| |
|

This overlay will guide you through the buttons:

वास्तुक-प्रशस्ते देशे सप्राकार-परिखा-द्वारं अनेक-कक्ष्या-परिगतं अन्तःपुरं कारयेत् ॥ ०१.२०.०१ ॥
वास्तुक-प्रशस्ते देशे स प्राकार-परिखा-द्वारम् अनेक-कक्ष्या-परिगतम् अन्तःपुरम् कारयेत् ॥ ०१।२०।०१ ॥
vāstuka-praśaste deśe sa prākāra-parikhā-dvāram aneka-kakṣyā-parigatam antaḥpuram kārayet .. 01.20.01 ..
कोशगृह-विधानेन मध्ये वास-गृहम् । गूढ-भित्ति-संचारं मोहन-गृहं तन्-मध्ये वा वास-गृहम् । भूमि-गृहं वाआसन्न-चैत्य-काष्ठ-देवता-अपिधान-द्वारं अनेक-सुरुङ्गा-संचारं तस्यौपरि प्रासादं गूढ-भित्ति-सोपानं सुषिर-स्तम्भ-प्रवेश-अपसारं वा वास-गृहं यन्त्र-बद्ध-तल-अवपातं कारयेत् । आपत्-प्रतीकार-अर्थं आपदि वा ॥ का०१.२०.०२ ॥
कोशगृह-विधानेन मध्ये वास-गृहम् । गूढ-भित्ति-संचारम् मोहन-गृहम् तद्-मध्ये वा वास-गृहम् । भूमि-गृहम् वा आसन्न-चैत्य-काष्ठ-देवता-अपिधान-द्वारम् अनेक-सुरुङ्गा-संचारम् तस्य औपरि प्रासादम् गूढ-भित्ति-सोपानम् सुषिर-स्तम्भ-प्रवेश-अपसारम् वा वास-गृहम् यन्त्र-बद्ध-तल-अवपातम् कारयेत् । आपद्-प्रतीकार-अर्थम् आपदि वा ॥ का०१।२०।०२ ॥
kośagṛha-vidhānena madhye vāsa-gṛham . gūḍha-bhitti-saṃcāram mohana-gṛham tad-madhye vā vāsa-gṛham . bhūmi-gṛham vā āsanna-caitya-kāṣṭha-devatā-apidhāna-dvāram aneka-suruṅgā-saṃcāram tasya aupari prāsādam gūḍha-bhitti-sopānam suṣira-stambha-praveśa-apasāram vā vāsa-gṛham yantra-baddha-tala-avapātam kārayet . āpad-pratīkāra-artham āpadi vā .. kā01.20.02 ..
अतोअन्यथा वा विकल्पयेत् । सह-अध्यायि-भयात् ॥ ०१.२०.०३ ॥
अतोअन्यथा वा विकल्पयेत् । सह अध्यायि-भयात् ॥ ०१।२०।०३ ॥
atoanyathā vā vikalpayet . saha adhyāyi-bhayāt .. 01.20.03 ..
मानुषेणाग्निना त्रिरपसव्यं परिगतं अन्तःपुरं अग्निरन्यो न दहति । न चात्रान्योअग्निर्ज्वलति । वैद्युतेन भस्मना मृत्-सम्युक्तेन करक-वारिणाअवलिप्तं च ॥ ०१.२०.०४ ॥
मानुषेण अग्निना त्रिस् अपसव्यम् परिगतम् अन्तःपुरम् अग्निः अन्यः न दहति । न च अत्र अन्यः अग्निः ज्वलति । वैद्युतेन भस्मना मृद्-सम्युक्तेन करक-वारिणा अवलिप्तम् च ॥ ०१।२०।०४ ॥
mānuṣeṇa agninā tris apasavyam parigatam antaḥpuram agniḥ anyaḥ na dahati . na ca atra anyaḥ agniḥ jvalati . vaidyutena bhasmanā mṛd-samyuktena karaka-vāriṇā avaliptam ca .. 01.20.04 ..
जीवन्ती-श्वेता-मुष्कक-पुष्प-वन्दाकाभिरक्षीवे जातस्याश्वत्थस्य प्रतानेन गुप्तं सर्पा विषाणि वा न प्रभवन्ति ॥ ०१.२०.०५ ॥
जीवन्ती-श्वेता-मुष्कक-पुष्प-वन्दाक-अभिरक्षीबे जातस्य अश्वत्थस्य प्रतानेन गुप्तम् सर्पाः विषाणि वा न प्रभवन्ति ॥ ०१।२०।०५ ॥
jīvantī-śvetā-muṣkaka-puṣpa-vandāka-abhirakṣībe jātasya aśvatthasya pratānena guptam sarpāḥ viṣāṇi vā na prabhavanti .. 01.20.05 ..
मयूर-नकुल-पृषत-उत्सर्गः सर्पान्भक्षयति ॥ ०१.२०.०६ ॥
मयूर-नकुल-पृषत-उत्सर्गः सर्पान् भक्षयति ॥ ०१।२०।०६ ॥
mayūra-nakula-pṛṣata-utsargaḥ sarpān bhakṣayati .. 01.20.06 ..
शुकः सारिका भृङ्ग-राजो वा सर्प-विष-शङ्कायां क्रोशति ॥ ०१.२०.०७ ॥
शुकः सारिका भृङ्ग-राजः वा सर्प-विष-शङ्कायाम् क्रोशति ॥ ०१।२०।०७ ॥
śukaḥ sārikā bhṛṅga-rājaḥ vā sarpa-viṣa-śaṅkāyām krośati .. 01.20.07 ..
क्रौञ्चो विष-अभ्याशे माद्यति । ग्लायति जीवं-जीवकः । म्रियते मत्त-कोकिलः । चकोरस्याक्षिणी विरज्येते ॥ ०१.२०.०८ ॥
क्रौञ्चः विष-अभ्याशे माद्यति । ग्लायति जीवम् जीवकः । म्रियते मत्त-कोकिलः । चकोरस्य अक्षिणी विरज्येते ॥ ०१।२०।०८ ॥
krauñcaḥ viṣa-abhyāśe mādyati . glāyati jīvam jīvakaḥ . mriyate matta-kokilaḥ . cakorasya akṣiṇī virajyete .. 01.20.08 ..
इत्येवं अग्नि-विष-सर्पेभ्यः प्रतिकुर्वीत ॥ ०१.२०.०९ ॥
इति एवम् अग्नि-विष-सर्पेभ्यः प्रतिकुर्वीत ॥ ०१।२०।०९ ॥
iti evam agni-viṣa-sarpebhyaḥ pratikurvīta .. 01.20.09 ..
पृष्ठतः कक्ष्या-विभागे स्त्री-निवेशो गर्भ-व्याधि-संस्था वृक्ष-उदक-स्थानं च ॥ ०१.२०.१० ॥
पृष्ठतस् कक्ष्या-विभागे स्त्री-निवेशः गर्भ-व्याधि-संस्था वृक्ष-उदक-स्थानम् च ॥ ०१।२०।१० ॥
pṛṣṭhatas kakṣyā-vibhāge strī-niveśaḥ garbha-vyādhi-saṃsthā vṛkṣa-udaka-sthānam ca .. 01.20.10 ..
बहिः कन्या-कुमार-पुरं ॥ ०१.२०.११ ॥
बहिस् कन्या-कुमार-पुरम् ॥ ०१।२०।११ ॥
bahis kanyā-kumāra-puram .. 01.20.11 ..
पुरस्तादलङ्कार-भूमिर्मन्त्र-भूमिरुपस्थानं कुमार-अध्यक्ष-स्थानं च ॥ ०१.२०.१२ ॥
पुरस्तात् अलङ्कार-भूमिः मन्त्र-भूमिः उपस्थानम् कुमार-अध्यक्ष-स्थानम् च ॥ ०१।२०।१२ ॥
purastāt alaṅkāra-bhūmiḥ mantra-bhūmiḥ upasthānam kumāra-adhyakṣa-sthānam ca .. 01.20.12 ..
कक्ष्य-अन्तरेष्वन्तर्वंशिक-सैन्यं तिष्ठेत् ॥ ०१.२०.१३ ॥
कक्ष्य-अन्तरेषु अन्तर्वंशिक-सैन्यम् तिष्ठेत् ॥ ०१।२०।१३ ॥
kakṣya-antareṣu antarvaṃśika-sainyam tiṣṭhet .. 01.20.13 ..
अन्तर्-गृह-गतः स्थविर-स्त्री-परिशुद्धां देवीं पश्येत् ॥ ०१.२०.१४ ॥
अन्तर् गृह-गतः स्थविर-स्त्री-परिशुद्धाम् देवीम् पश्येत् ॥ ०१।२०।१४ ॥
antar gṛha-gataḥ sthavira-strī-pariśuddhām devīm paśyet .. 01.20.14 ..
देवी-गृहे लीनो हि भ्राता भद्रसेनं जघान । मातुः शय्या-अन्तर्गतश्च पुत्रः कारूषं ॥ ०१.२०.१५ ॥
देवी-गृहे लीनः हि भ्राता भद्रसेनम् जघान । मातुः शय्या-अन्तर्गतः च पुत्रः कारूषम् ॥ ०१।२०।१५ ॥
devī-gṛhe līnaḥ hi bhrātā bhadrasenam jaghāna . mātuḥ śayyā-antargataḥ ca putraḥ kārūṣam .. 01.20.15 ..
लाजान्मधुनाइति विषेण पर्यस्य देवी काशि-राजम् । विष-दिग्धेन नूप्रेण वैरन्त्यम् । मेखला-मणिना सौवीरम् । जालूथं आदर्शेन । वेण्यां गूढं शस्त्रं कृत्वा देवी विदूरथं जघान ॥ ०१.२०.१६ ॥
लाजान् मधुना ऐति विषेण पर्यस्य देवी काशि-राजम् । विष-दिग्धेन नूप्रेण वैरन्त्यम् । मेखला-मणिना सौवीरम् । जालूथम् आदर्शेन । वेण्याम् गूढम् शस्त्रम् कृत्वा देवी विदूरथम् जघान ॥ ०१।२०।१६ ॥
lājān madhunā aiti viṣeṇa paryasya devī kāśi-rājam . viṣa-digdhena nūpreṇa vairantyam . mekhalā-maṇinā sauvīram . jālūtham ādarśena . veṇyām gūḍham śastram kṛtvā devī vidūratham jaghāna .. 01.20.16 ..
तस्मादेतान्यास्पदानि परिहरेत् ॥ ०१.२०.१७ ॥
तस्मात् एतानि आस्पदानि परिहरेत् ॥ ०१।२०।१७ ॥
tasmāt etāni āspadāni pariharet .. 01.20.17 ..
मुण्ड-जटिल-कुहक-प्रतिसंसर्गं बाह्याभिश्च दासीभिः प्रतिषेधयेत् ॥ ०१.२०.१८ ॥
मुण्ड-जटिल-कुहक-प्रतिसंसर्गम् बाह्याभिः च दासीभिः प्रतिषेधयेत् ॥ ०१।२०।१८ ॥
muṇḍa-jaṭila-kuhaka-pratisaṃsargam bāhyābhiḥ ca dāsībhiḥ pratiṣedhayet .. 01.20.18 ..
न चएनाः कुल्याः पश्येयुः । अन्यत्र गर्भ-व्याधि-संस्थाभ्यः ॥ ०१.२०.१९ ॥
न च एनाः कुल्याः पश्येयुः । अन्यत्र गर्भ-व्याधि-संस्थाभ्यः ॥ ०१।२०।१९ ॥
na ca enāḥ kulyāḥ paśyeyuḥ . anyatra garbha-vyādhi-saṃsthābhyaḥ .. 01.20.19 ..
रूप-आजीवाः स्नान-प्रघर्ष-शुद्ध-शरीराः परिवर्तित-वस्त्र-अलंकाराः पश्येयुः ॥ ०१.२०.२० ॥
रूप-आजीवाः स्नान-प्रघर्ष-शुद्ध-शरीराः परिवर्तित-वस्त्र-अलंकाराः पश्येयुः ॥ ०१।२०।२० ॥
rūpa-ājīvāḥ snāna-pragharṣa-śuddha-śarīrāḥ parivartita-vastra-alaṃkārāḥ paśyeyuḥ .. 01.20.20 ..
अशीतिकाः पुरुषाः पञ्चाशत्काः स्त्रियो वा माता-पितृ-व्यञ्जनाः स्थविर-वर्षधर-अभ्यागारिकाश्चावरोधानां शौच-आशौचं विद्युः । स्थापयेयुश्च स्वामि-हिते । ॥ ०१.२०.२१ ॥
अशीतिकाः पुरुषाः पञ्चाशत्काः स्त्रियः वा माता-पितृ-व्यञ्जनाः स्थविर-वर्षधर-अभ्यागारिकाः च अवरोधानाम् शौच-आशौचम् विद्युः । स्थापयेयुः च स्वामि-हिते । ॥ ०१।२०।२१ ॥
aśītikāḥ puruṣāḥ pañcāśatkāḥ striyaḥ vā mātā-pitṛ-vyañjanāḥ sthavira-varṣadhara-abhyāgārikāḥ ca avarodhānām śauca-āśaucam vidyuḥ . sthāpayeyuḥ ca svāmi-hite . .. 01.20.21 ..
स्व-भूमौ च वसेत्सर्वः पर-भूमौ न संचरेत् ॥ ०१.२०.२२अ ब ॥
स्व-भूमौ च वसेत् सर्वः पर-भूमौ न संचरेत् ॥ ०१।२०।२२अ ब ॥
sva-bhūmau ca vaset sarvaḥ para-bhūmau na saṃcaret .. 01.20.22a ba ..
न च बाह्येन संसर्गं कश्चिदाभ्यन्तरो व्रजेत् ॥ ०१.२०.२२च्द् ॥
न च बाह्येन संसर्गम् कश्चिद् आभ्यन्तरः व्रजेत् ॥ ०१।२०।२२च् ॥
na ca bāhyena saṃsargam kaścid ābhyantaraḥ vrajet .. 01.20.22c ..
सर्वं चावेक्षितं द्रव्यं निबद्ध-आगम-निर्गमं ॥ ०१.२०.२३अ ब ॥
सर्वम् च अवेक्षितम् द्रव्यम् निबद्ध-आगम-निर्गमम् ॥ ०१।२०।२३अ ब ॥
sarvam ca avekṣitam dravyam nibaddha-āgama-nirgamam .. 01.20.23a ba ..
निर्गच्छेदभिगच्छेद्वा मुद्रा-संक्रान्त-भूमिकं ॥ ०१.२०.२३च्द् ॥
निर्गच्छेत् अभिगच्छेत् वा मुद्रा-संक्रान्त-भूमिकम् ॥ ०१।२०।२३च् ॥
nirgacchet abhigacchet vā mudrā-saṃkrānta-bhūmikam .. 01.20.23c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In