| |
|

This overlay will guide you through the buttons:

राजानं उत्थितं अनूत्तिष्ठन्ते भृत्याः ॥ ०१.१९.०१ ॥
rājānaṃ utthitaṃ anūttiṣṭhante bhṛtyāḥ .. 01.19.01 ..
प्रमाद्यन्तं अनुप्रमाद्यन्ति ॥ ०१.१९.०२ ॥
pramādyantaṃ anupramādyanti .. 01.19.02 ..
कर्माणि चास्य भक्षयन्ति ॥ ०१.१९.०३ ॥
karmāṇi cāsya bhakṣayanti .. 01.19.03 ..
द्विषद्भिश्चातिसंधीयते ॥ ०१.१९.०४ ॥
dviṣadbhiścātisaṃdhīyate .. 01.19.04 ..
तस्मादुत्थानं आत्मनः कुर्वीत ॥ ०१.१९.०५ ॥
tasmādutthānaṃ ātmanaḥ kurvīta .. 01.19.05 ..
नालिकाभिरहरष्टधा रात्रिं च विभजेत् । छाया-प्रमाणेन वा ॥ ०१.१९.०६ ॥
nālikābhiraharaṣṭadhā rātriṃ ca vibhajet . chāyā-pramāṇena vā .. 01.19.06 ..
त्रिपौरुषी पौरुषी चतुर्-अङ्गुला नष्टच्-छायो मध्य-अह्नैति चत्वारः पूर्वे दिवसस्याष्ट-भागाः ॥ ०१.१९.०७ ॥
tripauruṣī pauruṣī catur-aṅgulā naṣṭac-chāyo madhya-ahnaiti catvāraḥ pūrve divasasyāṣṭa-bhāgāḥ .. 01.19.07 ..
तैः पश्चिमा व्याख्याताः ॥ ०१.१९.०८ ॥
taiḥ paścimā vyākhyātāḥ .. 01.19.08 ..
तत्र पूर्वे दिवसस्याष्ट-भागे रक्षा-विधानं आय-व्ययौ च शृणुयात् ॥ ०१.१९.०९ ॥
tatra pūrve divasasyāṣṭa-bhāge rakṣā-vidhānaṃ āya-vyayau ca śṛṇuyāt .. 01.19.09 ..
द्वितीये पौर-जानपदानां कार्याणि पश्येत् ॥ ०१.१९.१० ॥
dvitīye paura-jānapadānāṃ kāryāṇi paśyet .. 01.19.10 ..
तृतीये स्नान-भोजनं सेवेत । स्वाध्यायं च कुर्वीत ॥ ०१.१९.११ ॥
tṛtīye snāna-bhojanaṃ seveta . svādhyāyaṃ ca kurvīta .. 01.19.11 ..
चतुर्थे हिरण्य-प्रतिग्रहं अध्यक्षांश्च कुर्वीत ॥ ०१.१९.१२ ॥
caturthe hiraṇya-pratigrahaṃ adhyakṣāṃśca kurvīta .. 01.19.12 ..
पञ्चमे मन्त्रि-परिषदा पत्त्र-सम्प्रेषणेन मन्त्रयेत । चार-गुह्य-बोधनीयानि च बुध्येत ॥ ०१.१९.१३ ॥
pañcame mantri-pariṣadā pattra-sampreṣaṇena mantrayeta . cāra-guhya-bodhanīyāni ca budhyeta .. 01.19.13 ..
षष्ठे स्वैर-विहारं मन्त्रं वा सेवेत ॥ ०१.१९.१४ ॥
ṣaṣṭhe svaira-vihāraṃ mantraṃ vā seveta .. 01.19.14 ..
सप्तमे हस्त्य्-अश्व-रथ-आयुधीयान्पश्येत् ॥ ०१.१९.१५ ॥
saptame hasty-aśva-ratha-āyudhīyānpaśyet .. 01.19.15 ..
अष्टमे सेना-पति-सखो विक्रमं चिन्तयेत् ॥ ०१.१९.१६ ॥
aṣṭame senā-pati-sakho vikramaṃ cintayet .. 01.19.16 ..
प्रतिष्ठितेअहनि संध्यां उपासीत ॥ ०१.१९.१७ ॥
pratiṣṭhiteahani saṃdhyāṃ upāsīta .. 01.19.17 ..
प्रथमे रात्रि-भागे गूढ-पुरुषान्पश्येत् ॥ ०१.१९.१८ ॥
prathame rātri-bhāge gūḍha-puruṣānpaśyet .. 01.19.18 ..
द्वितीये स्नान-भोजनं कुर्वीत । स्वाध्यायं च ॥ ०१.१९.१९ ॥
dvitīye snāna-bhojanaṃ kurvīta . svādhyāyaṃ ca .. 01.19.19 ..
तृतीये तूर्य-घोषेण संविष्टश्चतुर्थ-पञ्चमौ शयीत ॥ ०१.१९.२० ॥
tṛtīye tūrya-ghoṣeṇa saṃviṣṭaścaturtha-pañcamau śayīta .. 01.19.20 ..
षष्ठे तूर्य-घोषेण प्रतिबुद्धः शास्त्रं इतिकर्तव्यतां च चिन्तयेत् ॥ ०१.१९.२१ ॥
ṣaṣṭhe tūrya-ghoṣeṇa pratibuddhaḥ śāstraṃ itikartavyatāṃ ca cintayet .. 01.19.21 ..
सप्तमे मन्त्रं अध्यासीत । गूढ-पुरुषांश्च प्रेषयेत् ॥ ०१.१९.२२ ॥
saptame mantraṃ adhyāsīta . gūḍha-puruṣāṃśca preṣayet .. 01.19.22 ..
अष्टमे ऋत्विग्-आचार्य-पुरोहित-स्वस्त्ययनानि प्रतिगृह्णीयात् । चिकित्सक-माहानसिक-मौहूर्तिकांश्च पश्येत् ॥ ०१.१९.२३ ॥
aṣṭame ṛtvig-ācārya-purohita-svastyayanāni pratigṛhṇīyāt . cikitsaka-māhānasika-mauhūrtikāṃśca paśyet .. 01.19.23 ..
सवस्तां धेनुं वृषभं च प्रदक्षिणी-कृत्यौपस्थानं गच्छेत् ॥ ०१.१९.२४ ॥
savastāṃ dhenuṃ vṛṣabhaṃ ca pradakṣiṇī-kṛtyaupasthānaṃ gacchet .. 01.19.24 ..
आत्म-बल-आनुकूल्येन वा निशा-अहर्-भागान्प्रविभज्य कार्याणि सेवेत ॥ ०१.१९.२५ ॥
ātma-bala-ānukūlyena vā niśā-ahar-bhāgānpravibhajya kāryāṇi seveta .. 01.19.25 ..
उपस्थान-गतः कार्य-अर्थिनां अद्वार-आसङ्गं कारयेत् ॥ ०१.१९.२६ ॥
upasthāna-gataḥ kārya-arthināṃ advāra-āsaṅgaṃ kārayet .. 01.19.26 ..
दुर्दर्शो हि राजा कार्य-अकार्य-विपर्यासं आसन्नैः कार्यते ॥ ०१.१९.२७ ॥
durdarśo hi rājā kārya-akārya-viparyāsaṃ āsannaiḥ kāryate .. 01.19.27 ..
तेन प्रकृति-कोपं अरि-वशं वा गच्छेत् ॥ ०१.१९.२८ ॥
tena prakṛti-kopaṃ ari-vaśaṃ vā gacchet .. 01.19.28 ..
तस्माद्देवता-आश्रम-पाषण्ड-श्रोत्रिय-पशु-पुण्य-स्थानानां बाल-वृद्ध-व्याधित-व्यसन्य्-अनाथानां स्त्रीणां च क्रमेण कार्याणि पश्येत् । कार्य-गौरवादात्ययिक-वशेन वा ॥ ०१.१९.२९ ॥
tasmāddevatā-āśrama-pāṣaṇḍa-śrotriya-paśu-puṇya-sthānānāṃ bāla-vṛddha-vyādhita-vyasany-anāthānāṃ strīṇāṃ ca krameṇa kāryāṇi paśyet . kārya-gauravādātyayika-vaśena vā .. 01.19.29 ..
सर्वं आत्ययिकं कार्यं शृणुयान्नातिपातयेत् ॥ ०१.१९.३०अ ब ॥
sarvaṃ ātyayikaṃ kāryaṃ śṛṇuyānnātipātayet .. 01.19.30a ba ..
कृच्छ्र-साध्यं अतिक्रान्तं असाध्यं वाअपि जायते ॥ ०१.१९.३०च्द् ॥
kṛcchra-sādhyaṃ atikrāntaṃ asādhyaṃ vāapi jāyate .. 01.19.30cd ..
अग्न्य्-अगार-गतः कार्यं पश्येद्वैद्य-तपस्विनां ॥ ०१.१९.३१अ ब ॥
agny-agāra-gataḥ kāryaṃ paśyedvaidya-tapasvināṃ .. 01.19.31a ba ..
पुरोहित-आचार्य-सखः प्रत्युत्थायाभिवाद्य च ॥ ०१.१९.३१च्द् ॥
purohita-ācārya-sakhaḥ pratyutthāyābhivādya ca .. 01.19.31cd ..
तपस्विनां तु कार्याणि त्रैविद्यैः सह कारयेत् ॥ ०१.१९.३२अ ब ॥
tapasvināṃ tu kāryāṇi traividyaiḥ saha kārayet .. 01.19.32a ba ..
माया-योगविदां चैव न स्वयं कोप-कारणात् ॥ ०१.१९.३२च्द् ॥
māyā-yogavidāṃ caiva na svayaṃ kopa-kāraṇāt .. 01.19.32cd ..
राज्ञो हि व्रतं उत्थानं यज्ञः कार्य-अनुशासनं ॥ ०१.१९.३३अ ब ॥
rājño hi vrataṃ utthānaṃ yajñaḥ kārya-anuśāsanaṃ .. 01.19.33a ba ..
दक्षिणा वृत्ति-साम्यं तु दीक्षा तस्याभिषेचनं ॥ ०१.१९.३३च्द् ॥
dakṣiṇā vṛtti-sāmyaṃ tu dīkṣā tasyābhiṣecanaṃ .. 01.19.33cd ..
प्रजा-सुखे सुखं राज्ञः प्रजानां च हिते हितं ॥ ०१.१९.३४अ ब ॥
prajā-sukhe sukhaṃ rājñaḥ prajānāṃ ca hite hitaṃ .. 01.19.34a ba ..
नऽत्म-प्रियं हितं राज्ञः प्रजानां तु प्रियं हितं ॥ ०१.१९.३४च्द् ॥
na'tma-priyaṃ hitaṃ rājñaḥ prajānāṃ tu priyaṃ hitaṃ .. 01.19.34cd ..
तस्मान्नित्य-उत्थितो राजा कुर्यादर्थ-अनुशासनं ॥ ०१.१९.३५अ ब ॥
tasmānnitya-utthito rājā kuryādartha-anuśāsanaṃ .. 01.19.35a ba ..
अर्थस्य मूलं उत्थानं अनर्थस्य विपर्ययः ॥ ०१.१९.३५च्द् ॥
arthasya mūlaṃ utthānaṃ anarthasya viparyayaḥ .. 01.19.35cd ..
अनुत्थाने ध्रुवो नाशः प्राप्तस्यानागतस्य च ॥ ०१.१९.३६अ ब ॥
anutthāne dhruvo nāśaḥ prāptasyānāgatasya ca .. 01.19.36a ba ..
प्राप्यते फलं उत्थानाल्लभते चार्थसम्पदं ॥ ०१.१९.३६च्द् ॥
prāpyate phalaṃ utthānāllabhate cārthasampadaṃ .. 01.19.36cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In