| |
|

This overlay will guide you through the buttons:

तस्माद्दण्ड-मूलास्तिस्रो विद्याः ॥ ०१.५.०१ ॥
तस्मात् दण्ड-मूलाः तिस्रः विद्याः ॥ ०१।५।०१ ॥
tasmāt daṇḍa-mūlāḥ tisraḥ vidyāḥ .. 01.5.01 ..
विनय-मूलो दण्डः प्राणभृतां योग-क्षेम-आवहः ॥ ०१.५.०२ ॥
विनय-मूलः दण्डः प्राणभृताम् योग-क्षेम-आवहः ॥ ०१।५।०२ ॥
vinaya-mūlaḥ daṇḍaḥ prāṇabhṛtām yoga-kṣema-āvahaḥ .. 01.5.02 ..
कृतकः स्वाभाविकश्च विनयः ॥ ०१.५.०३ ॥
कृतकः स्वाभाविकः च विनयः ॥ ०१।५।०३ ॥
kṛtakaḥ svābhāvikaḥ ca vinayaḥ .. 01.5.03 ..
क्रिया हि द्रव्यं विनयति नाद्रव्यं ॥ ०१.५.०४ ॥
क्रिया हि द्रव्यम् विनयति न अद्रव्यम् ॥ ०१।५।०४ ॥
kriyā hi dravyam vinayati na adravyam .. 01.5.04 ..
शुश्रूषा श्रवण-ग्रहण-धारण-विज्ञान-ऊह-अपोह-तत्त्व-अभिनिविष्ट-बुद्धिं विद्या विनयति नैतरं ॥ ०१.५.०५ ॥
शुश्रूषा श्रवण-ग्रहण-धारण-विज्ञान-ऊह-अपोह-तत्त्व-अभिनिविष्ट-बुद्धिम् विद्या विनयति न एतरम् ॥ ०१।५।०५ ॥
śuśrūṣā śravaṇa-grahaṇa-dhāraṇa-vijñāna-ūha-apoha-tattva-abhiniviṣṭa-buddhim vidyā vinayati na etaram .. 01.5.05 ..
विद्यानां तु यथास्वं आचार्य-प्रामाण्याद्विनयो नियमश्च ॥ ०१.५.०६ ॥
विद्यानाम् तु यथास्वम् आचार्य-प्रामाण्यात् विनयः नियमः च ॥ ०१।५।०६ ॥
vidyānām tu yathāsvam ācārya-prāmāṇyāt vinayaḥ niyamaḥ ca .. 01.5.06 ..
वृत्त-चौल-कर्मा लिपिं संख्यानं चौपयुञ्जीत ॥ ०१.५.०७ ॥
वृत्त-चौल-कर्मा लिपिम् संख्यानम् च उपयुञ्जीत ॥ ०१।५।०७ ॥
vṛtta-caula-karmā lipim saṃkhyānam ca upayuñjīta .. 01.5.07 ..
वृत्त-उपनयनस्त्रयीं आन्वीक्षिकीं च शिष्टेभ्यो वार्त्तां अध्यक्षेभ्यो दण्ड-नीतिं वक्तृ-प्रयोक्तृभ्यः ॥ ०१.५.०८ ॥
वृत्त-उपनयनः त्रयीम् आन्वीक्षिकीम् च शिष्टेभ्यः वार्त्ताम् अध्यक्षेभ्यः दण्ड-नीतिम् वक्तृ-प्रयोक्तृभ्यः ॥ ०१।५।०८ ॥
vṛtta-upanayanaḥ trayīm ānvīkṣikīm ca śiṣṭebhyaḥ vārttām adhyakṣebhyaḥ daṇḍa-nītim vaktṛ-prayoktṛbhyaḥ .. 01.5.08 ..
ब्रह्मचर्यं च षोडशाद्वर्षात् ॥ ०१.५.०९ ॥
ब्रह्मचर्यम् च षोडशात् वर्षात् ॥ ०१।५।०९ ॥
brahmacaryam ca ṣoḍaśāt varṣāt .. 01.5.09 ..
अतो गो-दानं दार-कर्म चास्य ॥ ०१.५.१० ॥
अतस् गो-दानम् दार-कर्म च अस्य ॥ ०१।५।१० ॥
atas go-dānam dāra-karma ca asya .. 01.5.10 ..
नित्यश्च विद्या-वृद्ध-सम्योगो विनय-वृद्ध्य्-अर्थम्, तन्-मूलत्वाद्विनयस्य ॥ ०१.५.११ ॥
नित्यः च विद्या-वृद्ध-सम्योगः विनय-वृद्धि-अर्थम्, तद्-मूल-त्वात् विनयस्य ॥ ०१।५।११ ॥
nityaḥ ca vidyā-vṛddha-samyogaḥ vinaya-vṛddhi-artham, tad-mūla-tvāt vinayasya .. 01.5.11 ..
पूर्वं अहर्-भागं हस्त्य्-अश्व-रथ-प्रहरण-विद्यासु विनयं गच्छेत् ॥ ०१.५.१२ ॥
पूर्वम् अहर्-भागम् हस्ति-अश्व-रथ-प्रहरण-विद्यासु विनयम् गच्छेत् ॥ ०१।५।१२ ॥
pūrvam ahar-bhāgam hasti-aśva-ratha-praharaṇa-vidyāsu vinayam gacchet .. 01.5.12 ..
पश्चिमं इतिहास-श्रवणे ॥ ०१.५.१३ ॥
पश्चिमम् इतिहास-श्रवणे ॥ ०१।५।१३ ॥
paścimam itihāsa-śravaṇe .. 01.5.13 ..
पुराणं इतिवृत्तं आख्यायिक-उदाहरणं धर्म-शास्त्रं अर्थ-शास्त्रं चैतिइतिहासः ॥ ०१.५.१४ ॥
पुराणम् इतिवृत्तम् आख्यायिक-उदाहरणम् धर्म-शास्त्रम् अर्थ-शास्त्रम् च एति इतिहासः ॥ ०१।५।१४ ॥
purāṇam itivṛttam ākhyāyika-udāharaṇam dharma-śāstram artha-śāstram ca eti itihāsaḥ .. 01.5.14 ..
शेषं अहोरात्र-भागं अपूर्व-ग्रहणं गृहीत-परिचयं च कुर्यात्, अगृहीतानां आभीक्ष्ण्य-श्रवणं च ॥ ०१.५.१५ ॥
शेषम् अहोरात्र-भागम् अपूर्व-ग्रहणम् गृहीत-परिचयम् च कुर्यात्, अगृहीतानाम् आभीक्ष्ण्य-श्रवणम् च ॥ ०१।५।१५ ॥
śeṣam ahorātra-bhāgam apūrva-grahaṇam gṛhīta-paricayam ca kuryāt, agṛhītānām ābhīkṣṇya-śravaṇam ca .. 01.5.15 ..
श्रुताद्द्हि प्रज्ञाउपजायते प्रज्ञाया योगो योगादात्मवत्ताइति विद्यानां सामर्थ्यं ॥ ०१.५.१६ ॥
श्रुतात् हि प्रज्ञा उपजायते प्रज्ञायाः योगः योगात् आत्मवत्-ता इति विद्यानाम् सामर्थ्यम् ॥ ०१।५।१६ ॥
śrutāt hi prajñā upajāyate prajñāyāḥ yogaḥ yogāt ātmavat-tā iti vidyānām sāmarthyam .. 01.5.16 ..
विद्या-विनीतो राजा हि प्रजानां विनये रतः ॥ ०१.५.१७अ ब ॥
विद्या-विनीतः राजा हि प्रजानाम् विनये रतः ॥ ०१।५।१७अ ब ॥
vidyā-vinītaḥ rājā hi prajānām vinaye rataḥ .. 01.5.17a ba ..
अनन्यां पृथिवीं भुङ्क्ते सर्व-भूत-हिते रतः ॥ ०१.५.१७च्द् ॥
अनन्याम् पृथिवीम् भुङ्क्ते सर्व-भूत-हिते रतः ॥ ०१।५।१७च् ॥
ananyām pṛthivīm bhuṅkte sarva-bhūta-hite rataḥ .. 01.5.17c ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In