| |
|

This overlay will guide you through the buttons:

आन्वीक्षिकी त्रयी वार्त्ता दण्ड-नीतिश्चैति विद्याः ॥ ०१.२.०१ ॥
आन्वीक्षिकी त्रयी वार्त्ता दण्ड-नीतिः च एति विद्याः ॥ ०१।२।०१ ॥
ānvīkṣikī trayī vārttā daṇḍa-nītiḥ ca eti vidyāḥ .. 01.2.01 ..
त्रयी वार्त्ता दण्ड नीतिश्चैति मानवाः ॥ ०१.२.०२ ॥
त्रयी-वार्त्ता-दण्ड-नीतिः च एति मानवाः ॥ ०१।२।०२ ॥
trayī-vārttā-daṇḍa-nītiḥ ca eti mānavāḥ .. 01.2.02 ..
त्रयी विशेषो ह्यान्वीक्षिकीइति ॥ ०१.२.०३ ॥
त्रयी विशेषः हि आन्वीक्षिकी इति ॥ ०१।२।०३ ॥
trayī viśeṣaḥ hi ānvīkṣikī iti .. 01.2.03 ..
वार्त्ता दण्ड-नीतिश्चैति बार्हस्पत्याः ॥ ०१.२.०४ ॥
वार्त्ता दण्ड-नीतिः च एति बार्हस्पत्याः ॥ ०१।२।०४ ॥
vārttā daṇḍa-nītiḥ ca eti bārhaspatyāḥ .. 01.2.04 ..
संवरण-मात्रं हि त्रयी लोक-यात्रा-विद इति ॥ ०१.२.०५ ॥
संवरण-मात्रम् हि त्रयी लोक-यात्रा-विदः इति ॥ ०१।२।०५ ॥
saṃvaraṇa-mātram hi trayī loka-yātrā-vidaḥ iti .. 01.2.05 ..
दण्ड-नीतिरेका विद्याइत्यौशनसाः ॥ ०१.२.०६ ॥
दण्ड-नीतिः एका विद्या इति औशनसाः ॥ ०१।२।०६ ॥
daṇḍa-nītiḥ ekā vidyā iti auśanasāḥ .. 01.2.06 ..
तस्यां हि सर्व-विद्या-आरम्भाः प्रतिबद्धा इति ॥ ०१.२.०७ ॥
तस्याम् हि सर्व-विद्या-आरम्भाः प्रतिबद्धाः इति ॥ ०१।२।०७ ॥
tasyām hi sarva-vidyā-ārambhāḥ pratibaddhāḥ iti .. 01.2.07 ..
चतस्र एव विद्या इति कौटिल्यः ॥ ०१.२.०८ ॥
चतस्रः एव विद्याः इति कौटिल्यः ॥ ०१।२।०८ ॥
catasraḥ eva vidyāḥ iti kauṭilyaḥ .. 01.2.08 ..
ताभिर्धर्म-अर्थौ यद्विद्यात्तद्विद्यानां विद्यात्वं ॥ ०१.२.०९ ॥
ताभिः धर्म-अर्थौ यत् विद्यात् तद्विद्यानाम् विद्या-त्वम् ॥ ०१।२।०९ ॥
tābhiḥ dharma-arthau yat vidyāt tadvidyānām vidyā-tvam .. 01.2.09 ..
सांख्यं योगो लोकायतं चैत्यान्वीक्षिकी ॥ ०१.२.१० ॥
सांख्यम् योगः लोकायतम् चैत्यान्वीक्षिकी ॥ ०१।२।१० ॥
sāṃkhyam yogaḥ lokāyatam caityānvīkṣikī .. 01.2.10 ..
धर्म-अधर्मौ त्रय्यां अर्थ-अनर्थौ वार्त्तायां नय-अनयौ दण्ड-नीत्यां बल-अबले च एतासां हेतुभिरन्वीक्षमाणा लोकस्य उपकरोति व्यसनेअभ्युदये च बुद्धिं अवस्थापयति प्रज्ञा-वाक्य-क्रिया-वैशारद्यं च करोति ॥ ०१.२.११ ॥
धर्म-अधर्मौ त्रय्याम् अर्थ-अनर्थौ वार्त्तायाम् नय-अनयौ दण्ड-नीत्याम् बल-अबले च एतासाम् हेतुभिः अन्वीक्षमाणा लोकस्य उपकरोति व्यसने अभ्युदये च बुद्धिम् अवस्थापयति प्रज्ञा-वाक्य-क्रिया-वैशारद्यम् च करोति ॥ ०१।२।११ ॥
dharma-adharmau trayyām artha-anarthau vārttāyām naya-anayau daṇḍa-nītyām bala-abale ca etāsām hetubhiḥ anvīkṣamāṇā lokasya upakaroti vyasane abhyudaye ca buddhim avasthāpayati prajñā-vākya-kriyā-vaiśāradyam ca karoti .. 01.2.11 ..
प्रदीपः सर्व-विद्यानां उपायः सर्व-कर्मणां ॥ ०१.२.१२अ ब ॥
प्रदीपः सर्व-विद्यानाम् उपायः सर्व-कर्मणाम् ॥ ०१।२।१२अ ब ॥
pradīpaḥ sarva-vidyānām upāyaḥ sarva-karmaṇām .. 01.2.12a ba ..
आश्रयः सर्व-धर्माणां शश्वदान्वीक्षिकी मता ॥ ०१.२.१२च्द् ॥
आश्रयः सर्व-धर्माणाम् शश्वत् आन्वीक्षिकी मता ॥ ०१।२।१२च् ॥
āśrayaḥ sarva-dharmāṇām śaśvat ānvīkṣikī matā .. 01.2.12c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In