| |
|

This overlay will guide you through the buttons:

शयनादुत्थितः स्त्री-गणैर्धन्विभिः परिगृह्यते । द्वितीयस्यां कक्ष्यायां कञ्चुक-उष्णीषिभिर्वर्ष-धर-अभ्यागारिकैः । तृतीयस्यां कुब्ज-वामन-किरातैः । चतुर्थ्यां मन्त्रिभिः सम्बन्धिभिर्दौवारिकैश्च प्रास-पाणिभिः ॥ ०१.२१.०१ ॥
शयनात् उत्थितः स्त्री-गणैः धन्विभिः परिगृह्यते । द्वितीयस्याम् कक्ष्यायाम् कञ्चुक-उष्णीषिभिः वर्ष-धर-अभ्यागारिकैः । तृतीयस्याम् कुब्ज-वामन-किरातैः । चतुर्थ्याम् मन्त्रिभिः सम्बन्धिभिः दौवारिकैः च प्रास-पाणिभिः ॥ ०१।२१।०१ ॥
śayanāt utthitaḥ strī-gaṇaiḥ dhanvibhiḥ parigṛhyate . dvitīyasyām kakṣyāyām kañcuka-uṣṇīṣibhiḥ varṣa-dhara-abhyāgārikaiḥ . tṛtīyasyām kubja-vāmana-kirātaiḥ . caturthyām mantribhiḥ sambandhibhiḥ dauvārikaiḥ ca prāsa-pāṇibhiḥ .. 01.21.01 ..
पितृ-पैतामहं सम्बन्ध-अनुबद्धं शिक्षितं अनुरक्तं कृत-कर्माणं च जनं आसन्नं कुर्वीत । नान्यतो-देशीयं अकृत-अर्थ-मानं स्व-देशीयं वाअप्यपकृत्यौपगृहीतं ॥ ०१.२१.०२ ॥
पितृ-पैतामहम् सम्बन्ध-अनुबद्धम् शिक्षितम् अनुरक्तम् कृत-कर्माणम् च जनम् आसन्नम् कुर्वीत । न अन्यतस् देशीयम् अकृत-अर्थ-मानम् स्व-देशीयम् वा अपि अपकृत्य-उपगृहीतम् ॥ ०१।२१।०२ ॥
pitṛ-paitāmaham sambandha-anubaddham śikṣitam anuraktam kṛta-karmāṇam ca janam āsannam kurvīta . na anyatas deśīyam akṛta-artha-mānam sva-deśīyam vā api apakṛtya-upagṛhītam .. 01.21.02 ..
अन्तर्-वंशिक-सैन्यं राजानं अन्तःपुरं च रक्षेत् ॥ ०१.२१.०३ ॥
अन्तर् वंशिक-सैन्यम् राजानम् अन्तःपुरम् च रक्षेत् ॥ ०१।२१।०३ ॥
antar vaṃśika-sainyam rājānam antaḥpuram ca rakṣet .. 01.21.03 ..
गुप्ते देशे माहानसिकः सर्वं आस्वाद-बाहुल्येन कर्म कारयेत् ॥ ०१.२१.०४ ॥
गुप्ते देशे माहानसिकः सर्वम् आस्वाद-बाहुल्येन कर्म कारयेत् ॥ ०१।२१।०४ ॥
gupte deśe māhānasikaḥ sarvam āsvāda-bāhulyena karma kārayet .. 01.21.04 ..
तद्रजा तथैव प्रतिभुञ्जीत पूर्वं अग्नये वयोभ्यश्च बलिं कृत्वा ॥ ०१.२१.०५ ॥
तद्-रजा तथा एव प्रतिभुञ्जीत पूर्वम् अग्नये वयोभ्यः च बलिम् कृत्वा ॥ ०१।२१।०५ ॥
tad-rajā tathā eva pratibhuñjīta pūrvam agnaye vayobhyaḥ ca balim kṛtvā .. 01.21.05 ..
अग्नेर्ज्वाला-धूम-नीलता शब्द-स्फोटनं च विष-युक्तस्य । वयसां विपत्तिश्च ॥ ०१.२१.०६ ॥
अग्नेः ज्वाला-धूम-नील-ता शब्द-स्फोटनम् च विष-युक्तस्य । वयसाम् विपत्तिः च ॥ ०१।२१।०६ ॥
agneḥ jvālā-dhūma-nīla-tā śabda-sphoṭanam ca viṣa-yuktasya . vayasām vipattiḥ ca .. 01.21.06 ..
अन्नस्य ऊष्मा मयूर-ग्रीव-आभः शैत्यं आशु क्लिष्टस्यैव वैवर्ण्यं सौदकत्वं अक्लिन्नत्वं च ॥ ०१.२१.०७अ ॥
अन्नस्य ऊष्मा मयूर-ग्रीव-आभः शैत्यम् आशु क्लिष्टस्य एव वैवर्ण्यम् स औदक-त्वम् अ क्लिन्न-त्वम् च ॥ ०१।२१।०७अ ॥
annasya ūṣmā mayūra-grīva-ābhaḥ śaityam āśu kliṣṭasya eva vaivarṇyam sa audaka-tvam a klinna-tvam ca .. 01.21.07a ..
व्यञ्जनानां आशु शुष्कत्वं च क्वाथ-ध्याम-फेन-पटल-विच्छिन्न-भावो गन्ध-स्पर्श-रस-वधश्च ॥ ०१.२१.०७ब ॥
व्यञ्जनानाम् आशु शुष्क-त्वम् च क्वाथ-ध्याम-फेन-पटल-विच्छिन्न-भावः गन्ध-स्पर्श-रस-वधः च ॥ ०१।२१।०७ब ॥
vyañjanānām āśu śuṣka-tvam ca kvātha-dhyāma-phena-paṭala-vicchinna-bhāvaḥ gandha-sparśa-rasa-vadhaḥ ca .. 01.21.07ba ..
द्रवेषु हीन-अतिरिक्तच्-छाया-दर्शनं फेन-पटल-सीमन्त-ऊर्ध्व-राजी-दर्शनं च ॥ ०१.२१.०७क ॥
द्रवेषु हीन-अतिरिक्त-छाया-दर्शनम् फेन-पटल-सीमन्त-ऊर्ध्व-राजी-दर्शनम् च ॥ ०१।२१।०७क ॥
draveṣu hīna-atirikta-chāyā-darśanam phena-paṭala-sīmanta-ūrdhva-rājī-darśanam ca .. 01.21.07ka ..
रसस्य मध्ये नीला राजी । पयसस्ताम्रा । मद्य-तोययोः काली । दध्नः श्यामा । मधुनः श्वेता । द्रव्याणां आर्द्राणां आशु प्रम्लानत्वं उत्पक्व-भावः क्वाथ-नील-श्यावता च ॥ ०१.२१.०७ड ॥
रसस्य मध्ये नीला राजी । पयसः ताम्रा । मद्य-तोययोः काली । दध्नः श्यामा । मधुनः श्वेता । द्रव्याणाम् आर्द्राणाम् आशु प्रम्लान-त्वम् उत्पक्व-भावः क्वाथ-नील-श्याव-ता च ॥ ०१।२१।०७ड ॥
rasasya madhye nīlā rājī . payasaḥ tāmrā . madya-toyayoḥ kālī . dadhnaḥ śyāmā . madhunaḥ śvetā . dravyāṇām ārdrāṇām āśu pramlāna-tvam utpakva-bhāvaḥ kvātha-nīla-śyāva-tā ca .. 01.21.07ḍa ..
शुष्काणां आशु शातनं वैवर्ण्यं च । ॥ ०१.२१.०७ए ॥
शुष्काणाम् आशु शातनम् वैवर्ण्यम् च । ॥ ०१।२१।०७ए ॥
śuṣkāṇām āśu śātanam vaivarṇyam ca . .. 01.21.07e ..
कठिनानां मृदुत्वं मृदूनां च कठिनत्वम् । तद्-अभ्याशे क्षुद्र-सत्त्व-वधश्च । ॥ ०१.२१.०७फ़् ॥
कठिनानाम् मृदु-त्वम् मृदूनाम् च कठिन-त्वम् । तद्-अभ्याशे क्षुद्र-सत्त्व-वधः च । ॥ ०१।२१।०७ ॥
kaṭhinānām mṛdu-tvam mṛdūnām ca kaṭhina-tvam . tad-abhyāśe kṣudra-sattva-vadhaḥ ca . .. 01.21.07 ..
आस्तरण-प्रवरणानां ध्याम-मण्डलता तन्तुरोम-पक्ष्म-शातनं च । ॥ ०१.२१.०७ग् ॥
आस्तरण-प्रवरणानाम् ध्याम-मण्डल-ता तन्तु-रोम-पक्ष्म-शातनम् च । ॥ ०१।२१।०७ग् ॥
āstaraṇa-pravaraṇānām dhyāma-maṇḍala-tā tantu-roma-pakṣma-śātanam ca . .. 01.21.07g ..
लोह-मणिमयानां पङ्कम-लोपदेहता स्नेह-राग-गौरव-प्रभाव-वर्ण-स्पर्शवधश्च इति विषयुक्तस्य लिङ्गानि ॥ ०१.२१.०७ह् ॥
लोह-मणि-मयानाम् पङ्कम-लोपदेह-ता स्नेह-राग-गौरव-प्रभाव-वर्ण-स्पर्श-वधः च इति विष-युक्तस्य लिङ्गानि ॥ ०१।२१।०७ह् ॥
loha-maṇi-mayānām paṅkama-lopadeha-tā sneha-rāga-gaurava-prabhāva-varṇa-sparśa-vadhaḥ ca iti viṣa-yuktasya liṅgāni .. 01.21.07h ..
विष-प्रदस्य तु शुष्क-श्याव-वक्त्रता वाक्-सङ्गः स्वेदो विजृम्भणं चातिमात्रं वेपथुः प्रस्खलनं वाक्य-विप्रेक्षणं आवेगः कर्मणि स्व-भूमौ चानवस्थानं इति ॥ ०१.२१.०८ ॥
विष-प्रदस्य तु शुष्क-श्याव-वक्त्र-ता वाच्-सङ्गः स्वेदः विजृम्भणम् च अतिमात्रम् वेपथुः प्रस्खलनम् वाक्य-विप्रेक्षणम् आवेगः कर्मणि स्व-भूमौ च अनवस्थानम् इति ॥ ०१।२१।०८ ॥
viṣa-pradasya tu śuṣka-śyāva-vaktra-tā vāc-saṅgaḥ svedaḥ vijṛmbhaṇam ca atimātram vepathuḥ praskhalanam vākya-viprekṣaṇam āvegaḥ karmaṇi sva-bhūmau ca anavasthānam iti .. 01.21.08 ..
तस्मादस्य जाङ्गुलीविदो भिषजश्चऽसन्नाः स्युः ॥ ०१.२१.०९ ॥
तस्मात् अस्य जाङ्गुली-विदः भिषजः च असन्नाः स्युः ॥ ०१।२१।०९ ॥
tasmāt asya jāṅgulī-vidaḥ bhiṣajaḥ ca asannāḥ syuḥ .. 01.21.09 ..
भिषग्-भैषज्य-अगारादास्वाद-विशुद्धं औषधं गृहीत्वा पाचक-पेषकाभ्यां आत्मना च प्रतिस्वाद्य राज्ञे प्रयच्छेत् ॥ ०१.२१.१० ॥
भिषज्-भैषज्य-अगारात् आस्वाद-विशुद्धम् औषधम् गृहीत्वा पाचक-पेषकाभ्याम् आत्मना च प्रतिस्वाद्य राज्ञे प्रयच्छेत् ॥ ०१।२१।१० ॥
bhiṣaj-bhaiṣajya-agārāt āsvāda-viśuddham auṣadham gṛhītvā pācaka-peṣakābhyām ātmanā ca pratisvādya rājñe prayacchet .. 01.21.10 ..
पानं पानीयं चाउषधेन व्याख्यातं ॥ ०१.२१.११ ॥
पानम् पानीयम् च औषधेन व्याख्यातम् ॥ ०१।२१।११ ॥
pānam pānīyam ca auṣadhena vyākhyātam .. 01.21.11 ..
कल्पक-प्रसाधकाः स्नान-शुद्ध-वस्त्र-हस्ताः समुद्रं उपकरणं अन्तर्वंशिक-हस्तादादाय परिचरेयुः ॥ ०१.२१.१२ ॥
कल्पक-प्रसाधकाः स्नान-शुद्ध-वस्त्र-हस्ताः स मुद्रम् उपकरणम् अन्तर्वंशिक-हस्तात् आदाय परिचरेयुः ॥ ०१।२१।१२ ॥
kalpaka-prasādhakāḥ snāna-śuddha-vastra-hastāḥ sa mudram upakaraṇam antarvaṃśika-hastāt ādāya paricareyuḥ .. 01.21.12 ..
स्नापक-संवाहक-आस्तरक-रजक-माला-कार-कर्म दास्यः प्रसिद्ध-शौचाः कुर्युः । ताभिरधिष्ठिता वा शिल्पिनः ॥ ०१.२१.१३ ॥
स्नापक-संवाहक-आस्तरक-रजक-माला-कार-कर्म दास्यः प्रसिद्ध-शौचाः कुर्युः । ताभिः अधिष्ठिताः वा शिल्पिनः ॥ ०१।२१।१३ ॥
snāpaka-saṃvāhaka-āstaraka-rajaka-mālā-kāra-karma dāsyaḥ prasiddha-śaucāḥ kuryuḥ . tābhiḥ adhiṣṭhitāḥ vā śilpinaḥ .. 01.21.13 ..
आत्म-चक्षुषि निवेश्य वस्त्र-माल्यं दद्युः । स्नान-अनुलेपन-प्रघर्ष-चूर्ण-वास-स्नानीयानि च स्व-वक्षो-बाहुषु च ॥ ०१.२१.१४ ॥
आत्म-चक्षुषि निवेश्य वस्त्र-माल्यम् दद्युः । स्नान-अनुलेपन-प्रघर्ष-चूर्ण-वास-स्नानीयानि च स्व-वक्षः-बाहुषु च ॥ ०१।२१।१४ ॥
ātma-cakṣuṣi niveśya vastra-mālyam dadyuḥ . snāna-anulepana-pragharṣa-cūrṇa-vāsa-snānīyāni ca sva-vakṣaḥ-bāhuṣu ca .. 01.21.14 ..
एतेन परस्मादागतकं व्याख्यातं ॥ ०१.२१.१५ ॥
एतेन परस्मात् आगतकम् व्याख्यातम् ॥ ०१।२१।१५ ॥
etena parasmāt āgatakam vyākhyātam .. 01.21.15 ..
कुशीलवाः शस्त्र-अग्नि-रस-क्रीडा-वर्जं नर्मयेयुः ॥ ०१.२१.१६ ॥
कुशीलवाः शस्त्र-अग्नि-रस-क्रीडा-वर्जम् नर्मयेयुः ॥ ०१।२१।१६ ॥
kuśīlavāḥ śastra-agni-rasa-krīḍā-varjam narmayeyuḥ .. 01.21.16 ..
आतोद्यानि चएषां अन्तस्तिष्ठेयुः । अश्व-रथ-द्विप-अलंकाराश्च ॥ ०१.२१.१७ ॥
आतोद्यानि च एषाम् अन्तर् तिष्ठेयुः । अश्व-रथ-द्विप-अलंकाराः च ॥ ०१।२१।१७ ॥
ātodyāni ca eṣām antar tiṣṭheyuḥ . aśva-ratha-dvipa-alaṃkārāḥ ca .. 01.21.17 ..
आप्त-पुरुष-अधिष्ठितं यान-वाहनं आरोहेत् । नावं चऽप्त-नाविक-अधिष्ठितं ॥ ०१.२१.१८ ॥
आप्त-पुरुष-अधिष्ठितम् यान-वाहनम् आरोहेत् । नावम् च अप्त-नाविक-अधिष्ठितम् ॥ ०१।२१।१८ ॥
āpta-puruṣa-adhiṣṭhitam yāna-vāhanam ārohet . nāvam ca apta-nāvika-adhiṣṭhitam .. 01.21.18 ..
अन्य-नौ-प्रतिबद्धां वात-वेग-वशां च नौपेयात् ॥ ०१.२१.१९ ॥
अन्य-नौ-प्रतिबद्धाम् वात-वेग-वशाम् च न उपेयात् ॥ ०१।२१।१९ ॥
anya-nau-pratibaddhām vāta-vega-vaśām ca na upeyāt .. 01.21.19 ..
उदक-अन्ते सैन्यं आसीत ॥ ०१.२१.२० ॥
उदक-अन्ते सैन्यः आसीत ॥ ०१।२१।२० ॥
udaka-ante sainyaḥ āsīta .. 01.21.20 ..
मत्स्य-ग्राह-विशुद्धं उदकं अवगाहेत ॥ ०१.२१.२१ ॥
मत्स्य-ग्राह-विशुद्धम् उदकम् अवगाहेत ॥ ०१।२१।२१ ॥
matsya-grāha-viśuddham udakam avagāheta .. 01.21.21 ..
व्याल-ग्राह-विशुद्धं उद्यानं गच्छेत् ॥ ०१.२१.२२ ॥
व्याल-ग्राह-विशुद्धम् उद्यानम् गच्छेत् ॥ ०१।२१।२२ ॥
vyāla-grāha-viśuddham udyānam gacchet .. 01.21.22 ..
लुब्धक-श्व-गणिभिरपास्त-स्तेन-व्याल-पर-आबाध-भयं चल-लक्ष्य-परिचय-अर्थं मृग-अरण्यं गच्छेत् ॥ ०१.२१.२३ ॥
लुब्धक-श्व-गणिभिः अपास्त-स्तेन-व्याल-पर-आबाध-भयम् चल-लक्ष्य-परिचय-अर्थम् मृग-अरण्यम् गच्छेत् ॥ ०१।२१।२३ ॥
lubdhaka-śva-gaṇibhiḥ apāsta-stena-vyāla-para-ābādha-bhayam cala-lakṣya-paricaya-artham mṛga-araṇyam gacchet .. 01.21.23 ..
आप्त-शस्त्र-ग्राह-अधिष्ठितः सिद्ध-तापसं पश्येत् । मन्त्रि-परिषदा सह सामन्त-दूतं ॥ ०१.२१.२४ ॥
आप्त-शस्त्र-ग्राह-अधिष्ठितः सिद्ध-तापसम् पश्येत् । मन्त्रि-परिषदा सह सामन्त-दूतम् ॥ ०१।२१।२४ ॥
āpta-śastra-grāha-adhiṣṭhitaḥ siddha-tāpasam paśyet . mantri-pariṣadā saha sāmanta-dūtam .. 01.21.24 ..
सम्नद्धोअश्वं हस्तिनं वाआरूढः सम्नद्धं अनीकं पश्येत् ॥ ०१.२१.२५ ॥
सम्नद्धः अश्वम् हस्तिनम् वा आरूढः सम्नद्धम् अनीकम् पश्येत् ॥ ०१।२१।२५ ॥
samnaddhaḥ aśvam hastinam vā ārūḍhaḥ samnaddham anīkam paśyet .. 01.21.25 ..
निर्याणेअभियाने च राज-मार्गं उभयतः कृत-आरक्षं शस्त्रिभिर्दण्डिभिश्चापास्त-शस्त्र-हस्त-प्रव्रजित-व्यङ्गं गच्छेत् ॥ ०१.२१.२६ ॥
निर्याणे अभियाने च राज-मार्गम् उभयतस् कृत-आरक्षम् शस्त्रिभिः दण्डिभिः च अपास्त-शस्त्र-हस्त-प्रव्रजित-व्यङ्गम् गच्छेत् ॥ ०१।२१।२६ ॥
niryāṇe abhiyāne ca rāja-mārgam ubhayatas kṛta-ārakṣam śastribhiḥ daṇḍibhiḥ ca apāsta-śastra-hasta-pravrajita-vyaṅgam gacchet .. 01.21.26 ..
न पुरुष-सम्बाधं अवगाहेत ॥ ०१.२१.२७ ॥
न पुरुष-सम्बाधम् अवगाहेत ॥ ०१।२१।२७ ॥
na puruṣa-sambādham avagāheta .. 01.21.27 ..
यात्रा-समाज-उत्सव-प्रहवणानि च दश-वर्गिक-अधिष्ठितानि गच्छेत् ॥ ०१.२१.२८ ॥
यात्रा-समाज-उत्सव-प्रहवणानि च दश-वर्गिक-अधिष्ठितानि गच्छेत् ॥ ०१।२१।२८ ॥
yātrā-samāja-utsava-prahavaṇāni ca daśa-vargika-adhiṣṭhitāni gacchet .. 01.21.28 ..
यथा च योग-पुरुषैरन्यान्राजाअधितिष्ठति ॥ ०१.२१.२९अ ब ॥
यथा च योग-पुरुषैः अन्यान् राजा अधितिष्ठति ॥ ०१।२१।२९अ ब ॥
yathā ca yoga-puruṣaiḥ anyān rājā adhitiṣṭhati .. 01.21.29a ba ..
तथाअयं अन्य-आबाधेभ्यो रक्षेदात्मानं आत्मवान् ॥ ०१.२१.३०च्द् ॥
तथा अयम् अन्य-आबाधेभ्यः रक्षेत् आत्मानम् आत्मवान् ॥ ०१।२१।३०च् ॥
tathā ayam anya-ābādhebhyaḥ rakṣet ātmānam ātmavān .. 01.21.30c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In