kāryam paśyet vaidya-tapasvinām .. 01.19.31a ba ..
पुरोहित-आचार्य-सखः प्रत्युत्थायाभिवाद्य च ॥ ०१.१९.३१च्द् ॥
पुरोहित-आचार्य-सखः प्रत्युत्थाय अभिवाद्य च ॥ ०१।१९।३१च् ॥
purohita-ācārya-sakhaḥ pratyutthāya abhivādya ca .. 01.19.31c ..
तपस्विनां तु कार्याणि त्रैविद्यैः सह कारयेत् ॥ ०१.१९.३२अ ब ॥
तपस्विनाम् तु कार्याणि त्रैविद्यैः सह कारयेत् ॥ ०१।१९।३२अ ब ॥
tapasvinām tu kāryāṇi traividyaiḥ saha kārayet .. 01.19.32a ba ..
माया-योगविदां चैव न स्वयं कोप-कारणात् ॥ ०१.१९.३२च्द् ॥
माया-योग-विदाम् च एव न स्वयम् कोप-कारणात् ॥ ०१।१९।३२च् ॥
māyā-yoga-vidām ca eva na svayam kopa-kāraṇāt .. 01.19.32c ..
राज्ञो हि व्रतं उत्थानं यज्ञः कार्य-अनुशासनं ॥ ०१.१९.३३अ ब ॥
राज्ञः हि व्रतम् उत्थानम् यज्ञः कार्य-अनुशासनम् ॥ ०१।१९।३३अ ब ॥
rājñaḥ hi vratam utthānam yajñaḥ kārya-anuśāsanam .. 01.19.33a ba ..
दक्षिणा वृत्ति-साम्यं तु दीक्षा तस्याभिषेचनं ॥ ०१.१९.३३च्द् ॥
दक्षिणा वृत्ति-साम्यम् तु दीक्षा तस्य अभिषेचनम् ॥ ०१।१९।३३च् ॥
dakṣiṇā vṛtti-sāmyam tu dīkṣā tasya abhiṣecanam .. 01.19.33c ..
प्रजा-सुखे सुखं राज्ञः प्रजानां च हिते हितं ॥ ०१.१९.३४अ ब ॥
प्रजा-सुखे सुखम् राज्ञः प्रजानाम् च हिते हितम् ॥ ०१।१९।३४अ ब ॥
prajā-sukhe sukham rājñaḥ prajānām ca hite hitam .. 01.19.34a ba ..
नऽत्म-प्रियं हितं राज्ञः प्रजानां तु प्रियं हितं ॥ ०१.१९.३४च्द् ॥
न अत्म-प्रियम् हितम् राज्ञः प्रजानाम् तु प्रियम् हितम् ॥ ०१।१९।३४च् ॥
na atma-priyam hitam rājñaḥ prajānām tu priyam hitam .. 01.19.34c ..
तस्मान्नित्य-उत्थितो राजा कुर्यादर्थ-अनुशासनं ॥ ०१.१९.३५अ ब ॥
तस्मात् नित्य-उत्थितः राजा कुर्यात् अर्थ-अनुशासनम् ॥ ०१।१९।३५अ ब ॥
tasmāt nitya-utthitaḥ rājā kuryāt artha-anuśāsanam .. 01.19.35a ba ..
अर्थस्य मूलं उत्थानं अनर्थस्य विपर्ययः ॥ ०१.१९.३५च्द् ॥
अर्थस्य मूलम् उत्थानम् अनर्थस्य विपर्ययः ॥ ०१।१९।३५च् ॥
arthasya mūlam utthānam anarthasya viparyayaḥ .. 01.19.35c ..
अनुत्थाने ध्रुवो नाशः प्राप्तस्यानागतस्य च ॥ ०१.१९.३६अ ब ॥
अनुत्थाने ध्रुवः नाशः प्राप्तस्य अनागतस्य च ॥ ०१।१९।३६अ ब ॥
anutthāne dhruvaḥ nāśaḥ prāptasya anāgatasya ca .. 01.19.36a ba ..
प्राप्यते फलं उत्थानाल्लभते चार्थसम्पदं ॥ ०१.१९.३६च्द् ॥
प्राप्यते फलम् उत्थानात् लभते च अर्थ-सम्पदम् ॥ ०१।१९।३६च् ॥
prāpyate phalam utthānāt labhate ca artha-sampadam .. 01.19.36c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In