| |
|

This overlay will guide you through the buttons:

शयनादुत्थितः स्त्री-गणैर्धन्विभिः परिगृह्यते । द्वितीयस्यां कक्ष्यायां कञ्चुक-उष्णीषिभिर्वर्ष-धर-अभ्यागारिकैः । तृतीयस्यां कुब्ज-वामन-किरातैः । चतुर्थ्यां मन्त्रिभिः सम्बन्धिभिर्दौवारिकैश्च प्रास-पाणिभिः ॥ ०१.२१.०१ ॥
śayanādutthitaḥ strī-gaṇairdhanvibhiḥ parigṛhyate . dvitīyasyāṃ kakṣyāyāṃ kañcuka-uṣṇīṣibhirvarṣa-dhara-abhyāgārikaiḥ . tṛtīyasyāṃ kubja-vāmana-kirātaiḥ . caturthyāṃ mantribhiḥ sambandhibhirdauvārikaiśca prāsa-pāṇibhiḥ .. 01.21.01 ..
पितृ-पैतामहं सम्बन्ध-अनुबद्धं शिक्षितं अनुरक्तं कृत-कर्माणं च जनं आसन्नं कुर्वीत । नान्यतो-देशीयं अकृत-अर्थ-मानं स्व-देशीयं वाअप्यपकृत्यौपगृहीतं ॥ ०१.२१.०२ ॥
pitṛ-paitāmahaṃ sambandha-anubaddhaṃ śikṣitaṃ anuraktaṃ kṛta-karmāṇaṃ ca janaṃ āsannaṃ kurvīta . nānyato-deśīyaṃ akṛta-artha-mānaṃ sva-deśīyaṃ vāapyapakṛtyaupagṛhītaṃ .. 01.21.02 ..
अन्तर्-वंशिक-सैन्यं राजानं अन्तःपुरं च रक्षेत् ॥ ०१.२१.०३ ॥
antar-vaṃśika-sainyaṃ rājānaṃ antaḥpuraṃ ca rakṣet .. 01.21.03 ..
गुप्ते देशे माहानसिकः सर्वं आस्वाद-बाहुल्येन कर्म कारयेत् ॥ ०१.२१.०४ ॥
gupte deśe māhānasikaḥ sarvaṃ āsvāda-bāhulyena karma kārayet .. 01.21.04 ..
तद्रजा तथैव प्रतिभुञ्जीत पूर्वं अग्नये वयोभ्यश्च बलिं कृत्वा ॥ ०१.२१.०५ ॥
tadrajā tathaiva pratibhuñjīta pūrvaṃ agnaye vayobhyaśca baliṃ kṛtvā .. 01.21.05 ..
अग्नेर्ज्वाला-धूम-नीलता शब्द-स्फोटनं च विष-युक्तस्य । वयसां विपत्तिश्च ॥ ०१.२१.०६ ॥
agnerjvālā-dhūma-nīlatā śabda-sphoṭanaṃ ca viṣa-yuktasya . vayasāṃ vipattiśca .. 01.21.06 ..
अन्नस्य ऊष्मा मयूर-ग्रीव-आभः शैत्यं आशु क्लिष्टस्यैव वैवर्ण्यं सौदकत्वं अक्लिन्नत्वं च ॥ ०१.२१.०७अ ॥
annasya ūṣmā mayūra-grīva-ābhaḥ śaityaṃ āśu kliṣṭasyaiva vaivarṇyaṃ saudakatvaṃ aklinnatvaṃ ca .. 01.21.07a ..
व्यञ्जनानां आशु शुष्कत्वं च क्वाथ-ध्याम-फेन-पटल-विच्छिन्न-भावो गन्ध-स्पर्श-रस-वधश्च ॥ ०१.२१.०७ब ॥
vyañjanānāṃ āśu śuṣkatvaṃ ca kvātha-dhyāma-phena-paṭala-vicchinna-bhāvo gandha-sparśa-rasa-vadhaśca .. 01.21.07ba ..
द्रवेषु हीन-अतिरिक्तच्-छाया-दर्शनं फेन-पटल-सीमन्त-ऊर्ध्व-राजी-दर्शनं च ॥ ०१.२१.०७क ॥
draveṣu hīna-atiriktac-chāyā-darśanaṃ phena-paṭala-sīmanta-ūrdhva-rājī-darśanaṃ ca .. 01.21.07ka ..
रसस्य मध्ये नीला राजी । पयसस्ताम्रा । मद्य-तोययोः काली । दध्नः श्यामा । मधुनः श्वेता । द्रव्याणां आर्द्राणां आशु प्रम्लानत्वं उत्पक्व-भावः क्वाथ-नील-श्यावता च ॥ ०१.२१.०७ड ॥
rasasya madhye nīlā rājī . payasastāmrā . madya-toyayoḥ kālī . dadhnaḥ śyāmā . madhunaḥ śvetā . dravyāṇāṃ ārdrāṇāṃ āśu pramlānatvaṃ utpakva-bhāvaḥ kvātha-nīla-śyāvatā ca .. 01.21.07ḍa ..
शुष्काणां आशु शातनं वैवर्ण्यं च । ॥ ०१.२१.०७ए ॥
śuṣkāṇāṃ āśu śātanaṃ vaivarṇyaṃ ca . .. 01.21.07e ..
कठिनानां मृदुत्वं मृदूनां च कठिनत्वम् । तद्-अभ्याशे क्षुद्र-सत्त्व-वधश्च । ॥ ०१.२१.०७फ़् ॥
kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam . tad-abhyāśe kṣudra-sattva-vadhaśca . .. 01.21.07f ..
आस्तरण-प्रवरणानां ध्याम-मण्डलता तन्तुरोम-पक्ष्म-शातनं च । ॥ ०१.२१.०७ग् ॥
āstaraṇa-pravaraṇānāṃ dhyāma-maṇḍalatā tanturoma-pakṣma-śātanaṃ ca . .. 01.21.07g ..
लोह-मणिमयानां पङ्कम-लोपदेहता स्नेह-राग-गौरव-प्रभाव-वर्ण-स्पर्शवधश्च इति विषयुक्तस्य लिङ्गानि ॥ ०१.२१.०७ह् ॥
loha-maṇimayānāṃ paṅkama-lopadehatā sneha-rāga-gaurava-prabhāva-varṇa-sparśavadhaśca iti viṣayuktasya liṅgāni .. 01.21.07h ..
विष-प्रदस्य तु शुष्क-श्याव-वक्त्रता वाक्-सङ्गः स्वेदो विजृम्भणं चातिमात्रं वेपथुः प्रस्खलनं वाक्य-विप्रेक्षणं आवेगः कर्मणि स्व-भूमौ चानवस्थानं इति ॥ ०१.२१.०८ ॥
viṣa-pradasya tu śuṣka-śyāva-vaktratā vāk-saṅgaḥ svedo vijṛmbhaṇaṃ cātimātraṃ vepathuḥ praskhalanaṃ vākya-viprekṣaṇaṃ āvegaḥ karmaṇi sva-bhūmau cānavasthānaṃ iti .. 01.21.08 ..
तस्मादस्य जाङ्गुलीविदो भिषजश्चऽसन्नाः स्युः ॥ ०१.२१.०९ ॥
tasmādasya jāṅgulīvido bhiṣajaśca'sannāḥ syuḥ .. 01.21.09 ..
भिषग्-भैषज्य-अगारादास्वाद-विशुद्धं औषधं गृहीत्वा पाचक-पेषकाभ्यां आत्मना च प्रतिस्वाद्य राज्ञे प्रयच्छेत् ॥ ०१.२१.१० ॥
bhiṣag-bhaiṣajya-agārādāsvāda-viśuddhaṃ auṣadhaṃ gṛhītvā pācaka-peṣakābhyāṃ ātmanā ca pratisvādya rājñe prayacchet .. 01.21.10 ..
पानं पानीयं चाउषधेन व्याख्यातं ॥ ०१.२१.११ ॥
pānaṃ pānīyaṃ cāuṣadhena vyākhyātaṃ .. 01.21.11 ..
कल्पक-प्रसाधकाः स्नान-शुद्ध-वस्त्र-हस्ताः समुद्रं उपकरणं अन्तर्वंशिक-हस्तादादाय परिचरेयुः ॥ ०१.२१.१२ ॥
kalpaka-prasādhakāḥ snāna-śuddha-vastra-hastāḥ samudraṃ upakaraṇaṃ antarvaṃśika-hastādādāya paricareyuḥ .. 01.21.12 ..
स्नापक-संवाहक-आस्तरक-रजक-माला-कार-कर्म दास्यः प्रसिद्ध-शौचाः कुर्युः । ताभिरधिष्ठिता वा शिल्पिनः ॥ ०१.२१.१३ ॥
snāpaka-saṃvāhaka-āstaraka-rajaka-mālā-kāra-karma dāsyaḥ prasiddha-śaucāḥ kuryuḥ . tābhiradhiṣṭhitā vā śilpinaḥ .. 01.21.13 ..
आत्म-चक्षुषि निवेश्य वस्त्र-माल्यं दद्युः । स्नान-अनुलेपन-प्रघर्ष-चूर्ण-वास-स्नानीयानि च स्व-वक्षो-बाहुषु च ॥ ०१.२१.१४ ॥
ātma-cakṣuṣi niveśya vastra-mālyaṃ dadyuḥ . snāna-anulepana-pragharṣa-cūrṇa-vāsa-snānīyāni ca sva-vakṣo-bāhuṣu ca .. 01.21.14 ..
एतेन परस्मादागतकं व्याख्यातं ॥ ०१.२१.१५ ॥
etena parasmādāgatakaṃ vyākhyātaṃ .. 01.21.15 ..
कुशीलवाः शस्त्र-अग्नि-रस-क्रीडा-वर्जं नर्मयेयुः ॥ ०१.२१.१६ ॥
kuśīlavāḥ śastra-agni-rasa-krīḍā-varjaṃ narmayeyuḥ .. 01.21.16 ..
आतोद्यानि चएषां अन्तस्तिष्ठेयुः । अश्व-रथ-द्विप-अलंकाराश्च ॥ ०१.२१.१७ ॥
ātodyāni caeṣāṃ antastiṣṭheyuḥ . aśva-ratha-dvipa-alaṃkārāśca .. 01.21.17 ..
आप्त-पुरुष-अधिष्ठितं यान-वाहनं आरोहेत् । नावं चऽप्त-नाविक-अधिष्ठितं ॥ ०१.२१.१८ ॥
āpta-puruṣa-adhiṣṭhitaṃ yāna-vāhanaṃ ārohet . nāvaṃ ca'pta-nāvika-adhiṣṭhitaṃ .. 01.21.18 ..
अन्य-नौ-प्रतिबद्धां वात-वेग-वशां च नौपेयात् ॥ ०१.२१.१९ ॥
anya-nau-pratibaddhāṃ vāta-vega-vaśāṃ ca naupeyāt .. 01.21.19 ..
उदक-अन्ते सैन्यं आसीत ॥ ०१.२१.२० ॥
udaka-ante sainyaṃ āsīta .. 01.21.20 ..
मत्स्य-ग्राह-विशुद्धं उदकं अवगाहेत ॥ ०१.२१.२१ ॥
matsya-grāha-viśuddhaṃ udakaṃ avagāheta .. 01.21.21 ..
व्याल-ग्राह-विशुद्धं उद्यानं गच्छेत् ॥ ०१.२१.२२ ॥
vyāla-grāha-viśuddhaṃ udyānaṃ gacchet .. 01.21.22 ..
लुब्धक-श्व-गणिभिरपास्त-स्तेन-व्याल-पर-आबाध-भयं चल-लक्ष्य-परिचय-अर्थं मृग-अरण्यं गच्छेत् ॥ ०१.२१.२३ ॥
lubdhaka-śva-gaṇibhirapāsta-stena-vyāla-para-ābādha-bhayaṃ cala-lakṣya-paricaya-arthaṃ mṛga-araṇyaṃ gacchet .. 01.21.23 ..
आप्त-शस्त्र-ग्राह-अधिष्ठितः सिद्ध-तापसं पश्येत् । मन्त्रि-परिषदा सह सामन्त-दूतं ॥ ०१.२१.२४ ॥
āpta-śastra-grāha-adhiṣṭhitaḥ siddha-tāpasaṃ paśyet . mantri-pariṣadā saha sāmanta-dūtaṃ .. 01.21.24 ..
सम्नद्धोअश्वं हस्तिनं वाआरूढः सम्नद्धं अनीकं पश्येत् ॥ ०१.२१.२५ ॥
samnaddhoaśvaṃ hastinaṃ vāārūḍhaḥ samnaddhaṃ anīkaṃ paśyet .. 01.21.25 ..
निर्याणेअभियाने च राज-मार्गं उभयतः कृत-आरक्षं शस्त्रिभिर्दण्डिभिश्चापास्त-शस्त्र-हस्त-प्रव्रजित-व्यङ्गं गच्छेत् ॥ ०१.२१.२६ ॥
niryāṇeabhiyāne ca rāja-mārgaṃ ubhayataḥ kṛta-ārakṣaṃ śastribhirdaṇḍibhiścāpāsta-śastra-hasta-pravrajita-vyaṅgaṃ gacchet .. 01.21.26 ..
न पुरुष-सम्बाधं अवगाहेत ॥ ०१.२१.२७ ॥
na puruṣa-sambādhaṃ avagāheta .. 01.21.27 ..
यात्रा-समाज-उत्सव-प्रहवणानि च दश-वर्गिक-अधिष्ठितानि गच्छेत् ॥ ०१.२१.२८ ॥
yātrā-samāja-utsava-prahavaṇāni ca daśa-vargika-adhiṣṭhitāni gacchet .. 01.21.28 ..
यथा च योग-पुरुषैरन्यान्राजाअधितिष्ठति ॥ ०१.२१.२९अ ब ॥
yathā ca yoga-puruṣairanyānrājāadhitiṣṭhati .. 01.21.29a ba ..
तथाअयं अन्य-आबाधेभ्यो रक्षेदात्मानं आत्मवान् ॥ ०१.२१.३०च्द् ॥
tathāayaṃ anya-ābādhebhyo rakṣedātmānaṃ ātmavān .. 01.21.30cd ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In